________________
प्रत्यक्तत्त्वचिन्तामणी तस्माद्विविच्य निजतत्त्वधिया निरस्येत्
कर्तृत्वमुख्यमिह कल्पितमात्मतत्त्वे ॥७६॥ एवं तत्त्वंपदार्थज्ञानं तदैक्यज्ञानच्च कर्त्तव्यत्वेन सङ्क्षेपेण निरूप्य तदेव पुनर्विस्तरण वक्ष्यमाणं सप्तमप्रकरणे तदर्थ वक्ष्यमाणप्रमेयं सूत्रयति- कर्तृत्वमुख्यमिति। अध्यस्तकर्तृत्वादिविकल्पजालनिरासमन्तरेण त्वंपदार्थस्य शुद्धेरभावादखण्डवाक्यार्थबोधनयोग्यता न स्यात् । तस्मात्प्रत्यगात्मविवेचनेन कर्तत्वादिविकल्पं निरस्य ब्रह्मक्यसाक्षात्कारं कुर्यादिति तात्पर्यार्थः ॥ ७६ ।।
कूटस्थमद्वयसुखं भ्रमभेदशून्यं
बुद्ध्वा त्यजेत्सकलसानमात्मनिष्ठः। जीवन्विमुक्त इह तिष्ठति नित्यतुष्टो
नैनं तपेदपि कृताकृतवह्नितापः ॥ ७ ॥
वेदान्तजन्यसाक्षात्कारवतः कृतकृत्यत्वमनुवदंस्तस्य सकलानर्थनिवृत्ति दर्शयति-कूटस्थमिति । कूटस्थं त्वंपदलक्ष्यम् , अद्वयसुखं तत्पदलक्ष्यम् , भ्रमभेदशून्यं भ्रान्तिप्रयुक्तो यो भेदस्तेन रहितमखण्डवाक्यार्थ बुद्ध्वा अयमहमस्मीति साक्षात्कृत्यात्मन्येव निष्ठा परिसमाप्तियस्य स च ब्रह्मवित्सकलसाधनं प्रवृत्तिनिवृत्तिकाण्डप्रतिपादितं त्यजेत्, कृतकृत्यत्वात् सर्वत्रोदासीनतां भजेत् । “मुमुक्षोरुपदेशाय लिङः प्रयोगः ।" अत एव जीवन जीवनहेतुव्यापारं कुर्वन्नपि विमुक्त एव इह स्वमहिम्ति नित्येन निजानन्देन तुष्टः संस्तिष्ठति । कृतं पापमकृतश्च पुण्यं ते एव वह्नितापः स चैनं तत्त्वविदं न तपेत् सतापं न जनयेदित्यर्थः । "नैनं कृताकृते तपतः” इति तेः ॥ ७७ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com