SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २४२ प्रत्यक तत्त्वचिन्तामय तत्त्वंपदार्थयोः परिशोधनं तत्तदुपाधिनिरासेन शुद्धतत्त्वावधारणरूपविचार सिद्धये इष्टमत्यन्तेप्सितं भवति । कुत: ? यतस्तस्मात्पदार्थज्ञानादेव वाक्यार्थधीसमुदयोऽखण्डवाक्यार्थ बेोधादयः सिद्ध्येत्, पदार्थज्ञानाधीनत्वाद् वाक्यार्थज्ञानस्येत्यर्थः ॥ १८७ ॥ तस्मात्सुधीः श्रुतिनयानुभवेषु दर्श धीरं श्रयेद् गुरुमुदारगुणं मुमुक्षुः । तत्सेवनादिगुणसंयुत प्रात्मबोधं प्राप्याशु मुच्यत इतेा भवपाशजालात्॥१८८॥ प्रकरणार्थमुपसंहरति — तस्मादिति । यस्मादाध्या सिक्येव प्रत्यगभिन्ने ब्रह्मणि सकला व्यवहृतिः, अध्यासश्चाज्ञानहेतुक:, तन्निवृत्तिर्न तत्त्वज्ञानमन्तरेण तस्मात्तत्त्वज्ञानसिद्धये श्रुतियुक्तानुभवेषु दक्षं पूर्वोत्तर. मीमांसापारगामितया स्वानुभवारूढं तत्त्वं शिष्यबुद्धारूढं कर्त्तुमत्यन्तकुशलम्, उदाराः शान्तिदान्त्यादिगुणा यस्मिंस्तम्, धीरं विषयैर क्षोभ्यम्, गुरुमाचाय्र्यमाश्रयेत् । तस्य गुरोः सेवनप्रणिपातादिगुणविशिष्टः सन्मुमुत्तुस्तत्प्रसादाल्लब्धेोपदेशेनात्मबोधं प्राप्याशु तत्प्राप्तिसमसमये इता - जाल त्वेनाऽनुभूयमानाद्भवपाशजालान्मुच्यते । अज्ञानतत्कार्यविनिर्मुक्ततया कृतकृत्यो भवतीत्यर्थः ॥ १८८ ॥ , श्रुतिशिखरविचाराद् ब्रह्म सत्यं विशुद्धं भ्रमतिमिरमशेषं नाशयित्वाऽऽशु वेत्ति । विरतिशमदमाढ्या यत्पदाम्भोजरागी तमहममरवन्द्यं संश्रये श्री मुकुन्दम् ॥ १८ ॥ इति प्रत्यकूतत्त्वचिन्तामणैौ पञ्चमं प्रकरणं सम्पूर्णम् ॥ ५ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy