SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ प्रथमं प्रकरणम। त्परमेश्वरोपासनान्नवानां वैशेषिकगुणानामत्यन्तोपरमं निर्वाणाख्य मोक्ष कल्पयन्ति । एतन्मतद्वयसम्मतमोक्ष: स्वरूपोच्छेदपक्षाभिमतमोक्षान्न भिद्यते । तस्यात्मनो गुणत्वेनाभिमतज्ञानसुखादावुपशममुच्छेदमिते प्राप्ते सति नि:संज्ञत्वाविशेषात्सुखानुभवाभावाद्वा अपुरुषार्थत्वमेव तदभिमतमोक्षस्य। सुखाभावेऽपि दुःखाभावात्पुरुषार्थः स इति चेत्याह--- दुःखाभाव इति । षडिन्द्रियाणि, षड विषयाः, षड् बुद्धयः, सुखम्, दुःखम, शरीरचेत्यकविंशतिदुःखध्वंसोऽप्यमतिविषय:-प्रतीत्यगोचरतया मुख्यः पुरुषार्थो न भवति । न खलु पाषाणादेः दुःखाभाव: पुरुषार्थ इति दुःखाभावस्यापि नि:संज्ञत्वे पुरुषार्थत्वाभावादेव तदुभयमतसम्मतो मोक्षो सङ्गत एवेत्यर्थः ।। ७१ ।। आत्मज्ञानानिगमविधिनाऽनुष्ठितेः कर्मणाञ्चा त्यन्तोच्छेदं विदुरिति गुरोः पक्षनिष्ठा गुणानाम् । माझं हीदं मतमनुचितं श्रौतबोधाद्यभावात् कर्मज्ञाने विषममृतिगे नैकमेतत्फलं स्यात् ॥७२॥ प्रभाकराभिमतमोक्षं तन्निराकरणञ्च दर्शयति-आत्मेति । आत्मज्ञानपूर्वकाद्वैदिककर्मानुष्ठानात्तेषामेव नवगुणानामत्यन्तोच्छेद मोक्षं गुरोः पक्षनिष्ठा: प्राभाकरा विदुर्जानन्ति । इदं हि मतं श्रौतबोधाद्यभावाच्छुतिसम्मताकर्तृभोक्तसङ्गोदासीनकात्मज्ञानाद्यनङ्गीकारादनुचितमत्यन्तायोग्यमित्यर्थः । आदिशब्देन वेदान्ताभिमत विवेकादिसाधनकतापो गृह्यते । कर्मज्ञाने विषमसृतिगे भिन्नाधिकारिकत्तु कतया परस्परविरोधाधुगपत्समुच्चयाभावाद् विलक्षणमार्गनिष्ठे एतत्फलमेतयोः ज्ञानकर्मणो: फलं मोक्ष: संसारश्च परस्परविरुद्धत्वादेकं न स्यात् । यद्यपि कर्मणामपि फलं परम्परया मोक्षः, तथापि साक्षात्तत्फलकत्वाभावादेव मुक्तिरिति द्रष्टव्यम् ।। ७२ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy