SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १४४ प्रत्यक्तस्वचिन्तामा न्यस्य बाधानुपपत्तेः । श्रुतिरपि अपरोक्षस्वभावे प्रात्मनि परोक्षं ज्ञानं कथं जनयेत् ? प्रामाण्यापत्तेः। अपरोक्षस्य जगतरताहकपरोक्षज्ञानाद्वाधनमप्यनुचितमिति तात्पर्यार्थः ।। ८॥ न सत्यः संसारो यदि भवति जीवात्मनि तदा किमयं तद्ध्वस्त्यै ह्यु पदिशति शास्त्रञ्च करणम् । मृषाबन्धध्वस्त्यै यदि मतमिदं नैतदपि सत् न मिथ्याहिध्वस्त्यै दिशति मणिमन्त्रादिकरणम् ॥८॥ शास्त्रारम्भान्यथानुपपत्तिरपि संसारसत्यत्वं कल्पयतीत्याहन सत्य इति । स्पष्टम् ॥ ६॥ अतः संसारोऽयं भवति परमार्थस्त्वितरथा प्रमात्वं वेदानां क्रतुजपपराणां कथमहो। जगत्तस्मादात्मन्यखिलमिदमाबालमतिगं किलाऽबाध्यं ज्ञानात्कथमपि लयं यातिन कदा॥१०॥ फलितमुपसंहरति-अत इति । इतरथा तव मते स्वर्गादिसाधनजपयज्ञादिपराणां वेदानां कथं प्रामाण्यं स्यात् ? अहो आश्चर्यमेतत्, यवान् वेदार्थ बुद्ध्वा तमन्यथाकतुं प्रवृत्त इत्यर्थः । न वा वेदान्तानामपि प्रामाण्यं वेदत्वाविशेषात् । इदमत्राकूतम्- किमात्मनि संसारसम्बन्धात्कोऽपि विशेषोऽस्ति ? न वा ? अस्ति चेत्, पारमार्थिकः काल्पनिको वा ? पारमार्थिकश्चेत्, तो वं विशेषमात्मनि परमार्थमभ्युपगच्छतः सुखदुःखादिसंसारे कः प्रद्वेष: ? काल्पनिकश्चेत्, तर्हि संसारभावाभावयोर्विशेषाभावात्तनिवृत्तये शास्त्रारम्भी निरर्थकः। काल्पनिकविशेषनिवर्तने न शास्त्रमर्थवत्स्यादित्यप्यसत् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy