SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ श्रीः भूमिका जयति सतिलक: प्रत्यक्तत्त्वचिन्तामणि म अद्वैतवेदान्तस्यामुद्रितपूर्व किमप्यपूर्व ग्रन्थरत्नम् । तस्येमं प्रथमभागमच्युतग्रन्थमालायां संग्रथ्य सर्वसुलभतां नयतामस्माकमहो प्रमोदभरः। मन्ये द्वितीयोऽप्यस्य भागस्तूर्ण प्रकाशमुपैष्यतीति। ग्रन्थरत्नस्यास्य रचयिता मुकुन्दपदारविन्दमकरन्दास्वादरतमनामधुपो ब्रह्मानन्दास्वादलुब्धस्तत्रभवान् विपश्चितामपश्चिम: सदानन्दः। वेदान्तसारनिर्मातु:सदानन्दादयमन्यः। तिलकमपि अस्यैव विदुषः कृतिः । विद्वद्वन्दवन्दितपदारविन्दः कदायं महीमण्डलं मण्डयामासेत्यनुयोगेऽमुकवत्सरेऽस्य जनिर्जातेति समाधिदुरभिधः । परन्त्वस्माद् ग्रन्थान्तिमात्पद्यात् वेदान्ततत्त्वमधिगम्य गुरोः श्रुतेश्च रामात्परं न किमपीति सदैकबुद्धिः । विद्वन्मणिहि शिवलाल इति प्रतीत स्तेनाहमीरित इमं कृतवान् निबन्धम् ॥ इदमवगम्यते यद् शिवलालमहोदयेन प्रेरितो ग्रन्थकर्त्ता ग्रन्थमिममारचितवानिति । शिवलालनामानस्तावदनेके पुरुषधौरेयाः समभूवन् । (१) अद्भुतसंग्रहटीकाप्रभमनोरमाटीकाप्रणेता एकस्तावद् शिवलालः । (२) जातिशाङ्कय॑नाम्नां धर्मशास्त्रनिबन्धस्य रचयिताऽपर: शिवलालशुक्लः । (३) श्यामलारहस्यनिर्माता तृतीय: शिवलाल: । (४) सिद्धान्तबिन्दुप्रदीपिकाप्रणेता तुरीयः शिवलालशर्मा। वाल्मीकिरामायणस्य सुन्दरीटीकाया रामार्चनसोपानस्य च निर्माता पञ्चम: शिवलालपाठक इत्यादयः। एषु को ग्रन्थकृतोऽस्य प्रेरक: शिवलाल इति गवेषणायां क्रियमाणायां 'रामात्परं न किमपीति सदैकबुद्धिः' इति विशेषणेन Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy