________________
२०६
प्रत्यक्तत्त्वचिन्तामणैा परिहरति-मैवमिति द्वाभ्याम् । यदि केवलशुद्धचैतन्यस्य सर्वगस्य विषयानुभवे हेतुत्वमभ्युपगम्येत, तदा त्वदुक्तानुपपत्तिर्भवेत् । न तु तथा स्वीक्रियते, किन्तु व्यवस्थासिद्धयेऽन्तःकरणानि पृथक स्वीक्रियन्ते । तथा च नोक्तदोषशङ्कावकाश इति तात्पार्थः ॥ ६८-६६॥
तत्कथं सर्वजन्तूनां भागसङ्कर आपतेत्। चितः कर्तृत्वभोक्तत्वे केवलाया यतो नहि ॥७॥
अन्त:करणावच्छिन्नस्यैव सुखदुःखादिसम्बन्धमानम् , न तु शुद्धस्य, तथा च कथं भोगसङ्कर इत्याह- तदिति ॥ ७० ॥
न व्यवस्थापरिच्छिन्नं देवदत्तान्तरिन्द्रियम् । युगपत्सर्वजगता यतः सम्बद्धयतेऽञ्जमा ॥७१॥ तत्रोपपत्तिमाह-नेति। अजसेति योगाभ्यास विना ॥ ७१ ॥ तदभिव्यक्तचैतन्यबलात्सर्वमसावतः। नैवानुभवतीत्येवं व्यवस्था सम्भवेदिह ॥७२॥
तथा च प्रतिकर्मव्यवस्थासिद्धत्याह-तदिति। तस्मिन्नन्त:करणेऽभिव्यक्तं यच्चैतन्यं तद्वलादेव प्रतिनियतघटाद्यनुभवति असौ देवदत्तादिरूपा चितिः, अत: सर्व नैवानुभवतीत्येवं व्यवस्थासिद्धिरित्यर्थः ।। ७२ ॥
न वा सर्वगतस्तस्य परिच्छिमस्य चेतसः। परिणामो भवेदेवं सूर्य्यरश्मिवदित्यपि ॥७३॥ .
परिछिन्नस्याप्यन्तःकरणस्य सूर्यरश्मिवत्सर्वव्यापी परिणाम: किन्न स्यात् ? इति शङ्कामनृद्य दूषयति-न वेति ॥ ७३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com