Page #1
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रम् । महामहोपाध्यायश्रीमद्भावविजयगणिविरचितया विवृत्या समलङ्कृतम् ।
द्वितीयो भागः। :पुनः सम्पादनम् ।
पू. परमशासनप्रभावकपूज्यपादाचार्यदेवश्रीमद्विजयरामचन्द्रसूरीश्वरपट्टालङ्कार - पू. आ. श्री. वि. मुक्तिचन्द्रसूरीश्वरशिष्यरत्न पू. आ. श्री. वि. अमरगुप्तसूरीश्वरशिष्य -
पू. आ. श्री. वि. चन्द्रगुप्तसूरीश्वरः ।।
-: प्रकाशन :श्री अनेकान्त प्रकाशन जैन रीलीजीयस् ट्रस्ट
आर्थिकः सहयोगः । श्री साळवीना आदीश्वरभगवान जैन देरासर ट्रस्ट छापरीयाशेरी महीधरपुरा सुरत सत्कज्ञानद्रव्येण
प्रकाशितमिदम् ।
Page #2
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रम् । आवृत्ति द्वितीया।
प्रतय : ५००
वि.सं. २०६६
प्राप्तिस्थानम् ।
शा. जतीनभाई हेमचन्द 'कोमल' छापरीया शेरी महीधरपुरा, सुरत ३९५००३ .
शा. मुकुंदभाई रमणलाल
५, नवरत्न फ्लेट्स
नवा विकासगृह मार्ग पालडी, अमदावाद ३८०००७
-: मुद्रणव्यवस्था :
राजीव भरतकुमार चालीसहजार अहमदाबाद. फोन : २६६३०८३९
Page #3
--------------------------------------------------------------------------
________________
अध्य.८
अथाष्टमाध्ययनम्
उत्तराध्ययनसूत्रम् ॥१॥
| व्याख्यातं सप्तममध्ययनं, अथ कपिलमुनिप्रणीतत्वेन कापिलीयाख्यमष्टममारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने रस
गृद्धित्याग उक्तः, स च निर्लोभस्यैव स्यादित्यत्र निर्लोभत्वमुच्यते, इत्यनेन सम्बन्धेनायातस्याऽस्य प्रस्तावनार्थमादौ कपिलमुनिचरितमुच्यते । तत्रायं सम्प्रदाय:तथाहि पुर्यां कौशाम्ब्यां जितशत्रुमहीशितुः॥ पुरोधाः काश्यपाह्वोऽभू-द्विद्याम्भोनिधिपारगः ॥ १॥ यशस्विनी यशा नाम्नी, तस्यासीत्प्राणवल्लभा ।अजनिष्ट तयोः सूनुः, क्रमेण कपिलाभिधः ॥२॥कपिले च शिशावेव, विपेदे काश्यपोऽन्यदा॥ कालः कालमकालं वा, न हि मृत्योरपेक्षते ॥ ३ ॥ मृते तस्मिन्नृपोऽन्यस्मिन्, पूरोहितपदं न्यधात् ।। अस्तङ्गते रवी तेजः, प्रदोष इव दीपके ॥ ४ ॥ हयारूढं धृतच्छत्रं तं नूतनपुरोहितम् । गच्छन्तमन्यदापश्य-द्यशा भूरिपरिच्छदम् ॥ ५ ॥ तद्दर्शनानिलोद्भूत-भूरिदुःखानलार्दिता । स्मारं स्मारं निजं कान्तं, रुरोद विवशा यशा ॥ ६ ॥ कपिलोऽपि निजामम्बां, रुदती वीक्ष्य दुःखितः॥ रुदन्नित्यवदन्मातस्त्व रोदिषि कुतोऽनिशम् ? ॥ ७ ॥ साऽवादीदस्य विप्रस्य, या सम्पत् पुत्र! वर्तते ॥ साऽभवत्त्वत्पितुः सर्वा, गता च त्वयि निर्गुणे ॥८॥ सत्यपि त्वयि पुत्रे यत्, क्रमायाताऽप्यऽगाद्रमा ॥ ततोऽहं दुःखिता कुर्वे, रोदनं नन्दनाऽन्वहम् ॥ ९ ॥ सुतः प्रोचे ब्रूहि मात-विद्याभ्यासाय पाठकम् ।। यथा तदन्तिकेऽधीत्य, भवामि गुणवानहम् ॥ १० ॥ यशाऽशंसन्न कोऽप्यत्र, भवन्तं पाठयिष्यति ॥ यो हि त्वां पाठयेत्तस्मै, कुप्येन्नव्यपुरोहितः ॥ ११ ॥ तद्वत्स ! गच्छ श्रावस्ती, तत्रास्ति त्वत्पितुः सुहृत् ।। इन्द्रदत्तद्विजः प्राज्ञः, स
UTR-2
॥१॥
Page #4
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥ २ ॥
हि त्वां पाठयिष्यति ।। १२ ।। ततः स गत्वा श्रावस्ती - मिन्द्रदत्तं प्रणम्य च ॥ आत्मानं ज्ञापयित्वोचे, ताताऽध्यापय मामिति ॥ १३ ॥ उपाध्यायोऽभ्यधाद्वत्स ! युक्तस्तेऽसौ मनोरथः ॥ विशेषं नह्यहं कञ्चित् पश्यामि पशुमूढयोः ॥ १४ ॥ किन्तु ते भोजनं दातुं, निःसत्त्वादक्षमोऽस्म्यहम् ॥ तद्विना च कथं नित्य-मखिन्नस्त्वं पठिष्यति ? ॥ १५ ॥ भ्रातुष्पुत्राय ते विद्यार्थिने प्राघुर्णकाय च ॥ भोज्यदानेऽप्यशक्तोऽस्मि, तन्मे दुःखायते भृशम् ! ॥ १६ ॥ अलपत्कपिलस्तात ! कृतं चिन्तनयाऽनया ॥ भिक्षावृत्या करिष्येऽहं प्रत्यहं प्राणधारणम् ॥ १७ ॥ उवाच पाठको भिक्षावृत्त्याऽध्येतुं न शक्ष्यते ॥ तदेहि तव भुक्त्यर्थं प्रार्थये कञ्चिदीश्वरम् ॥ १८ ॥ इत्युक्त्वा स समं तेन, शालिभद्रेभ्यमन्दिरम् ॥ जगाम कुञ्जर इव, कलभेन समं सरः ॥ १९ ॥ ॐ भूर्भुवः स्वरित्यादि- गायत्रीमंत्रवादिनम् ॥ दत्ताशिषं तमिभ्योऽपि किं कार्यमिति पृष्टवान् ॥ २० ॥ ऊचे द्विजोऽमुं मन्मित्र पुत्रमध्येतुमागतम् ॥ भोजय प्रत्यहं ज्ञानो-पष्टम्भो हि महाफलः ॥२१॥ सहर्षं शालिभद्रेण, तद्वाक्ये स्वीकृतेऽन्वहम् ॥ पपाठ पाठकोपान्ते, भुक्त्वा तद्धाग्नि माणवः ॥ २२ ॥ भोक्तुङ्गतस्य तद्गेहे, कपिलस्यानुवासरम् ॥ दास्येका तरुणी भोज्यं, शोभनं पर्यवेषयत् ॥२३॥ तस्य विद्याभिरात्मानं, भोज्यैरङ्गञ्च पुष्णतः ॥ उदभूद्यौवनं दाक्ष्याङ्कुरोज्जीवनजीवनम् ॥ २४ ॥ हास्यशीलो द्विजः सोऽथ, तस्यां दास्यामरज्यत || यौवनं हि विकाराणां, सर्वेषामादिकारणम् ॥ २५ ॥ तया च रक्तया साकं, कपिलोऽरमताऽनिशम्। तदेकचित्ता तञ्चैव मूचे दास्यन्यदा रहः ॥ २६ ॥ त्वमेव मे प्रियः किन्तु, निःस्वोऽसीत्यपरं नरम् ॥ सेवे वस्त्रादिहेतोश्चे न ते कोपः प्रजायते ॥ २७ ॥ अन्वमन्यत निर्मन्यु- स्तत्रार्थे कपिलोऽपि ताम् ॥ तस्यां पुर्याञ्चान्यदाऽऽसी दासीनामुत्सवो महान् ॥ २८ ॥ तदा च प्रेक्ष्य तां दासी मुद्विग्नां कपिलो द्विजः ॥
१ अल्पवयस्कः |
UTR-2
अध्य. ८
॥२॥
Page #5
--------------------------------------------------------------------------
________________
अध्य.८
उत्तराध्ययनसूत्रम् ॥३॥
कुतस्तवारतिरिति, पप्रच्छ स्नेहमोहितः॥ २९ ॥ साऽवादीदद्य दासीना- मुत्सवः समुपस्थितः ॥ न च मे पत्रपुष्पादे-र्मूल्यं किञ्चन विद्यते!॥ ३० ॥ तद्विना तु सखीमध्ये, लभिष्येऽहं विगोपनाम् ॥ सश्रियो हि स्त्रियो निःस्वां, हीलयन्ति सखीमपि ॥ ३१ ॥ तच्छ्रुत्वा कपिलोऽप्यन्त-रधृताऽधृतिमुच्चकैः ।। याति स्थानान्तरं दुःखं, प्रीत्या वारीव कुल्यया ॥ ३२ ॥ ततस्तमवदद्दासी, सुन्दर! त्वं विषीद मा । अत्रास्ति श्रेष्ठिषु श्रेष्ठो, धनाख्यो धनदोपमः ॥ ३३ ॥ यस्तं प्रबोधयेत्सुप्तं, स तस्मै स्वर्णमाषकौ ॥ ददातीति निशाशेषे, याहि त्वं तस्य मन्दिरे ॥ ३४ ॥ कल्पकाले च कल्याणिन्, कान्तैः कल्याणभाषितैः ॥ प्रबोधयेस्तं राजीव-मिवार्कः कोमलैः करैः ॥ ३५ ॥ इत्युक्त्वा कश्चिदन्यः प्राग्, मा यासीदिति शङ्कया । औत्सुक्याज्ञातकाला सा, निशीथे प्रजिघाय तम् ।। ३६ ॥ स च राजनरैश्चौर, इति बद्धः पथि व्रजन् ॥ प्रसेनजिन्महीजानेः, पुरः प्रातरनीयत ।। ३७ ॥ राज्ञा पृष्टश्च वृत्तान्तं, सर्वं सत्यं जगौ निजम् ॥ तच्छृत्वेत्यभ्यधाद्भूपः, कृपारसमहोदधिः॥ ३८ ॥ यन्मार्गयसि तत्तुभ्यं, ददामि वद कामितम् ॥ स्वामिन् विचार्य याचिष्ये, प्रोवाचेति ततो द्विजः।। ३९ ॥ सोऽथ राज्ञाभ्यनुज्ञातो, गत्वाऽशोकवनान्तरे ॥ दध्यौ वस्त्रादिकं भावि, न हि माषद्वयेन मे ॥ ४० ॥ तत्सुवर्णशतं याचे, यद्वा तेनापि नो भवेत् ॥ गृहयानादि तन्निष्क - सहस्रं प्रार्थये नृपात् ! ॥ ४१ ॥ यद्वा तेनापि नापत्यविवाहादि भविष्यति ॥ तल्लक्षं प्रार्थये दातुः, सत्त्वे किं स्तोकयाञ्चया ॥ ४२ ॥ उद्धारो बन्धुदीनादे - लक्षणापि न सम्भवी ॥ सम्पदा च फलं बन्धु-दीनादीनामुपक्रिया ॥४३॥ कोटि कोटिशतं कोटि-सहस्रं वा तदर्थये ॥ तस्येति ध्यायत: पुण्य-वशादियमभून्मतिः॥४४॥ माषद्वितयमूलस्या-प्यहो लोभमहीरुहः॥ विस्फूर्जितं यत्कोटीनां, लाभेऽप्युच्चैः प्रवर्धते ! ॥ ४५ ॥ लोभः स्वल्पोऽपि लाभेना-ऽम्भोजनालमिवाम्भसा ॥ वृद्धिं यातीत्यलं तेन, संतोषसुखदस्युना ॥ ४६ ॥ विदेशं मातृनिर्देशा-द्विद्यार्थमहमागतः ॥ सापि नोपार्जिता
UTR-2
॥३॥
Page #6
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम्
॥ ४ ॥
किन्तु, व्यसनं महदर्जितम् ! ॥ ४७ ॥ मातुर्गुरोश्च वाक्यानि कुलाचारं च लुम्पता ॥ मया विषयगृद्धेन, कर्मानर्हमिदं कृतम् ! ॥ ४८ ॥ विषवद्विषमोदक-विषयैस्तदलं मम ॥ ध्यायन्नित्यादिसंवेगा - ज्जातिस्मृतिमवाप सः ॥ ४९ ॥ स्वयंबुद्धः स्वयं कृत्वा, लोचं मूर्धनि शुद्धधीः ॥ देवतादत्तलिङ्गो द्राग्, राज्ञोऽभ्यर्णे जगाम सः ॥ ५० ॥ विमृष्टं किमिति स्पष्टं, पृष्टो राज्ञा विशिष्टधीः ॥ निजां मनोरथश्रेणीं, निवेद्येत्यवदन्मुनिः ॥ ५१ ॥ यथा लाभस्तथा लोभो, लाभाल्लोभः प्रवर्धते ॥ माषद्वयाश्रितं कार्यं, कोट्यापि न हि निष्ठितम् ! ॥ ५२ ॥ तन्निशम्य नृपस्तुष्टोऽवादीन्मुञ्च व्रतं द्रुतम् ॥ ददामि कोटीमपि ते भुंक्ष्व भोगान् यथासुखम्! ॥ ५३ ॥ मुनिः स्माह कृतं द्रव्यै-रसारैर्निस्पृहस्य मे ॥ जातो निर्ग्रन्थ एवाहं, धर्मलाभोऽस्तु भूपते ! ॥ ५४ ॥ इत्युक्त्वा भूभुजोऽभ्यर्णान्निर्गत्योग्रं तपश्चरन् ॥ विचरन् भुवि षण्मास्या, केवलज्ञानमाप सः ॥ ५५ ॥ इतश्च योजनान्यष्टा दश सर्वत्र विस्तृता ॥ अटव्येकाऽभवद्राज-गृहाभिधपुराध्वनि ॥ ५६ ॥ तत्र चेत्कटदासाख्या-चौराः पञ्चशतीमिताः ॥ बलभद्रादयोऽभूवन् पाताले पन्नगा इव ॥ ५७ ॥ विज्ञाय प्रतिबोधा-स्तांश्च विज्ञानचक्षुषा । तेषामुपकृतिं कर्तुं तत्रारण्ये ययौ यतिः ॥ ५८ ॥ तमायान्तं द्रुमारूढोऽपश्यदेको मलिम्लुचः ॥ आयाति श्रमणः कोऽपी-त्यन्येषाञ्च न्यवेदयत् ॥ ५९ ॥ अस्मानवगणय्यैव, समेत्ययमिति क्रुधा ॥ गृहीत्वा ते मुनिं निन्यु-रुपसेनापतिं द्रुतम् ॥ ६० ॥ ऊचे सेनापतिः क्रीडां कुर्मोऽनेनेति चिन्तयन् ॥ साधो ! त्वं नृत्य नृत्येति, ततो यतिरदोऽवदत् ॥ ६१ ॥ वाद्यं नृत्यस्य हेतुस्त-द्वादकश्च न विद्यते ॥ तन्नृत्यं स्यात्कथं ? कार्यं, न हि स्यात्कारणं विना ॥ ६२ ॥ वादितेष्वथ तालेषु, चौराणां पञ्चभिः शतैः ॥ ध्रुवकानुच्चकैर्गायन्ननर्त कपिलो मुनिः ॥ ६३ ॥ तद्यथा - " अधुवे असासयंमि, संसारंमि उ दुक्खपउराए ॥ किं नाम | होज्ज तं कम्मयं, जेणाहं दुग्गइं न गच्छेज्जा " ॥ ६४ ॥ प्रतिध्रुवमिमं गायन्, ध्रुवं कपिलकेवली ॥ जगौ सूरीन् ध्रुवान् शान्त-रसपीयुषसा
UTR-2
अध्य. ८
॥४॥
Page #7
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
॥५॥
गरान् ॥ ६५ ॥ एतदध्ययनं जज्ञे तैरेव ध्रुवकैर्ध्रुवम् ॥ शास्त्रत्वं प्रतिपद्यन्ते वचांस्यपि हि तादृशाम् ॥ ६६ ॥ तेषु चाद्यं ध्रुवं श्रुत्वा, केऽप्यबुध्यन्त दस्यवः ॥ केचित्त्वन्यं केचिदन्य-तरं तदपरे परम् ॥ ६७ ॥ इत्थं मुनीन्द्रः प्रतिबोध्य तूर्ण-मदीक्षयत्पञ्चशतानि चौरान् ॥ विहृत्य पृथ्व्यां सुचिरं क्रमाच्च बभूव निर्वाणपुराधिवासी ॥ ६८ ॥ इत्युक्तः सम्प्रदायः, साम्प्रतं सूत्रं प्रस्तूयते तच्चेदं-मूलम्--अधुवे असासयंमि, संसारम्मि उ दुक्खपउराए ।
किं नाम होज्ज तं कम्मयं, जेणाहं दुग्गइं न गच्छेज्जा ॥ १ ॥ व्याख्या--कपिलो हि भगवान् स्वयंबुद्धश्चौरप्रतिबोधार्थं प्रथमममुं ध्रुवं जगौ । ध्रुवकलक्षणञ्चेदं- " जं गिज्जइ पुव्वं चित्र, पुणो बंधे ॥ धुवयंति तमिह तिविहं, छप्पाय चउप्पयं दुपयं ॥ १ ॥ ति " अत्र' अधुवेत्ति ' ध्रुव एकास्पदप्रतिबद्धः स्थिर इत्यर्थः, न तथा अध्रुवस्तस्मिन् संसार इति सम्बन्धः । भ्रमन्ति ह्यत्र सर्वस्थानेषु जन्तवः, यदुक्तं " रङ्गभूमिर्न सा काचिच्छुद्धा जगति विद्यते ॥ विचित्रैः कर्मनेपथ्यैर्यत्र जीवैर्न नाटितम् ॥ १ ॥" तथा अशाश्वते कालतोऽप्यनित्ये, अशाश्वतं हि सर्वमिदं राज्यादि, यदुक्तं - "चलं राज्यैश्वर्यं धनकनकसार: परिजनो नृपाद्वा वाल्लभ्यं चलममरसौख्यं च विपुलं ॥ चलं रूपारोग्यं बलमिह चलं जीवितमिदं जनो दृष्टो यो वै जनयति सुखं सोऽपि हि चलः ॥ १ ॥" संसारे भवे प्रचुरकाणि प्रभूतानि दुःखानि शारीरमानसानि यत्र स तथा प्राकृतत्वाच्च व्यत्यये 'दुक्खपउराएत्ति' किमिति प्रश्ने, नामेति वाक्यालङ्कारे, भवेत्तत् कर्मैव कर्मकमनुष्ठानं ? येन कर्मणा हेतुभूतेन अहं दुर्गतिं नरकादिकां 'न गच्छेज्जत्ति' न गच्छेयं । अत्र च तस्य भगवतः संशयाभावेऽपि दुर्गतिगमनाभावेऽपि च यदेवमुक्तं
UTR-2
अध्य. ८
॥५॥
Page #8
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
॥६॥
तत्प्रतिबोधनीयपूर्वसङ्गतिकापेक्षमिति सूत्रार्थः ॥ १ ॥ एवञ्च भगवतोद्गीते तालान् कुट्टयद्भिश्चौरैश्च प्रत्युद्गीतेऽस्मिन् ध्रुवके पुनर्भगवानाह - मूलम् - विजहित्तु पुव्वसंजोगं, न सिणेहं कहिंचि कुव्विज्जा । असिणेह सिणेहकरेहिं, दोसपओसेहिं मुच्चए भिक्खु ॥ २ ॥
व्याख्या -- विहाय त्यक्त्वा पूर्वसंयोगं, पूर्वपरिचितानां मातापित्रादिस्वजनानामुपलक्षणत्वाद्धनस्य च सम्बन्धं, न स्नेहमभिष्वङ्गं क्वचिद्वाह्येऽभ्यन्तरे वा परिग्रहे कुर्वीत कुर्यात्, तथा च को गुणः ? इत्याह, अस्नेहः प्रतिबन्धरहितः प्राकृतत्वाद्विसर्गलोपः, स्नेहकरेष्वपि पुत्रकलत्रादिषु आस्तामन्येषु, अपिश्चात्र लुप्तो द्रष्टव्यः, दोषाश्च इहैव मनस्तापादयः, प्रदोषाश्च परत्र नरकप्राप्तादयो दोषप्रदोषास्तैर्मुच्यते त्यज्यते भिक्षुरिति सूत्रार्थः ॥ २ ॥ पुनर्यदसौ कृतवांस्तदाह-
मूलम् --तो णाणदंसणसमग्गो, हिअनिस्सेअसाए सव्वजीवाणं । सिं विमोक्खणट्टाए, भासई मुणिवरो विगयमोहो ॥ ३ ॥
व्याख्या-- 'तोत्ति' ततोऽनन्तरं भाषते मुनिवर इति सम्बन्धः, स च कीदृश इत्याह । ज्ञानदर्शनाभ्यां प्रस्तावात्केवलाभ्यां समग्रः समन्वितः किमर्थं भाषते ? इत्याह । 'हिअनिस्सेअसाएत्ति' सूत्रत्वात् हितो भावारोग्यहेतुत्वात् पथ्यो यो निश्रेयसो मोक्षस्तस्मै तदर्थं, केषां ? सर्वजीवानां,' तेसिंति' चस्य गम्यत्वात्तेषाञ्च पञ्चशतचौराणां विमोक्षणार्थं भाषते वक्ति वर्त्तमाननिर्देशस्तत्कालापेक्षया मुनिवरो विगतमोहः क्षपितमोहनीयकर्मा । इह च 'हिअनिस्सेअसाए सव्वजीवाणमित्यनेनैव चरितार्थत्वेऽपि 'तेसिं विमोक्खणट्ठाएत्ति' यत्
UTR-2
अध्य. ८
॥६॥
Page #9
--------------------------------------------------------------------------
________________
उत्तराध्य
अध्य.८
यनसूत्रम्
॥७॥
पुनरभिधानं तत्तदा भगवतस्तानेवोद्दिश्य प्रवृत्तिरिति प्राधान्यख्यापनार्थमिति सूत्रार्थः ॥ ३ ॥ यच्चासौ भाषते तदाह-- मूलम्-सव्वं गंथं कलहं च, विप्पजहे तहाविहं भिक्खू । सव्वेसु कामजाएस, पासमाणो न लिप्पई ताई ॥४॥ व्याख्या-- सर्वमशेषं ग्रन्थं बाह्यं धनादिकं आन्तरं मिथ्यात्वादिकं परिग्रहं, कलहहेतुत्वात्कलहः क्रोधस्तं, च शब्दान्मानादींश्च, आन्तरग्रन्थरूपत्वेऽप्येषां पृथक् ग्रहणं बहुदोषताख्यापनार्थं, 'विप्पजहेत्ति' विप्रजह्यात्त्यजेत्, तथाविधं कर्मबन्धहेतुं धर्मोपकरणमपीत्यभिप्रायः । भिक्षुर्मुनिः ततश्च किं स्यादित्याह, सर्वेषु कामजातेषु शब्दादिविषयसमूहेषु 'पासमाणोत्ति ' पश्यन् अत्यन्तकटुकं तद्दोषमिति शेषः, न लिप्यते न सज्यते 'ताइत्ति' त्रायते रक्षत्यात्मानं दुर्गतेरिति त्रायीति सूत्रार्थः ॥ ४ ॥ इत्थं ग्रन्थत्यागे गुणमुक्त्वा व्यतिरेके दोषमाह--
मूलम्--भोगामिसदोसविसन्ने, हिअनिस्सेअसबुद्धिविवज्जत्थे।
बाले अ मंदिए मूढे, बज्झई मच्छिआ व खेलंमि ॥५॥ व्याख्या-- भोगा एव गृद्धिहेतुत्वादामिषं भोगामिषं, तदेवात्मदूषणाद्दोषो भोगामिषदोषस्तस्मिन् विविधं सन्नो निमग्नो भोगा| मिषदोषविषण्णः, हिते निश्रेयसे मोक्षे बुद्धिस्तल्लाभोपायविषया मतिविपर्यस्ता विपर्ययवती यस्य स हितनिश्रेयसबुद्धिविपर्यस्तः,बालश्शाज्ञः, 'मंदिएत्ति' सूत्रत्वान्मन्दो धर्मकरणम्प्रत्यलसः, मूढो मोहाकुलितचेता: बध्यते श्लिष्यतेऽर्थात् ज्ञानावरणादिकर्मणा मक्षिकेव श्लेष्मणि रजसेति गम्यते । अयं भावः- यथाऽसौ तद्गन्धेनाकृष्यमाणा खेले मज्जति, मग्ना च रेवादिना बध्यते, एवं जीवोऽपि
UTR-2
॥७॥
Page #10
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
॥ ८ ॥
भोगामिषमग्नः कर्मणेति सूत्रार्थः ॥ ५ ॥ ननु यद्येवं कर्मबन्धहेतवो भोगास्तर्हि किं न सर्वेऽपि तांस्त्यज्यन्तीत्याह - मूलम्-दुपरिच्चया इमे कामा, नो सुजहा अधीरपुरिसेहिं ।
अह संति सुव्वा साहू, जे तरंति अतरं वणिआ वा ॥ ६ ॥
व्याख्या- दुष्परित्यजा दुःखेन परित्यक्तुं शक्या इमे प्रत्यक्षा: कामाः शब्दाद्याः नो नैव 'सुजहत्ति' आर्षत्वात्सुहानाः सुत्यजा:, कैः ? अधीरपुरुषैः! असात्त्विकनरैः, यच्चेह दुः परित्यजा इत्युक्त्वा पुनर्न सुजहा इत्युक्तं तदत्यन्तदुस्त्यजत्वख्यापकं, अधीरग्रहणात्तु धीरैः सुत्यजा एवेत्युच्यते, अत एवाह 'अहेत्यादि' अथेति वाक्यान्तरोपन्यासे, सन्ति विद्यन्ते, सुव्रता निष्कलङ्कव्रताः साधवो ये तरन्ति अतिक्रामन्ति अतरं तरीतुमशक्यं भवमित्यर्थः । वणिज इव, वाशब्दस्य इवार्थत्वात् । यथाहि वणिजोऽतरं नीरधिं यानपात्रादिना तरन्ति एवमेतेऽपि व्रतादिना भवमिति । उक्तं च विषयगणः कापुरुषं, करोति वशवर्त्तिनं न सत्पुरुषम् ॥ बध्नाति मशकमेव हि, लूतातन्तुर्न मातङ्गम् ॥ १ ॥ इति सूत्रार्थः ॥ ६ ॥ किं सर्वेऽपि साधवोऽतरं तरन्ति ? उत नेत्याह
मूलम् - समणा मु एगे वयमाणा, पाणवहं मिआ अयाणंता ।
मंदा निरयं गच्छंति, बाला पाविआहिं दिट्ठीहिं ॥ ७ ॥
व्याख्या- श्रमणाः स्मो वयमित्येके केचनान्यतीर्थिका वदमानाः स्वाभिप्रायं दीपयन्तः 'दीप्तिज्ञानयत्नविमत्युपसम्भाषोपमन्त्रणे वद इत्यात्मनेपदम् ' प्राणवधं प्राणघातं मृगा इव मृगा मूढत्वात् अजानन्तः ! के प्राणिनः ? के वा तेषां प्राणाः ? कथं
UTR-2
अध्य. ८
॥८ ॥
Page #11
--------------------------------------------------------------------------
________________
अध्य.८
उत्तराध्ययनसूत्रम् ॥९॥
वा वधः ? इत्यनवबुध्यमानाः। अनेन प्रथमव्रतमपि न विदन्ति आस्तां शेषाणीति सूचितं, अत एव मन्दा इव मन्दा मिथ्यात्वमहारो - गाकुलिता: 'निरयं' नरकं गच्छन्ति, बाला निविवेकाः पापिकाभिः पापहेतुभिर्दृष्टिभिर्दर्शनाभिप्रायरूपाभिः "ब्रह्मणे ब्राह्मणमालभेत, इन्द्राय क्षत्रं, मरुद्भ्यो वैश्यं, तपसे शूद्र" तथा-"यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् ॥आकाशमिव पडून नासौ पापेन लिप्यते ॥१॥" इत्यादिकाभिर्दयादमबाह्याभिः, तेषां च नरकं गच्छतां वेषादिकं न त्राणाय स्याद्यदुक्तं-"चर्मवल्कलचीराणि, कूर्चमुण्डशिखाजटाः न व्यपोहन्ति पापानि, शोधको तु दयादमौ ॥१॥" इति सूत्रार्थः ॥७॥अत एवाह
मूलम्-न हु पाणवहं अणुजाणे, मुच्चिज्ज कयाइ सव्वदुक्खाणं ।
एवं आरिएहिं अक्खायं, जेहिं इमो साहुधम्मो पण्णत्तो ॥८॥ व्याख्या-न हु नैव प्राणवधं मृषावादादेरुपलक्षणञ्चैतत्, 'अणुजाणेत्ति' अपेलृप्तस्य दर्शनादनुजानन्नपि आस्तां कुर्वन् कारयन् वा, मुच्येत त्यज्येत कदाचित् क्वापि काले 'सव्वदुक्खाणंति' सुप्व्यत्ययात्सर्वदुःखैः, शारीरमानसैः क्लेशैः, ततो हिंसादिनिवृत्ता एव श्रमणा भवं तरन्तीति तत्त्वम् । न चैतन्मयैवोच्यत इत्याह, एवमुक्तनीत्या आर्यैस्तीर्थकरादिभिराख्यातं कथितं, वैरायैरसौ साधुधर्मो हिंसानिवृत्त्यादिः प्रज्ञप्तः प्ररूपित इति सूत्रार्थः ॥८॥ साधुधर्ममेवाहमूलम्-पाणे अ नाइवाइज्जा से समिएत्ति वुच्चइ ताई । तओ से पावयं कम्मं, निज्जाइ उदगं व थलाओ ॥९॥ व्याख्या-प्राणान्नातिपातयेत्, चकारात्कारणानुमत्योनिषेधमाह । मृषावादादिपरिहारोपलक्षणञ्चैतत् । किमिति प्राणान्नातिपा -
UTR-2
॥९॥
Page #12
--------------------------------------------------------------------------
________________
अध्य.८
उत्तराध्ययनसूत्रम् ॥१०॥
तयेदित्याह, 'सेत्ति' यः प्राणान्नातिपातयति स समितः समितिमान् इत्युच्यते । किं भूतः सन्नित्याह, वायी अवश्यं प्राणित्राता, समितत्वेऽपि को गुणः ? इत्याह, ततः समितात् ‘से इति' अथ पापकं अशुभं कर्म निर्याति निर्गच्छति, उदकमिव स्थलादत्युन्नतदृढभूप्रदेशादिति सूत्रार्थः ॥१॥ यदुक्तं प्राणान्नातिपातयेदिति तदेव स्पष्टयति --
मूलम्- जगनिस्सिएहिं भूएहि, तसनामेहिं थावरेहिं च ।
नो तेसिमारभे दंडं, मणसा वयसा कायसा चेव ॥१०॥ व्याख्या- जगन्निश्रितेषु लोकाश्रितेषु भूतेषु जन्तुषु, त्रसनामसु त्रसनामकर्मोदयवत्सु द्वीन्द्रियादिषु, स्थावरेषु पृथिव्यादिषु, चः समुच्चये, नो नैव तेषु आरभेत कुर्याद्दण्डं वधात्मकं 'मणसा वयसा कायसा चेवत्ति' सूत्रत्वात् मनसा वचसा कायेन 'चेवत्ति' समुच्चये, इदमिह तात्पर्य -"सव्वेवि दुक्खभिरू, सव्वेवि सुहाभिलासिणो सत्ता । सव्वेवि जीवणपिआ, सव्वे मरणाओ बीहंति ॥१॥" इति मत्वा न कस्यापि हिंसां कुर्यादिति सूत्रार्थः ॥१०॥ उक्ता मूलगुणा, अथोत्तरगुणा वाच्यास्तेषु चैषणासमितिः प्रधानेति तामाह -
___मूलम्- सुद्धेसणाओ नच्चा णं , तत्थ ठविज्ज भिक्खू अप्पाणं।
जायाए घासमेसिज्जा, रसगिद्धे न सिआ भिक्खाए ॥११॥ व्याख्या-शुद्धा निर्दोषा एषणा उद्गमोत्पादनाद्याः शुद्धषणास्ता ज्ञात्वा तत्र स्थापयेन्निवेशयेद्भिक्षुर्मुमुक्षुरात्मानं, किमुक्तं भवति ? अनेषणीयत्यागेन शुद्धमेव गृहीयात्तदपि किमर्थम् ? इत्याह - "जायाएत्ति"यात्रायै संयमनिर्वाहार्थम् ‘घासंति' ग्रासमेषयेद्गवेषयेत् ।
UTR-2
॥१०॥
Page #13
--------------------------------------------------------------------------
________________
अध्य.८
उत्तराध्ययनसूत्रम् ॥११॥
एषणाशुद्धमप्यादाय कथं भोक्तव्यमिति ग्रासैषणामाह- रसेषु स्निग्धमधुरादिषु गृद्धो गृद्धिमान् न स्यान्न भवेद्भिक्षाद्येऽनेन रागत्याग उक्तो, द्वेषोपलक्षणञ्चैतत्ततश्च रागद्वेषविमुक्तो भुञ्जीतेति सूत्रार्थः ॥११॥ रसागृद्धश्च यत्कुर्यात्तदाह - मूलम् -पंताणि चेव सेविज्जा,सीअपिडं पुराणकुम्मासं । अदुबक्कसं पुलागंवा, जवणट्ठाए निसेवए मंथु ॥१२॥
व्याख्या- प्रान्तान्येव नीरसान्येव सेवेत भुञ्जीत, कानि पुनः प्रान्तानीत्याह -शीतपिण्डं शीताहारं, शीतोऽपि शाल्यादिपिण्डः सरस एव स्यादत आह -पुराणाः प्रभूतवर्षधृताः कुल्माषा राजमाषास्तान् , एते हि पुराणा अत्यन्तपूतयो नीरसा भवन्तीति तद्ग्रहणं, उपलक्षणञ्चैतत् पुराणमुद्गादीनां 'अदु' इत्यथवा 'बक्कसं' मुद्गादिनहिकानिष्पन्नमन्नं, पुलाकमसारं वल्लचनकादि, वा समुच्चये । 'जवणट्ठाएत्ति' यापनार्थं देहनिर्वाहार्थं निषेवेत भुञ्जीत, मन्थुञ्च बदरादिचूर्णं, चस्य गम्यमानत्वात् अतिरूक्षतया चास्य प्रान्तत्वं । इह च यापनार्थमित्यनेनैतत्सूचितं, यदि तेन शरीरयापना स्यात्तदा तदेव सेवेत, यदि तु वातोद्रेकादिना तद्यापनैव न स्यात् तदा गच्छगतो मुनिः सरसमपि सेवेत । जिनकल्पिकादिर्गच्छनिर्गतस्तु प्रान्तादीन्येव सेवेत, तस्य तादृशानामेवादानानुज्ञानात् । पुनः क्रियाभिधानं तु न सकृदेतानि सेवेत, किन्तु सर्वदापीति सूचनार्थमिति सूत्रार्थः ॥१२॥ शुद्धषणाविपर्यये दोषमाह --
मूलम्-जे लक्खणं च सुविणं च, अंगविज्जं च जे पउंजंति ।
नहु ते समणा वुच्चंति, एवं आयरिएहिं अक्खायं ॥१३॥ व्याख्या- ये मुनयो लक्षणं शुभाशुभसूचकं पुरुषादिलक्षणं तत्प्रतिपादकं शास्त्रमपि लक्षणं, “अस्थिष्वर्थाः सुखं मांसे, त्वचि |
UTR-2
॥११॥
Page #14
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥ १२ ॥
भोगाः स्त्रियोऽक्षिषु ॥ गतौ यानं स्वरे चाज्ञा, सर्वं सत्त्वे प्रतिष्ठितम् ॥१॥" इत्यादिकं । स्वप्नं च स्वप्नस्य शुभाशुभसूचकं शास्त्रं, "अलङ्कृतानां द्रव्याणां वाजिवारणयोस्तथा ॥ वृषभस्य च शुक्लस्य, दर्शने प्राप्नुयाद्यशः ॥ १ ॥" तथा " मुत्रं वा कुरुते स्वप्ने, पुरीषञ्चापि लोहितम् ॥ प्रतिबुद्ध्येत यः सोऽर्थ नाशं प्राप्नोति निश्चितम् ॥ १॥" इत्यादिकं । अङ्गविद्यां च शिरः प्रभृत्यङ्गस्फुरणतः शुभाशुभसूचिकां, "सिरफुरणे किर रज्जं, पिअमेलो होइ बाहुफुरणम्मि ॥ अच्छिफुरणंमि अ पिअं, अहरे पिअसंगमो होइ ॥ १ ॥ " इत्यादिकां । प्रणवमायाबीजादिवर्णविन्यासात्मिकां वा । चकारः सर्वत्र वाशब्दार्थ:, ये प्रयुञ्जते व्यापारयन्ति, पुनर्ये इति ग्रहणं लक्षणादिभिः पृथक् सम्बन्धसूचनार्थं, ततश्च प्रत्येकमपि लक्षणादीनि ये प्रयुञ्जते, न तु समस्तान्येव 'न हु' नैव ते श्रमणा उच्यन्ते । इह च पुष्टालम्बनं विना तद्व्यापारणे एवमुच्यते, अन्यथा करवीरलताभ्रमकतपस्विनोऽपि तथात्वापत्तेः, एवं आचार्यैराख्यातं कथितमिति सूत्रार्थः ॥१३॥ तेषां फलमाह-
मूलम् - इह जीविअं अनिअमेत्ता, पब्भट्ठा समाहिजोएहिं ।
ते कामभोगरसगिद्धा, उववज्जंति आसुरे काए ॥ १४॥
व्याख्या - इह जन्मनि जीवितमसंयमजीवितं अनियम्य द्वादशविधतपोविधानादिना अनियंत्र्य प्रभ्रष्टाः प्रच्युताः समाधिश्चिस्वास्थ्यं तत्प्रधाना योगाः शुभमनोवाक्कायव्यापाराः समाधियोगास्तेभ्यः तेऽनन्तरोक्ताः कामभोगेषु पूर्वोक्तेषु रसेषु मधुरादिषु च गृद्धा लोलुपाः कामभोगरसगृद्धाः भोगान्तर्गतत्वेऽपि रसानां पृथग्ग्रहणमतिगृद्धहेतुत्वख्यापकं, उपपद्यन्ते जायन्ते आसुरे असुरसम्ब
UTR-2
अध्य. ८
॥१२॥
Page #15
--------------------------------------------------------------------------
________________
अध्य.८
उत्तराध्ययनसूत्रम् ॥१३॥
न्धिनि काये निकाये, एवंविधा हि किञ्चित्कष्टानुष्ठानमनुतिएन्तोऽपि विराधकत्वादसुरेष्वेवोत्पद्यन्ते इति सूत्रार्थः ॥१४॥ ततोऽपि च्युतास्ते
किं प्राप्नुवन्तीत्याह --- | मूलम् - तत्तोवि उव्वट्टित्ता, संसारं बहुं अणुपरिअडंति । बहुकम्मलेवलित्ताणं, बोही होई सुदुल्लहो तेसिं ॥१५॥
व्याख्या- ततोऽपि असुरनिकायादुद्धृत्य निर्गत्य संसारं भवं 'बहु' विस्तीर्णं अनुपर्यटन्ति सातत्येन परिभ्रमन्ति, किञ्च बहुकर्मलेपलिप्तानां बोधिः प्रेत्य जिनधर्मावाप्तिः भवति सुदुर्लभोऽतिशयेन दुष्प्रापः तेषां, ये लक्षणादि प्रयुञ्जते । यतश्चैवमतो नोत्तरगुणविराधना कार्येति सूत्रार्थः ॥२५॥ ननु किमेते जानन्तोऽप्येवं लक्षणादि प्रयुञ्जते ? उच्यते- लोभवशादत एव तदाकुलस्यात्मनो दुष्पूरत्वमाह --
मूलम् - कसिणंपि जो इमं लोगं , पडिपुण्णं दलेज्ज इक्कस्स।
तेणावि से न संतुस्से, इइ दुप्पूरए इमे आया ॥१६॥ व्याख्या- कृत्स्नमपि सकलमपि यः सुरेन्द्रादिरिमं प्रत्यक्षं लोकं प्रतिपूर्णं धनधान्यादिभृतं 'दलेज्जत्ति' दद्यात् 'इक्कस्सत्ति' एकस्मै कस्मैचिदाराधकाय तेनापि धनादिपूर्णलोकदायकेनापि स लुब्धो न सन्तुष्येत्, अनेन दायकेन मम परिपूर्णता कृतेति न सन्तुष्टिमाप्नुयात् । यदुक्तं-"न वह्निस्तृणकाष्ठाद्यै-नंदीभिर्वा महोदधिः ॥ न चैवात्मार्थसारेण, शक्यस्तर्पयितुं क्वचित् ॥१॥" इत्यमुना प्रकारेण दुःखेन पूरयितुं शक्यो दुष्पूरः स एव दुष्पूरकः 'इमेत्ति' अयं प्रत्यक्ष आत्मा जीवस्तदिच्छायाः पूरयितुमशक्यत्वादिति
UTR-2
॥१३॥
Page #16
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
॥ १४ ॥
सूत्रार्थः ॥ १६ ॥ असन्तोषे स्वविदितं हेतुमाह-
मूलम् - जहा लाहो तहा लोहो लाहा लोहो पवड्ढइ । दोमासकयं कज्जं कोडीएवि न निट्ठिअं ॥१७॥ व्याख्या- यथा लाभो द्रव्यप्राप्तिः तथा लोभो मूर्च्छा भवतीति शेषः किमेवमित्याह-यतो लाभाल्लोभः प्रवर्धते, यथा यथा लाभस्तथा तथा लोभः प्रवर्धत इत्यर्थः ॥ कुतश्चैवमित्याह- द्वाभ्यां माषाभ्यां कृतं द्विमाषकृतं कार्यं प्रयोजनं दास्याः पुष्पताम्बूलमूल्यरूपं कोट्यापि दीनाराणां न निष्ठितं न निष्पन्नं, उत्तरोत्तरविशेषाभिलाषादिति सूत्रार्थः ॥ १७॥ द्विमाषकृतं च कार्यं स्त्रीमूलमिति तत्परिहारोपदेशमाह -
मूलम्-णो रक्खसीसु गिज्झिज्जा, गंडवच्छासु णेगचित्तासु ।
जाओ पुरिसं पलोभित्ता, खेलंति जहा व दासेहिं ॥१८॥
व्याख्या- नो नैव, राक्षस्य इव राक्षस्यः स्त्रियस्तासु, यथा हि राक्षस्यो रक्तसर्वस्वमपकर्षन्ति जीवितं च प्राणिनामपहरन्ति, एवमेता अपि तत्त्वतो हि ज्ञानादीन्येव जीवितं, ज्ञानादीनि च ताभिरपहियन्त एवेत्येवमुक्तं । 'गिज्झिज्जत्ति' गृध्येदभिकांक्षावान् भवेत्, कीदृशीषु ? 'गंडवच्छासुत्ति' पिशितपिण्डरूपत्वाद्गण्डे इव गण्डे कुचौ वक्षसि यासां तास्तथा तासु, वैराग्योत्पादनार्थञ्चेत्थमुक्तं । अनेकान्यनेकसंख्यानि चञ्चलतया चित्तानि यासां तास्तथा तासु, उक्तञ्च - "हृद्यन्यद्वाच्यन्यत्, कर्मण्यन्यत् पुरोऽथ पृष्ठेऽन्यत् ॥ अन्यत्तव मम चान्यत् स्त्रीणां सर्वं किमप्यन्यत् ॥ १ ॥ " याः स्त्रियः पुरुषं कुलीनमपि प्रलोभ्य त्वमेव मे शरणं त्वमेव च मे प्रिय
UTR-2
अध्य. ८
॥१४॥
Page #17
--------------------------------------------------------------------------
________________
अध्य.८
उत्तराध्ययनसूत्रम् ॥१५॥
इत्यादिकाभिर्वाग्भिविप्रतार्य खेलन्ति क्रीडन्ति 'जहावत्ति' वाशब्दस्यैवकारार्थत्वात् यथैव दासैरेहि याहि मा वायासीरित्यादिभिः क्रीडाभिर्दासमिव पुरुषं प्रवर्तयन्त्यो विलसन्तीति सूत्रार्थः ॥ १८ ॥ पुनस्तासामेवातिहेयतां दर्शयन्नाह --
मूलम्-नारीसु नो पगिज्झिज्जा, इत्थी विप्पजहे अणगारे।
धम्मं च पेसलं णच्चा, तत्थ ठविज्ज भिक्खू अप्पाणं ॥१९॥ व्याख्या-नारीषु नो नैव प्रगृध्येत् प्रशब्दः प्रारम्भे, ततो गृद्धिमारभेतापि न, किं पुनः कुर्यादिति भावः । इत्थित्ति' स्त्रियो 'विप्पज्जहेत्ति' विप्रजह्यात् त्यजेत्, पूर्वं नारीग्रहणान्मानुष्य एवोक्ता, इह तु देवतिर्यक्सम्बन्धिन्योऽपि त्याज्या उक्ता इति न पौन| रुक्त्यम् । अनगारो मुनिः, किं पुनः कुर्यादित्याह-'धम्मं चत्ति' चशब्दस्यावधारणार्थत्वात् धर्ममेव ब्रह्मचर्यादिरूपं पेशलमत्र परत्र चैकान्तहितत्वेनाऽतिमनोज्ञं ज्ञात्वावबुध्य तत्रेति धर्म स्थापयेद्भिक्षुर्मुनिरात्मानमिति सूत्रार्थः ॥१९॥ अध्ययनार्थोपसंहारमाह
मूलम्-इति एस धम्मे, अक्खाए कविलेणं च विसुद्धपण्णेणं ।
तरिहिंति जे काहिंति, तेहिं आराहिअ दुवे लोगत्ति बेमि ॥२०॥ व्याख्या-- इत्यनेन प्रकारेण एष पूर्वोक्तो धर्मो मुनिधर्म आख्यातः कथितः, केनेत्याह-कपिलेनेति पूर्वसङ्गतिकत्वादमी मद्वचनं प्रतिपद्यन्तामित्यात्मानमेव निर्दिशति, चः पूत्तौं, विशुद्धप्रज्ञेन निर्मलज्ञानेन । अथार्थसिद्धिमाह-तरिहितित्ति' तरिष्यन्ति भवा
UTR-2
॥१५॥
Page #18
--------------------------------------------------------------------------
________________
अध्य.८
उत्तराध्ययनसूत्रम् ॥१६॥
ब्धिमिति शेषः, के ? इत्याह-ये नराः करिष्यन्ति प्रक्रमादमुं धर्म अन्यच्च, तैराराधितौ द्वौ लोको इहलोकपरलोकरूपौ, इह महाजनपूज्यतया, परत्र च स्वर्गापवर्गादिप्राप्तिरिति सूत्रार्थः ॥२०॥ इति ब्रवीमीति प्राग्वत् ॥
: इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय-: : श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ अष्टमाध्ययनं सम्पूर्णम् ॥ ८ ॥
UTR-2
॥१६॥
Page #19
--------------------------------------------------------------------------
________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥१७॥
॥ अथ नवमाध्ययनम् ॥
॥ अर्हम् ॥ उक्तमष्टमाध्ययनं, अथ नमिप्रव्रज्याख्यं नवममारभ्यते, अस्य चायमभिसम्बन्धोऽनन्तराध्ययने निर्लोभत्वमुक्तं, निर्लोभश्चेहापि शक्रादिपूज्य: स्यात्तदुपदर्शनायेदमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्य प्रस्तावनार्थं नमिचरितं तावदिहावश्यं वाच्यम् । यथाचायं प्रत्येकबुद्धस्तथान्येऽपि करकण्ड्वादयस्त्रयः प्रत्येकबुद्धास्तत्समकालस्वर्गच्यवनदीक्षोपादानकेवलज्ञानमहानन्दपदभाजो बभूवु-र्यद्वक्ष्यति, “करकंडू कलिंगेसु, पंचालेसु अ दुम्मुहो ॥ नमी राया विदेहेसु, गंधारेसु अ नग्गइ ॥१॥त्ति" ततः प्रसङ्गात्तच्चरितान्यपीहोच्यन्ते । तत्रादौ वृषभं वीक्ष्य, प्रतिबुद्धस्य धीनिधेः॥ करकण्डुमहीजाने-श्चरितं वच्मि . तद्यथा ॥१॥ अत्रैव भरते चम्पा-नगाँ गुरुविक्रमः ॥ भूपोऽभूद्गुणरत्नाना-मुदधिर्दधिवाहनः ॥ २ ॥ पुत्री चेटकभूभर्तुः, शीलादिगुणसेवधिः।। राज्ञी तस्याभवत्पद्मावती पद्मा हरेरिव ॥३॥ भुञ्जाना भूभुजा साकं, भोगाभोगान् यथासुखम् ॥ बभूव सा क्रमादन्त-वनी पत्नी महीपतेः ॥४॥ कृतपार्थिवनेपथ्या, धृतच्छत्रा धराभृता ॥ विहराम्यहमारामे, पट्टेभस्कन्धमाश्रिता ॥ ५ ॥ इत्यभूदोहदस्तस्याः, काले गर्भानुभावतः॥ तस्यापूर्णे च स कायँ, कृष्णपक्षेन्दुवद्दधौ॥६॥ (युग्मम् ) ततः पृथ्वीभृता पृष्टा, महिषी कार्यकारणम्॥ जगौ तं दोहदं राज्ञः, प्रमोदद्रुमदोहदम् ॥७॥ ततो भूपस्तया साक-मारुह्य जयकुञ्जरम् ॥ स्वयं तदुपरि छत्रं, दधत्पूर्णेन्दुसुन्दरम् ॥ ८ ॥ सानन्दं पौरपौरीभिः प्रेक्ष्यमाणो बलान्वितः ॥ प्रावृटकालप्रवेशेन, रम्यमाराममासदत् ॥९॥ (युग्मम्) तदा च नव्यपाथोद
UTR-2
॥१७॥
Page #20
--------------------------------------------------------------------------
________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥१८॥
पाथः सङ्गमसम्भवः ॥ गन्धः प्रादुरभूद्भूमेः, सुरभि सिकन्धयः ॥ १० ॥ तञ्च गन्धं समाघ्राय, ध्यायन् विन्ध्याचलाटवीम् ॥ व्यालः काल इवोत्तालः कान्तारं प्रत्यधावत ॥ ११ ॥ व्यावर्तमानो विक्रान्तै- योभिरपि स द्विपः ॥ कदाग्रहादिव शठो, गमनान्न | न्यवर्तत ॥१२ ।। कुर्वाणैर्विविधोपायान् , स्खल्यमानोऽपि मानवैः।। न तस्थौ सिन्धुरः सिन्धु-पूरः शरवणैरिव ॥१३॥ विहस्तेषु ततस्तेषु, पश्यत्स्वेव स हस्तिराट् ॥ पश्यतोहरवद्भूप-राज्यौ हत्वा वनेऽनयत् ॥ १४ ॥ तत्र प्रेक्ष्य क्षमापालो, दूरादेकं वटदुमम् ॥ देवीमूचे गजो ह्येष, गन्ताऽमुष्य तरोरधः ॥ १५ ॥ तत्र चास्मिन् गते सद्यः, शाखां न्यग्रोधशाखिनः ॥ गृह्णीयास्त्वं ग्रहीष्ये तच्छाखामहमपि प्रिये ! ॥ १६ ॥ आवां ततो गमिष्यावो, गजं हित्वा निजं पुरं ॥ अन्यथा त्वावयोर्भावी, वनेऽस्मिन् कोप्युपद्रवः ॥ १७ ॥ प्रतिपन्नाप्यदो वाक्यं, वटस्याधो गते गजे ॥ तच्छाखाग्रहणायालं, नाभूद्राज्ञी चिरक्रिया ॥ १८ ॥ मापस्तु दक्षस्त-च्छाखामालम्ब्योदतरद्वटात् ॥ प्राणप्रियामपश्यंश्च, व्यलापीदिति दुःखितः॥ १९ ॥ अयि कांते ! कदा भावी, सङ्गमः पुनरावयोः? ॥अमुना रिपुरूपेण, करिणा वञ्चितोऽस्मि हा ! ॥ २० ॥ त्वद्वियोगोद्भवं दुःखं, दावाग्नेरपि दुःसहम् ॥ असोढपूर्वं दयिते !, सहिष्येऽहं कियच्चिरम् ? ॥ २१ ॥ दुःखमेतद् घटेऽम्भोधि-रिव माति न मे हूदि । तत्किं कुर्वे ? व गच्छामि ? पुरः कस्य ब्रवीमि वा? ॥ २२ ॥ इत्यादि विलपन् दुःख-भरभङ्गुरमानसः ॥ दन्तिपादानुसारेण, ययौ चम्पापुरी नृपः ॥ २३ ॥ राज्ञः प्रियां तु तां दन्ती, निन्ये निर्मानुषाटवीम् ॥ पिपासाविवशस्तत्रा-विशच्चैकं महासरः ॥ २४ ॥ वार्ती सुरेभवत्तत्र, क्रीडति द्विरदे शनैः ॥ उत्ततार ततो राज्ञी, कुरङ्गीव महागिरेः ॥ २५ ॥ सरस्ती च हंसीव, पुलिनोद्देशमागता ॥ पश्यन्ती परितोऽपश्य- दरण्यानी भयप्रदाम् ॥ २६ ॥ यूथच्यूतकुरङ्गीव, ततः सात्यर्थमातुरा ॥ मुक्तकण्ठं रुरोदोच्चै-रोदयन्ती खगानपि ॥२७॥ कथञ्चिद्धैर्यमालम्ब्य, दध्यौ
UTR-2
॥१८॥
Page #21
--------------------------------------------------------------------------
________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥१९॥
चैवं नृपाङ्गना ॥ दुष्कर्मदोषतो ह्याप-दियमापतिता मम ॥ २८ ॥ न चातिचिक्कणः कर्म-मलो रोदनसम्भवैः ॥ विनेतुं शक्यते नीर-स्तदलं रोदनेन मे ! ॥ २९ ॥ किञ्चास्मिन् गहने व्याघ्र-सिंहादिश्वापदाकुले ॥ उपद्रवोऽपि कोऽपि स्यात्, तत् प्रमादं जहाम्यहम् ॥ ३० ॥ इति ध्यात्वा कृतचतुः-शरणा सा महाशया ॥ क्षमयित्वाखिलान् सत्त्वान्, निन्दित्वा दुरितं निजम् ॥३१॥ साकारानशनं कृत्वा-ऽरण्यनिस्तरणावधि ॥ स्मरन्ती प्रकटं पञ्च-परमेष्ठिनमस्क्रियाः ॥ ३२ ॥ अध्वानं निजपुर्याश्च, दिग्मूढत्वादजानती ।। गन्तुं प्रववृते काञ्चि-द्दिशमुद्दिश्य सत्वरम् ॥ ३३ ॥ (त्रिभिर्विशेषकम् ) दूरङ्गता च सा प्रेक्ष्य, तत्र कञ्चनतापसम् ॥ पिप्रियेऽन्तः पयः प्राप्य, पिपासुरिव जङ्गले ॥ ३४ ॥ कृताभिवादनां ताञ्च, पप्रच्छेति स तापसः ॥ मातः! कुत इहायासी-स्त्वं देवीव मनोरमा ॥ ३५ ॥ अहं चेटकराट्पुत्री, दधिवाहनराड्वधूः ॥ इहानीता द्विपेनेति स्ववृत्तं साप्यवोचत ।। ३६ ॥ अहं चेटकभूभर्तु-र्बान्धवोऽस्मि महाशये ! तन्मा भैषीर्मा कृथाश्च, शोकं नीचजनोचितम् ॥ ३७ ॥ इत्युक्त्वा तापसश्रेष्ठ-स्तस्यै वनफलान्यदात् ॥ आतिथ्यं ह्यतिथे: श्रीणा-मनुसारेण जायते ॥ ३८ ॥ पारेर्णवं पोत इव, नीत्वा पारेवनं च ताम् ॥ दर्शयन् वसतो ग्रामानित्युवाच तपोनिधिः ॥ ३९ ॥ सीरकृष्टां भुवं नैवाऽऽक्रामामो वयमित्यहम् ॥ नायास्यामि पुरस्त्वं तु, निर्भयातः परं व्रजेः ॥ ४० ॥ देशो दन्तपुरस्यायं, दन्तवक्रोऽत्र भूपतिः ॥ गत्वा पुरेऽत्र चम्पायां, गच्छेः सार्थेन संयुता ॥ ४१ ॥ इत्युदित्वा न्यवर्तिष्ट, शिष्टात्मा तापसाग्रणीः ॥ सापि दन्तपुरे प्राप्ता, साध्वीनामन्तिके ययौ ॥ ४२ ॥ कृतप्रणामां विधिव-त्ताञ्च पार्थिवकामिनीम् ॥ श्राद्धे ! त्वं कुत आयासी-रित्यपृच्छत् प्रवर्तिनी ॥ ४३ ॥ साप्युवाच निजां वार्ता, विना गर्भ यथास्थिताम् ॥ स्मृतानुभूतदुःखा च, जज्ञेऽश्रुक्लिन्नलोचना ॥ ४४ ॥ ततः प्रवर्तिनी प्रोचे, मा खिद्यस्व महाशये ! ॥ कर्मणां हि परीणामो-ऽप्रतिकार्यः सुरैरपि ।। ४५ ।। किञ्च- "वातोद्धृत
UTR-2
॥१९॥
Page #22
--------------------------------------------------------------------------
________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥२०॥
ध्वजप्रान्त-चञ्चलैश्वर्यशर्मणि ॥ चलेष्टजनसङ्गेऽस्मिन्, भवे सौख्यं न किञ्चन ॥ ४६ ॥ जन्मरोगजराशोक-मृत्युदौःस्थ्याधुपद्रवैः ॥ व्याकुलेऽत्र भवे दुःख-मेव प्रायो भवेद्विशाम् ॥ ४७॥ यच्चेह स्यात्सुखं किञ्चि-द्विषयाधुपभोगजम् ॥ दुःखानुषङ्गात्तदपि, दुःख एव निमज्जति ॥ ४८ ॥ यत एव च संसारो, दुःखानामेकमास्पदम् ॥ प्रपद्यन्ते मोक्षमार्ग-मत एव विवेकिनः" ॥ ४९ ॥ इति तद्देशनां श्रुत्वा, विरक्ता साददे व्रतम् ॥ पृष्टाप्याचष्ट नो गर्भ, चारित्राऽदानशङ्कया ॥ ५० ॥ गर्भवृद्धौ च साध्वीभिः, पृष्टा किमिदमित्यसौ ॥ सत्यमूचे ततस्तास्तां, साध्वी गुप्तमरक्षयन् ॥५१॥ गर्भकाले च सम्पूर्णे, शय्यातरगृहस्थिता ॥ असूत सुतरत्नं सा, मणि रोहणभूरिव ॥ ५२ ॥ ततो गृहीत्वा तं बालं, गत्वा प्रेतवनेऽमुचत् ॥ तत्तातनाममुद्राएं, रत्नकम्बलवेष्टितम् ॥५३॥ द्रष्टुं तद्ग्राहकं साथ, तञ्च त्रातुमुपद्रवात् ॥ प्रच्छन्नं संस्थिताद्राक्षी-दृशा प्रेमामृतार्द्रया ॥ ५४ ॥ तत्रायातस्तदा प्रेत-वनेशोऽपत्यवर्जितः ॥ जगृहे तं निजगृहे, नीत्वा पल्यै च दत्तवान् ॥ ५५ ॥ तस्यावकर्णक इति, सानन्दः सोऽभिधां व्यधात् ॥ आर्यापि तद्गृहं वीक्ष्य, जगामोपाश्रयं निजम् ॥ ५६ ॥ व गर्भ इति साध्वीभिः, पृष्टा चेत्यवदन्मृषा ॥ मृतः सुतो मया जातः, स च त्यक्तः क्वचित्ततः ॥ ५७ ॥ साध्व्योऽपि सरलाः सर्वा-स्तत्तथा प्रतिपेदिरे ॥ बालस्तु ववृधे तस्य, सौधे पङ्क इवाम्बुजम् ।।५८ ॥ वत्सं गौरिव तं बालं, ध्यायती सा तु संयता ॥ जगाम प्रत्यहं प्रेतवनपालस्य धामनि ॥५९ ॥ तत्पल्ल्या च समं प्रेम, चक्रे सम्भाषणादिभिः ॥ अलालयच्च तं बाल-महो ! मोहोऽतिदुर्जयः ।।६० ॥अवाप यच्च भिक्षायां, शोभनं मोदकादिकम् । तद्बालायार्पयत्सोऽपि, तस्यां रागं दधौ ततः ॥६१ ॥ जन्मतस्तस्य देहे च, रूक्षकण्डूरभूभृशम् ।। स च वृद्धिङ्गतो बालैः, समं क्रीडन्नदोऽवदत् ।। ६२॥ अहं वो नृपतिस्तस्माद्यूयं दत्त करं मम ॥ बालाः प्रोचुः करस्थाने, ब्रूहि किं ते प्रदीयते ? ॥६३ ॥ स प्रोचे चण्डकण्डूको, मां कण्डुयध्वमुच्चकैः ॥ करे
UTR-2
॥२०॥
Page #23
--------------------------------------------------------------------------
________________
उत्तराध्य
अध्य.९
यनसूत्रम्
॥२१॥
णानेन तुष्टोऽस्मि, कृतं तदपरैः करैः ॥ ६४ ॥ ततस्तस्याभिधां बाला: करकण्डूरिति व्यधुः ॥ गुणक्रियादिभिर्नाम, नवीनमपि जायते ॥६५॥ किञ्चित्प्रौढत्वमापन्नः श्मशानं च ररक्ष सः ॥ तदेव हि कुले तस्मिन्, गीयते कार्यमुत्तमम् ॥६६॥ हेतोः कुतश्चिदायातौ, श्मशाने तत्र चान्यदा ॥ द्वौ मुनी वंशजालान्त-दण्डमेकमपश्यताम् ॥ ६७ ॥ तयोरेको यतिर्दण्ड-लक्षणज्ञो महामतिः॥ तं वंशं दर्शयन्नेव-मवादीदपरं मुनिम् ॥ ६८ ॥ यावता वर्धते चत्वा-र्यगुलान्यपराण्ययम् ॥ तावत्प्रतीक्ष्य यो ह्येन-मादत्ते स भवेन्नृपः ॥ ६९ ॥ तच्च साधुवचो वृक्षनिकुञ्जान्तरवर्तिना ॥ तेन मातङ्गपुत्रेण, द्विजेनैकेन च श्रुतम् ॥ ७० ॥ ततो वंशस्य तस्याधः, खनित्वा चतुरङ्गलम् ।। छित्त्वा प्रच्छन्नवृत्त्या तं, वाडवो दण्डमाददे ॥७१ ॥ तञ्च प्रेक्ष्य द्विजेनात्तं, करकण्डुः क्रुधा ज्वलन् ।
आच्छिद्य जगृहे को वा, राज्यलक्ष्मी न कांक्षति ? ॥ ७२ ॥ ततस्तं करणे नीत्वा, दण्डं देहीत्यवग् द्विजः । स प्रोचेऽसौ श्मशाने 'मे, जातस्तन्न ददामि ते ॥ ७३ ॥ विप्रोऽवोचदनेनैव, कार्य मे वर्त्तते ततः ॥ अस्य स्थानेऽन्यमादाय, दण्डमेनं प्रदेहि मे ॥ ७४ ॥ तेनेत्युक्तोऽपि तं दण्डं, करकण्डुनर्पयन् ॥ कुतोऽमुं न ददासीति, पृष्टः कारणिकैस्तदा ॥ ७५ ॥ बालोऽब्रवीत्सुरस्येव, दण्डस्यास्य प्रभावतः ।। भविष्यामि नृपो नूनं, तदस्यामुं ददे कथम् ॥ ७६ ॥ ततो विहस्य तं बाल-मेवं कारणिका जगुः ॥ राज्यावाप्ती द्विजस्यास्य, ग्राममेकं त्वमर्पयेः ।। ७७ ॥ तत्प्रपद्य निजं धाम, करकण्डुर्ययौ द्रुतम् ॥ द्विजोऽप्यन्यान् द्विजानेव-मूचे गत्वा स्वमास्पदम् ॥ ७८ ।। दण्डं ममापि जग्राह, बलाच्चाण्डालबालकः ॥ ततः कथञ्चित्तं हत्वा, दण्डमादद्महे वयम् ॥ ७९ ॥ कथमप्येतदा
का-वकर्णकपिता ततः ॥ पत्नीपुत्रान्वितोऽनश्य-त्सुतरक्षाकृते क्षणात् ॥ ८० ।। गत्वा च काञ्चनपुरे, ते त्रयोऽपि पुराबहिः।। | कुत्रापि सुषुपुः श्रान्ताः, स्वापो हि श्रमभेषजम् ॥ ८१॥ तदा च नगरे तत्रा-पुत्रो राजा व्यपद्यत ॥ ततोऽधिवासयामासु-स्तुरङ्गं
UTR-2
॥२१॥
Page #24
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
॥ २२ ॥
मंत्रिपुङ्गवाः ॥ ८२ ॥ तुरङ्गोऽपि भ्रमंस्तेषां सुप्तानामन्तिके ययौ ॥ तञ्च प्रदक्षिणीचक्रे, बालं देवमिवास्तिकः ॥ ८३ ॥ ञ्च तेजस्विनं श्रेष्ठ लक्षणं वीक्ष्य नागराः ॥ तुष्टा जयारवं चक्रु स्तूर्यनिर्घोषमिश्रितम् ॥ ८४ ॥ ध्यानेन तेन विध्वस्त प्रमीलः सोऽथ बालकः ॥ जृम्भायमाण उत्तस्था - वारुरोह च तं हयम् ॥ ८५ ॥ तूर्यध्वनिप्रतिध्वाना पूर्णद्यावाक्षमान्तरः । पौरैः परीतः परितस्तारापतिरिवोडुभिः ॥ ८६ ॥ युक्तः पितृभ्यां नगरे, प्रविशन् स च वाडवैः ॥ अरोधि मातङ्ग इति मातङ्ग इव शूकरैः ॥ ८७ ॥ ( युग्मम् ) ततो गृहीत्वा तं दण्डं, करकण्डुः पुरोऽकरोत् ॥ तस्य राज्यप्रदाने हि स एव प्रतिभूरभूत् ॥ ८८ ॥ निर्मितो ज्वलनेनेवाज्वलद्दण्डस्तदा च सः ॥ तञ्च प्रेक्ष्य द्विजा भीता, नेशुः शरमिव द्विकाः ॥ ८९॥ पुरे प्रविष्टो राज्ये चा- भिषिक्तो धीसखादिभिः ॥ सोऽथ राजा सजातीया- न्मातङ्गान्विदधे द्विजान् ॥९०॥ उक्तञ्च -"दधिवाहनपुत्रेण राज्ञा च करकण्डुना ॥ वाटधानकवास्तव्याश्चाण्डाला ब्राह्मणीकृताः ॥ ९१ ॥ " तस्यावकर्णक इति, त्यक्त्वाद्यं नाम नीरसम् ॥ बालोक्तमेव तत्प्रोचुः, करकण्डुरिति प्रजाः ॥ ९२ ॥ प्राप्तराज्यञ्च तं श्रुत्वा, दण्डच्छेदी स वाडवः || आगत्योवाच राजन्मे देहि ग्रामं तदोदितम् ॥९३॥ कं ग्रामं ते ददामीति, राज्ञोक्तः स पुनर्जगौ ॥ चम्पायां मे गृहं तस्मा तद्देशे ग्राममर्पय ॥९४॥ ततो लेखं लिलेखैवं, करकण्डुनरेश्वरः । दधिवाहनभूपालं, प्रति निष्प्रतिमो गुणैः ॥ ९५ ॥ " तथाहि - स्वस्ति श्रीकाञ्चनपुरा-त्करकण्डुर्महीपतिः ॥ सम्भाषते नृपं चम्पाधिपं श्रीदधिवाहनम् ॥९६॥ परमात्मप्रभावेण कल्याणमिह विद्यते । श्रीमद्भिरपि तद्ज्ञाप्यं, स्वशरीरादिगोचरम् ॥९७॥ किञ्चास्मै ब्राह्मणायैको, ग्रामो देयः समीहितः ॥ दास्ये वो रुचितं ग्रामं, नगरं वा तदास्पदे ॥९८॥ इदं कार्यं ध्रुवं कार्यं नात्र कार्या विचारणा ॥ मूल्यावाप्तौ विमर्शो हि व्यर्थ एवेति मङ्गलम् ॥ ९९ ॥ लेखमेनं समादाय, विप्रश्चम्पापुरीं गतः । आस्थानस्थ भूपस्य, पाणि
UTR-2
अध्य. ९
॥२२॥
Page #25
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥ २३ ॥
पद्मातिथिं व्यधात् ॥१००॥ तद्वाचनहविर्होम दीप्तक्रोधहुताशनः ॥ तमित्यूचे धराधीशो, भ्रकुटीविकटाननः ॥ १ ॥ रे ! मातङ्गस्य किं तस्य, स्वजातिरपि विस्मृता ॥ अनात्मज्ञो ऽलिखल्लेखं, यो ममोपरि दुष्टधीः ॥२॥ लेखेनानेन तं नीच - मस्पर्श्यं स्पृष्टपूर्विणा ॥ अहं मलीनतां नीतो ऽज्ञानाद्वा किं न जायते ? ॥३॥ रे विप्र ! याहि याहि त्वं नो चेन्मातङ्गलेखदः ॥ यास्यसि त्वं पतङ्गत्वं, कोपज्वलनेऽधुना ॥४॥ तेनेत्युक्तो द्विजो गत्वा तदूचे करकण्डवे ॥ क्रोधाध्मातस्ततः सोऽपि यात्राभेरीमवीवदत् ॥ ५॥ चतुरङ्गचमुच - र्भुवमाच्छादयन्निव । जगाम चम्पानगरी, सर्वतस्तां रुरोध च ॥ ६ ॥ वीराणामुत्सव इवानन्ददायी ततोऽन्वहम् ॥ पुरस्थायिबहि: स्थायि - सैन्ययोरभवद्रणः ॥ ७ ॥ ताञ्च पद्मावती साध्वी, वार्तां श्रुत्वेत्यचिन्तयत् ॥ अज्ञानेन पितापुत्रौ, कुरुतः समरं मिथः ॥ ८ ॥ भूयसां प्राणिनां नाशो, दाववाविवाहवे । तयोर्नरकदो भावी, तद्गत्वा शमयामि तम् ॥९॥ इति ध्यात्वा मुख्यसाध्वी- मापृच्छ्य च महासती । करकण्डुसमीपेऽगा-त्सोऽप्युत्थाय ननाम ताम् ॥१०॥ साथ तस्मै रहः प्रोच्य, प्राच्यं वृत्तान्तमात्मनः ॥ इत्याख्यत्तव माताहं, पिता च दधिवाहनः ॥ ११ ॥ तत्तातेन समं युद्धं, न युक्तं ते महामते ! ॥ कुलीना हि न लुम्पन्ति, गुरूणां विनयं क्वचित् ॥१२॥ तच्छ्रुत्वा तेन पृष्टौ तावूचतुः पितरावपि ॥ पुत्रो नः पालितो ऽसि त्वं सम्प्राप्तः प्रेतकानने ॥ १३ ॥ साध्वीवाक्ये ततो जात प्रत्ययोऽपि स पार्थिवः ॥ दर्पान्नापासरज्जन्या-द्राजन्यानां ह्यसौ बहुः ॥ १४ ॥ आर्या ययौ ततो मध्ये - पुरं राज्ञो गृहे द्रुतम् ॥ ताञ्चोपालक्षयंश्चेव्यः प्रणेमुश्च ससम्भ्रमम् ॥१५॥ दिष्ट्या दृष्टाद्य मातस्त्व-मियत्कालं क्व च स्थिता ॥ चिरात्किं दर्शनं दत्तं किमिदं स्वीकृतं व्रतम् ? ॥ १६ ॥ इत्याद्युच्चैर्वदन्त्यस्ता, रुरुदुश्च मुहुर्मुहुः । इष्टानां दर्शने जीर्णमपि दुःखं नवायते ॥१७॥ तं च कोलाहलं श्रुत्वा तत्रायातो धराधिपः । तां प्रणम्यासनं दत्वा, क्व गर्भ इति पृष्टवान् ॥१८॥ राजन् !
"
UTR-2
अध्य. ९
॥२३॥
Page #26
--------------------------------------------------------------------------
________________
उत्तराध्य
अध्य.९
यनसूत्रम्
॥२४॥
गर्भः स एवायं, येनेयं वेष्टिता पुरी ॥ तयेत्युक्ताश्च स प्रापा-नन्दं वाचामगोचरम् ॥१९॥ उत्कण्ठोत्कर्षपानीया-पूर्णमानसमानसः ॥ सुतेन तेन सङ्गन्तुं, गन्तुं प्रववृते नृपः ॥२०॥ समायान्तं समाकर्ण्य, करकण्डुनृपोऽपि तम् ।। अभ्यागात् पादचारेण, पादयोश्चापतत्पितुः ॥२१॥ पितापि तं नतं दोर्ध्या-मादाय परिषस्वजे ॥ तदङ्गसङ्गपीयूषै-निजं निर्वापयन् वपुः ॥२२॥ भूपाब्धेः पश्यतस्तस्यादृष्टपूर्वं सुतोडुपम् ॥ललो लघु हृत्कूल-मुद्वेलैः प्रमदोदकैः ॥२३॥ तञ्चाभ्यषिञ्चदङ्कस्थं, नृपः प्राक् सम्मदाश्रुभिः ॥ राज्याभिषेकनारेश्च, | पश्चात्सिंहासनस्थितम् ॥२४॥ इति चावोचदायुष्मन् ! राज्यमेतत्क्रमागतम् ॥ पालनीयं तथा लोका, यथा नैव स्मरन्ति माम् ॥२५॥ नियोज्येमां राज्यभार-धुरां त्वयि धुरन्धरे । धास्ये धर्मधुरां युक्त-मिदं हि समये विदाम् ॥२६॥ इत्युक्त्वा व्रतमादत्त, नृपः सद्गुरुसन्निधौ ॥ करकण्डुधराधीश-कृतनिष्क्रमणोत्सवः ॥ २७ ॥ | अथ प्रतापदावाग्नि-ध्वस्तवैरियशोद्रुमः ॥ करकण्डुनृपो राज्य-द्वयं सनयमन्वशात् ॥ २८॥स चोर्वीशः स्वभावेन, भृशं वल्लभगोकुलः ॥ स्वीचक्रे तानि भूयांसि, यादांसीव पयोनिधिः ॥ २९ ॥ स चान्यदा गतः क्वापि, गोकुले जलदात्यये । सुरभी: सौरभेयांश्च, तर्णकांश्च विलोकयन् ॥३०॥ गौरं गौरीगुरुगिरेः शृङ्गाद्गङ्गाजलाप्लुतात् ॥ एकं तर्णकमद्राक्षी - मुग्धं स्निग्धतनुच्छविम् ॥ ३१ ॥ जातप्रेमा ततस्तस्मिन्, भूमान् गोदुहमूचिवान् ॥ एतन्मातुः पयोऽस्यैव, देयं दोह्या तु नैव सा ॥ ३२ ॥ कञ्च वृद्धिं गतस्यास्य, मच्चित्तानन्ददायिनः ॥ अन्यासामपि धेनूनां, पायनीयं पयोऽन्वहम् ॥३३॥ गोपालोऽपि महीपाल-वचनं प्रतिपद्य तत् ॥ तथैव विदधे को वा, राज्ञामाज्ञां विलुम्पति ? ॥ ३४ ॥ सोऽथ वत्सो वर्धमानः, स्पर्धमानः शशित्विषा ॥ पलोपचयदुर्लक्ष्य-कीकसः
UTR-2
॥२४॥
★ हिमाद्रेः।
Page #27
--------------------------------------------------------------------------
________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥ २५ ॥
प्राज्यविक्रमः ॥३५॥ शोभमानोंऽसकूटेन, कूटेनेवावनीधरः ॥ तीक्ष्णाग्रवर्तुलोत्तुङ्ग-शृङ्गस्तारुण्यमासदत् ॥३६॥ (युग्मम् ) तथाभूतं च तं क्षमापो, वृषभैरपरैः समम् ॥ क्रीडयायोधयत्तं तु, नाजैषीत्कोऽपि शाङ्करः ॥३७॥ कालान्तरे च भूपालो, गतो गोकुलमीक्षितुम् ॥ घट्टयमानं पड्काद्यै-र्ददर्शकं जरद्गवम् ॥३८॥ महोक्षः स महावीर्यः, क्वत्यपृच्छच्च गोदुहम् ॥ सोऽवादीद्देव ! वृषभः, स एवायं जरातुरः ॥३९॥ तन्निशम्य नृपोऽध्यासी-दध्यासीनः शुभाशयम् ॥ अहो ! अनित्यता सर्व-भावानां वचनातिगा ॥४०॥ बलिनोऽपि बलीवर्दा, नेशुद्धुप्ता अपि द्रुतम् ॥ यस्य हम्भारवेण ज्या-टङ्कारेणेव पक्षिणः ॥४१॥ चलदोष्ठो गलदृष्टि-नष्टौजा विश्रसावशात् ॥ सोऽधुना पड्डकैः क्लृप्तां, सहते परिघट्टनाम् ! ॥४२॥ यद्रूपं पश्यतां नेन्दु-दर्शनेऽप्यादरोऽभवत् ॥ सोऽप्यद्य तनुते दृष्टो, जुगुप्सा हा पुरीषवत् ! ॥४३॥ तद्विक्रमवयोरूप-विभुत्वविभवादिकम् । वीक्ष्यतेऽध्यक्षमेवैत-त्पताकाञ्चलचञ्चलम् ! ॥४४॥ सत्यप्येवं जनो मोहा-न जानाति यथास्थितम् ॥ तत्तमेव निगृह्णामि, गृह्णामि जनुषः फलम् ॥ ४५ ॥ ध्यात्वेति कृत्वा स्वयमेव लोचं, बिभ्रन्मुनेर्वेषममर्त्यदत्तम् । प्रत्येकबुद्धः प्रतिबुद्धजीवी, भुवि व्यहार्षीत्करकण्डुराजः ॥४६॥ [ इति करकण्डुनृपकथा ॥१॥]
अथ प्रत्येकबुद्धस्य, बुद्धस्येन्द्रध्वजेक्षणात् ॥ राज्ञो द्विमुखसंज्ञस्य, कथां वक्ष्यामि तद्यथा ॥१॥ पाञ्चालदेशतिलके, पुरे काम्पिल्यनामनि ॥ यवाभिधोऽभवद्भूपो, हरिवंशाब्धिचन्द्रमाः ॥२॥ तस्यासीद्गुणमालाढ्या, गुणमालाह्वया प्रिया ॥ तया समं नृपो भोगान्, भुञ्जानः कालमत्यगात् ॥३॥ अन्यदा च गुणास्थान-मास्थानस्थः स पार्थिवः ॥ देशान्तरागतं दूत-मिति पप्रच्छ कौतुकात् ॥४॥ राज्येऽन्येषां विद्यमानं, मद्राज्ये किं न विद्यते ? ॥ दूतोऽवादीत्तव विभो ! नास्ति चित्रसभा शुभा ॥ ५॥ ततः कार्यविदाकार्य, नृपतिः स्थपतीन् जगौ ॥ चित्रसत्रसभा चित्र-सभा मे क्रियतामिति ॥६॥ प्रमाणमादेश इति, प्रोच्य तेऽपि शुभे
UTR-2
॥२५॥
Page #28
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥ २६ ॥
क्षणे ॥ प्रारेभिरे भुवः खातं, सभान्यासविधित्सया ॥ ७॥ पञ्चमे च दिने तस्माद्भूतलात्तेजसा ज्वलन् ॥ मौलिः प्रादुरभूद्रत्नमयो रविरिवार्णवात् ॥८ ॥ ततः स्थपतयस्तुष्टा- स्तमाचक्षुः क्षमाभृते ॥ सोत्साहः सोत्सवं सोऽपि तत्रागत्य तमाददे ॥९॥ अपूजयच्च स्थपति-प्रभृतीन् वसनादिभिः ॥ तेऽपि चित्रसभां स्वल्प कालेनैव वितेनिरे ॥१०॥ भित्तिन्यस्तैर्मणिगणैर्नित्यालोकां विमा| नवत् ॥ देवीभिरिव माणिक्य- पुत्रिकाभिरधिष्ठिताम् ॥११॥ माणिक्यतोरणैः शक्र - चापैरिव विराजिताम् ॥ पञ्चवर्णमणिव्यूह| रचनाञ्चितकुट्टिमाम् ॥१२॥ सभा सुधर्मा मत्तोऽपि किं रम्येति समीक्षितुम् ॥ उच्चैः कृतं मौलिमिव, शिखरं गुरु बिभ्रतीम् ॥१३॥ विचित्रचित्ररचना - चित्रीयितजगत्त्रयीम् ॥ आह्वयन्तीमिवामर्त्यान्, स्वप्रेक्षायै चलध्वजैः ॥१४॥ प्रविश्य तां सभां भूमि-वल्लभः शोभने दिने ॥ आरोपयन्निजे मौलौ, तं दिव्यं मौलिमुत्सवैः ॥ १५ ॥ [ पञ्चभिः कुलकम् ] तस्य मौलेर्महिम्नाभूद्राज्ञस्तस्याननद्वयम् ॥ रावणस्य यथा हारप्रभावेण दशाननी ॥ १६ ॥ ततो द्विमुख इत्यूचे, तस्य नामाखिलैर्जनैः ।। क्रमाच्च नृपतेस्तस्य, तनयाः सप्त जज्ञिरे ॥१७॥ गुणमाला ततो दध्यौ, सुतेष्वेतेषु सत्स्वपि ॥ एकां छेकां विना पुत्र, मन्ये जन्म निरर्थकम् ॥१८॥ लक्ष्मीरिव सुतापि स्यात्काचित्पित्रोः शुभावहा ॥ ततस्तत्प्राप्तये कञ्चिद्देवमाराधयाम्यहम् ॥ १९ ॥ ध्यात्वेति मदनाख्यस्य, सा यक्षस्योपया| चितम् ॥ चक्रे सुतार्थं स्वल्पं हि सर्वं गौरवमश्नुते ॥ २० ॥ ततस्तस्याः सुताप्येका, जज्ञे सौन्दर्यसेवधिः ॥ मन्दारमञ्जरीप्राप्तिस्वप्नदर्शनसूचिता ॥ २१ ॥ ततो राज्ञा मुदा चक्रे, तस्या जन्ममहो महान् ॥ दत्तं महाविभूत्या च यक्षस्याप्युपयाचितम् ॥२२॥ दत्ता मदनयक्षेण, मञ्जरीस्वप्नसूचिता ॥ इति तामवदत्तातो, नाम्ना मदनमञ्जरी ॥२३॥ क्रमाच्च वर्द्धमाना सा, कल्पवल्लीव नन्दने ॥ जगन्मनोहरं प्राप, यौवनं रूपपावनम् ॥२४॥ आदर्शादिषु संक्रान्तात्, तदीयप्रतिबिम्बतः ॥ अन्यत्र नाभवत्तस्या, रूपस्यानुकृतिः क्वचित्
UTR-2
अध्य. ९
॥२६॥
Page #29
--------------------------------------------------------------------------
________________
उत्तराध्य
अध्य.९
यनसूत्रम्
॥ २७ ॥
॥ २५ ॥ इतश्चोज्जयनीभर्तु-श्चण्डप्रद्योतभूभृतः ॥ दूतः केनापि कार्येण, काम्पिल्यनगरं ययौ ॥१६॥ स च प्रत्यागतोऽवन्तीमिति प्रद्योतमब्रवीत् ॥ स्वामिन् ! काम्पिल्यनाथस्य, जातमस्ति मुखद्वयम् ॥२७॥ राज्ञाथ कथमित्युक्ते, सोऽवादीत्तस्य भूपतेः ॥ मौलिरेकोऽस्ति तस्मिंश्चा-रोपिते स्यान्मुखद्विकम् ॥२८॥ तच्छ्रुत्वा स नृपो जात-लोभः कोटीरहेतवे ॥ वाग्मिनं प्राहिणोदूतं, पार्श्वे द्विमुखभूभुजः ॥२९॥ ततः स गत्वा नत्वा च, पाञ्चालाधीशमब्रवीत् ॥ चण्डप्रतापः श्रीचण्ड-प्रद्योतस्तेऽवदत्यदः ॥३०॥ मुखद्वयकरं मौलि-रत्नं मे प्रेषयेर्दुतम् ॥ नो चेद्रणाय प्रगुणो, भवेः किं भूरिभाषितैः? ॥३१॥ ततोऽवादीनृपो दूत ! यदि प्रद्योतभूधवः ॥ दत्ते मे याचितं किञ्चित्, तदाहमपि तं ददे ॥३२॥ किं वः प्रार्थ्यमिति प्रोक्ते, दूतेन माधवोऽभ्यधात् ॥ रदांशुनिकरान्मिश्र - स्मितविच्छुरिताधरः ॥३३॥ गन्धद्विपोऽनलगिरि - रग्निभीरू रथोत्तमः ॥ राज्ञी शिवाभिधा' लोह -जङ्घ सन्देशहारकः ॥३४॥ स्वराज्यसाराण्येतानि, दीयन्ते तेन चेन्मम ॥ तदा मयापि मुकुटो, राज्यसारः प्रदीयते ! ॥३५॥ गत्वा दूतोऽपि तत्सर्वं, प्रद्योताय न्यवेदयत् ॥ ततो दिदीपे तस्योच्चैः, कोपो वायोरिवानलः ॥३६॥ ततो भेरी प्रयाणार्थं, प्रवाद्योज्जयनीपतिः ॥ चचाल प्रति पाञ्चालं, चलयनचलां बलैः ॥३७॥ पूरयन्तो दिशः सर्वा, बृंहितैर्गर्जितैरिव ॥ धारासारैरिव रसां, सिञ्चन्तो मदवारिभिः ॥३८॥ स्वर्णादिभूषणैर्विद्युद्द
ण्डैरिव विराजिताः ॥ लक्षद्विकं द्विपा रेजु-स्तत्सैन्येऽब्दा इवाम्बरे ॥३९॥ (युग्मम् ) पञ्चायुतानि तुरगा-स्त्वराधरितवायवः ॥ Pe तत्सेनां भूषणानीवा - म्बुजनेत्रां व्यभूषयन् ॥४०॥ आयुक्तवाजिनो नाना-विधैः प्रहरणैर्भूताः ॥ शताङ्गा विंशतिशती-मितास्तत्र
विरेजिरे ॥४१॥ तद्बलं प्रबलं चक्रु-विक्रमक्रमशालिनाम् ॥ कृतवैशिवपत्तीनां, पत्तीनां सप्त कोटयः ॥४२॥ सज्जया सज्जयार्थिन्या, संयुतः सेनयाऽनया ॥ पाञ्चालसन्धिमच्छिन्नैः, प्रयाणैः स नृपो ययौ ॥४३॥ तञ्चायान्तं चरैख़त्वा, द्विमुखोऽपि महाबलः॥
UTR-2
॥२७॥
Page #30
--------------------------------------------------------------------------
________________
उत्तराध्य
AC
अध्य.९
यनसूत्रम्
॥२८॥
जयेच्छुराजयेऽगच्छत्, सीम्नि देशस्य संमुखः ॥४४॥ दुर्भेदं गरुडव्यूह, चण्डप्रद्योतपार्थिवः ॥ स्वसैन्ये विदधे वार्धिव्यूह द्विमुखराट् पुनः॥ ४५॥ उत्साहितेषु वीरेषु, रणनिस्वाननिस्वनैः ॥ अथ प्रववृते युद्धं, सैन्ययोरुभयोर्मिथः ॥४६॥ तदा च शस्त्रसङ्गोत्थस्फुलिङ्गकणवर्षणैः ॥ वीराः केऽपि दिवाप्युल्का-पातोत्पातमदर्शयन् ॥ ४७॥ लघुहस्ता भटा: केऽपि मुमुचुर्विशिखांस्तदा । तदादानधनुासा-कर्षणादिष्वलक्षिताः ॥४८॥निस्त्रिंशैनिशितैः केऽपि, कुम्भिकुम्भानभेदयन् ॥ तुङ्गानि शैलशृङ्गाणि, तडिद्दण्डैरिवाम्बुदाः | ॥४९॥ केचिद्भटोत्तमा भिन्न-देहा अप्यभिमानिभिः ॥ घातव्यथां न विविदुः, सम्परायपरायणाः।। ५०॥ दण्डैरखण्डयन् केऽपि, विपक्षान् केऽपि मुद्गरैः ॥ सशल्यांश्चक्रिरे शल्यैः, केचित्केचित्तु शक्तिभिः ॥५१॥ एवं रणे जायमाने, कालरात्रिनिभे विशाम् ॥ मौलेस्तस्य प्रभावेणा- जय्योऽभूद्विमुखो नृपः ॥५२॥ तत्सैन्येन ततोऽपास्तं, प्रद्योतस्याखिलं बलम् ॥ विदुद्राव द्रुतं भानु -धाम्ना धाम विधोरिव ॥५३॥ तदा चोज्जयनीनाथं, नश्यन्तं द्विमुखो द्रुतम् ॥ जग्राह शशकग्राहं, क्रौञ्चबन्धं बबन्ध च ॥ ५४॥ तं गृहीत्वाविशद्भूमा - नुत्पताकं निजं पुरम् ॥ सानन्दं बन्दिभिरिव, पौरैः कृतजयारवः ॥५५॥ न्यधापयच्च निबिडं, निगडं तत्पदाब्जयोः ॥ महानपि जनो लोभात्, कां का नापदमश्नुत ? ॥ ५६ ॥ प्राप्तोपि दुर्दशां दैवा-न्मा नृपः खिद्यतामयम् ॥ इति तं सुखितं चक्रे, भूपः स्नानादनादिना ॥५७॥ राज्ञोऽभ्यणे सभास्थस्य, प्रद्योतोऽप्यन्वहं ययौ ॥ न्यवीविशद्विशामीशो-ऽर्धासने तञ्च गौरवात् ।।५८॥
अन्यदा च सुतां राज्ञो, दृष्ट्वा मदनमञ्जरीम् ॥ प्रद्योतो जातगाढानु-गोऽभूदाढमाकुलः ॥५९॥ ध्यायतस्तस्य तां सृष्टेः, सारं सारङ्गलोचनाम् ॥ नागान्निद्रा निशालुः, कामिनीवापरा रतेः ॥६०॥ स्मरोन्मादसमुद्भूत - चिन्तादाघज्वरादितः ॥ पुष्पतल्पेऽपि सुप्तोऽसौ, स्वास्थ्यं नाप मनागपि ॥६१॥ वर्षायितां च तां रात्रिं, कथञ्चिदतिवाह्य सः ॥ प्रातः सभां ययौ तञ्चो-द्वीग्नं वीक्ष्याब्रवी
UTR-2
॥२८॥
Page #31
--------------------------------------------------------------------------
________________
उत्तराध्य
अध्य.९
यनसूत्रम्
॥ २९ ॥
नृपः ॥ ६२ ॥ अद्य ते विद्यते राजन्! किं पीडा कापि रोगजा? ॥ हेमन्तेऽब्जमिव म्लान -मास्यं ते कथमन्यथा ! ॥६३॥ पृष्टोऽप्येवं प्रतिवचः, प्रद्योतो न ददौ यदा ॥ तदातिव्याकुलो भूपः, सनिर्बन्धमदोऽवदत्॥ ६४॥ राजन् ! प्रतिवचो देहि, निवेदय निजां व्यथाम् ।। अब्रुवाणे त्वयि कथं, भाविनी तत्प्रतिक्रिया ? ॥६५॥ ततः स दीर्घ निःश्वस्य, जगौ लज्जां विहाय च ॥ न व्याधिर्बाधते राजन् !, बाधते किन्तु मां स्मरः ॥६६॥ तच्चेदिच्छसि मे क्षेम, तदा मदनमञ्जरीम् ॥ देहि पुत्री निजां मह्यं, नो चेद्वह्नौ विशाम्यहम् ॥६७॥ द्विमुखोऽपि ददौ तस्मै, निजां पुत्रीं महामहै:॥ ताञ्चावाप्य निजं जन्म, सोऽपि धन्यममन्यत ॥ ६८॥ व्यसृजद्विमुखस्तं | चा - न्यदा दत्वा हयादिकम् ।। प्रद्योतोऽपि ततोऽयांसी- त्पुरीमुज्जयनी मुदा ॥६९ ॥
उपस्थिते शक्रमहे- ऽन्यदा च द्विमुखो नृपः॥ नागरानादिशच्छक्र- ध्वजः संस्थाप्यतामिति ॥७०॥ ततः पटुध्वजपटं, कि| ङ्किणीमालभारिणम् ॥ माल्यालिमालिनं रत्न-मौक्तिकावलिशालिनम् ॥७१॥ वेष्टितं चीवरवरै- नान्दीनि?षपूर्वकम् ।। द्रुतमु| त्तम्भयामासुः पौराः पौरन्दरं ध्वजम् ॥७२॥ (युग्मम् ) अपूजयन् यथाशक्ति, तं च पुष्पफलादिभिः ॥ पुरस्तस्य च गीतानि, | जगुः केऽपि शुभस्वराः ॥ ७३॥ केचित्तु ननृतुः केचि-दुच्चैर्वाद्यान्यवादयन् ॥ अर्थितान्यर्थिनां केऽपि, ददुः कल्पद्रुमा इव ॥ ७४॥
कर्पूरमिश्रघुसृण - जलाच्छोटनपूर्वकम् ॥ मिथः केचित्तु चूर्णानि, सुरभीणि निचिक्षिपुः ।। ७५॥ एवं महोत्सवैरागा- पूर्णिमा सप्तमे दिने ॥ तदा चापूजयद्भूरि- विभूत्या भूधवोऽपि तम् ॥७६॥ सम्पूर्णे चोत्सवे वस्त्र - भूषणादि निजं निजम् ॥ आदाय काष्ठशेषं | तं, पौरा: पृथ्व्यामपातयन् ॥ ७७ ॥ परेधुस्तञ्च विण्मूत्र - लिप्तं कुस्थानसंस्थितम् ॥ आक्रम्यमानं बालाद्यै -भूपोऽपश्यबहिर्गतः ॥ ७८ ॥ ततः संवेगमापन्नो दध्यौ चैवं धराधिपः। य एवं पूज्यमानोऽभू-त्सर्वैर्लोकैर्गतेऽहनि ॥ ७९ ॥ स एवाद्य महाकेतुः
UTR-2
॥२९॥
Page #32
--------------------------------------------------------------------------
________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥३०॥
प्राप्नोत्येतां विडम्बनाम् ॥ दृश्यते क्षणिकत्वं तत् , क्षणिकानामिव श्रियाम् ॥८०॥ आयाति याति च क्षिप्रं, या सम्पत्सिन्धुपूरवत् ॥ पांशुलायामिव प्राज्ञ-स्तस्यां को नाम रज्यते ? ॥ ८१॥ त्यक्त्वा विडम्बनप्रायां, तदेनां राज्यसम्पदम् ॥ श्रये निःश्रेयसकरी, शमसाम्राज्यसम्पदम् ॥ ८२॥ ध्यात्वेति विध्यातममत्ववह्निः, कृत्वा स्वयं लोचमुपात्तदीक्षः ॥ प्रत्येकबुद्धो द्विमुखः सुपर्व -वितीर्णलिङ्गो व्यहरत् पृशिव्याम् ।। ८३॥(इति श्रीद्विमुखनृपकथा ॥२॥)
अथ प्रत्येकबुद्धस्य, नमिनाम्नो महात्मनः ॥ वलयात् प्रतिबुद्धस्य, तृतीयस्य कथां ब्रुवे ॥१॥ तथा ह्यत्रैव भरते, देशे मालवकाभिधे । आसीद्दासीकृतस्वर्ग, सुदर्शनपुरं पुरम् ॥२॥ तत्रासीच्छत्रुवित्रासी, राजा मणिरथाभिधः ।। युगबाहुस्तदनुजो, युवराजोऽभवत्सुधीः ॥३॥ सौन्दर्येणातिवर्येण, जयन्ती जयवाहिनीम् ॥ जिनवाणीसुधापान - ध्वस्ताज्ञानहलाहला ॥४॥ निश्चलं शैलरेखावद्दधती शीलमुत्तमम् ॥ युगबाहोश्च मदन-रेखासंज्ञाऽभवत्प्रिया ॥ ५ ॥(युग्मम् ) तस्या गुणामृतापूर्ण-श्चन्द्रोज्ज्वलयशोद्युतिः। सुतश्चन्द्रयशाश्चन्द्र, इवानन्दप्रदोऽभवत् ॥६॥ भ्रातृजायां तां च दृष्ट्वा- ऽन्यदा मणिरथो नृपः॥ इत्यन्तश्चिन्तयामास, व्यथितो मान्मथैः शरैः॥७॥ यदि भोगान्न भुञ्जेऽह-मनयाङ्गनया समम् ॥ अवकेशिद्रुमस्येव, तदा मे निष्फलं जनुः ॥८॥ कथं पुनर्विना रागं, स्यादस्याः सङ्गमो मम ॥ नोकपक्षया प्रीत्या, कामिनां कामितं भवेत् ! ॥ १ ॥ तदस्याः प्रणयोत्पत्ते - रुपायान् रचयाम्यहम् ॥ पश्चाद्विज्ञाय तद्रावं, करिष्टानि यथोचितम् ॥१०॥ध्यात्वेति तस्यै ताम्बूल- पुष्पभूषांशुकादिकम् ॥ प्रेषीद्दास्या समं काम -विव|शानापहो ! कधीः ।।१। सा तु ज्येष्ठप्रसादोऽय-मिति ध्यात्वा तदाददे ॥ अथान्यदा नृपोऽवादी-द्विजने तामिति स्वयम् ॥१२॥ त्वद्रूपं प्रेक्ष्य रक्त मां, पुमांसं स्वीकरोषि चेत् ॥ सुन्दरि ! त्वां तदा कुर्वे , स्वामिनी राज्यसम्पदाम् ॥१३॥ सा प्रोचे स्त्रीत्वषण्ढत्व
UTR-2
॥३०॥
Page #33
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥ ३१ ॥
हीनस्य भवतः स्वतः ॥ पुंस्त्वमस्त्येव तत्कस्मान्मया न प्रतिपद्यते ॥ १४॥ त्वद्भ्रातुर्युवराजस्य, पल्या मे राज्यसम्पदः ॥ स्वाधीना एव सन्तीति शून्यमेतत्प्रलोभनम् ॥१५॥ किञ्च "स्वीकुर्वते मृत्यु-मपि सन्तो महाशयाः ॥ लोकद्वयविरुद्धं तु, न चिकीर्षन्ति जातुचित् ! ॥ १६ ॥ अन्योच्छिष्टान्नवच्छिष्टाः, परामपि पराङ्गनाम् ॥ नेच्छन्ति किं पुनः पुत्री तुल्यां भ्रातुर्लघोः स्त्रियम् ॥१७॥ परनारीरिरंसापि, रावणस्येव दुःखदा । महतामपि जायेत तन्महाराज ! मुञ्च ताम् ॥१८॥ तच्छ्रुत्वा दुष्टधीकूपो भूपोऽन्तर्ध्यातवानिति ॥ युगबाहुर्भवेद्यावत्तावन्नेच्छति मामसौ ॥ १९ ॥ तद्विस्त्रम्भेण तं हत्वा ग्रहीष्येऽहं बलादमूं ॥ स भ्रातापि रिपुर्नूनं, योऽस्याः सङ्गेऽन्तरायकृत् ॥२०॥ इति ध्यात्वा स पापात्मा, भ्रातुश्छिद्राण्यमार्गयत् ॥ कामभूतातुराणां हि सुत्यजं स्नेहचीवरम् ॥२१॥ मदना तु न तां वार्तां जगाद युगबाहवे ॥ निवृत्तो मद्गिरा ज्येष्ठो, दुर्भावादिति जानती ॥ २२ ॥ सा चान्यदा विधुं स्वप्ने, दृष्ट्वा पत्ये न्यवेदयत् ॥ सोऽप्यूचे चन्द्रवद्विश्वा- नन्दिनं लप्स्यसे सुतम् ॥२३॥ ततः प्रमुदितस्वान्ता, सुतगर्भं बभार सा ॥ पारिजाततरोर्बीज-मिव मेरुवसुन्धरा ॥ २४ ॥ पूजयामि जिनान् साधून्, शृणोमि जिनसङ्कथाः ॥ इत्यभूद्दोहदस्तस्याः, काले गर्भानुभावतः ॥ २५ ॥ तस्मिंश्च दोहदे पूर्णे, गर्भः स ववृधे सुखम् ॥ अथान्यदा वसन्तर्तु रागाद्रागिजनप्रियः ॥ २६ ॥ मलयानिलशैलूषप्रयोगारब्धनर्तनाः ॥ दधद्वल्लीनटीर्वेल्ल त्पल्लवोल्लासिहस्तकाः ॥२७॥ माकन्दमञ्जरीपुञ्ज-मञ्जुगुञ्जदलिव्रजम् ॥ कोकिलध्वनिमन्त्रास्त- मानिनीमानकुग्रहम् ॥२८॥ पुष्पिताशोकतिलक-लवङ्गबकुलाकुलम् ॥ विस्मेरकुसुमस्त्रस्त- परागक्लिन्नभूतलम् ॥ २९ ॥ क्रीडा - सक्तप्रियायुक्त- व्यक्तकिन्नरसेवितम् ॥ हृच्चौरगौरपौरस्त्री - गीतानीतमृगव्रजम् ॥३०॥ वसन्तसङ्गमाद्रम्य मुद्यानं रन्तुमुद्यतः । प्रमदात्प्रमदायुक्तो युगबाहुर्ययौ तदा ॥ ३१॥ (पञ्चभिः कुलकम् ) दिनं च नानालीलाभि रतिवाह्य स निश्यपि । तत्रैवास्थादल्पतंत्रो,
UTR-2
अध्य. ९
॥३१॥
Page #34
--------------------------------------------------------------------------
________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥३२॥
रम्भावेश्मनि चास्वपीत् ॥ ३२॥ तदा मणिरथो दध्यौ, स्वल्पतन्त्रो ममानुजः ॥ निशाव्याप्ततमोघोरे, बाह्योद्यानेऽद्य तिष्ठति ॥३३॥ तत्तत्र गत्वा तं हत्वा, पूरयिष्यामि कामितम् ।। ध्यात्वेति खड्गमादाय, ययावुद्यानमुद्यतः॥३४॥ यामिकानिति चाप्राक्षी - युगबाहुः क विद्यते ? ॥ रम्भागृहेऽत्र सुप्तोऽस्ती - त्यूचिरे तेऽपि सम्भ्रमात् ॥३५॥ मा भूभ्रातुर्वनस्थस्यो - पद्रवः कश्चिदित्यहम् ॥ इहागामिति सञ्जल्पन्, सोऽपि रम्भागृहेऽविशत् ॥३६॥ ससम्भ्रमं समुत्थाय, नमन्तं स्माह चानुजम् ॥ भ्रातर्नात्र निशि स्थातुं, युक्तमागच्छ तत्पुरे ॥३७॥ उल्लंघ्या नाग्रजस्याज्ञा, तातस्येवेति चिन्तयन् ॥ युगबाहुस्ततो याव-त्पुरे गन्तुं प्रचक्रमे ॥३८॥ तावत्यापापकीर्त्यादिभयमुत्सृज्य दुर्मतिः॥ ग्रीवायामसिना भूप-स्तं विश्वस्तं जघान सः ! ॥३९॥ प्रहारवेदनाक्रान्ते, तस्मिंश्च पतिते भुवि ॥ अहो! अक्षत्रमक्षत्रं, पूच्चकारेति तत्प्रिया ॥४०॥ ततो दधाविरे कृष्ट-मण्डलाग्रोद्भटा भटाः ॥ किमेतदस्तीत्यूचाना-नित्यूचे तांश्च भूपतिः ॥ ४१ ॥ मत्करात्पतितः खगः, प्रमादात्तदलं भिया ॥ तेनेत्युक्ते च तेऽजानन्, सर्वं तस्य कुचेष्टितम् ॥ ४२ ॥ ततो मणिरथं दूर-मपसार्य बलेन ते ॥ युगबाहो: स्वरूपं तत्, तत्पुत्राय न्यवेदयन् ॥४३॥ सोऽपि शोकाकुलो वैद्यान्, समाहूयाग| मद्वने ॥ व्रणकर्माणि यत्नेन, पितुश्चाकारयत्कृती ॥ ४४॥ क्षणान्तरे च निश्चेष्टो, नष्टवाग्मीलितेक्षणः ॥ युगबाहुरभूद्रक्त-निर्गमा| त्पाण्डुविग्रहः ।। ४५ ॥ ततो ज्ञात्वा तमासन्न - मृत्युं धीरा मृदुस्वरम् ॥ प्रोचे मदनरेखेति, तत्कर्णाभ्यर्णमाश्रिता ॥४६॥ धीर ! धीरत्वमादृत्य, चेतःस्वास्थ्यमुरीकुरु ॥ कस्याप्युपरि रोषं च, मा कार्षीस्त्वं धियांनिधे ! ॥४७॥ सहस्व व्यसनं चेद-मागतं निजकर्मणा ॥ अपराध्यति जन्तोर्हि, निजं कर्मैव नापरः ॥४८॥ उक्तञ्च-"जं जेण कयं कम्मं, अन्नभवे इहभवे अ सत्तेणं ॥ तं तेण वेइअव्वं, निमित्तमित्तं परो होइ ॥४९॥" किञ्चार्हत्सिद्धनिर्ग्रन्थ - धर्माणां शरणं कुरु ॥ जीवहिंसादीनि पाप-स्थानान्यष्टादश त्यज ॥५०॥
UTR-2
॥३२॥
Page #35
--------------------------------------------------------------------------
________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥३३॥
महामते ! गृहाण त्वं, परलोकाध्वशम्बलम् ॥ शल्यवदुःखदानिन्द, दुराचारान् पुराकृतान् ॥५१॥ क्षमयस्वापराधञ्च, सर्वेषां प्राणिनां प्रभो ! ॥ तत्कृतानपराधांश्च, क्षमस्व त्वमपि स्वयम् ॥५२॥ नाशयेन्निजमेवार्थं, द्वेषस्तस्माद्विमुञ्च तम् ॥सुहृदो मम सर्वेऽपि, जीवा इति विभावय ॥५३॥ देवं सर्वज्ञमहन्तं गुरूंश्च गुणिनो मुनीन् ॥धर्म जिनप्रणीतं च, यावज्जीवमुरीकुरु॥५४॥जीवहिंसा- नृतस्तेयाब्रह्मचर्यपरिग्रहान् ॥ त्रिविधं त्रिविधेन त्वं, प्रत्याख्याहि महामते ! ॥ ५५ ॥ धनस्वजनमित्रादा-वभिष्वङ्गच मा कृथाः ॥ न हि प्राणभृतां तानि, भवेयुः शरणं भवे ॥५६॥ धर्मो धनं सुहृद्बन्धु-रिति चान्तर्विभावय ॥ दुःखहृत्सुखदाता च, यत्स एवात्र जन्मिनाम् ॥५७॥ इदानीं मुञ्च सावद्य-माहारञ्च चतुर्विधम् ॥ उच्छ्वासे चरमे देह-मपि व्युत्सृज धीर ! हे ॥५८॥ स्मृतेन येन पापोऽपि, जन्तुः स्यान्नियतं सुरः ॥ परमेष्ठिनमस्कार-मन्त्रं तं स्मर मानसे ॥५९॥ इत्यादि तद्वचः सर्वं, स्वमौलिरचिताञ्जलिः ॥ युगबाहुः प्रतिपेदे, विपेदे च क्षणान्तरे ॥ ६०॥ पञ्चमे सुरलोके च, शक्रतुल्यः सुरोऽभवत् ॥ अहो ! महीयान् महिमा, धर्मस्य धुमणेरपि ॥ ६१ ॥ ततः प्रववृते चन्द्र-यशा: क्रन्दितुमुन्मनाः ।। दध्यौ मदनरेखा तु, धीरधीरिति चेतसि ॥ ६२ ॥ धिग् धिग् लोभमिवानर्थ-मूलं रूपमिदं मम ॥ यद्वीक्ष्य क्षुब्धचित्तेन, राज्ञा भ्रातापि मारितः ॥ ६३ ॥ असारस्यास्य रूपस्य, हेतोः क्षणविनाशिनः ॥ धिक् कृतं तेन मूढेन, किमकार्यमिदं हहा! ॥ ६४ ॥ अथायं पापकृच्छीला-पायं कर्ता बलान्मम ॥ तदर्थमेवानर्थोऽय-मनेन विहि- | तोऽस्ति यत् ॥६५॥ सिंहस्य केसराः सत्याः, शीलं फणिपतेर्मणिः ॥ प्राणेषु सत्सु नो हर्तुं, शक्यन्ते किन्तु केनचित् ।। ६६ ॥ यतिष्ये परलोकार्थ, तद्गत्वा नीवृदन्तरे ॥ नो चेन्मे पुत्रमप्येतं, हनिष्यति स दुष्टधी: ! ॥६७ ॥ ध्यात्वेति सा महासत्त्वा, निशीथे निर-| गात्ततः ॥ अलक्षिता चन्द्रयशो-मुख्यैः शोकांशुकावृतैः ॥ ६८ ॥ पूर्वामभिव्रजन्ती च, भूरि दुःखभरातुरा ॥ प्रातः प्रापाटवीमेकां,
UTR-2
॥३३॥
Page #36
--------------------------------------------------------------------------
________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥३४॥
नैकश्वापदसङ्कुलाम् ॥ ६९॥ तत्र यान्ती च मध्याह्ने, प्रापदेकं महासरः ॥ मुखादि तत्र प्रक्षाल्य, प्राणवृत्तिं व्यधात्फलैः ॥ ७०॥ साकारानशनं कृत्वा, साथ मार्गश्रमाकुला ॥ तद्व्यपोहाय तत्रैवा- रण्ये रम्भागृहेऽस्वपीत् ।।७१॥ क्रमाच्च पद्मिनीनाथे, रागवत्यपरा|ङ्गते ॥ तद्दुःखादिव सङ्कोच - माश्रिते पद्मिनीकुले ॥७२॥ रविकण्ठीरवाभावा-निःशङ्कं भुवने वने ॥ विहरत्सु तमःपुञ्ज-कुञ्जरेषु निरन्तरम् ॥७३॥ उडुपूज्जृम्भमाणेषु, निशावल्लीसुमेष्विव ॥ निशावियुक्ते चक्राङ्ग-चक्रे क्रन्दति दारुणम् ॥ ७४॥ तमोभिव्याप्तिगहनी-भूते च गहनान्तरे ॥ रात्रिर्जातेत्यवहिता, सा बभूव महासती ॥ ७५॥ (चतुर्भिः कलापकम् ) तदा च व्याघ्रसिंहादि-गुञ्जि तैयूंकघूत्कृतैः ॥ घोणिघोणारवैाल-फूत्कृतैः फेरुफेत्कृतैः ॥ ७६ ॥ बिभ्यती सा नमस्कार - मन्त्रं सस्मार मानसे । स हि सर्वास्व - वस्थासु सहायो हेतुमन्तरा ॥७७॥ ( युग्मम् ) अर्धरात्रे च तत्कुक्षा-वुत्पेदे भूयसी व्यथा ॥ मार्गश्रमभयोद्भूत-गर्भसञ्चलनोद्भवा ॥ ७८॥ सुषुवे साथ कृच्छ्रेण, सुतं लक्षणलक्षितम् ॥ तत्स्पर्धयेव पूर्वापि, बालार्क सुषुवे तदा ॥७९॥ तयोरेव तदा जज्ञे, बालयो - रुपमा मिथः ॥ सच्चक्रानन्दिनोस्तेज-स्विनो: कोमलपादयोः ॥८०॥ कन्धरालम्बितयुग-बाहुनामाङ्कमुद्रिकम् ॥ तं बालं तत्र मुक्त्वाथ, रत्नकम्बलवेष्टितम् ॥ ८१॥ स्वं मनो रक्षकमिव, तत्समीपे विमुच्य सा ॥ ययौ सरसि वासांसि, क्षालयामास तत्र च ॥ ८२॥ (युग्मम् ) मज्जनाय प्रविष्टां च, तटाके तां जलद्विपः ॥ धावन् करेण जग्राह, बकोटः शफरीमिव ।। ८३ ॥ उच्चैरुल्लालयामास, तां स कन्दुकलीलया ॥ आयाति दुर्दशायां हि, स्वाजन्यादिव दुर्दशा ॥ ८४॥ पतन्तीमम्बरात्तां च , नेत्रकैरवकौमुदीम् ॥ विद्याधरोऽग्रहीनन्दी-श्वरद्वीपं व्रजन् युवा ॥४५॥ वैताढ्ये तेन नीता च, रुदती सा तमब्रवीत् ॥ गतरात्रौ महाभाग ! प्रसूतास्मि सुतं वने ॥८६॥ तं च रम्भागृहे मुक्त्वा स्नानार्थं सरसीं गता ॥ जलद्विपेनोत्क्षिप्ताहं, पतन्ती भवताऽऽददे ॥८७॥ तत् श्वापदेन केनापि,
UTR-2
॥३४॥
Page #37
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ।। ३५ ।।
स बालो मारयिष्यते ॥ आहारविरहाद्यद्वा स्वयमेव मरिष्यति ॥८८॥ तन्मे पुत्रप्रदानेन प्रसादं कुरु सुन्दर ! ॥ तमिहानय तत्राशु, नय मां वा नयाश्रय ! ॥ ८९ ॥ उवाच खेचरश्चेन्मां, रमणं प्रतिपद्यसे ॥ तदा सदा दास इवा ऽऽदेशकारी भवामि ते ॥ ९० ॥ किञ्चात्र शैले गान्धार - देशे रत्नावहे पुरे ॥ श्रेणिद्वयप्रभुरभू - न्मणिचूडाभिधो नृपः ॥ ९१ ॥ तस्य पुत्राऽस्मि कमला-वतीकुक्षीसमुद्भवः ॥ नाम्ना मणिप्रभो भूरि महाविद्याबलान्वितः ॥९२॥ अन्यदा मत्पिता श्रेणि द्वयराज्यं प्रदाय मे ॥ चारणश्रमणोपान्ते विरक्तो व्रतमाददे ॥९३॥ क्रमाच्च विहरन्नत्रा - ऽऽगतः सोऽभूद्गतेऽहनि । चैत्यानि वन्दितुं नन्दीश्वरे चाद्य गतोऽधुना ॥ ९४ ॥ तच नन्तुं व्रजंस्तत्र, त्वां पतन्तीं विहायसः ॥ कल्पवल्लीमिवानन्द -दायिनीमहमाददे ॥ ९५ ॥ ततो यथा रक्षिता त्वं, पतनोपद्रवान्मया ॥ मदनोपद्रवाद्भद्रे !, तथा त्वमपि रक्ष माम् ॥ ९६ ॥ अन्यच्च त्वत्सुतं वाहा पहृतो मिथिलापतिः ॥ निरपत्योऽग्रहीत्पद्म-रथराट् पर्यटन् वने ॥९७॥ क्षणान्मिलितसैन्यश्च गत्वा पुर्यां तमार्पयत् ॥ महिष्याः पुष्पमालायाः, सापि तं पाति पुत्रवत् ॥९८ ॥ प्रज्ञप्ती - विद्यया ह्येत न्मयोक्तं तच्च नान्यथा । तत्प्रसीद शुचं मुञ्च, सफलीकुरु यौवनम् ॥९९॥ मां विधायाधिपं सर्व खेचरीणां भवेश्वरी ॥ दृशा वाचा च मां रक्तं सम्भावय सुलोचने ! ॥१००॥ तदाकर्ण्य सती दध्यौ, विपाकः कर्मणामहो ! ॥ अन्यान्यव्यसनाऽङ्कुर - पूरधात्री भवामि यत् ! ॥ १०१ ॥ विहाय पुत्रसाम्राज्य - परिच्छदधनादिकम् ॥ यत्त्रातुं निरगां भङ्ग - स्तस्येहाप्युपतिष्ठते ! ॥ १०२ ॥ तत् प्राणिनामपुण्यानां गरीयानप्युपक्रमः ॥ दुःखायैव भवेत्किं वा, पौरुषं विमुखे विधौ ॥ १०३ ॥ यदुक्तं - "छित्त्वा पाशमपास्य कूटरचनां भङ्क्त्वा बलाद्वागुरां । पर्यन्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं वनात् ॥ व्याधानां शरगोचरादपि जवादुत्प्लुत्य धावन्मृगः । कूपान्तः पतितः करोतु विधुरे किं वा विधौ पौरुषम् ? ॥ १०४ ॥ "
UTR-2
अध्य. ९
॥३५॥
Page #38
--------------------------------------------------------------------------
________________
YE
उत्तराध्य
अध्य.९
यनसूत्रम्
॥३६॥
सत्यप्येवं मया शीलं, नैव त्याज्यं कथञ्चन ॥ पीडनव्यसनेऽपीक्षु - माधुर्यं किं विमुञ्चति ? ॥ १०५।। अयञ्च मदनोन्मादोन्मत्तो वेत्ति न किञ्चन ॥ तदुपायेन केनामुं, दुर्बोधं बोधयाम्यहम् ॥१०६॥ अस्य व्याक्षेपहेतोर्वा, कालक्षेपं करोम्यहम् ॥ स हि | प्रशस्यते प्राज्ञै-रशुभे समुपस्थिते ॥ १०७॥ ध्यात्वेति साभ्यधाद्दक्ष !, नीत्वा नन्दीश्वरेऽद्य माम् ॥ देवान् वन्दय तत्राहं, करिष्यामि तव प्रियम् ॥१०८॥ ततः स तां विमानस्थां, हृष्टो नन्दीश्वरेऽनयत् ॥ तत्र चार्हद्गृहाः सन्ति, द्वापञ्चाशदनश्वराः ॥१०९॥ दीर्धेषु योजनशतं, तदर्धं पृथुलेषु च ॥ चैत्येषु तेषु तुङ्गेषु, योजनानि द्विसप्ततिम् ॥११०॥ चतुर्विशं शतं सन्ति, प्रतिमाः शाश्वतार्हताम् ॥ सर्वरत्नमयाः पञ्च-धनुः शतसमुच्छ्याः ॥१११॥ (युग्मम् ) ततो विमानादुत्तीर्य, मदनाखेचरी मुदा ॥ पूजापूर्वमवन्देतां, ऋषभाद्यान् जिनोत्तमान् ॥ ११२॥ चतुर्ज्ञानधरं तं च, मणिचूडमहामुनिम् ॥ तावुभावपि वन्दित्वा, यथौचित्यं न्यषीदताम् ॥ ११३ ॥ ततो ज्ञानेन विज्ञाय, मदनाचरितं मुनिः ॥ धर्मं मणिप्रभायेति, समयाईमुपादिशत् ॥११४॥ ब्रह्मचर्यं परब्रह्म-निदानं सम्पदा पदम् ॥ पालनीयं यथाशक्ति, सर्वतो देशतोऽथवा ॥११५॥ सर्वस्त्रीणां परित्यागे, सर्वतो ब्रह्म कथ्यते ॥ परनारीनिषेधे तु, तदुक्तं देशतो जिनैः ॥११६॥ ततो यः सकला नारी -विहातुं न प्रभुर्भवेत् ॥ तेनापि पररामा तु, त्याज्या नरकदायिनी ॥११७॥ नरः परस्त्रियां रक्तः, क्षणिकं सुखमीक्षते ॥ न तु तत्सङ्गमोत्पन्न-मनन्तं दुःखमायतौ ॥११८॥ परस्त्रीसेवनात्सौख्य-मभिकांक्षति यो जडः ॥ विषवल्लीफलास्वादा-त्स हि वाञ्छति जीवितम् ! ॥११९॥ तत्कलङ्ककुलस्थानं, कीर्तिवल्लीकुठारिका ॥ हेया पराङ्गनाऽवश्यं, नर - काध्वप्रदीपिका ॥१२०॥ श्रुत्वेति खेचरो बुद्धः, क्षमयित्वा स तां जगौ ॥ अथ त्वमसि जामि, ब्रूहीष्टं किं करोमि ते ॥ १२१॥ सापि प्रीताब्रवीभ्रातः !, सर्वमिष्टं त्वया कृतम् ॥ इदं दर्शयता तीर्थं, वच्मि तत्किमतः परम् ॥१२२॥ अथ मे लघुपुत्रस्य, वृत्तान्तं
UTR-2
॥३६॥
Page #39
--------------------------------------------------------------------------
________________
उत्तराध्य
अध्य.९
यनसूत्रम्
॥३७॥
| कथय प्रभो ! ॥ तयेत्युक्तो मुनिः प्रोचे, शृणु भद्रे ! समाहिता ॥१२३॥ इहैव जम्बूद्वीपे प्राग् - विदेहावनिमण्डने ॥ विजये पुष्कला| वत्यां, पुरे श्रीमणितोरणे ॥१२४॥ जज्ञेऽमितयशाश्चक्री, तस्य पुष्पवती प्रिया ॥ तयोश्चास्तां सुतौ पुष्प-शिखरत्नशिखाभिधौ ॥१२५॥ | (युग्मम् ) राज्यं चतुरशीति स-त्पूर्वलक्षाः प्रपाल्य तौ ॥ प्राव्राजिष्टां भवोद्विग्नौ, चारणश्रमणान्तिके ॥१२६॥ चारित्रं पालयित्वा च, पूर्वलक्षाणि षोडश ॥ अभूतामच्युते कल्पे, शक्रसामानिको सुरौ ॥१२७॥ द्वाविंशति सागराणि, तत्र जीवितमुत्तमम् ॥ दिव्यैः सुखै
नवनवै- रतिवाह्य च्युतौ च तौ ॥१२८॥ धातकीखण्डभरते, हरिषेणार्धचक्रिणः ॥ समुद्रदत्तादेवीजा-वभूतां तनयावुभौ ॥१२९॥ a (युग्मम्) आद्यः सागरदेवाह्वो-ऽपरः सागरदत्तकः ॥ दृढसुव्रतसार्वान्ते, दान्तौ प्राव्रजतां च तौ ॥१३०॥ तृतीये चाह्नि सुध्यानौ,
तडित्पातेन मारितौ ॥ जातौ शुक्रे सुरौ सप्त-दशसागरजीवितौ ॥१३१॥ द्वाविंशस्याहतो नेमे - ज्ञानोत्पत्तिमहोत्सवम् ॥ विधातुं तौ गतौ देवा-विति प्रभुमपृच्छताम् ॥ १३२ ॥ इतो भवाच्च्युतावावां, कुत्रोत्पत्स्यावहे प्रभो ! ॥ स्वाम्यूचेऽत्रैव भरते, मिथिलाख्यास्ति सत्पुरी ॥१३३॥ तत्पतेर्युवयोरेको, जयसेनस्य नन्दनः ॥ भावी सुदर्शनपुरे, युगबाहोः परः पुनः ॥१३४॥ तत्त्वतस्तु युवां तत्र, पितापुत्रौ भविष्यथः ॥ इत्यर्हद्वाक्यमाकर्ण्य, तौ देवौ जग्मतुर्दिवम् ॥१३५॥ तयोश्चैक च्युतः पूर्वं, विदेहाभिधनीवृति । मिथिलायां महापुर्यां जयसेनस्य भूपतेः ॥१३६॥ महिष्या वनमालायाः, कुक्षौ समवतीर्णवान् ॥ क्रमाज्जातं च तं प्रोचे, नाम्ना पद्मरथं नृपः ॥१३७॥ (युग्मम्) यौवनस्थं च तं राजा, राज्ये न्यस्याददे व्रतम् ॥ ततः पद्मरथो राज्यं, शास्ति शस्तपराक्रमः ॥१३८॥ द्वितीयस्तु सुरश्च्युत्वा, भद्रे ! तव सुतोऽभवत् ॥ तञ्च रम्भागृहे मुक्त्वा , यावत्त्वं सरसीं गता ॥१३९।। तावत्तत्रागतः पद्म-रथोऽश्वापहतो भ्रमन् ॥ तं प्रेक्ष्य प्राग् भवप्रेम्णा, प्रमोदाद्वैतमासदत् ॥१४०॥ दुःस्थो निधिमिव स्नेहा-द्यावद्राजा तमाददे ॥ तावत्तत्सैन्यमप्यागा
UTR-2
॥३७॥
Page #40
--------------------------------------------------------------------------
________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥३८॥
त्तत्र वाजिपदानुगम् ॥१४१॥ गजारूढस्ततो राजा, पुर्यां गत्वा तमार्पयत् ॥ महिष्याः पुष्पमालाया-श्चक्रे जन्मोत्सवं तथा ॥१४२॥ पुण्यवांस्ते सुतो भद्रे !, ससुखं तत्र वर्धते ॥ सन्निधिः सन्निधिस्थायी, पुण्यं हि प्राणिनां भवे ॥१४३॥ एवं मुनौ वदत्येव, मणिस्तम्भविभूषितं ॥ किङ्किणीजालमुखरं, रुचिन्यञ्चितभास्करम् ॥१४४॥ शोभितं तोरणैर-मुखपत्रलतोपमैः ॥ लम्बमानोडुमालाभ-मुक्तादामविराजितम् ॥१४५॥ उत्तुङ्गशिखरं तूर्य - ध्वानापूर्णदिगन्तरम् ॥ रम्यं विमानं तत्रैक- मन्तरिक्षादवातरत् ॥१४६॥ | [त्रिभिर्विशेषकम् ] तस्माच्च निरगादेकः, सुरो भासुरभूषणः ॥ अमरीनिकरप्रोक्त-जयशब्दो महामहाः ॥ १४६॥ स त्रिः प्रदक्षिणी
कृत्य, मदनामादितोऽनमत् ॥ मुनि तु पश्चादानम्य, यथास्थानमुपाविशत् ॥१४८॥ निरीक्ष्यानुचितं तच्च, दूनचेता मणिप्रभः ॥ इत्युवाचामरं वाचा, न्यायपादपकुल्यया ॥१४९॥ सुरैर्नरवरैश्चात्र, नीतयो हि प्रवर्तिताः ॥ त एव चेत्ता लुम्पन्ति, तदान्येषां किमुच्यते ? ॥ १५०॥ कलितं सकलैः साधु -गुणैर्दोषैर्विनाकृतम् ॥ मुक्त्वा मुनिममुं देव !, किं त्वया प्राग् नताङ्गना ॥१५१॥ सुरोऽब्रवीदिदं सत्यं, शृणु किन्त्विह कारणम् ॥ आसीत्सुदर्शनपुरे, राजा मणिरथाभिधः ॥१५२॥ तेन स्वभ्रातृजायार्थ, युगबाहुर्निजोऽनुजः ॥ शिरोधावसिना जघ्ने, वसन्ते विपिने स्थितः ॥१५३।। स च कण्ठगतप्राणो-ऽनया मदनरेखया । नियमितः प्रापितश्च, जैनधर्म विपन्नवान् ॥१५४॥दशार्णवायुर्देवोऽभू-द्ब्रह्मलोके हरिप्रभः॥स चाहं पुण्यनैपुण्या- मेनां द्रष्टुमिहागमम् ॥१५५॥ यच्च सम्यक्त्वमूलं श्री जिनधर्ममियं सुधीः ॥ प्राग्भवे प्रापयन्मां त-द्धर्माचार्यो ह्यसौ मम ॥१५६॥ यदुक्तं-"जो जेण सुद्धधम्ममि ठाविओ संजएण गिहिणा वा ॥ सो चेव तस्स जायइ धम्मगुरू धम्मदाणाओ" ॥१५७॥ अत एव मया पूर्वं, नतासौ धर्मसेवधिः ॥ निशम्येति मनस्येवं, चिन्तयामास खेचरः ॥१५८॥ अहो ! श्रीजैनधर्मस्य, प्रभावो भुवनाद्भुतः ॥ सौख्यं ददाति निःसंख्यं, क्षणमात्रं
UTR-2
॥३८॥
Page #41
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥ ३९ ॥
श्रितोऽपि यः ॥ १५९ ॥ सुरोऽथ मदनामूचे, किं कुर्वेऽहं तवेहितम् ॥ सावादीत्तत्त्वतोऽभीष्टं कर्तुं नो यूयमीश्वराः ॥ १६० ॥ यन्मे जन्मजरामृत्यु - रोगादिरहितं हितम् । मुक्तिसौख्यं प्रियं तच्च, स्वोद्यमेनैव सिध्यति ॥ १६९ ॥ तथापि मां सुरप्रष्ठ ! मिथिलायां नय द्रुतम् ॥ परलोकहितं कुर्वे, यथा वीक्ष्य सुताननम् ॥ १६२॥ ततो देवेन सा निन्ये, मिथिलानगरी क्षणात् ॥ जन्मदीक्षाकेवलानां स्थानं मल्लीनमीशयोः ॥ १६३॥ तत्र पूर्वं जिनान्नत्वा, जग्मतुर्मदनासुरौ ॥ साध्वीनां सन्निधौ ताश्च प्रणम्याग्रे न्यषीदताम् ॥१६४॥ ततः साध्व्योऽभ्यधुर्धर्मं, यल्लब्ध्वा मानुषं भवम् ॥ धर्माधर्मविपाकञ्च ज्ञात्वा धर्मो विधीयताम् ॥१६५॥ "विघटन्ते हि जीवानां, धनभूघनबन्धवः ॥ धर्मस्तु नो विघटते, कदापि श्रीजिनोदितः " ॥ १६६ ॥ इत्यादिदेशनाप्रान्ते मदनामवदत्सुरः ॥ एहि यावो राजगेहे, द्रष्टुं सुतमुखाम्बुजम् ॥१६७॥ साब्रवीदथ मे प्रेम्णा, कृतं दुःखौघदायिना ॥ भवे हि भ्राम्यतां कस्को, नाभूद्बन्धुः पराऽथवा ॥ १६८ ॥ तद्ग्रहीष्याम्यहं दीक्षां त्वं तु स्वाभीष्टमाचर ॥ तयेत्युक्ते सुरो नत्वा, साध्वीस्ताञ्च ययौ दिवम् ॥ १६९ ॥ साध्वीनामन्तिके तासां, प्राव्राजीत्सापि शुद्धधीः ॥ सुव्रतेत्यभिधां प्राप्ता, दुस्तपं च व्यधात्तपः ॥ १७० ॥
"
इतश्च तस्य बालस्य, प्रभावेणाखिला द्विषः ॥ नेमुः पद्मरथं देव-महिम्नेव द्रुमा जिनम् ॥ १७११ ॥ ततस्तुष्टो नृपस्तस्य, नमिरित्यभिधां व्यधात् ॥ कृत्वा महोत्सवं तुल्यं, महत्त्वस्योचितं श्रियाम् ॥ १७२ ॥ साधुधर्मः समितिभिरिव धात्रीभिरन्वहम् ॥ पञ्चभिः संरक्ष्यमाण:, क्रमाद्वृद्धिं बभार सः ॥१७३॥ किञ्चिद्वृद्धिं च सम्प्राप्तश्चटुलैश्चलनैश्चलन् । ब्रुवंश्च मन्मनालापैर्विश्वं विश्वममोदयत् ॥१७४॥ अष्टमे वत्सरे तं च, कलाग्रहणहेतवे ॥ निनायोपकलाचार्य, भूपो भूयोभिरुत्सवैः ॥ १७५ ॥ सोऽथ प्रज्ञासुराचार्य:, कलाचार्यान्तिके पठन् ॥ एकशो दर्शिता एव, जग्राह सकलाः कलाः ॥ १७६ ॥ क्रमांच्च यौवनं प्राप्तो, लावण्यजलवारिधिः ॥ अकाम्यत स देवीभि
UTR-2
अध्य. ९
॥३९॥
Page #42
--------------------------------------------------------------------------
________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥४०॥
रपि विश्वमनोहरः ॥ १७७॥ यासां रूपं प्रेक्षमाणा, जितदेवाड़नागणम् ॥ मन्ये सर्वेऽपि गीर्वाणा, निर्निमेषदृशोऽभवन् ॥१७८॥ इक्ष्वाकुवंशजा राज-कन्याश्चातुर्यशालिनीः ॥ अष्टोत्तरसहस्रं ताः, क्षमापस्तेनोदवाहयत् ॥१७९॥ (युग्मम् ) मघवानिव देवीभिः, समं ताभिः समं सुखम् ॥ भुञ्जानो गमयामास, कालं कञ्चिनिमेषवत् ॥१८०॥ अन्यदा च नमि राज्ये, न्यस्य पद्मरथो नृपः ॥ वैराग्याव्रतमादाय, क्रमात्प्राप परम्पदम् ॥ १८१॥ ततो नमिनृपो राज्यं, न्यायेनापालयत्तथा ॥ अन्यायशब्दो व्यर्थोऽभू- द्वाच्याभावाद्यथा भुवि ॥१८२॥
__ इतश्च यस्यां दोषायां, न्यहन्मणिरथोऽनुजम् ॥ तस्यामेवाहिना दष्टो, मृत्वा तुर्यां ययौ भुवम् ॥१८३॥ राज्ये न्यस्य ततश्चन्द्रयशसं सचिवादयः ॥द्वयोः सोदरयोहे, समं सञ्चस्करुस्तयोः ॥१८४॥ ततश्चन्द्रयशा भूपो, नीतिवल्लीपयोधरः ॥ पितेव पालयामास, प्रजाः प्राज्यपराक्रमः ॥१८५॥ अन्यदा च नमे राज्ञो, राज्यसारः सितद्विपः ॥ उन्मूल्यालानमुन्मत्तो - ऽचलद्विन्ध्या-चलम्प्रति ॥१८६॥ सुदर्शनपुरोपान्ते, व्रजन्तं तञ्च दन्तिनम् ॥ अपश्यंश्चन्द्रयशसो, वाह्यालीस्थस्य सेवकाः ।। १८७ ॥ श्वेतद्विपोऽयं यातीति, ते नृपाय न्यवेदयन् । भूपोऽपि तं चिरात्खिन्नं, पुरे प्रावीविशन्निजे ॥१८८॥ तत्रस्थं कुञ्जरं तञ्च, ज्ञात्वा चरनरैर्नमिः ॥ तन्मार्गणाय तत्रैक, प्रेषीत्सन्देशहारकम् ॥१८९॥ सोऽपि गत्वावदच्चन्द्र-यशसं धृतसौष्ठवः ॥ वक्ति त्वां मन्मुखेनेति, राजन्नमिमही-पतिः ॥१९०॥ गृहीतोऽस्ति त्वया श्वेत-हस्ती यः स तु मामकः ॥ तदेनं प्रेषयेः सद्यो, नान्यदीयं हि सुस्थिरम् ॥१९॥ ऊचे चन्द्रयशा दूत !, जगाद किमिदं नमिः ॥ मार्गितानि हि रत्नानि, दीयन्ते न हि केनचित् ॥१९२॥ भवन्ति न च कस्यापि, नाम्ना तान्यङ्कितानि भोः ! ग्राह्याणि किन्तु बलिभि - वीरभोग्या हि भूरियम् ॥१९३॥ तां चन्द्रयशसो वाचं, दूतो गत्वाऽवदन्नमेः ॥ कोपाटोपात्ततः सोऽपि, यात्रानकमवादयत् ॥१९४॥ प्रत्यवन्तीन् प्रतस्थे च, कलितः प्रबलैर्बलैः ॥ प्रत्यनीकनृ
UTR-2
॥४०॥
Page #43
--------------------------------------------------------------------------
________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥४१॥
पानीक-मकराकरकुम्भभूः ॥१९५॥ तञ्चायान्तं चरैत्विा , चन्द्रभूपोऽप्यभिव्रजन् ॥ विरुद्धविहगैज्ञानि-पुरुषैरिव वारितः ॥१९६॥ ततस्तं सचिवाः प्रोचुः, पुरं पिहितगोपुरम् ॥ कृत्वा तिष्ठ प्रभो ! पश्चा-त्करिष्यामो यथोचितम् ॥१९७॥ चन्द्रोऽपि तत्तथा चक्रे, | नमिश्चागत्य तत्पुरम् ॥ बलेनावेष्टयद्विष्वग्, भोगेनेव निधिं फणी ॥१९८॥ तच्च श्रुत्वा जनश्रुत्या, सुव्रतार्या व्यचिन्तयत् ॥ इमौ जनक्षयं कृत्वा मा स्म यातामधोगतिम् ॥१९९॥ तदेनौ बोधयामीति, ध्यात्वाऽऽपृच्छ्य महत्तराम् ॥ साध्वीभिः संयुता सागात्समीपे नमिभूभुजः ॥२००॥ तां प्रणम्यासनं दत्वा, नमिर्भुवि निविष्टवान् ॥ आर्यापि धर्ममाख्याय, तमेवमवदत्सुधीः ॥२०१॥ राजन्नसारा राज्यश्री-भॊगाश्चायतिदारुणाः ॥ गतिः पापकृतां च स्या - नरके दुःखसङ्कुले ॥२०२॥ तद्विमुञ्चाहवं को हि, ज्येष्ठभ्रात्रा सहाहवः ? नमिः प्रोचे कथमयं, स्यान्मम ज्येष्ठसोदरः ? ॥२०३॥ ततः साध्वी जगौ तस्मै, स्ववृत्तान्तं यथास्थितम् ।। नमिस्तथाप्यहङ्कारा-नामुचद्विग्रहाग्रहम् ॥२०४॥ साथ मध्ये पुरं चन्द्र-यशः पार्श्वे ययौ द्रुतम् । सोऽपि तां प्रत्यभिज्ञाय, ननामाश्रुजलाविलः ॥२०५॥ दत्वाथ विष्टरं तस्यै, क्षितिनाथे क्षितौ स्थिते ॥ तां शुद्धान्तजनोऽप्येत्या- नमबाष्पायितेक्षणः ॥२०६॥ अथ चन्द्रयशाः साध्वी-मित्यूचे गद्गदाक्षरम् ॥ अङ्गीकृतं त्वया मातः ! किमिदं दुर्धरं व्रतम् ? ॥२०७॥ साध्व्याथ स्वीयवृत्तान्ते, तस्मै तस्मिन्निवेदिते ॥ सहोदरः स मे वास्ती-त्यपृच्छत्तां स पार्थिवः ॥२०८॥ आर्या जगाद येन त्वं, रोधितोऽसि स तेऽनुजः ॥ तदाकर्ण्य महानन्द-मविन्दत महीधवः ॥२०९॥ ययौ च सोदरं द्रष्ट-मुत्सुकः सोऽतिसत्वरम् ॥ स्नेहातिरेकपाथोद - शान्तदर्पदवानलः ॥२१०॥ तञ्चायान्तं निशम्यागा-नमिराजोऽपि संमुखः । भून्यस्तमस्तकः पादा-वग्रजस्य ननाम च ॥ २११॥ तञ्चानमन्तं चन्द्रोऽपि, दोर्ध्यामादाय सादरम् ॥ परिरेभे दृढं स्नेहा - देकीकुर्वन्निवात्मना ॥२१२॥ महोत्सवैर्महीयोभि-स्तञ्च प्रावीविशत्पुरे ॥ मन्यमानो
UTR-2
॥४१॥
Page #44
--------------------------------------------------------------------------
________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥४२॥
निजं जन्म, कृतार्थं भ्रातृसङ्गमात् ॥२१३॥ तञ्च क्रमागते राज्ये, न्यस्य चन्द्रयशा नृपः ॥ परिव्रज्यामुरीकृत्य, विजहार वसुन्धराम् ॥२१४॥ पाकशासनवच्चण्ड-शासनोऽथ नमिर्नृपः॥ न्यायाम्बुजारुणो राज्य- द्वयमन्वशिषच्चिरम् ॥ २१५॥
___ अथान्यदा तस्य देहे, दाहोऽभूदतिदुःसहः ।। भूपो नाप रति क्वापि, व्याधिना तेन बाधितः ॥२१६॥ चिकित्सा विविधास्तस्य, व्याधेश्चक्रुश्चिकित्सकाः ॥ तास्तु तत्राभवन्मूढे, हितशिक्षा इवाफलाः ॥२१७॥ ततो वैद्यैः परित्यक्तो- ऽसाध्योऽयमितिवादिभिः ॥ स्वर्भानुरिव शीतांशु, स रोगोऽपीडयन्नृपम् ।।२१८॥ तदा च चन्दनरसै, राज्ञः किञ्चिदभूत्सुखम् ॥ इति तं सकला राज्यो, नित्यं स्वयमघर्षयन् ॥२१९॥ तद्वाहुकङ्कणगण-रणत्कारमहारवः ।। राज्ञो रोगातुरस्याभू-त्कर्णाघातकरो भृशम् ॥२२०॥ शोकार्तस्य मृदङ्गादि-नादवन्मम रोगिणः ॥ दुःखाकरोति शब्दोऽय-मिति राजा जगौ ततः ॥२२१॥ तच्चाकर्ण्य क्रमाद्राग्यो, राज्ञः सौख्यकृते स्वयम् ॥ एकैकमेकशेषाणि, कङ्कणान्युदतारयन् ।।२२२॥ एकैकं तत्तु कल्याण-हेतवे दधिरे करे ॥ तदा च नाभवत्कोला- हलश्चन्दनघर्षणे ॥ २२३॥ नृपोऽवादीत्ततो यन्न, श्रूयते कङ्कणध्वनिः ॥ तन्मन्ये चन्दनं देव्यो, न घर्षन्ति प्रमद्वराः ॥ २२४॥ मन्त्री प्रोचे प्रभो ! देव्यः, सर्वा घर्षन्ति चन्दनम् ॥ परमेकाकिभावेन, शब्दायन्ते न कङ्कणाः ॥२२५॥ तदाकर्ण्य नृपो दध्यौ, शान्तमोहो महाशयः ॥ बहूनां सङ्गमे दोषः, स्यादेकस्य तु न कचित् ॥२२६॥ वलयानामपि मिथो, घर्षणं वसतामभूत् ॥ एकाकिनां तु तन्नैव, तेषां सम्प्रति जायते ॥२२७॥ सङ्गस्तदखिलो दुःख-कारणं प्राणिनां भवे ॥ एकत्वं तु महानन्द-हेतुः स्यात्सङ्गवर्जनात् ॥२२८॥ तच्चेच्छाम्येदयं दाह - स्तदाहं व्रतमाददे ॥ ध्यायन्निति प्रसुप्तो द्राग्, निद्रासुखमवाप सः ॥२२९॥ तस्यां कार्तिकराकायां, रात्रौ तस्य महीपतेः ॥ दाहः पाण्मासिकः सद्यो - ऽशाम्यत्पुण्यप्रभावतः ॥२३०॥ प्रभाते च तनुभूत-तन्द्रः स्वप्ने ददर्श ३ - घर्षणं भूयसामभूत् । इति ग.घ. पुस्तके ॥
UTR-2
॥४२॥
Page #45
--------------------------------------------------------------------------
________________
उत्तराध्य
अध्य.९
यनसूत्रम्
॥४३॥
| सः ॥ आत्मानं मेरुमौलिस्थ-सितेभस्कन्धमाश्रितम् ॥२३१॥ तूर्यनादैः प्रबुद्धोऽथ, हृष्टो नमिरचिन्तयत् । अहो मया प्रधानोऽद्य, | दृष्टः स्वप्नो महाफलः ॥२३२॥ किञ्चाहमीदृशं शैलं, दृष्टपूर्वीति भावयन् ॥ जातिस्मरणमासाद्य, सोऽज्ञासीदिति शुद्धधीः ॥२३३॥ पूर्वं नरभवे दीक्षा-मादाय त्रिदिवं गतः ॥ जिनजन्मोत्सवे मेरु मद्राक्षमहमीदृशम् ॥२३४॥ ततः स विध्वस्तविमोहजालो, विधाय लोचं स्वयमात्तदीक्षः ॥ प्रत्येकबुद्धो विबुधप्रदत्त-वेषो व्यहार्षीन्नमिराट् पृथिव्याम् ॥२३५॥ इति श्रीनमिराजर्षिकथा ॥३॥ कथाशेषं त्वमूष्य सूत्रसिद्धमिति सूत्रमिहैव व्याख्यायते, तच्चेदं
मूलम्-चइऊण देवलोगाओ, उववण्णो माणुसंमि लोगंमि।
उवसंतमोहणिज्जो, सरह पोराणिअंजाइं ॥१॥ व्याख्या-च्युत्वा देवलोकात् शुक्राभिधस्वर्गात्, उत्पन्नो मानुष्यके लोके मनुष्यभवे, उपशान्त अनुदितं मोहनीयं दर्शनमोहनीयात्मकं यस्य स उपशान्तमोहनीयः, स्मरति पुराणामेव पौराणिकी चिरन्तनी जाति जन्म, वर्तमाननिर्देशस्त्वत्र सर्वत्र तत्कालापेक्षया इति सूत्रार्थः ॥१॥ ततः किमित्याह - मूलम्-जाइं सरित्तु भयवं, सहसंबुद्धो अणुत्तरे धम्मे। पुत्तं ठवित्तु रज्जे, अभिनिक्खमई नमी राया ॥२॥ व्याख्या-जाति स्मृत्वा, भगशब्दस्य धैर्यसौभाग्यमाहात्म्ययशोवैराग्यैश्वर्यसूर्यपुण्यप्रयत्नस्त्रीचिह्नादिवाचकत्वेनानेकार्थत्वेऽपि भग-शब्दोऽत्र घटमाने धैर्यादावर्थे वर्त्तते, ततो भगवान् धैर्यादिमान् 'सहत्ति' स्वयमेव सम्बुद्धो न त्वन्येन प्रतिबोधितः, क्रेत्याह-अनुत्तरे
UTR-2
॥४३॥
Page #46
--------------------------------------------------------------------------
________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥४४॥
सर्वोत्कृष्टे धर्मे चारित्रधर्मे, पुत्रं स्थापयित्वा राज्ये अभिनिष्क्रामति प्रव्रज्यामादत्ते नमिनामा राजेति सूत्रार्थः ॥२॥ किं | कृत्वाभिनिष्क्रामतीत्याह - * मूलम्-सो देवलोगसरिसे, अंतेउरवरगओ वरे भोए । भुजित्तु नमी राया, बुद्धो भोगे परिच्चयइ ॥३॥
व्याख्या-स पूर्वोक्तो देवलोकसदृशान्, इह देवलोकशब्देन देवलोकस्था भोगा लक्ष्यन्ते, मञ्चा: क्रोशन्तीत्यादौ मञ्चशब्देन मञ्चस्थपुरुषवत् । ततो देवलोकस्थभोगतुल्यान् 'अंतेउरवरगओत्ति' वरान्तःपुरगतो वरान् प्रधानान् भोगान् मनोज्ञशब्दादीन् भुक्त्वानुभूय नमी राजा बुद्धो विज्ञाततत्त्वो भोगान् परित्यजति, पुनर्भोगग्रहणं विस्मरणशीलविनेयानुग्रहार्थमिति सूत्रार्थः ॥३॥ किञ्च
___ मूलम्- मिहिलं सपुरजणवयं, बलमोरोहं च परिअणं च सव्वं ।
चिच्चा अभिनिक्खंतो, एगंतमहिट्रिओ भयवं ॥४॥ व्याख्या-मिथिलां मिथिलाभिधां नगरी सह पुरैरन्यनगरैर्जनपदेन च वर्त्तते या सा तथा तां, बलं हस्त्यादिचतुरङ्ग, अवरोधश्चान्तःपुरं, परिजनं परिवारं, सर्वं निरवशेषं त्यक्त्वा विहाय अभिनिष्क्रान्तः प्रव्रजितः एकान्तं द्रव्यतो विजनमुद्यानादि, भावतस्तु "एकोऽहं नास्ति मे कश्चि-नाहमन्यस्य कस्यचित् ॥ न तं पश्यामि यस्याहं, नासौ दृश्योऽस्ति यो मम ॥१॥" इति भावनया एक एवाहमित्यन्तो निश्चय एकांतस्तमधिष्ठित आश्रितो भगवान् इति सूत्रार्थः ॥ ४ ॥ तदा च यदभूत्तदाह -
मूलम् - कोलाहलगब्भूअं, आसी मिहिलाइ पव्वयंतंमि ।
UTR-2
॥४४॥
Page #47
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम्
।। ४५ ।।
इआ रायरिसिम्मि, नमिम्मि अभिनिक्खमंतंमि ॥ ५ ॥
व्याख्या- कोलाहलो विलापादिकलकलः, स एव कोलाहलकः, स भूतो जातो यस्मिंस्तत्कोलाहलकभूतं, आसीदभूमिथिलायां सर्वं गृहारामदेवकुलादीति गम्यते । प्रव्रजति प्रव्रज्यामाददाने तदा तस्मिन्काले, राजा चासौ राज्यावस्थापेक्षया, ऋषिश्च तत्कालापेक्षया राजर्षिस्तस्मिन्नम अभिनिष्क्रामति गृहान्निर्गच्छति सतीति सूत्रार्थः ॥ ५ ॥ अत्रान्तरे च यदभूत्तदाहमूलम् - अब्भुट्ठिअं रायरिसिं पव्वज्जाठाणमुत्तमं । सक्को माहणरूवेण, इमं वयणमब्बवी ॥ ६ ॥
व्याख्या - अभ्युत्थितमभ्युद्यतं राजर्षिं प्रव्रज्यैव स्थानमाश्रयो ज्ञानादिगुणानां प्रव्रज्यास्थानं तस्मिन्नुत्तमे श्रेष्ठे, सूत्रत्वाद्विभक्तिव्यत्ययः, शक्र इन्द्रो माहनरूपेण द्विजवेषेणाऽऽगत्येति शेषः, तदा हि तदाशयं परीक्षितुकामः शक्रः स्वयमागादिति । ततः स इदं वक्ष्यमाणं वचनमब्रवीदिति सूत्रार्थः ॥ ६ ॥ यदब्रवीत्तदाह
मूलम् - किं नु भो अज्ज मिहिलाए, कोलाहलगसंकुला । सुच्चंति दारुणा सद्दा, पासाएसु गिहेसु अ ॥ ७॥
व्याख्या- किमिति प्रश्ने, नु इति वितर्के, भो इत्यामन्त्रणे, अद्य मिथिलायां पुर्यां कोलाहलकेन बहलकलकलरूपेण सङ्कुला व्याप्ताः कोलाहलकसङ्कुलाः श्रूयन्ते ? दारुणा हृदयोद्वेगकराः, शब्दा विलापाक्रन्दादयः प्रासादेषु, गृहेषु तदितरेषु, चशब्दास्त्रिकचतुष्कचत्वरादिषु चेति सूत्रार्थः ॥७॥ ततश्च
मूलम् - एयम निसामित्ता, हेऊकारणचोइओ । तओ नमिरायरिसी, देविंदं इणमब्बवी ॥ ८ ॥
UTR-2
अध्य. २
॥४५॥
Page #48
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
॥ ४६ ॥
व्याख्या एतमनन्तरोक्तमर्थं निशम्य हेतुः पञ्चावयववाक्यरूपः, कारणञ्चान्यथानुपपत्तिमात्रं ताभ्यां चोदितः प्रेरितो हेतुकारणचोदितः, इह च हेतुकारणे कोलाहलकसङ्कुलाः शब्दाः श्रूयन्ते इत्यनेनैव सूचिते, तथा हि- अयुक्तमिदं तव निष्क्रमणमिति प्रतिज्ञा १ । आक्रन्दादिदारुणशब्दहेतुत्वादिति हेतुः २ । यद्यदाक्रन्दादिदारुणशब्दहेतुस्तत्तद्धर्मार्थिनामयुक्तं, यथा प्राणातिपातादिरिति दृष्टान्तः ३ । आक्रन्दादिदारुणशब्दहेतुश्चेदं तव निष्क्रमणमित्युपनयः ४ । तस्मादयुक्तमेवेदं तव निष्क्रमणमिति निगमनमिति ५ । | पञ्चावयवमनुमानवाक्यमिह हेतुः । आक्रन्दादिदारुणशब्दहेतुत्वं त्वन्निष्क्रमणस्यायुक्तत्वं विना नोपपद्यते इत्येतावन्मात्रं तु शेषावयवविवक्षारहितं कारणं, अनयोः पृथगुपादानं तु साधनवाक्यवैचित्र्यरचनार्थमिति ध्येयं । 'तओत्ति' ततः प्रेरणानन्तरं नमिराजर्षिर्देवेन्द्रमिदमब्रवीदिति सूत्रार्थः ॥८ ॥ यदवादीत्तदाह
मूलम् मिहिलाए चेइए वच्छे, सीअच्छाए मणोरमे । पत्तपुप्फफलोवेए, बहूणं बहुगुणे सया ॥९॥ व्याख्या - मिथिलायां पुरि, चितिरिह प्रस्तावात् पत्रपुष्पाद्युपचयस्तत्र साधु चित्यं चित्यमेव चैत्यमुद्यानं तस्मिन् 'वच्छेत्ति' सूत्रत्वादवृक्षो विद्यत इति शेषः । कीदृश: ? इत्याह-शीतच्छायः शीतलच्छायो मनोरमो मनोरमाभिधः पत्रपुष्पफलोपेतो बहूनां प्रक्रमात् खगादीनां बहुगुणः फलादिभिर्भृशमुपकारी सदा सर्वकालं, एकारश्चात्र सूत्रे सर्वत्र मागधभाषानुसरणात् ज्ञेय इति सूत्रार्थः ॥१॥ तत्र किमित्याह
मूलम्-वाएण हीरमाणंमि, चेइअंमि मणोरमे । दुहिआ असरणा अत्ता, एए कंदंति भो ! खगा ॥ १० ॥
-
UTR-2
अध्य. ९
॥४६॥
Page #49
--------------------------------------------------------------------------
________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥४७॥
व्याख्या-वातेन वायुना ह्रियमाणे इतस्ततः क्षिप्यमाणे 'चेइअंमित्ति' चितिरिहेष्टकादिचयस्तत्र साधुर्योग्यो वा चित्यः स एव चैत्यस्तस्मिन् कोऽर्थोऽधोबद्धपीठिके उपरि चोच्छितपताके मनोरमे मनोहरे तस्मिन् वृक्ष इति शेषः । दुःखं जातं येषां ते दुःखिताः, अशरणास्त्राणरहिता अत एवार्ताः पीडिता एते प्रत्यक्षाः क्रन्दन्ति आक्रन्दान् कुर्वन्ति भो ! इत्यामंत्रणे खगाः पक्षिणः । इह च किमद्य मिथिलायां दारुणाः शब्दाः श्रूयन्त इति यत्स्वजनाक्रन्दनमुक्तं तत्खगाक्रन्दनप्रायमात्मा च वृक्षकल्पस्तत्त्वतो हि स्वल्पकालमेव सहावस्थानेन उत्तरकालं च स्वगतिगामितया द्रुमाश्रितखगोपमा एवामी स्वजनादयः । उक्तञ्च -"यद्वद्रुमे महति पक्षिगणा विचित्राः, कृत्वाश्रयं हि निशि यान्ति पुनः प्रभाते । तद्वज्जगत्यसकृदेव कुटुम्बजीवाः, सर्वे समेत्य पुनरेव दिशो भजन्ते ॥१॥ इति" ततश्चाक्रन्दादिदारुणशब्दानां मनिष्क्रमणहेतुकत्वमसिद्धं, स्वस्वकार्यहेतुकत्वात्तेषां । आह च- "आत्मार्थं सीदमानं स्वजनपरिजनो रौति हाहारवार्तो, भार्या चात्मीयभोगं गृहविभवसुखं स्वं वयस्याश्च कार्यम् । क्रन्दन्त्यन्योन्यमन्यस्त्विह हि बहुजनो लोकयात्रानिमित्तं,
यो वा यस्माच्च किञ्चिन्मृगयति हि गुणं रोदितीष्टः स तस्मै ॥२॥" तथा च सति भवदुक्ते हेतुकारणे असिद्ध एवेति सूत्रार्थः ॥१०॥ |मूलम्-एयमटुं निसामित्ता, हेऊकारणचोइओ । तओ नर्मि गयरिसिं, देविंदो इणमब्बवी ॥ ११ ॥
व्याख्या - एनमर्थं निशम्य हेतुकारणयोः पूर्वोक्तयोश्चोदितोऽसिद्धे भवदुक्ते हेतुकारणे इत्युपपत्त्या प्रेरितो हेतुकारणचोदितः, ततो नमि राजर्षि देवेन्द्र इदमब्रवीदिति सूत्रार्थः ॥११॥ मूलम्-एस अग्गी अ वाऊ अ, एअं डज्झइ मंदिरं । भयवं अंतेउरतेणं, कीस णं नाव पिक्खह ॥ १२ ॥
UTR-2
॥४७॥
Page #50
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम्
॥ ४८ ॥
व्याख्या - एप प्रत्यक्षोऽग्निश्च वायुश्च एतत्प्रत्यक्षं दह्यते मन्दिरं गृहं तवेति शेषः, अग्निवायू च तदा शक्र एवादर्शयदिति वृद्धाः, हे भगवन् ! ' अंतेउरंतेणंति' अन्तः पुराभिमुखं 'कीसत्ति' कस्मात् 'णं' वाक्यालंकारे नावप्रेक्षसे नावलोकसे ? यद्यदात्मीयं तत्तत्रातव्यं, आत्मीयञ्चेदं तवान्तःपुरादीति सूत्रार्थः ॥ १२ ॥
मूलम् - एयमहं निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥१३॥
व्याख्या - स्पष्टं । नवरं हेतुकारणचर्चा इहोत्तरत्र च बृहट्टीकातोवसेयेति ॥१३॥
मूलम् - सुहं वसामो जीवामो, जेसिं मो नत्थि किंचण । मिहिलाए डज्झमाणीए, न मे डज्झइ किंचण ॥१४॥
व्याख्या - सुखं यथा स्यादेवं वसामस्तिष्ठामः जीवामः प्राणान् धारयामः येषां 'मोत्ति' अस्माकं नास्ति किञ्चन वस्तुजातं यतः “एकोहं न च मे कश्चित्, स्वः परो वापि विद्यते । यदेको जायते जन्तु- म्रियते चैक एव हि ॥ १ ॥ इति" न किञ्चिदन्तः पुरादि मदीयमस्ति यत्त्रातव्यं स्यात्, अत एव मिथिलायां दह्यमानायां न मे दह्यते किञ्चन स्वल्पमपीति सूत्रार्थः ॥१४॥ इदमेव भावयितुमाहमूलम् चत्तपुत्तकलत्तस्स, निव्वावारस्स भिक्खुणो । पिअं न विज्जए किंचि, अप्पिअं पि न विज्जए ॥ १५ ॥
व्याख्या - त्यक्तपुत्रकलत्रस्य निर्व्यापारस्य मुक्तकृष्यादिक्रियस्य भिक्षोः प्रियमिष्टं न विद्यते किञ्चिदल्पमपि, अप्रियमपि अनिष्टमपि न विद्यते । एतेन यदुक्तं नास्ति मे किञ्चनेति तत्समर्थितमिति सूत्रार्थः ॥ १५ ॥ एवमपि सुखेन वसनं जीवनं कथं स्यादित्याह
UTR-2
अध्य. ९
॥४८ ॥
Page #51
--------------------------------------------------------------------------
________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥४९॥
मूलम्-बहुं खु मुणिणो भई, अणगारस्स भिक्खुणो । सव्वओ विप्पमुक्कस्स, एगंतमणुपस्सओ ॥१६॥
व्याख्या-बहु भूरि खु निश्चये मुनेर्भद्रं सुखं अनगारस्य भिक्षोरपि सत इति शेषः । कीदृशस्य मुनेरित्याह - सर्वतो बाह्याभ्यन्तरपरिग्रहाद्विप्रमुक्तस्य । एक एवाहमित्यन्तो निश्चय एकान्तस्तं अनुपश्यतः पर्यालोचयत इति सूत्रार्थः ॥१६॥ मूलम्-एयमटुं निसामित्ता, हेऊकारणचोइओ । तओ नर्मि रायरिसिं, देविंदो इणमब्बवी ॥१७॥ मूलम्-पागारं कारइत्ता णं, गोपुरट्टालगाणि अ । ओसूलगसयग्घीओ, तओ गच्छसि खत्तिआ ॥१८॥
व्याख्या- प्राकारंवप्रं कारयित्वा गोपुराट्टालकानि च । तत्र गोपुराणि प्रतोलीद्वाराणि, गोपुरग्रहणमर्गलाकपाटोपलक्षणं, अट्टालकानि च वप्रकोष्ठकोपरिवर्तीनि रणकरणस्थानानि । ओसूलगत्ति' खातिकाः, 'सयग्घीओत्ति' शतघ्यो यन्त्ररूपाः तत एवं सर्वं निराकुलीकृत्य 'गच्छसित्ति' विभक्तिव्यत्ययाद्गच्छ हे क्षत्रिय ! हेतूपलक्षणञ्चेदं, यो यः क्षत्रियः स्यात् स स पुररक्षां कुर्वीत, यथा भरतादिः, क्षत्रियश्च भवानिति सूत्रार्थः ॥१८॥ मूलम्-एअमटुं निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥१९॥ मूलम्-सद्धं च नगरं किच्चा, तव संवरमग्गलं । खंतीनिऊणपागारं, तिगुत्तं दुप्पधंसगं ॥२०॥
व्याख्या-श्रद्धां तत्त्वरुचिरूपां सर्वगुणाधारतया नगरं पुरं कृत्वा विधाय, अनेन च प्रशमसंवेगादीनि गोपुराणि कृत्वेत्युपलक्ष्यते । | तपोऽनशनादि बाह्यमेवेह ग्राह्यं, तत्प्रधानः संवरस्तपःसंवरस्तं, अर्गलामित्युपलक्षणत्वादर्गलाकपाटं कृत्वा क्षान्ति क्षमा, निपुणं
UTR-2
॥४९॥
Page #52
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
।। ५० ।।
श्रद्धाप्रत्यनीकस्यानन्तानुबन्धिकोपस्य रोधकत्वेन वैरनिवारणं प्रति कुशलं प्राकारं कृत्वा, उपलक्षणञ्चैषां मानादिरोधकानां मार्दवादीनां । 'तिगुत्तंति' तिसृभिरट्टालकोत्सूलकशतघ्नीस्थानीयाभिर्मनोगुप्त्यादिगुप्तिभिर्गुप्तं दुष्प्रधर्षकं परैर्दुरभिभवं, वप्रविशेषणान्येतानि । अनेन प्राकारं कारयित्वेत्यादेः प्रतिवचनमुक्तं ॥ २० ॥ सम्प्रति तु सत्सु प्राकाराट्टालकेष्ववश्यं योद्धव्यं तच्चायुधेषु वैरिषु च सत्स्वेव स्यादत आहमूलम् - धणुं परक्कमं किच्चा, जीवं च इरिअं सया । धिई च केअणं किच्चा, सच्चेणं पलिमंथ ॥ २१ ॥ व्याख्या- धनुः कोदण्डं पराक्रमं जीववीर्योल्लासरूपं उत्साहं कृत्वा, जीवां च प्रत्यञ्चां च ईर्यामीर्यासमिति, उपलक्षणत्वाच्छे षसमितीश्च कृत्वा सदा । धृतिं च धर्माभिरतिरूपां केतनं शृङ्गमयधनुर्मध्ये काष्टमयमुष्ट्यात्मकं कृत्वा, तत्केतनं सत्येन मनः सत्यादिना स्नायुस्थानीयेन 'पलिमंथएत्ति' बध्नीयात् ॥ २१ ॥ ततः किमित्याहमूलम्-तवनारायजुत्तेणं, भित्तूणं कम्मकंचुअं । मुणि विगयसंगामो भवाओ परिमुच्चई ॥२२॥ व्याख्या- तपः षड्विधमाभ्यन्तरं तदेव नाराचो लोहमयो बाणस्तद्युक्तेन प्रक्रमाद्धनुषा भित्वा विदार्य कर्मकञ्चकं कर्मग्रहणेन चात्मैवोद्धतो वैरी भवतीत्युक्तं भवति, वक्ष्यति च "अप्पा मित्तममित्तं च, दुपट्ठिअसुपट्ठिएत्ति" मुनिः साधुः कर्मभेदे जेयस्य जितत्वात् विगतः सङ्ग्रामो यस्य स विगतसङ्ग्रामः भवात् संसारात् परिमुच्यते । अनेन सूत्रत्रयेण प्राकारं कारयित्वेत्यादिसूत्रस्य सिद्धसाधनतोक्तेति सूत्रत्रयार्थः ॥ २२ ॥
,
मूलम् - एअमट्ठे निसामित्ता, हेऊकारणचोइओ । तओ नमिं रायरिसिं, देविंदो इणमब्बवी ॥२३॥
UTR-2
अध्य. ९
॥५०॥
Page #53
--------------------------------------------------------------------------
________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥५१॥
मूलम्-पासाए कारइत्ताणं, वद्धमाणगिहाणि अ । वालग्गपोइआओ अ, तओ गच्छसि खत्तिआ ! ॥२४॥ ___व्याख्या-प्रासादान् कारयित्वा वर्धमानगृहाणि चानेकधा वास्तुशास्त्रोक्तानि 'वालग्गपोइआओत्ति' देशीभाषया वलभीश्च कार - यित्वा, अशेषरचनाविशेषोपलक्षणञ्चैतत्, ततो गच्छ क्षत्रिय!। अनेन यः प्रेक्षावान् स सति सामर्थ्य गृहादि कारयति, प्रेक्षावांश्च | भवानिति सूचितमिति सूत्रार्थः ॥२४॥ * मूलम्-एयमढे निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥२५॥ मूलम्-संसयं खलु सो कुणइ, जो मग्गे कुणइ घरं । जत्थेव गंतुमिच्छिज्जा, तत्थ कुविज्ज सासयं ॥२६॥
व्याख्या-संशयं सन्देहं खलु निश्चये स कुरुते यथा कदाचिन्मे गमनं न भवेदपीति यो मार्गे कुरुते गृहं, गमननिश्चये हि तत्करणायोगात् । ननु गमननिश्चये कुतो मार्गे गृहं न क्रियते ? इत्याह-यत्रैव वाञ्छितप्रदेशे गन्तुमिच्छेत् 'तत्थेति' सावधारणत्वा
द्वाक्यस्य तत्रैव कुर्वीत स्वस्यात्मन आश्रयः स्वाश्रयस्तं, ततोऽयमर्थः इदं तावदिहावस्थानं मार्गावस्थानप्रायं तदिह गृहादि न क्रियते, - यत्तु जिगमिषितमस्माभिर्मुक्तिपदं तदाश्रयविधाने च प्रवृत्ता एव वयमिति सिद्धसाधनमेतदपीति सूत्रार्थः ॥२६॥
मूलम्-एयमटुं निसामित्ता, हेऊकारणचोइओ । तओ नर्मि रायरिसिं, देविंदो इणमब्बवी ॥२७॥ मूलम्-आमोसे लोमहारे अ, गंठिभेए अ तक्करे । नगरस्स खेमं काऊणं, तओ गच्छसि खत्तिआ! ॥ २८॥
व्याख्या-आ समन्तात् मुष्णन्तीत्यामोषाश्चौरास्तान् लोमहारा ये निर्दयतया स्वविघातशकया च जन्तून् हत्वैव सर्वस्वं हरन्ति,
UTR-2
॥५१॥
Page #54
--------------------------------------------------------------------------
________________
अध्य. ९
उत्तराध्ययनसूत्रम् ॥५२॥
| तांश्च, ग्रन्थिभेदा ये घुर्घरककर्तिकादिना ग्रन्थिं भिन्दन्ति तांश्च, तथा तस्करान् सर्वदा चौर्यकारिणो निवार्येति शेषः । नगरस्य क्षेमं कृत्वा ततो गच्छ क्षत्रिय !। अनेन च यो न्यायी नृपः स चौरादीन्निगृह्णाति, न्यायी नृपश्च त्वमिति सूचितमिति सूत्रार्थः ॥ २८॥ मूलम्-- एअमटुं निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविदं इणमब्बवी ॥ २९ ॥ | मूलम्--असई तु मणुस्सेहि, मिच्छादंडो पजुज्जए । अकारिणोत्थ बज्झंति, मुच्चइ कारगो जणो ॥ ३० ॥ | व्याख्या-- असकृदनेकधा तुरेवकारार्थे, ततोऽसकृदेव मनुष्यैनरैमिथ्या व्यलीकोऽनपराधिष्वपि अज्ञानाभिनिवेशादिभिर्दण्डो | देशत्यागविग्रहनिग्रहादिः प्रयुज्यते व्यापार्यते, कथमित्याह-अकारिण आमोषणादेरविधायिनोऽत्रेत्यस्मिन् लोके बध्यन्ते निगडादिभिः, मुच्यते कारको विधायकः प्रक्रमादामोषणादेरेव जनो लोकः । अनेन च यदुक्तं प्रागामोषकादीनिवार्य नगरस्य क्षेमं कृत्वा गच्छेति | तत्र तेषां ज्ञातुमशक्यतया क्षेमकरणमप्यशक्यमुक्तमिति सूत्रार्थः ॥ ३०॥ मूलम्-- एअमटुं निसामित्ता, हेऊकारणचोइओ। तओ नर्मि रायरिसिं, देविंदो इणमब्बवी ॥३१॥
व्याख्या-- प्राग्वन्नवरमियद्भिः प्रश्नः स्वजनान्तःपुरपुरप्रासादनृपधर्मविषयः किमस्य रागोस्ति नवेति परीक्ष्य सम्प्रति द्वेषाभाव| परीक्षायै विजिगीषुतामूलत्वाद् द्वेषस्य तामेव परीक्षितुमनाः शक्र इदमवदत् ॥ ३१ ॥ मूलम्--जे केइ पत्थिवा तुब्भं, न नमंति नराहिवा। वसे ते ठावइत्ता णं, तओ गच्छसि खत्तिआ ! ॥ ३२ ॥
व्याख्या-- ये केचित् पार्थिवा नृपास्तुभ्यं न नमन्ति हे नराधिप! हे राजन् ! वशे आत्मायतौ तान् नृपान् स्थापयित्वा वशी
UTR-2
॥५२॥
Page #55
--------------------------------------------------------------------------
________________
अध्य. ९
उत्तराध्ययनसूत्रम् ॥५३॥
| कृत्येत्यर्थः, ततो गच्छ क्षत्रिय! । अनेन च यः समर्थो राजा सोऽनमन्नृपान् नमयति, समर्थपार्थिवश्च त्वमिति सूचितमिति सूत्रार्थः ।। ३२॥ मूलम्-एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ३३ ॥ मूलम्-- जो सहस्सं सहस्साणं, संगामे दुज्जए जिणे । एगं जिणिज्ज अप्पाणं, एस से परमो जओ। ॥ ३४ ॥
व्याख्या--यः सहस्रं सहस्राणां दशलक्षात्मकं प्रक्रमात् सुभटसम्बन्धि संग्रामे दुर्जये जयेदभिभवेत् , स चेदेकं जयेदात्मानमना| चारप्रवृत्तमिति गम्यते । एषोनन्तरोक्तः ‘से इति' तस्य जेतुः सुभटदशलक्षजयात् परमः प्रकृष्टो जयः, अनेन चात्मन एवातिदुर्जय| त्वमुक्तम् ॥ ३४ ॥ ततश्च -
मूलम्-- अप्पाणमेव जुज्झाहि, किं ते जुज्झेण बज्झओ । अप्पाणमेव अप्पाणं, जइत्ता सुहमेहए ॥ ३५ ॥ | व्याख्या-- 'अप्पाणमेवत्ति' द्वितीयायास्तृतीयार्थत्वादात्मनैव सह युध्यस्व, किं? न किञ्चिदित्यर्थः, ते तव युद्धेन बाह्यत इति | बाह्यपार्थिवानाश्रित्य, एवञ्च 'अप्याणमेवत्ति' आत्मानं 'जइत्तत्ति ' जित्वा सुखं ऐकान्तिकं मुक्तिसुखरूपमेधते प्राप्नोति
॥३५॥ कथमात्मन्येव जिते सुखावाप्तिरित्याह-- मूलम्-पंचिंदिआणि कोहं, माणं मायं तहेव लोभं च । दुज्जयं चेव अप्पाणं, सव्वमप्पे जिए जिअं ॥३६॥
व्याख्या--पञ्चेन्द्रियाणि श्रोत्रादीनि क्रोधो मानो माया तथैव लोभश्च 'दुज्जयं चेवत्ति' दुर्जयं इति विशेषणं सर्वत्र सम्बध्यते, | चः समुच्चये, एवः पूतौं, अतति गच्छति अनेकान्यध्यवसायान्तराणीति आत्मा मनः, नपुंसकनिर्देशस्तु सर्वत्र सूत्रत्वात्, सर्वमेतदि
UTR-2
॥५३॥
Page #56
--------------------------------------------------------------------------
________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥५४॥
न्द्रियादि उपलक्षणत्वान्मिथ्यात्वादि च आत्मनि जीवे जिते जितं, ततो बाह्यारिजयमुपेक्ष्यात्मन एव जये प्रवृत्तोम्यहमिति सूत्रत्रयार्थः॥३६॥ | मूलम्-एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नर्मि रायरिसिं, देविंदो इणमब्बवी ॥ ३७ ॥
व्याख्या -- स्पष्टं, नवरमेतावता तस्य रागद्वेषाभावं निश्चित्याधुना जिनधर्मस्थैर्यं परीक्षितुमिन्द्र इदमवादीत् ॥ ३७ ॥ मूलम्--जइत्ता विउले जण्णे, भोइत्ता समणमाहणे । दच्चा भुच्चा य जटाय, तओ गच्छसि खत्तिआ! । ३८
व्याख्या-- 'जइत्तत्ति' याजयित्वा विपुलान् विस्तीर्णान् यज्ञान्, भोजयित्वा श्रमणब्राह्मणान्, दत्वा द्विजादिभ्यो गोभूमिस्वर्णादि, भुक्त्वा च मनोज्ञशब्दादीन्, इष्टवा च स्वयं यागान्, ततो गच्छ क्षत्रिय ! अनेन यद्यत् प्राणिप्रीतिकरं तत्तद्धर्माय, विप्रादिप्राणिप्रीतिकरञ्च यागादि इति सूचितमिति सूत्रार्थः ॥ ३८॥ मूलम्--एअमढं निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ३९ ॥ मूलम्--जो सहस्सं सहस्साणं, मासे मासे गवं दए । तस्सावि संजमो सेओ, अदितस्सावि किंचणं ॥ ४० ॥
व्याख्या--यः सहस्रं सहस्राणां दशलक्षाणीत्यर्थः, मासे मासे गवां दद्यात्, तस्याप्येवंविधदातुरपि संयमो हिंसाद्याश्रवविरमणात्मकः श्रेयानतिप्रशस्यः, अददतोपि किञ्चन स्वल्पमपि वस्तु । एवञ्च संयमस्य प्रशस्यतरत्वं वदता यज्ञादीनां सावद्यत्वमर्थात् ज्ञापितं । यदुक्तं याज्ञिकैः- " षट् शतानि नियुज्यन्ते, पशूनां मध्यमेहनि ॥ अश्वमेधस्य वचना-न्यूनानि पशुभिस्त्रिभिः ॥१॥" ततः पशुहिंसात्मकत्वात्सावद्या एव यागाः । तथा दानान्यपि अशनादिनां धर्मोपकरणानाञ्च धर्माय भवन्ति, स्वर्णगोभूम्यादीनां तु
UTR-2
॥५४॥
Page #57
--------------------------------------------------------------------------
________________
अध्य. ९
उत्तराध्ययनसूत्रम् ॥५५॥
| दानानि प्राण्युपमर्दहेतुत्वात्सावधान्येव सावद्यत्वाच्च यागादीनि न प्राणिप्रीतिकराणीति भाव इति सूत्रार्थः ॥४०॥ मूलम् - एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नर्मि रायरिसिं, देविंदो इणमब्बवी ॥४१॥
व्याख्या - प्राग्वन्नवरं जिनधर्मस्थैर्यमवधार्य व्रतं प्रति दाढ्यं परीक्षितुमिदमाचचक्षे हर्यश्वः ॥४१॥ मूलम् - घोरासमं चइत्ता णं, अन्नं पत्थेसि आसमं । इहेव पोसहरओ, भवाहि मणुआहिवा! ॥४२॥ ___व्याख्या - घोरोऽत्यन्तदुरनुचर: स चासावाश्रमश्च घोराश्रमो गार्हस्थ्यं, तस्यैवाल्पसत्त्वैर्दुष्करत्वात् । उक्तञ्च-"गृहाश्रमपरो धर्मो, न भूतो न भविष्यति ॥ पालयन्ति नराः शूराः, क्लीबा: पाषण्डमाश्रिताः ॥९॥" तं त्यक्त्वा अन्यं प्रार्थयसे ? आश्रमं दीक्षालक्षणं, नेदं हीनसत्त्वोचितं भवादृशां युक्तं । तर्हि किं युक्तमित्याह-इहास्मिन्नेव गृहाश्रमे स्थित इति गम्यते, पौषधोऽष्टम्यादितिथिषु व्रतविशेषस्तत्र रतः पौषधरतो भव हे मनुजाधिप ! अणुव्रताधुपलक्षणञ्चैतत्, अस्यैवोपादानं तु पौषधदिनेष्ववश्यम्भावात्तपोनुष्ठानख्यापकं । इह च यद्यद्घोरं तत्तद्धर्मार्थिनाऽनुष्ठेयं, घोरश्चायं गृहाश्रम इति घोरपदेन सूचितमिति सूत्रार्थः ॥४२॥ मूलम् - एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी॥ ४३॥ मूलम् - मासे मासे उ जो बालो, कुसग्गेणं तु भुंजए । न सो सुअक्खायधम्मस्स, कलं अग्घइ सोलसिं ॥४४॥
व्याख्या-मासे मासे एव तुशब्दस्यैवकारार्थत्वान्नत्वर्धमासादौ यः कश्चिद्बालो निविवेकः कुशाग्रेणैव दर्भाग्रेणैव भुक्ते, न तु कराडल्यादिभिः । न नैव स तादृशतपोनुष्ठायी, सुष्ठु शोभन: सर्वसावधविरतिरूपत्वादाख्यातस्तीर्थकरैः कथितः स्वाख्यातो धर्मो
UTR-2
॥५५॥
Page #58
--------------------------------------------------------------------------
________________
अध्य. ९
उत्तराध्ययनसूत्रम् ॥५६॥
यस्य स स्वाख्यातधर्मो मुनिः तस्य कलां भागमति अर्हति षोडशी षोडशांशसमोपि न स्यादिति भावः । ततो यत्स्वाख्यातं न स्यात् तद्घोरमपि धर्मार्थिना नानुष्ठेयं, आत्मघातादिवत् । स्वाख्यातश्च मुख्यतया मुनिधर्म एव, न तु गृहाश्रमस्ततो गृहाश्रमादयमेव श्रेयानिति । ननु ? पूर्वसूत्रे इहैव 'पोसहरओ भवाहीति' वाक्येन देशविरतेः कर्तव्यता शक्रेणोक्ता, देशविरतश्च बालपण्डित उच्यते , 'समणोवासया बालपंडिआ' इति वचनात्, तत्कथमिह बालशब्देन देशविरतो व्यपदिष्ट इति चेदुच्यते-देशविरतस्य बालपण्डितत्वे सत्यपि एकादशाविरतिमत्तापेक्षया बाल्यांशस्य प्राधान्यविवक्षयैवमुक्तं सम्भाव्यते । दृश्यते हि समये सास्वादनवतां ज्ञानांशवत्त्वेऽपि तत्प्राधान्यविवक्षया ज्ञानित्वव्यपदेश इति सूत्रार्थः ॥४४॥ मूलम् - एअमट्टं निसामित्ता हेउकारणचोईओ । तओ नर्मि रायरिसिं, देविंदो इणमब्बवी ॥ ४५ ॥ ___ व्याख्या -- पुनर्नीरागतामेव परीक्षितुमदोऽवददिन्द्रः ॥४५॥
मूलम्--हिरण्णं सुवण्णं मणिमुत्तं, कंसं दूसं च वाहणं।
कोसं वड्डावईत्ता णं तओ गच्छसि खत्तिआ ! ॥४६॥ व्याख्या--हिरण्यं घटितस्वर्णं, सुवर्ण ततोऽन्यत्, मणयश्चन्द्रनीलाद्या मुक्ताश्च मौक्तिकानि मणिमुक्त, कांस्य कांस्यभाजनादि, दुष्यं वस्त्रं, चकार: स्वगतानेकभेदसूचकः, वाहनं रथाश्वादि, कोशं भाण्डागारं, वर्धयित्वा वृद्धि नीत्वा ततो गच्छ क्षत्रिय!। अयंभाव:यो यः साकांक्षः स स धर्मानुष्ठानायोग्यः, साकांक्षश्च भवान्, आकांक्षणीयस्वर्णादिवस्तूनां सम्पूर्णत्वाभावादिति सूत्रार्थः ॥४६॥
UTR-2
॥५६॥
Page #59
--------------------------------------------------------------------------
________________
अध्य. ९
उत्तराध्ययनसूत्रम् ॥५७ ॥
मूलम्--एयमलैंनिसामित्ता, हेउकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥४७॥
मूलम्--सुवण्णरुप्पस्स उ पव्वया भवे, सिआ हु केलाससमा असंखया।
नरस्स लुद्धस्स न तेहिं किंचि, ईच्छा हु आगाससमा अणंतिआ ॥ ४॥ व्याख्या- सुवर्णं च रूप्यं च सुवर्णरूप्यं तस्य, तुः पूर्ती, पर्वता: पर्वतप्रमाणा राशयः भवेत्ति' भवेयुः स्यात्कदाचित्, हुरवधारणे भिन्नक्रमश्च, ततः कैलाससमा एव, न तु लघुगिरिप्रमाणाः, कैलासश्चात्र मेरुरिति वृद्धाः, तेप्यसंख्यका: संख्यारहिता न तु द्विवाः, नरस्य लुब्धस्य न तै: तादृशैरपि स्वर्णरूप्यपर्वतैः किञ्चिदपि स्वल्पमपि परितोषकारणं स्यादिति गम्यम् । कुत इत्याह-इच्छा अभिलाषो हुरिति यस्मात् आकाशेन समा आकाशसमा अनन्तिका अन्तरहिता । उक्तञ्च- "न सहस्राद्भवेत् तुष्टि-न लक्षान्न च कोटितः ॥ न राज्यान्नैव देवत्वा-न्नेन्द्रत्वादपि देहिनाम् ॥१॥" इति ॥४८॥ तथा -: मूलम्--पुढवी साली जवा चेव, हिरण्णं पसुभिस्सह । पडिपुण्णं नालमेगस्स, इइ विज्जा तवं चरे ॥४९॥ ___ व्याख्या-पृथ्वी भूमिः,शालयो लोहितशाल्यादयः, यवाः प्रतीताः, चः शेषधान्यसमुच्चयार्थः, एवोऽवधारणे भिन्नक्रमोऽग्रे योक्ष्यते, हिरण्यं सुवर्णं, रूप्याद्युपलक्षणमेतत्, पशुभिर्गवादिभिः सह प्रतिपूर्णं समस्तं नैव अलं समर्थं प्रकमादिच्छापूतर्ये एकस्य जन्तोरिति शेषः । इत्येतत्पूर्वोक्तं 'विज्जत्ति' विदित्वा तपो द्वादशविधं चरेत्तत एव निःस्पृहतयेच्छापूर्ति सम्भवादनेन च सन्तोष एवाकांक्षापोहे क्षमो न तु स्वर्णादीत्युक्तं । ततः सन्तुष्टस्य मे स्वादौ साकांक्षत्वमेव नास्तीति तद्वर्धनोद्यमो दूरापास्त एवेति सूत्रद्वयार्थः ॥ ४९॥
UTR-2
५७॥
Page #60
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम्
।। ५८ ।।
मूलम् -- एयमट्टं निसामित्ता, हेउकारणचोइओ । तओ नमिं रायरिसिं, देविंदो इणमब्बवी ॥ ५० ॥ मूलम् --अच्छेरगमब्भुदए, भोए चयसि पत्थिवा ! । असंते कामे पत्थेसि, संकप्पेण विहण्णसि ! ॥ ५१॥
व्याख्या - आश्चर्यमिदं वर्तते यत् त्वमेवंविधोपि 'अब्भुदएत्ति' अद्भुतकानाश्चर्यरूपान् भोगान् त्यजसि हे पार्थिव ! तथाऽसतोऽविद्यमानान् कामान् प्रार्थयसे ! तदप्याश्चर्यमिति सम्बन्धः । अथवा कस्तवात्र दोष: ? सङ्कल्पेनोत्तरोत्तरभोगाभिलाषरूपेण विकल्पेन विहन्यसे बाध्यसे, अनन्तत्वादेवंविधसङ्कल्पस्य । परं यो विवेकी स प्राप्तान् कामानप्राप्तकामाकांक्षया न त्यजेद्विवेकी च भवानिति सूत्रार्थः ॥ ५१ ॥
मूलम्-- एअमट्टं निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ५२ ॥ मूलम् - सल्लं कामा विसं कामा, कामा आसीविसोवमा । कामे पत्थेमाणा, अकामा जंति दुग्गइं ॥५३॥
व्याख्या - शल्यमिव शल्यं कामा शब्दादयः, विषमिव विषं कामाः, कामा आशीविषोपमाः, आशीविषः सर्पस्तदुपमाः । किञ्च कामान् प्रार्थयमाना अपेर्गम्यत्वात् प्रार्थयमाना अपि अकामा इष्यमाणकामाभावाद्यान्ति दुर्गतिं, ततः कथं तत्परिहार आश्चर्यं ? असद्भोगप्रार्थनमपि यद्भवता सम्भावितं तदप्ययुक्तं, मुमुक्षूणां क्वचिदपि कांक्षाया अभावात् । उक्तं हि "मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः" इति ॥५३॥ कथं पुनः कामान् प्रार्थयमाना दुर्गतिं यान्तीत्याह
मूलम् - अहे वयइ कोहेणं, माणेणं अहमा गई। माया गइपडिग्घाओ, लोहाओ दुहओ भयं ॥५४॥
UTR-2
अध्य. ९
॥५८॥
Page #61
--------------------------------------------------------------------------
________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥ ५९॥
व्याख्या - अधो नरकगतौ व्रजति क्रोधेन, मानेन अधमा गतिः, 'मायत्ति' सुब्यत्ययान्मायया गतेः प्रस्तावात्सुगतेः प्रतिघातो विनाशो गतिप्रतिघातो, लोभात् 'दुहओत्ति' द्विप्रकारमैहिकं पारत्रिकं च भयं, स्यादिति सर्वत्र गम्यम् । कामेषु च प्रार्थ्यमानेष्ववश्यं भाविनः क्रोधादयस्ते चेदृशा इति कथं न तत् प्रार्थनया दुर्गतिरिति सूत्रद्वयार्थः ॥ ५४ ॥ इत्थमनेकैरप्युपायैस्तं क्षोभयितुमशक्तः शक्रः किमकरोदित्याह----
मूलम्--अवउज्झिऊण माहणरूवं विउरूविऊण इंदत्तं ।
वंदइ अभित्थुणंतो इमाहि महराहि वग्गृहि ॥५५॥ व्याख्या--अपोह्य त्यक्त्वा ब्राह्मणरूपं विउरूविऊणत्ति' विकृत्य इन्द्रत्वं उत्तरवैक्रियमिन्द्ररूपं वन्दते नमति अभिष्टुवन् स्तुति | कुर्वन् इमाभिर्वक्ष्यमाणाभिर्मधुराभिर्मनोराभिर्वाग्भिर्वाणीभिरिति सूत्रार्थः ॥ ५५ ॥ तथा हि
मूलम् -- अहो ते निज्जिओ कोहो, अहो ते माणो पराजिओ।
अहो ते निरकिआ माया, अहो ते लोहो वसीकओ॥५६॥ व्याख्या-- अहो ! इति विस्मये ते त्वया निर्जितः क्रोधः, यतस्त्वमनमन्नृपवशीकरणाय प्रेरितोपि न क्षुभितः। तथा अहो! ते मानः पराजितो यस्त्वं मन्दिरं दह्यत इत्याद्युक्तोपि कथं मयि जीवतीदं स्यादिति नाहङ्कृतिं कृतवान् ! अहो । ते निराकृता माया, यस्त्वं पुररक्षाहेतुषु मायाजन्येषु प्राकाराट्टालकोत्सूलकादिषु मनो न विन्यस्तवान् । तथाऽहो! ते लोभो वशीकृतो यस्त्वं हिरण्यादिव
UTR-2
॥५९॥
Page #62
--------------------------------------------------------------------------
________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥६०॥
द्धनाय नोदितोपि इच्छाया आकाशसमत्वमेवाभिहितवान् ! ॥५६॥ तथामूलम्--अहो ते अज्जवं साहु, अहो ते साहु मद्दवं । अहो ते उत्तमा खंती, अहो ते मुत्ति उत्तमा ॥ ५७ ॥
व्याख्या-- स्पष्टं, नवरमार्जवं मायाभावः, साधु शोभनं, मार्दवं मानाभावः, क्षान्तिः क्रोधाभावः, मुक्तिनिर्लोभतेति सूत्रद्व| यार्थः ॥५७ ॥ इत्थं गुणैः स्तुत्वा फलोपदर्शनद्वारेण स्तुतिमाह-- मूलम्-इहंसि उत्तमो भंते, पेच्चा होहिसि उत्तमो । लोगुत्तमुत्तमं ठाणं, सिद्धिं गच्छसि नीरओ ॥ ५८॥
व्याख्या-इहास्मिन् लोके असि वर्त्तसे उत्तमः उत्तमगुणान्वितत्वात्, हे भदंत ! हे पूज्य ! 'पेच्चत्ति' प्रेत्य परलोके भविष्यसि उत्तमः, कथमित्याह-'लोगुत्तमुत्तमंति' लोकस्य उत्तमोत्तमं अतिशयप्रधानं लोकोत्तमोत्तमं स्थानं, किं तदित्याह-सिद्धिं मुक्तिं गच्छसित्ति' सूत्रत्वाद्गमिष्यसि, नीरजा निष्कर्मेति सूत्रार्थः ॥५८ ॥ उपसंहरतिमूलम्-एवं अभित्थुणंतो, रायरिसिं उत्तिमाइ सद्धाए । पायाहिणं कुणंतो, पुणो पुणो वंदए सक्को ॥ ५९ ॥
व्याख्या-- एवमुक्तन्यायेन अभिष्टवन् राजर्षि उत्तमया श्रद्धया प्रदक्षिणां कुर्वन् पुनः पुनर्वन्दते प्रणमति शक्रः ॥५९ ॥ मूलम्-तो वंदिऊण पाए, चक्कंकुसलक्खणे मुनिवरस्स । आगासेणुप्पइओ, ललिअचवलकुंडलतिरीडी ॥६०॥
व्याख्या-- ततस्तदनन्तरं वन्दित्वा पादौ चक्राङ्कशलक्षणौ मुनिवरस्य आकाशेन उत्पतितः स्वर्गाभिमुखं गतः ललिते च ते सविलासतया चपले चञ्चलतया ललितचपले तादृशे कुण्डले यस्य स ललितचपलकुण्डलः सचासौ किरीटी च मुकुटवान् ललितचपलकुण्ड
UTR-2
॥६०॥
Page #63
--------------------------------------------------------------------------
________________
उत्तराध्य
अध्य. ९
यनसूत्रम्
॥६१॥
लकिरीटीति सूत्रार्थः ॥६० ॥शक्रेणैवं स्तूयमानः स मुनिः किमुत्कर्ष व्यधादुत नेत्याह-- मूलम्--नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ । चइऊण गेहं वइदेही, सामण्णे पज्जुवट्ठिओ ॥६१ ॥ ___ व्याख्या-- नमिर्नमयति स्वतत्त्वभावनया प्रखं करोत्यात्मानं स्वं नतूत्सेकं नयति । उक्तञ्च--"संतगुणकित्तणेणवि पुरिसा लज्जंति जे महासत्ता ॥ इअरा पुण अलिअपसंसणेवि हिअए न मायंति ॥१॥" किम्भूतो नमिः ? साक्षात्प्रत्यक्षीभूय शक्रेण चोदितः प्रेरितः त्यक्त्वा गेहं 'वइदेहित्ति' सूत्रत्वाद्विदेही विदेहदेशाधीशः श्रामण्ये पर्युपस्थितः उद्यतो न तु तत्प्रेरणयापि धर्माद्विच्युतोऽभूदिति भाव इति सूत्रार्थः ॥६१ ॥ अथामुष्य मुनिमुख्यस्य दृष्टान्तेनोपदेशमाह
मूलम्--एवं करिंति संबुद्धा, पंडिआ पविअक्खणा।
विणिअटुंति भोगेसु, जहा से नमी रायरिसित्ति बेमि ॥६२ ॥ व्याख्या-- एवमिति यथामुना नमिनाम्ना मुनिना निश्चलत्वं कृतं तथाऽन्येपि कुर्वन्ति, कीदृशाः? संबुद्धा अवगततत्त्वाः, पण्डिता निश्चितशास्त्रार्थाः, प्रविचक्षणा अभ्यासातिशयात्क्रियाम्प्रति प्रवीणाः, तादृशाश्च सन्तो विनिवर्तन्ते उपरमन्ते 'भोगेसुत्ति' भोगेभ्यो यथा | स नमी राजर्षिस्तेभ्यो निवृत्त इति ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥६२॥इति समाप्तोऽध्ययनसूत्रार्थः, अथ प्रक्रान्तशेषं प्रस्तूयते, तच्चेदं
अथ नग्गतिसंज्ञस्य, सम्बुद्धस्याम्रपादपात् ।। तुर्यप्रत्येकबुद्धस्य, कथां वक्ष्यामि तद्यथा ॥१॥ अत्रैव भरतक्षेत्रे, देशे गान्धारसंज्ञके ॥ श्रीपाण्डुवर्धनपुरे, राजा सिंहस्थोऽभवत् ॥ २ ॥ अन्यदा तस्य भूभर्तु-विश्वावुत्तरापथात् ॥ उपायने समायातौ, शक्र
UTR-2
॥६१॥
Page #64
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥ ६२ ॥
वाजिविजित्वरौ ॥ ३ ॥ तयोर्मध्ये बभूवैक- स्तुरङ्गो वक्रशिक्षितः ॥ तमारोहन्नृपो दैवा - द्वितीयं तु तदङ्गजः ॥ ४ ॥ ततः सैन्यान्वितो राजा, निर्गत्य नगराद्बहिः । वाहकेलीगतो वाह-वाहनार्थं प्रचक्रमे ॥५॥ प्रकृष्टां तद्गतिं द्रष्टुं, कशया प्राहरच्च तम् ॥ ततः स तुरंग: सिन्धु-पूरादप्यचलद्भुतम् ॥६॥ तं रक्षितुं नृपो वल्गा - माचकर्ष यथा यथा । तथा तथा हयो जज्ञे, जवनः पवनादपि ॥७॥ गच्छनैवं योजनानि, द्वादशातिगतो हयः ॥ तमरण्येऽनयन्नद्याः, पूरस्तरुमिवोदधौ ॥८॥ आकृष्याकृष्य निर्विण्णो, वल्गां तत्रामुचन्नृपः ॥ तुरङ्गमपि तत्रैव, तस्थौ तत्क्षणमात्मना ॥ ९ ॥ ततस्तं वाजिनं ज्ञात्वा भूशको वक्रशिक्षितम् ॥ बद्ध्वा क्वापि द्रुमे भ्राम्यन्, प्राण- वृत्तिं व्यधात्फलैः ॥ १० ॥ रात्रिवासाय चारूढो, गिरिमेकं महीपतिः । ददर्शैकं दर्शनीयं, प्रासादं सप्तभूमिकम् ॥११॥ तस्य मध्ये प्रविष्टश्चा- द्राक्षीदेकां मृगेक्षणाम् ॥ रूपलावण्यतारुण्य - तिरस्कृतरतिश्रियम् ॥ १२ ॥ ससम्भ्रमं समुत्थाय, प्रमोदभरमेदुरा ॥ ददौ साप्यासनं तस्मै, सोऽपि तस्मिन्नुपाविशत् ॥ १३ ॥ मिथस्तावन्वरज्येतां, क्षणाद्द्रुतीकृतेक्षणौ ॥ अन्योन्यदर्शनोद्भूत स्नेहावेशतत्रपौ ॥१४॥ कासि त्वं ? सुभगे ! किञ्च तिष्ठस्येकाकिनी वने ॥ ? अथेति भूभुजा पृष्टा, सोत्कण्ठं सैवमब्रवीत् ॥ १५ ॥ भवनेऽस्मिन्वेदिकायां, पूर्वमुद्वह मां प्रभो ! ॥ पश्चात्स्वस्थमनाः सर्वं वक्ष्ये वृत्तान्तमात्मनः ॥ १६ ॥ तत्कर्णामृतमाकर्ण्य वाक्यं तस्या धराधिपः ॥ सरसं भोजनं प्राप्य, बुभुक्षुरिव पिप्रिये ॥ १७ ॥ भवने तत्र सानन्दं प्रविष्टश्च जिनालयम् ॥ सोऽपश्यत्तस्य तु पुरो, वेदिकां शुभवेदिकाम् ॥ १८ ॥ ततो नत्वा जिनं सन्ध्या समये वेदिकां गतः ॥ गान्धर्वेण विवाहेनो-वशस्तामुदुवाह सः ॥ १९ ॥ ततो वासगृहे गत्वा, विलासैर्विविधैः सुखम् ॥ अतिवाह्य निशां प्रातस्तौ जिनेन्द्रं प्रणेमतुः ॥ २० ॥ राज्ञः सिंहासनस्थस्योपविष्टार्धासने मुदा ॥ साथ राज्ञी जगौ राजन्!, वार्ता मे श्रूयतामिति ॥ २१ ॥
UTR-2
अध्य. ९
॥६२॥
Page #65
--------------------------------------------------------------------------
________________
अध्य. ९
उत्तराध्ययनसूत्रम् ॥६३॥
अत्रैव भरतक्षेत्रे, शालिलक्ष्मीविभूषिते ॥ क्षितिप्रतिष्ठितपुरे-ऽभवद्विजितशत्रुराट् ॥ २२ ॥ स चान्यदा सभामेकां, कारयित्वा मनोहराम् ॥ सर्वां चित्रकरश्रेणी-माहूयैवमवोचत ॥ २३ ॥ यावन्ति वो गृहाणि स्यु- गैस्तावन्मितैरियम् ॥ चित्रणीया सभा चित्रै-श्चिश्चित्रैकहेतुभिः ॥ २४ ॥ प्रमाणमाज्ञेत्युक्त्वाथ, नैके चित्रकृतोपि ताम् ॥ आरेभिरे चित्रयितुं, करस्तेषां स एव हि ॥ २५ ॥ | तत्र चैको जरी चित्र-करश्चित्राङ्गदाभिधः ॥अचित्रयत्सभां नित्य-मसहायः सुतोज्झितः ॥२६ ॥ तस्य चैकाभवत्पुत्री, नाम्ना कनकमञ्जरी ॥ रूपयौवनचातुर्य-कलासर्वस्वसेवधिः ॥ २७ ॥ सा प्रत्यहं सभास्थस्य, गत्वा भक्तमदात् पितुः ।। स तु तस्यामागताया-मगानित्यं बहिर्भुवि ॥ २८ ॥ अन्येद्युभक्तमादाय, प्रस्थिता सा जनाकुले ॥ राज्यमार्गे ययौ याव-त्कनी मन्थरगामिनी ॥ २९ ।। तावत्तत्र जवेनाद्रि-वाहिनीपूरजिष्णुना ॥ वाहयन्तं हयं भूप - मश्ववारं ददर्श सा ॥ ३० ॥ ततो भीता प्रणष्टा सा, गते तत्र सभामगात् ॥ सभक्तामागतां तां च, वीक्ष्य वृद्धो बहिर्ययौ ॥ ३१ ॥ तस्य पुत्री तु तत्रस्था, कौतुकात्कुट्टिमेऽलिखत् ॥ विविधैर्वर्णकैरेकं, केकिपिच्छं यथास्थितम् ॥ ३२ ॥ अत्रान्तरे सभां द्रष्टुं, तत्रायातो महीपतिः ॥ तत्केकिपिच्छमादातुं, चिक्षेप करमञ्जसा ॥ ३३ ॥ तत्पिच्छं तत्करे नागा-- नखभङ्गस्त्वजायत ॥ प्रवृत्तिर्हि विना तत्त्व-ज्ञानं स्यान्निष्फला नृणाम् ॥ ३४ ॥ ततो विलक्षं, मापालं वीक्षमाणमितस्ततः । सविलासं विहस्येति, प्रोचे कनकमञ्जरी ॥ ३५ ॥ मञ्चको ही त्रिभिः पादैः, सुस्थितो न भवेदिति ॥ पश्यन्त्यास्तुर्यपादं मे, तुर्यमूर्योऽमिलद्भवान् ॥ ३६ ॥ केऽन्ये त्रयः कथञ्चाहं, तुर्यः ? इत्यवनीभृता ।। पृष्टा सा पुनरित्यूचे, तं राजानमजानती ॥ ३७ ।। अहं चित्राङ्गदाह्वस्य, वृद्धचित्रकृतः सुता ॥ इहस्थस्य पितुर्डेतो -- रायान्त्यादाय भोजनम् ॥ ३८ ॥ रंहसा भूयसा वाहं, वाहयन्तं चतुष्पथे । अद्यैकं मर्त्यमद्राक्षं, स मूर्खः प्रथमो मतः ।। ३९ ॥ ( युग्मम् ) राजमार्गो हि बालस्त्री-वृद्धाद्यैः सङ्कलो
UTR-2
॥६३॥
Page #66
--------------------------------------------------------------------------
________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥६४॥
भवेत् ॥ इति तत्र जवेनाश्वान्, वाहयन्ति न धीधनाः ॥ ४० ॥ निर्दयः स तु तत्रापि, रंहसा वाहयन् हयम् ॥ खट्वायामादिमः पादः, कथ्यते बालिशाग्रणी:! ॥ ४१ ॥ द्वितीयस्तु महीपालो-विज्ञातपरवेदनः ॥ शिल्पिनां वेश्मतुल्यांशै- योऽदाच्चित्रयितुं सभाम् ॥ ४२ ॥ सन्ति चित्रकृतोऽनेके- ऽन्येषु सर्वेषु वेश्मसु ॥ मम तातस्तु निष्पुत्रो, दुःस्थो वृद्धश्च विद्यते ॥ ४३ ॥ तस्याप्यन्यैः सह समं, भूपो भागं प्रकल्पयन् ॥ द्वितीयः प्रोच्यते मूढ- स्तृतीयस्तु पिता मम ! ॥ ४४ ॥ स हि पूर्वाजितं सर्वं, बुभुजे चित्रयन् सभाम् ॥ विनार्जनां भुज्यमानं, वित्तं हि स्यात्कियच्चिरम्? ॥ ४५ ॥ अथ यत्किञ्चिदादाया- गतायां मयि भोजनम् । स याति देहचिन्तायै, न तु पूर्वं करोति ताम् ॥ ४६ ॥ ततश्च शीतलीभूतं, तद्भोज्यं विरसं भवेत् ।। सदन्नेपि हि शीते स्या-द्वैरस्यं किं पुनः परे ? ॥ ४७ ॥ तादृशं च विधायान्नं, भुञ्जानो मत्पिताऽनिशम् ॥ तृतीयः प्रोच्यते जाल्म-श्चतुर्थस्तु भवान्मतः! ॥ ४८ ॥ आगमो हि कदाप्यत्र, न सम्भवति केकिनाम् ॥ तत्स्यात्कौतस्कुतः पात-स्तत्पिच्छस्येह कुट्टिमे? ॥ ४९ ॥ अथात्रापि तदानीतं, स्यात्केनापीति चेत्तदा ॥ तस्य प्राग् निर्णयः कार्य-स्तोमस्फुरणादिना ॥५०॥तं विना तु क्षिपन् पाणि-मस्मिंस्त्वं मूढ एव हि ! ॥ ततोवादीनृपः सत्य-महं पादस्तुरीयकः ॥५१॥दध्यौ च भूपतिरहो !, अस्या वचनचातुरी ।। अहो बुद्धिरहोरूप- महो लावण्यमद्भुतम् ॥५२॥ पाणौकृत्य तदेनां | स्वं, करोमि सफलं जनुः ॥ ध्यायन्निति निजं धाम, ययौ नृपतिरुत्सुकः ॥ ५३ ॥ तातं प्रभोज्य तस्याञ्च, गतायां स्वगृहे नृपः ।। प्रैषिच्चित्राङ्गदाभ्यणे, श्रीगुप्ताभिधधीसखम् ॥५४॥ तेनार्थितः पार्थिवार्थं, कनी कनकमञ्जरीम् ।।चित्राङ्गदोऽवदद्युक्त-मदः किन्त्वस्मि निर्धनः ॥ ५५ ॥ तद्विवाहोत्सवं राज्ञः, पूजाञ्च विदधे कथम् ? ॥ दुःस्थानां युदरापूर्ति-रपि कृच्छ्रेण जायते ! ॥ ५६ ॥ सचिवेनाथ तद्वाक्ये, राज्ञः प्रोक्ते नृपोपि हि॥धनधान्यहिरण्याद्यै-स्तस्य गेहमपूरयत् ॥५७॥शुभे चाह्नि महीशस्ता-मुपयेमे महामहैः ॥
UTR-2
॥६४॥
Page #67
--------------------------------------------------------------------------
________________
अध्य. ९
उत्तराध्ययनसूत्रम् ॥६५॥
ददौ च तस्यै प्रासाद, दासाद्यं च परिच्छदम् ॥ ५८ ॥ तस्य राज्ञोऽभवन् राज्यो, बहुलास्तासु चान्वहम् ॥ भूपतेर्वाससौधेऽगा-देकैका | स्वस्ववारके ॥ ५९ ॥ तस्मिन्दिने तु भूपेना-दिष्टा कनकमंजरी ॥ ययौ दास्या समं राज्ञो, गेहं भूषणभूषिता ॥६० ॥ तत्रागमय
माना सा, नृपं तस्थौ तु विष्टरे ॥ राज्यागते च विनय-मभ्युत्थानादिकं व्यधात् ॥६१ ॥ भूपेऽथ सुप्ते शय्याया-मेवं मदनिका| भिधा ॥ पूर्वसङ्केतिता दासी, जगौ कनकमंजरीम् ॥ ६२ ॥ स्वामिनि ! त्वं कथां ब्रूहि, काञ्चित्कौतुककारिणीम् ॥ सा प्रोचे राज्ञि निद्राणे, कथयिष्यामि तामहम् ।। ६३ ॥ तच्छ्रुत्वा भूधवो दध्या-वस्याश्चातुर्यपेशले ॥ वचने श्रूयमाणे हि, शर्करा कर्करायते ॥६४॥ ततोऽनया वक्ष्यमाण - माख्यानमहमप्यहो! ॥ शृणोमीति नृपो ध्यायन्, सुष्वापालीकनिद्रया ॥ ६५ ॥ अथोचे मदना देवि ! सुप्तो राट् कथ्यतां कथा ॥ साऽवदत्सावधाना त्वं, शृणु तां वच्मि तद्यथा ॥६६॥ श्रीवसन्तपुरे श्रेष्ठी, वरुणाख्यो दृषन्मयम् ॥ अचीकरदेवकुल- मेकमेककरोच्छ्रयम् ॥ ६७ ।। तत्र देवकुले देवं, चतुर्हस्तं न्यधत्त सः ॥ तदाकर्ण्य जगौ जात-कौतुका मदनेति ताम् ।।६८॥ | एकहस्ते सुरगृहे, चतुर्हस्त: सुरः कथम्? ॥ मातीति संशयं छिन्धि, स हि खाट्कुरुते हृदि ॥ ६९ ॥ देवी स्माहाधुनायाति, निद्रा मे | तत्परेद्यवि ॥ इदं वक्ष्यामि ते को हि, निद्रासुखमुपेक्षते ? ॥ ७० ॥ एवमस्त्विति जल्पन्ती, ततोऽगान्मदना गृहम् ॥ अथो यथो| चितस्थाने-ऽस्वपीत्कनकमंजरी ॥७१ ॥ भूपस्त्वचिन्तयदियं, वार्ता सङ्गच्छते कथम् ? ॥ तस्या रहस्यं पृच्छामि, तदेनामधुनैव हि
॥ ७२ ॥ यद्वा वक्ष्यत्यसौ जाल्म-मस्मिन् प्रश्ने कृते हि माम् ॥ अर्थोदिता च वार्ता स्या - द्वल्लभातोपि वल्लभा ।। ७३ ॥ श्वस्तनेपि | दिने दास्ये, तदस्या एव वारकम् ॥ यथार्धकथिता वार्ता, श्रूयते स्वयमेव सा ।।७४ ॥ध्यात्वेत्यदान्नृपस्तस्यै, द्वितीयेप्यनि वारकम् ॥ तथैव राज्ञि सुप्ते ता-मदो मदनिकाऽवदत्! ॥७५॥ ताम?क्तां कथां ब्रूहि, तयेत्युक्ते च साऽब्रवीत् ॥ देवश्चतुर्भुजः सोऽभू-न तु
UTR-2
॥६५॥
Page #68
--------------------------------------------------------------------------
________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥६६॥
तन्मानभूधनः ॥ ७६ ॥ अथाख्याहि कथामन्या-मेवं मदनयोदिता ॥ राज्ञी जगौ वने क्वापि, रक्ताशोकद्रुमोऽभवत् ॥ ७७ ॥ शाखाशताकुलस्यापि, तस्य छाया तु नाभवत् ॥ जगाद मदना तस्य, छाया न स्यात्तरोः कथम् ? ॥ ७८ ॥ साख्यत्तन्द्राकुलास्मीति, कल्ये वक्ष्याम्यदस्तव ॥ ततस्तस्यै ददौ भूप - स्तृतीयेप्यनि वारकम् ॥ ७९ ॥ प्राग्वन्मदनया पृष्टा, साथ प्रोचे महाशया ॥ तरोस्तस्याभवच्छाया - ऽधस्तादूर्ध्वन्तु नाऽभवत् ।।८० ॥आख्यानमन्यदाख्याही- त्युक्ता मदनया पुनः ॥सावादीत् क्वाप्यभूद्ग्रामे, कोपि दासेरपालकः ॥ ८१ ॥ तस्य चैको महाकायो, वणोन्तर्वणं चरन् ॥ एकं बब्बूलमद्राक्षीत्, फलपुष्पभराकुलम् ॥ ८२ ॥ ततः स तं द्रुममभि-ग्रीवां प्रासारयन्मुहुः ॥ पत्रमात्रमपि प्राप, न तु तस्य महातरोः ॥ ८३ ॥ जातकोपस्ततस्तस्य, द्रुमस्योर्ध्वं क्रमेलकः ॥ विण्मूत्रे व्यसृजत्को वा कदर्येभ्यो न कुप्यति ? ॥ ८४ ॥ मदनाख्यन्मुखेनापि, यं न प्राप महाद्रुमम् ॥ तस्योपरि शकृन्मूत्रे, स दासेरो व्यधात्कथम् ? ॥ ८५ ॥ राज्ञी जगाविदं कल्ये, वक्ष्ये निद्रामि साम्प्रतम् ॥ तुर्येप्यनि ततो राजा, तस्यै वारकमार्पयत् ॥ ८६ ॥ ततो दास्या तया पृष्टा, प्रोचे कनकमंजरी ॥ बब्बूलः स हि कूपेभू - त्तत्तं प्सातुं स नाशकत् ।। ८७ ॥ प्राग्वत्कथान्तरं पृष्टा, तया सा चैवमब्रवीत् ॥ भूपेन क्वापि केनापि, गृहीतौ द्वौ मलिम्लुचौ ॥ ८८ ॥ मञ्जूषां निहितौ तौ च, नृपो नद्यामवाहयत् ॥ दयार्द्रचेता न पुन-रियामास तौ स्वयम् ॥ ८९ ॥ यान्ती नदीजले वीक्ष्य, तां पेटा केप्यकर्षयन् ॥ तां समुद्घाट्य ते चैव-मपृच्छंस्तौ विनिर्गतौ ॥ ९०॥ युवयोः क्षिप्तयोरत्र, जज्ञिरे कति वासराः? अद्य तुर्यं दिनमिति, तयोरेकोब्रवीत्तदा ॥ ९१ ॥ कथं तुर्यमहर्जात-मिति पृष्टा भुजिष्यया ॥ देव्यूचे श्व इदं वक्ष्ये, निद्राकालो ह्युपस्थितः ॥ ९२ ॥ पञ्चमेपि दिने राज्ञा, कौतुकाद्दत्तवारका ॥ तथैव दास्या पृष्टा चे-त्यूचे कनकमंजरी ॥ ९३ ॥ तृतीयज्वरवानासी-दित्यज्ञासीत्स तं दिनम् ॥ इत्युक्त्वा सा कथामन्यां, दास्या पृष्टैवमब्रवीत् ॥ ९४ ॥ जज्ञिरे
UTR-2
॥६६॥
Page #69
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
॥ ६७ ॥
बहुला राज्ञ्यो, राज्ञः कस्यापि कुत्रचित् ॥ तासु चैकाभवत्तस्य, स्वप्राणेभ्योपि वल्लभा ॥ ९५ ॥ राज्ञीनां शङ्कयान्यासां, कलादैर्भूगृहस्थितैः ॥ स च तस्याः कृते छन्न-मलङ्कारानकारयत् ॥ ९६ ॥ को हि कालोधुनास्तीति, कलादांस्तांश्च कौतुकात् ॥ कोप्यपृच्छत्तदा चैको, रात्रिरस्तीत्यभाषत ॥ ९७ ॥ तत्र रात्रिः कथं ज्ञाते -त्युक्ता राज्ञी भुजिष्यया ॥ प्रोचे प्रमीलाभ्येतीति वक्ष्येन्येद्युरिदं तव ॥ ९८ ॥ षष्ठेप्यह्नि नृपप्राप्त - वारका साथ तां जगौ ॥ भूगृहेपि निशान्धत्वा-त्स क्षपां ज्ञातवानिति ॥ ९९ ॥ कथान्तरञ्च पृष्टैवं, साख्यत्कस्यापि भूपतेः ॥ पेटां भूषणसम्पूर्णां, निश्च्छिद्रां कोप्यढौकयत् ॥ १०० ॥ तस्यां चानुद्घाटिताया- मेवापश्यन्नृपोऽखिलान् ॥ तन्मध्यस्थानलंकारा-न्दास्याख्यत्स्यादिदं कथम् ? ॥ १०१ ॥ राज्ञी स्माह तवेदं श्वो, वदिष्यामि शयेऽधुना ॥ प्राप्ता च वारकं प्राग्व-च्चेट्या पृष्टैवमभ्यधात् ॥ १०२ ॥ बभूव पेटिका सा हि स्वच्छस्फटिकनिर्मिता ॥ तत्तस्यां पिहितास्याया मपि भूषा ददर्श राट् ॥ १०३ ॥ आख्यानैरीदृशैर्यावत्, षण्मासान् सा नरेश्वरम् ॥ व्यमोहयत्ततः सोऽभू-तस्यामेव रतो भृशम् ॥ १०४ ॥ नृपाङ्गजा अप्यन्यास्तु, राज्ञीर्नाजल्पयन्नृपः॥ ततस्ताः कुपिता नित्यं तस्याच्छिद्राण्यमार्गयन् ॥ १०५ ॥ ऊचुश्चैवमयं भूपो ऽनया नूनं वशीकृतः ॥ कुलीना नस्त्यक्त्वा, यदस्यामेव रज्यते ॥ १०६ ॥ चित्रकृत्तनया सा तु सुधीर्मध्यंदिनेन्वहम् ॥ स्थित्वा गर्भगृहे हित्वा, वस्त्रभूषा नृपार्पिताः ॥ १०७ ॥ आमुच्य पितृसत्कानि, वस्त्राण्याभरणानि च ॥ एकाकिनी स्वमात्मानमेवमुच्चैरबोधयत् ॥ १०८ ॥ ( युग्मम् ) रे जीव ! मा मदं कार्षी-र्मा विधा ऋद्धिगौरवम् ॥ मा विस्मार्षीर्निजां पूर्वा-वस्थां प्राप्तोपि सम्पदम् ॥ १०९ ॥ अलङ्कारास्त्रपुमा जीर्णानि वनानि च ॥ निजानीमानी जानीहि सर्वमन्यत्तु भूपतेः ॥ ११० ॥ तद्दर्पमपहाय त्व-मात्मन् ! शान्तमना भव ॥ यथा सुचिरमेतासां, पदं भवसि सम्पदाम् ॥ १११ ॥ अन्यथा तु नरेन्द्रस्त्वां गृहीत्वा गलकन्दले ॥ निष्काशयिष्यति गृहात्, कुथिताङ्ग
UTR-2
अध्य. ९
॥६७॥
Page #70
--------------------------------------------------------------------------
________________
अध्य. ९
उत्तराध्ययनसूत्रम् ॥६८॥
शुनीमिव ॥ ११२ ॥ तच्च तच्चेष्टितं दृष्ट्वा, दुष्टास्तुष्टाश्छलान्विषः ॥ इत्यूचिरेऽपरा राज्यो, जनेशं विजने स्थितम् ।। ११३ ॥ यद्यपि त्वं प्रभोऽस्मासु, नि:स्नेहोसि तथापि हि ॥ रक्षामस्त्वां वयं विघ्नात् , स्त्रियो हि पतिदेवताः ॥ ११४ ॥ त्वत्प्रिया सा हि कुरुते, कार्मणं किञ्चिदन्वहम् ॥ तया वशीकृतस्त्वं तु, न जानासि तदप्यहो ! ॥ ११५ ॥ अथ राज्ञा कथमिद-मित्युक्तास्ताः पुनर्जगुः ॥ यदि प्रत्येषि न तदा, त्वं निरूपय केनचित् ।। ११६ ।। सा हि स्थित्वापवरके, पिधाय द्वारमन्वहम् ॥ कृत्वा कुवेषं मध्याह्न, किञ्चिन्मुणगुणायते ! ॥ ११७ ॥ तन्निशम्य नृपस्तत्र, गतस्तद्वीक्षितुं स्वयम् ॥ प्राग्वत्स्वनिन्दां कुर्वत्या-स्तस्याः शुश्राव तां गिरम् ॥ ११८ ॥ ततस्तुष्टो नृपोध्यासी-दहो ! अस्याः शुभा मतिः ॥ अहो विवेकच्छेकत्व- महो मानापमाननम् ! ॥११९ ॥ मदोन्मत्ता भवन्त्यन्ये, स्वल्पायामपि सम्पदि । असौ तु सम्पदुत्कर्ष, सम्प्राप्तापि न माद्यति ! ॥१२० ॥ तदस्याः सन्ति सर्वेपि, गुणा एवेति निश्चितम् ।। राज्यस्त्वेता गुणमपि, दोषं पश्यन्ति मत्सरात् ! ॥१२१ ॥ उक्तञ्च - " जाड्यं हीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवम् ॥ शूरे निघृणता ऋजौ विमतिता दैन्यं प्रियालापिनि ॥ तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे । तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैर्नाङ्कितः?" ॥ १२२ ॥ ध्यात्वेति भूपतिस्तुष्टः, पट्टराज्ञी चकार ताम् ॥ गुणैर्महत्त्वमाप्नोति, जनो न तु कुलादिभिः ॥ १२३ ॥ नृपो विमलचन्द्राख्यः सूरिपार्श्वे स चान्यदा ॥ समं कनकमञ्जर्या, श्राद्धधर्ममुपाददे ! ॥ १२४ ॥ साथ चित्रकृतः पुत्री, क्रमान्मृत्वा दिवं ययौ ॥ अविराधितधर्माणः, सुरेष्वेव व्रजन्ति हि ॥ १२५ ॥ वैताढ्ये तोरणपुरे, दृढशक्तिमहीपतेः॥ सुता कनकमालाख्या, जज्ञे स्वर्गाच्च्युता तु सा ॥१२६ ।। तां प्राप्तयौवनां प्रेक्ष्य, रूपाढ्यां मोहितोन्यदा ॥ हृत्वानैषीदिह गिरौ, खेचरो वासवाभिधः ॥१२७॥ विद्यया विहिते सद्यः, प्रासादेस्मिन् विमुच्य ताम् ।। स व्यधाद्वेदिकामेना, यावदुद्वोढुमुद्यतः ॥ १२८ ॥ तावदत्रागतस्तस्या, अग्रजस्तां
UTR-2
॥६८॥
Page #71
--------------------------------------------------------------------------
________________
अध्य..९
उत्तराध्ययनसूत्रम् ॥६९ ॥
गवेषयन् ॥ योद्धमाह्वास्त कनक-तेजास्तं खेचरं क्रुधा ॥ १२९ ॥ विद्याबलोजितौ युद्धं, कुर्वन्तौ तुल्यविक्रमौ ॥ तावन्योन्यप्रहारेण, सद्योभूतां यमातिथी ॥१३०॥स्वं तद्विनाशकीनाशं, निन्दन्ती वीक्ष्य तौ मृतौ ॥ चिरं रुरोद कनक - माला भ्रातृशुचाकुला ॥१३१ ॥ तदा चात्रागतो वान-मन्तराख्यः सुरोत्तमः ॥ वत्से ! त्वं मम पुत्रीति, प्रेम्णा यावदुवाच ताम् ॥ १३२ ॥ सुतामन्वेषयंस्ताव-दृढशक्तिरिहाययौ ॥ ततः कनकमालां द्राक्, शबरूपां सुरोकरोत् ॥ १३३ ॥ अथ तान् पतितान् पृथ्व्यां, स्वपुत्रीपुत्रवासवान् ॥ विप| न्नान् वीक्ष्य संविग्नो, दृढशक्तिरचिन्तयत् ॥ १३४ ॥ वासवेन सुतो नूनं, जने तेन च वासवः ॥ सुता तु वासवेनैव, मार्यमाणेन मारिता
॥ १३५ ॥ तत्संसारेत्र दुःखाढ्ये, कृती को नाम रज्यते ?॥ ध्यात्वेति प्राव्रजद्विद्या-धरराजस्तदैव सः ॥ १३५ ॥ मायां हृत्वा ततो देवः, समं कनकमालया ॥ ननाम श्रमणं सोऽपि, किमेतदिति पृष्टवान् ? ॥१३७ ॥अथोक्ते भ्रातृपञ्चत्वो-दन्ते कनकमालया । मया शबत्रयं दृष्टं, कथमित्यवदन्मुनिः? ॥१३८ ॥ सुरोथाचीकथन्माया, मयासौ तव दर्शिता ! ॥ मुनिः स्माह कुतो हेतो -या मे दर्शिता त्वया ? ॥ १३९ ॥ देवोवादीत्तत्र हेतुं, दृढशक्तिमुने ! शृणु ॥ क्षितिप्रतिष्ठितपुरे, जज्ञे विजितशत्रुराट् ॥ १४० ॥ स च चित्रकृतः पुत्री, नाम्ना कनकमञ्जरीम् ।। उपयेमेन्यदा सा च, परमश्राविकाभवत् ॥ १४१ ॥ तया पञ्चनमस्कारा-दिना निमितो मृतः ॥ तत्पिता चित्रकृद्वान-मन्तराख्यः सुरोभवत् ॥ १४२ ॥ सोहमत्राधुनायातो-ऽपश्यं शोकाकुलामिमाम् ॥ उत्पन्नभूरिप्रेमा चो -पयोगमवधेरदाम् ॥१४३ ॥ असौ मे प्राग्भवसुते-त्यज्ञासिषमहं ततः । त्वाञ्च तत्क्षणमायान्तं, निरीक्ष्यैवमचिन्तयम् ॥ १४४ ॥ पित्रा सहासौ गन्त्रीति, भावि मे विरहोऽनया ॥ध्यात्वेत्यदर्शयमिमां, मायया ते शबोपमाम् ।। १४५ ॥ त्वां च प्रव्रजितं प्रेक्ष्य, माया द्राक् संहृता मया ॥ तन्मे दुश्चेष्टितमिदं, सोढव्यं सुमुने! त्वया ॥ १४६ ॥ धर्महेतुतया मे त्व-मुपकर्तासि तत्कुतः ? ॥ इत्थमात्थेति
UTR-2
॥६९॥
Page #72
--------------------------------------------------------------------------
________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥ ७० ॥
सञ्जल्प-नुत्पपात मुनिस्ततः ॥ १४७ ॥ तदा कनकमालापि, श्रुत्वा वृत्तान्तमात्मनः ॥ प्राप्ता जातिस्मृति सद्यो, ददर्श प्राग्भवं निजम् ॥ १४८ ॥ मत्पितायमिति प्रेम, सुरे सा तत्र बिभ्रति ॥ तात ! को मे वरो - भावीत्यप्राक्षीत्तं दिवौकसम् ।।१४९ ॥ सुरोथावधिना ज्ञात्वा, प्रोचे प्राच्यस्तव प्रियः ॥ राजा विजितशत्रुः स, देवीभूय च्युतो दिवः॥ १५० ॥ दृढसिंहमहीनेतुः, सुतः सिंहरथाह्वयः ॥ जातोस्ति मेदिनीभर्ता, भर्त्ता भावी स ते सुते ! ॥ १५१ ॥ (युग्मम् ) तत्सङ्गो मे कथमिह, भावीत्युक्तस्तया पुनः? ।। सुरोवादीदिहागन्ता, वाजिनापहृतो हि सः ॥ १५२ ॥ तदुद्वेगं विहाय त्व-मिह तिष्ठ यथासुखम् ।। अहं त्वदादेशकारी, स्थास्यामि तव सन्निधौ ॥ १५३ ॥ इत्युक्त्वा सपरीवारः, प्रासादेऽस्थादिहामरः ॥ तस्थौ कनकमालापि, तदभ्यणे सुरीवृता ॥ १५४ ।। स्वामिन् ! कनकमालां तां, मामवेहि गुणोदधे ! ॥ स देवस्तु ययौ मेरुं, चैत्यनत्यै गतेऽहनि ॥ १५५ ॥ ततस्त्वमपराह्ने म- त्पुण्याकृष्ट इहागमः ॥ मन्मनोनयनाम्भोज-विभासनविभाकरः ॥ १५६ ॥ मया तूत्कण्ठया ताता-गमं यावत्प्रतीक्षितुम् ॥ अशक्तया त्वया साकं, स्वयमात्मा विवाहितः ।। १५७ ॥ एष स्वामिन् स्ववृत्तान्तो, मया तुभ्यं निवेदितः ॥ इति तद्वाक्यमाकर्ण्य, जाति सस्मार पार्थिवः ॥ १५८ ॥ अत्रान्तरे सुरवधू-युतस्तत्रागतः सुरः ॥ प्रणेमे भूभुजा सोऽपि, तमुच्चैरभ्यनन्दयत् ॥ १५९ ॥ ततो विवाहवृत्तान्ते, प्रोक्ते कनकमालया । अत्यर्थं मुदितो देव-चिरं भूपमवार्तयत् ॥ १६० ॥ दिव्यं भोज्यं च मध्याह्न , सभार्यो बुभुजे नृपः । इत्थं स्थित्वा मासमेकं, सोन्यदेत्यवदत्प्रियाम् ॥ १६१ ॥ अरक्षकं भोज्यमिव, द्विका राज्यं मम द्विषः॥ उपद्रोष्यन्ति तद्गन्तु - मनुमन्यस्व मां प्रिये ! ॥ १६२ ॥ सावदत्त्वत्पुरं दूरे, पादचारेण तत्कथम् ॥ इतो यास्यसि तत्र त्वं, ततो वात्रागमिष्यसि ? ॥ १६३ ॥ तत्प्रज्ञप्ती | महाविद्यां, गृहाण त्वं मदन्तिकात् ॥ ततो राजा गृहीत्वा तां, विधिपूर्वमसाधयत् ॥ १६४ ॥ अगाच्च व्योममार्गेण, प्रियां पृष्टवा निजं
UTR-2
॥७०॥
Page #73
--------------------------------------------------------------------------
________________
अध्य. ९
उत्तराध्ययनसूत्रम् ॥ ७१ ॥
पुरम् ॥ लोकैः पृष्टश्च सकलं, यथा वृत्तमचीकथत् ॥ १६५ ॥ ततः कृतोत्सवाः पौराः, प्रोचुरेवं सविस्मयाः ॥ अहो ! भूमीविभोर्भाग्या-भ्युदयो भुवनाद्भुतः ॥ १६६ । सम्पदामास्पदेप्यन्ये, विन्दन्ति विपदं विशः । असौ तु भाग्यवान् व्याप-दास्पदेप्याप सम्पदम् ॥ १६७ ॥ भूप्रियस्तु प्रियां ध्यायन्, पञ्चमेहनि ययौ नगम् ।। दिनानि कतिचित्तत्र, स्थिरायासीत्पुनः पुरे ॥ १६८ ॥ एवं मुहु| मुहुः शैले, व्रजन्तं तं नृपं प्रजाः ॥ नगेस्मिन् गतिरस्येति, नाम्ना नग्गतिमूचिरे ॥ १६९ ॥ तं चान्यदा गतं तस्मि-न्नद्रावित्यवदत्सुरः॥आदेशं स्वप्रभोःकर्तुं, यास्याम्यहमितोधुना ॥१७० ॥ यद्यप्येनां विहायाहं, क्वापि नो गन्तुमुत्सहे ॥अनुल्लङ्घयां प्रभोराज्ञां तथाप्युल्लङ्घये कथम् ॥ १७१ ॥ कालक्षेपश्च मे भूयान्, भविता तत्र भूपते ! ॥ इतः स्थानाच्च नान्यत्र, सुता मे लप्स्यते रतिम् ॥ १७२ | ॥ तद्यथैकाकिनी न स्या-दसौ कार्यं तथा त्वया ॥ मद्वियोगेऽन्यथा दुःख-मस्या भूरि भविष्यति ॥ १७३ ॥ इत्युदीर्य गते देवे, तस्या
धृतिकृते नृपः ॥ अकारयन्नगे तत्र, नगरं नव्यमुत्तमम् ॥ १७४ ॥ प्रलोभ्य लोकांश्चानेकान्, पुरे तत्र न्यवासयत् ॥ चैत्यान्यचीकरत्तेषु, जिनार्चाश्च न्यवीविशत् ॥ १७५ ॥ ग्रामान् सहस्रशस्तत्रा-रण्ये चावासयन्नृपः ॥ तच्च राज्यद्वयं सम्यक्, शशासोदग्रशासनः ॥ १७६॥ न्यायेन पालयन् राज्यं, क्रीडन् कनकमालया ॥ जिनांश्च पूजयन्नित्यं, स त्रिवर्गमसाधयत् ॥१७७ ॥ सोऽथ कार्तिकराकाया-मन्यदा सैन्यसंयुतः ॥ नरेन्द्रो नगराद्राज - पाटिकायै विनिर्ययौ ॥ १७८ ॥ तदा च पल्लवातानं, मञ्जरीपुञ्जपिञ्जरम् ।। माकन्दमेकमद्राक्षीच्छत्राकारं सदाफलम् ॥ १७९ ॥ चूतस्य तस्य कान्तस्य, मङ्गलार्थमिलापतिः ॥आददे मञ्जरीमेकां, शेषामिव सुधाभुजः ॥ १८० ॥ सैन्यलोकास्ततः सर्वे, पत्रपल्लवमञ्जरीः ॥ आदाय दारुशेषं तं, सहकारं वितेनिरे ॥१८१ ॥ गत्वारामं निवृत्तोथ, तत्रायातः क्षणान्तरे। आम्रः कम्रः स कुत्रेति, राजा पप्रच्छ मन्त्रिणम् ।। १८२ ।। मन्त्रिणा च तरौ तस्मिन्, काष्ठशेषे प्रदर्शिते ॥ ईदृशोसौ कथमभू -दित्यपृ
UTR-2
॥७
॥
Page #74
--------------------------------------------------------------------------
________________
अध्य. ९
उत्तराध्ययनसूत्रम् ॥७२॥
| च्छत् पुनर्नृपः ॥ १८३ ॥ उवाच सचिवो वाचं, स्वामिन्नस्य महातरोः ॥ जगृहे मञ्जरी पूर्व-मेका युष्माभिरुत्तमा ॥ १८४ ॥ इत्यमुं
सैनिकाः सर्वे, पत्रपुष्पफलादिकम् ।। गृहीत्वा चक्रुरश्रीकं, धनिनं तस्करा इव ॥ १८५ ॥ तदाकर्ण्य नृपो दध्यौ, चञ्चलत्वमहो! श्रियाम् ॥ यत्तादृशोप्यसौ चूतः, क्षणानिःश्रीकतां ययौ! ॥ १८६ ॥ यदेव तुष्टिकृत्पूर्वं, स्यात्तदेव क्षणान्तरे ॥ जायतेऽनीदृशं | वान्ति-समये भोजनं यथा ॥ १८७ ॥ यथा हि बुद्बुदाटोपः, सन्ध्यारागश्च न स्थिरः ॥ सम्पदोपि तथा सर्वा, न स्थिरा इति | निश्चितम् ॥ १८८ ॥ यस्तु मोहेन जानाति, बालिशः सम्पदं स्थिराम् ॥ शाश्वती मन्यते मन्दः स हि सौदामिनीमपि ॥ १८९ ॥ ततो दुष्कर्मतामिस्र-तमिस्राकल्पयानया ॥आयतौ दुःखदायिन्या, कृतं मे राज्यसम्पदा ॥ १९० ॥ एवं विमृश्यादृतसाधुधर्मः, प्रत्ये - कबुद्धश्चतुरश्चतुर्थः ।। गान्धारराड् नग्गतिनामधेयः , पृथ्व्यां व्यहार्षीत्सुरदत्तवेषः ॥ १९१ ।। इति नग्गतिनृपकथा ॥ ४ ॥ ततश्चराज्येषु न्यस्य पुत्रांस्ते, चत्वारोप्यादृतव्रताः ॥ क्षितिप्रतिष्ठितपुरे, विहरन्तोन्यदा ययुः ॥ १ ॥ तत्र चाभूच्चतुर्दार-मेकं यक्षनिकेतनम् ॥ तस्मिंश्च व्यन्तरो मूर्ति-स्थित: पूर्वामुखोभवत् ॥२॥ करकण्डुमुनिस्तत्र, पूर्वद्वारा प्रविष्टवान् ॥ अपाचीसम्मुखद्वारा, द्विमुखश्च महामुनिः ॥ ३ ॥ पराङ्मुखः कथं साधो-स्तिष्ठामिति विचिन्तयन् ॥ तदापरं व्यधाद्यक्षो, दक्षिणाभिमुखं मुखम् ॥ ४॥ नमिस्तु पश्चिमद्वारा, प्राविशद्यक्षमन्दिरे ॥ ततोपि वदनं प्राग्व-तृतीयमकरोत्सुरः ॥ ५ ॥ नग्गतिस्त्वविशत्तत्रो-त्तरद्वारा गुणोत्तरः ॥ यक्षश्चक्रे ततोप्यास्यं, ततश्चाभूच्चतुर्मुखः ॥६॥ करकण्डोस्तु सा रूक्ष-कण्डूदेहे तदाप्यभूत् ।। ततः स कण्डुयनकं, लात्वाऽकण्डुयत श्रुतिम् ॥ ७ ॥ तेन सङ्गोप्यमानं च, तद्वीक्ष्य द्विमुखोब्रवीत् ॥ त्यक्तं राज्यादि चेत्सर्वं, तदादः सञ्चिनोषि किम् ? ॥ ८ ॥ तेनेत्युक्तोपि नो किञ्चित्, करकण्डुर्यदावदत् ॥ तदा द्विमुखराजर्षि, नमिसाधुरदोऽभ्यधात् ॥९॥ त्यक्तराज्यादिकार्योपि, निर्ग्रन्थोपि
UTR-2
॥७२॥
Page #75
--------------------------------------------------------------------------
________________
अध्य. ९
उत्तराध्ययनसूत्रम् ॥७३॥
भवान् स्वयम् ।। करोति कार्यं चेदन्य-दोषप्रेक्षणलक्षणम् ॥१०॥ किमर्थं तर्हि राज्यस्थो-धिकृतान् कृतवान् भवान् । परापराधवीक्षायै, क्रियन्ते हि नियोगिनः ॥ ११ ॥ इदानीं तु नियोगित्वं, निःसङ्गस्योचितं न ते ॥ तच्छ्रुत्वा नमिमित्यूचे, नग्गतिर्गतदुगतिः ॥ १२ ॥ यदि सर्वं विहाय त्वं, मोक्षायोद्यच्छसे मुने ! ॥ तदा किमर्थमन्यस्य निन्दां वितनुषे वृथा ? ॥ १३ ॥ करकण्डुरथाचख्यौ, मोक्षाकांक्षिषु भिक्षुषु ॥ वारयन्नहितं साधु-निन्दक: कथ्यते कथम् ? ॥ १४ ॥ या रोषात् परदोषोक्तिः सा निन्दा खलु कथ्यते ॥ सा तु कस्यापि नो कार्या, मोक्षमार्गानुसारिभिः ॥ १५ ॥ हितबुध्या तु या शिक्षा, सा निन्दा नाभिधीयते ।। अत एव च सान्यस्य, कुप्यतोपि प्रदीयते ॥१६॥यदाएं-"रूसऊवा परो मा वा वीसंवा परिअत्तउ॥भासिअव्वा हिआ भासा सपक्खगुणकारिआ "॥ १७ ॥ अनुशिष्टिमिमां शिष्टा-मुदितां करकण्डुना ॥ ते त्रयोप्युररीचक्रु-विजहश्च यथारुचि ॥ १८ ॥ पुष्पोत्तरविमानात्ते, चत्वारोपि सहच्युताः ॥ सहोपात्तव्रता मोक्षं, सहैवासादयन् क्रमात् ॥ १९ ॥ इति प्रत्येकबुद्धानां, चतुर्णां शमशालिनाम् ॥ सम्प्रदा - यानुसारेण, चरितं परिकीर्तितम् ॥ २० ॥ कल्याणकारि नरकारि विकारहारि, प्रत्येकबुद्धचरितं दुरितापहारि ॥ इत्थं निशम्य शम-शाखिघनानुकारि, भव्या भजन्तु सुकृतं भुवनोपकारि ।। २१ ॥ इति समाप्ता प्रसङ्गागता प्रत्येकबुद्धवक्तव्यता ॥
॥ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ नवमाध्ययनं सम्पूर्णम् ॥९॥
UTR-2
॥७३॥
Page #76
--------------------------------------------------------------------------
________________
अध्य. १०
उत्तराध्ययनसूत्रम् ॥ ७४ ।।
॥अथ दशमाध्ययनम् ॥ ॥अहम् ॥ व्याख्यातं नवमाध्ययनं, सम्प्रति द्रुमपत्रकाख्यं दशममारभ्यते, अस्य चायं सम्बन्धः, इहानन्तराध्ययने धर्मम्प्रति निष्कम्पत्वमुक्तं तच्चानुशासनादेव स्यादिति अनुशासनाभिधायकमिदमारभ्यते, अनेन सम्बन्धेनायातस्यास्याध्ययनस्य प्रस्तावनार्थं गौतम प्रति श्रीमहावीरेणेदमुक्तमिति इहोपयोगिनी गौतमवक्तव्यता तावत्काचिदुच्यते । तथाहि
अत्राभूद्धरतक्षेत्रे, स्वर्लक्ष्मीनिर्जितालका ॥ समग्रनगरीप्रष्ठ, पृष्ठचम्पाभिधा पुरी ॥१॥ तस्यां सालमहासाल-नामानौ सोदरावुभौ ॥ राजराजिगुणौ राज-युवराजौ बभूवतुः ॥ २ ॥ जामियशोमती संज्ञा, पिठरो भगिनीपतिः ॥ गागिलि गिनेयश्चा-मेयबुद्धिस्तयोरभूत् ॥ ३ ॥ तस्याञ्च पुर्यामन्येद्यु-विहरन् जगदीश्वरः ॥ श्रीवीरः समवासार्षी-द्भव्याम्भोजनभोमणिः ॥ ४ ॥ ततः | सालमासालौ, सार्वं वन्दितुमुद्यतौ ॥ महा जग्मतुः प्राज्य-प्रमोदभरमेदुरौ ॥५॥जिनं नत्वा च सद्भक्त्या यथास्थानं न्यषीदताम् ।। सर्वज्ञोपि जगौ धर्म, संसाराम्भोधितारकम् ॥ ६ ॥ तमाकर्ण्य विरक्तात्मा, जिनं नत्वा गृहं गतः ॥ राज्यमेतद्गृहाणेति, साल: सोदरमब्रवीत् ॥७॥ सोवादीन्मम राज्येन, कृतं दुर्गतिदायिना ॥ प्रव्रजिष्याम्यहमपि, भवोद्विग्नस्त्वया समम् ॥ ८ ॥ जामेयं गागिलि राज्ये, स्थापयित्वा महोत्सवैः ॥ ततः सालमहासालौ, प्राताजिष्टां जिनान्तिके ॥ ९ ॥ विहरन्तौ च तौ नित्यं, श्रीवीरस्वामिना समम् ।। एकादशाङ्गीमन्यूनां, पेठतुः शुद्धधीनिधी ॥ १०॥ अन्यदा प्रस्थितं चम्पां, प्रति राजगृहात् पुरात् ॥ प्रभुं सालमहासालौ प्रणिपत्येत्यवोचताम् ॥ ११ ॥ नगर्यां पृष्टचम्पायां, प्रतिबोधयितुं निजान् ॥ स्वामिन्नावां यियासावो, यद्यनुज्ञां प्रयच्छसि ॥ १२ ॥
UTR-2
I७४॥
Page #77
--------------------------------------------------------------------------
________________
अध्य.१०
उत्तराध्ययनसूत्रम् ॥७५॥
अमूढलक्ष्यो भगवां - स्ततस्तौ गौतमान्वितौ ॥ आदिशत्तां पुरीं गन्तुं, तेऽपि तत्र ययुः क्रमात् ॥ १३ ॥ तत्र काञ्चनपाथोजे, निविष्टो नाकिनिर्मिते ॥ श्रीगौतमश्चतुजानी, प्रारेभे धर्मदेशनाम् ॥ १४ ॥ श्रुत्वा गागलिभूपोऽपि, तमायातं समातुलं ॥ यशोमतीपिठरयुग | ययौ वन्दितुमुत्सुकः ॥ १५ ॥ हर्षोत्कर्षोल्लसद्रोम-हर्षो नत्वाथ तान् नृपः ॥ उपविश्य यथास्थान-मश्रौषीद्धर्मदेशनाम् ॥ १६ ॥ | संसारासारतासारां, ताञ्चाकर्ण्य विरक्तधीः ॥ गागलिनगरी गत्वा-ङ्गजं राज्ये न्यवीविशत् ॥ १७ ॥ पितृभ्यां सहितः प्राज्य रुत्सवैश्चाददे व्रतम् ॥ गौतमस्वामिपादान्ते, दान्तात्मा मेदिनीपतिः ॥ १८ ॥ ततः सालमहासाल-गागल्यादिभिरन्वितः ॥ गणी गन्तुं जिनाभ्यणे- ऽचलच्चम्पापुरीं प्रति ॥ १९ ॥ तदा सालमहासाला-वित्यचिन्तयतां मुदा ॥ यद्भवात्तारितान्येता-न्येतद्भव्यमभूभृशम् |॥ २० ॥ तदा च दध्युरित्यन्त-र्गागल्याद्या अपि त्रयः ॥ अहो! सालमहासाला- वस्माकमुपकारिणौ ॥ २१ ॥ एताभ्यां हि वयं पूर्व, राज्यश्रीभाजनीकृताः ॥ इदानीं तु महानन्द-प्रापकं प्रापितुं व्रतम् ॥ २२ ॥ इत्यादिध्यानदावाग्नि-ध्वस्तकल्मषभूरुहः ॥ मुक्तिमन्दिरनिश्रेणिं, क्षपकश्रेणिमाश्रिताः ॥ २३ ॥ मोहमत्तेभपञ्चत्व-पञ्चास्या मार्ग एव ते ॥ चञ्चत्प्रपञ्च पञ्चापि, पञ्चमज्ञानमासदत् ! ॥ २४ ॥(युग्मम् ) जिनाभ्यर्णं गतास्तेऽथ, गौतमस्वामिना समम् ॥ प्रदक्षिणीकृत्य जिनं, जग्मुः केवलिपर्षदि ॥ २५ ॥ ततस्तान् गौतमः प्रोचे-ऽनभिज्ञा इव भोः! कथम् ? ॥ यूयं यात समायात, वन्दध्वं भुवनप्रभुम् ॥ २६ ॥ जिनान्माऽऽशातयेत्युक्तः, श्रीवीरेणाथ गौतमः ॥ तत्क्षणं क्षमयित्वा ता-निति दध्यौ निजे हृदि ।। २७ ॥ दुर्भगं हरिणाक्षीव, भजतेऽद्यापि मां न हि ॥ केवलज्ञानलक्ष्मीस्त-त्कि सेत्स्यामि नवाथवा ? ॥ २८ ॥ इति चिन्तयतः श्रीम-दिन्द्रभूतिगणेशितुः ॥ असौ सुराणां संलापः, कर्णजाहमगाहत ॥ २९ ॥ जिनेनाद्योदितं यो हि, जिनान्नमति भूचरः ॥ स्वलब्ध्याष्टापदं गत्वा, स हि तद्भवसिद्धिकः ॥ ३० ॥ इति
UTR-2
।७५॥
Page #78
--------------------------------------------------------------------------
________________
अध्य. १०
उत्तराध्ययनसूत्रम् ॥७६ ॥
देववचः श्रुत्वा-ऽष्टापदं गन्तुमुद्यतः ॥ पप्रच्छ गौतमः सार्व-सार्वभौमं कृताञ्जलिः ॥ ३१ ॥ ततस्तापसबोधाय, तस्य स्थैर्याय च प्रभुः ॥ तत्र गन्तुं तमादिक्ष-दमोघाज्ञा हि पारगाः ॥ ३२ ॥ निधानं सर्वलब्धीनां, ततः श्रीगौतमप्रभुः ॥ भक्त्याभिवन्द्य तीर्थेशं, प्रतस्थेऽष्टापदं प्रति ।। ३३ ॥
इतश्च कोडिन्नदिन्न-सेवालास्तापसास्त्रयः ॥ तापसानां पञ्चशत्या, प्रत्येकं परिवारिताः ॥ ३४ ॥ मुक्तिरष्टापदारोहाद्विशामीति विभोर्वचः ॥ श्रुत्वा जनाननात्पूर्वं, प्रस्थिताः सन्ति तं प्रति ॥ ३५ ॥ (युग्मम् ) उपवासतपास्तेषु, प्रथमः सपरिच्छदः ।। कन्दादिभोजनो भेजे, तस्याद्रेशदिमेखलाम् ॥ ३६ ॥ षष्ठकारी द्वितीयस्तु, पक्वपत्रादिभोजनः ॥ द्वितीयां मेखलां प्राप, सतंत्रस्तस्य भूभृतः॥ ३७ ॥ तृतीयस्त्वष्टमतपाः, शुष्कशेवालपारणः ॥ तस्याद्रेः सपरीवार-स्तृतीयां प्राप मेखलाम् ॥ ३८ ॥ न तु कोऽपि गिरेस्तस्य, क्लिश्यमानोप्यगाच्छिरः ॥ गम्यं गरुत्मतो मेरु-शृङ्गं किं यान्ति केकिनः? ॥३९॥अथ ते तापसा : सर्वे, स्वतेजोविजितारुणम् ॥ आयान्तं गौतमं प्रेक्ष्या-चिन्तयन्निति विस्मिताः ! ॥ ४० ॥ तपःकृशाङ्गा अपि नो, यत्रारोढुं क्षमा वयम् ॥ गरिष्ठकायस्तत्राय-मारोक्ष्यति कथं यतिः? ॥४१॥ उच्चैर्मुखेषु तेष्वेवं, चिन्तयत्स्वेव गौतमः ॥जङ्घाचारणलब्ध्यार्क - रश्मीनालम्ब्य सञ्चरन् ॥ ४२ ॥ तूर्णं तेषामुपर्यागा-क्षणाच्चागादद्दश्यताम् ।। जवनैः पवनैः प्रेर्य-माणो मेघ इवोच्चकै : ॥ ४३ ॥(युग्मम् ) ताप| सास्ते तु तं प्रोच्चैः, प्रशंसन्तो व्यचिन्तयन् ॥ अस्य शिष्या भविष्यामो - ऽमुष्मादुत्तरतो गिरेः ॥ ४४ ॥ गौतमस्तु गतः शैल- मौलौ | भरतकारितम् ॥ हृतावसादं प्रासाद, दर्शनीयं ददर्श तम् ॥ ४५ ॥ मानवर्णान्वितानादि-जिनादीन् स्थापनाजिनान् ॥ ननाम नित्य| प्रतिमा- प्रतिमांस्तत्र च प्रभुः ॥ ४६ ॥ साक्षादिव जिनांस्तांश्च, दर्श दर्श प्रमोदभाक् ॥ सन्तुष्टावातिसन्तुष्ट-चेता इति गणाधिपः
UTR-2
॥७६॥
१ - शाश्वतप्रतिपातुल्यान्!
Page #79
--------------------------------------------------------------------------
________________
अध्य. १०
उत्तराध्ययनसूत्रम् ॥७७॥
॥४७॥"जगचिंतामणि जगनाह जगगुरु जगरक्खण, जगबंधव जगसत्थवाह जगभावविअक्खण । अठ्ठावयसंठविअरूव कम्मठ्ठ विणासण, चउवीसं वि जिणवर जयंतु अप्पडिहयसासण" ॥ ४८ ॥ इति स्तुत्वा च नत्वा च, चैत्यान्निर्गत्य गौतमः ॥ उवास रात्रि| वासाया-शोकोऽशोकतरोस्तले ॥४९॥
इतश्च धनदः शक्र-दिक्पालो नन्तुमर्हतः । तत्रायातो जिनान्नत्वा, ववन्दे गणिनं मुदा ॥ ५० ॥ देशनायां गणेशोपि, तत्त्वत्रयनिरूपणे ॥ इति साधुगुणानूचे, गुरु तत्त्वं प्ररूपयन् ॥ ५१ ॥ "महाव्रतधरास्तीव्र-तप:शोषितविग्रहाः ॥ अन्तप्रान्ताशनास्तुल्य-शत्रुमित्रा जितेन्द्रियाः ॥ ५२ ॥ निष्कषाया महात्मानः, साधवो गुरवः स्मृताः ॥ तारयन्ति परं ये हि, तरन्तः पोतवत्स्वयम् ! ॥५३ ॥ (युग्मम् )" तच्छ्रुत्वा गणिगात्रं च, वीक्ष्यातिमृदु पीवरम् ॥ श्रीदो दध्यौ विसंवादि, वचोऽस्य स्ववपुष्यपि ॥५४॥अन्तप्रान्ताशनत्वे हि, नेदृक् स्यादङ्गसौष्ठवम् ॥ इति वैश्रमणः किञ्चि - ज्जहास विकसन्मुखः ! ॥५५॥ ततो ज्ञात्वा तदाकूतं, चतुर्जानी जगौ प्रभुः ॥ध्यानमेव प्रमाणं स्यात्, तनुत्वं न तनो: पुनः॥५६ ॥ अस्य संशयपकस्य, क्षालनाय जलो| पमम् ॥ श्रीपुण्डरीकाध्ययनं, शृणु वित्तेश ! तद्यथा ॥ ५७ ॥ विजये पुष्कलावत्यां, विदेहावनिमण्डने ॥ नगर्यां पुण्डरीकिण्यां, महापद्मनृपोऽभवत् ॥५८ ॥ तस्य पद्मावतीराज्ञी-कुक्षिजौ सुन्दराकृती ॥ पुण्डरीककण्डरीका-भिधौ पुत्रौ बभूवतुः ॥५९ ॥ तस्यां नगर्यामन्येद्युः, स्थविराः समवासरन् । उद्याने नलिनवने, त्रिदशा इव नन्दने ॥६० ॥ तान् प्रणम्य महापद्मः, श्रुत्वा धर्म विरक्तधीः ॥ गत्वा पुर्यां पुण्डरीकं, न्यधाद्राज्ये महामहैः ॥६१॥ कण्डरीकञ्च संस्थाप्य, यौवराज्येऽग्रहीव्रतम् ॥ पुण्डरीकमहाराजकृतदीक्षामहो नृपः ॥ ६२ ॥ अधीत्य सर्वपूर्वाणि, क्रमात्सम्प्राप्तकेवलः ॥ मासिकानशनेनागा-त्स राजर्षिः परं पदम् ॥ ६३ ॥ अथान्येयुः पावयन्तो, धरां चरणरेणुभिः ॥ त एव स्थविरास्तत्र, भूयोऽपि समवासरन् ॥ ६४ ॥ तांश्च श्रुत्वाऽऽगतान् हृष्टः, पुण्डरीकः
UTR-2
॥७७॥
Page #80
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
11 192 11
प्रणम्य च ॥ निशम्य देशनां सम्यक्, श्राद्धधर्ममुपाददे ॥ ६५ ॥ कण्डरीकोऽपि तान्नत्वा, श्रुत्वा धर्ममदोऽवदत् ॥ आदास्येऽहं भवोद्विग्नः, प्रव्रज्यां युष्मदन्तिके ॥ ६६ ॥ तद्यावद्भूपमापृच्छ्या - गच्छाम्यहमिह प्रभो ! ॥ तावत्पूज्यैरिह स्थेयं कुर्वाणैर्मय्यनुग्रहम् ॥ ६७ ॥ प्रतिबन्धं मा कृथास्त्व- मित्युक्तो गुरुभिस्ततः ॥ कण्डरीको द्रुतं गत्वा पुर्यामित्यग्रजं जगौ ॥ ६८ ॥ मया गुरोर्जिनवचो, लब्धमब्धेस्विामृतम् ॥ आरोग्यमिव वैराग्यं तत्प्रभावान्ममाभवत् ॥ ६९ ॥ तद्युष्माभिरनुज्ञातो, व्रतमादातुमुत्सहे ॥ नृजन्म हारयेत्को हि प्रमादेन रत्नवत् ? ॥ ७० ॥ पुण्डरीकोऽब्रवीन्मा स्मा- धुनाकार्षीव्रतग्रहम् । राज्यं ददामि ते भुंक्ष्व, भोगान् गृह्णाम्यहं व्रतम् ॥ ७१ ॥ कण्डरीकोऽभ्यधाद्भोगै, राज्येन च कृतं मम ॥ व्रतमेव हि मेऽभीष्टं, बुभुक्षोरिव भोजनम् ॥ ७२ ॥ पुण्डरीकोऽवदद्वत्स!, साधुधर्मोऽतिदुष्करः 11 त्याज्यानि व्रतिनां पाप-स्थानान्यष्टादश ध्रुवम् ॥ ७३ ॥ ब्रह्मव्रतं च धर्तव्यं, दुर्धरं सुरशैलवत् ॥ मनो निधेयं सन्तोषे, विधेयं च गुरोर्वचः ॥ ७४ ॥ बाहुभ्यां वार्द्धितरण-मिव तदुष्करं व्रतम् ॥ त्वञ्चातिसुकुमारोऽसि, शीतोष्णादिव्यथासहः ॥ ७५ ॥ दीक्षादानं ततो वत्स! साम्प्रतं साम्प्रतं न ते ॥ भुक्तभोगो व्रताभोग मङ्गीकुर्या यथासुखम् ॥ ७६ ॥ कण्डरीकोऽलपत् क्लिब - नराणां दुष्करं व्रतम् ॥ परलोकार्थिनां धीर - पुंसां तन्नैव दुष्करम् ॥ ७७ ॥ तन्मे दत्त व्रतानुज्ञां द्रुतमित्यनुजो वदन् ॥ भूभुजा व्रतमादातुं, कथमप्यन्वमन्यत ॥ ७८ ॥ कण्डरीकस्ततः प्राज्यै-रुत्सवैर्व्रतमाददे ॥ अधीत्यैकादशाङ्गानि, तपस्तेपे च दुस्तपम् ॥ ७९ ॥ अथान्यदा तस्य तना- वन्तप्रान्ताशनादिभिः ॥ दाहज्वरादयो रोगा, बभूवुरतिदुःसहाः ॥ ८० ॥ अनाचारैर्यश इवा-मयैः पीडामयैश्च तैः ॥ तत्तनुस्तनुतां भेजे, वैवर्ण्य चाह्नि चन्द्रवत् ॥ ८१ ॥ पुनरप्यन्यदा तत्र, कण्डरीकेण संयुताः ॥ त एवाब्दसहस्रेण, स्थविरा समवासरन् ॥ ८२ ॥ तान्निशम्यागतो भूपो, नत्वा शुश्राव देशनाम् ॥ कण्डरीकं नमन् भूरि रोगं तद्वपुरैक्षत ॥ ८३ ॥ राजाथ स्थविरानूचे,
UTR-2
अध्य. १०
॥७८॥
Page #81
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥ ७९ ॥
प्रासुकैर्भेषजादिभिः ॥ चिकित्सां कारयिष्यामि, कण्डरीकमहामुनेः ॥ ८४ ॥ तद्यूयं मे यानशाला मलङ्कुरुत सूरयः ! ॥ इत्युक्ता भूभृता तेऽपि तत्र गत्वावतस्थिरे ॥ ८५ ॥ चिकित्सका नृपादिष्टा, विविधैरौषधादिभिः । कण्डरीकं क्रमाच्चक्रु - र्निरामयकलेवरम् ॥ ८६ ॥ ततो भूजानिमापृच्छ्य, स्थविरा व्यहरंस्ततः ॥ श्रमणानां हि नैकत्र, स्थितिरायतिशोभना ॥ ८७ ॥ कण्डरीकस्तु नाचालीद्राजभोज्येषु गृद्धिमान् ॥ जिह्वेन्द्रियं हि जीवानां मनोवदुर्जयं स्मृतम् ॥ ८८ ॥ तच्च ज्ञात्वा पुण्डरीक-स्तत्रागत्यानमच्छिरः ॥ तं त्रिप्रदक्षिणीकृत्या वादीदेवं कृताञ्जलिः ॥ ८९ ॥ धन्यस्त्वं कृतकृत्यस्त्वं, त्वया सफलितं जनुः ॥ सन्त्यज्य राज्यभार्यादि, सर्वं यत्स्वीकृतं व्रतम् ! ॥ ९० ॥ अहं त्वधन्यो निःसारं भूरिदुःखजलार्णवम् ॥ रिपुतस्करदायादा धीनं विद्युल्लताचलम् ॥ ९१ ॥ विपाककटुकानित्यं, विषयास्वादसुन्दरम् ॥ अप्यवश्यं परित्याज्यं राज्यं न त्यक्तुमीश्वरः ॥ ९२ ॥ ( युग्मम् ) इत्येकशो नृपेणोक्तः मुनिर्मौनमाश्रयत् ॥ द्विस्त्रिरुक्तस्तु मन्दाक्ष - विलक्षो व्यहरत्ततः ॥ ९३ ॥ किञ्चित्कालं व्यहार्षीच्च, गुरुभिः सममुन्मनाः ॥ दुरावे इवासाध्यः, प्राणिनां हि दुराशयः ॥ ९४ ॥ अन्यदा तु व्रतोद्विग्नः परिभ्रष्टशुभाशयः ॥ कण्डरीको गुरुन् मुक्त्वा, जगाम नग निजाम् ॥ ९५ ॥ तत्र भूपगृहोपान्त-स्थितोऽशोकतरोरधः ॥ न्यषीदद्गतसर्वस्व इव चिन्ताशताकुलः ॥ ९६ ॥ तदा च पुण्डरीकस्य, धात्री तत्र समागता । शोकाम्भोनिधिमग्नं तं दृष्ट्वा राज्ञे न्यवेदयत ॥ ९७ ॥ ततो गुणोऽपि दोषाय, जात इत्यवधारयन् ॥ सान्तःपुरपरीवारो, भूपस्तत्राययौ द्रुतम् ॥ ९८ ॥ तं त्रिप्रदक्षिणीकृत्य, नत्वा चोवाच पूर्ववत् ॥ स त्वधान्मौनमेवैकं, दुष्टग्रहगृहीतवत् ॥ ९९ ॥ भूयो भूयोऽभ्यधात्को हि, हित्वा स्वर्नरकं श्रयेत् ॥ काचखण्डमुपादत्ते, को वा त्यक्त्वा मरुन्मणिम् ? ॥ १०० ॥ प्राज्यं साम्राज्यमुत्सृज्य, को वा वाञ्छति निःस्वताम् ॥ को वा मुक्त्वा व्रतं भोगान्, कांक्षति क्षणभङ्गुरान् ॥ १०१ ॥ सत्यप्येवं यदि स्यात्ते, भोगेच्छा
UTR-2
अध्य. १०
॥७९॥
Page #82
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥ ८० ॥
तर्हि कथ्यताम् ॥ ददात्यनुचितं वस्तु, प्रार्थनामन्तरा हि कः ? ॥ १०२ ॥ भोगवाञ्छा ममास्तीति, हित्वा व्रीडां व्रती जगौ ॥ ततस्तस्मै नृपो राज्यं, पापभारमिवार्पयत् ॥ १०३ ॥ लोचं कृत्वा चतुर्यामं, धर्मं च प्रतिपद्य सः ॥ कण्डरीकात्साधुलिङ्गं सुखपिण्डमिवाददे ॥ १०४ ॥ गुरूपान्ते परिव्रज्य, भोक्ष्येऽहमिति निश्चयी ॥ सोऽचालीद्दिशमुद्दिश्य, तत्पादाम्भोजपाविताम् ॥ १०५ ॥ कण्डकस्तु तत्रैव, दिने सुबहुभोजनम् ॥ चखादादृष्टकल्याण, इवोच्चैर्गृद्धिमुद्वहन् ॥ १०६ ॥ प्रणीतमतिमात्रं तन्मन्दाग्नेस्तस्य भोजनम् ॥ अजीर्यमाणं विदधे, वेदनामतिदारुणाम् ॥ १०७ ॥ पापोऽयमिति नीरागैः, सचिवाद्यैरुपेक्षितः ॥ सोऽथ व्यथानदीपूरे प्लवमानो व्यचिन्तयत् ॥ १०८ ॥ सम्प्राप्तव्यसनं नाथ-मुपेक्षन्तेऽत्र ये जडाः ॥ विपक्षेभ्योतिरिच्यन्ते, सेवका अपि ते ध्रुवम् ॥ १०९ ॥ ततोऽहं यदि जीवामि तदोपेक्षाविधायिनः ॥ सपुत्रपौत्रान् मन्त्र्यादीन् घातयाम्यखिलानपि ! ॥ ११० ॥ रौद्रध्यानमिति ध्यायन्, क्रूरस्तन्दुलमत्स्यवत् ॥ राज्यादौ मूर्च्छितो बाढं, जम्बाल इव शूकरः ॥ १११ ॥ सोऽभूद् विपद्य ज्येष्ठायु-र्नारकः सप्तमावनौ ॥ अन्ते हि यादृशी बुद्धि- स्तादृश्येव गतिर्भवेत् ॥ ११२ ॥
पुण्डरीकोथ सम्प्राप्य, गुरून् धर्मं प्रपद्य च ॥ शीतरूक्षारसाहारैश्चकाराष्ट्रमपारणम् ॥ ११३ ॥ तैश्चाहारैरभूत्तस्य, देहसन्देह - कृद्व्यथा ॥ तथापि स्थैर्यमास्थाय स राजर्षिरदोऽवदत् ॥ ११४ ॥ नमोर्हद्भ्यो भगवद्भ्यः सम्प्राप्तेभ्यः परम्पदम् ॥ सिद्धेभ्यः स्थविरेभ्यश्च साधुभ्यश्च नमो नमः ॥ ११५ ॥ गुरूपान्ते मया पूर्व-मुपात्तास्ति चतुर्व्रती ॥ इदानीमपि संसारार्णवनावं श्रयामि ताम् ॥ ११६॥ जिनादीनामदीनोहं, शरणं स्वीकरोमि च ॥ प्रान्ते चाभीष्टमप्येतद्व्युत्सृजामि निजं वपुः ॥ ११७ ॥ कृतकृत्य इति प्राप्य, पञ्चत्वं
UTR-2
अध्य. १०
॥८०॥
Page #83
--------------------------------------------------------------------------
________________
अध्य. १०
उत्तराध्ययनसूत्रम् ॥८१॥
स महामुनिः ॥ त्रयस्त्रिंशत्सागरायुः, सर्वार्थे त्रिदशोऽभवत् ॥ ११८ ॥ ततश्च्युत्वा विदेहेषु, प्राप्य नृत्वं स सेत्स्यति ॥ स्वयंवरा | भवेत्सिद्धिः, प्राणिनां हि सधर्मणाम् ॥ ११९ ॥ तस्मात्कृशत्वपीनत्वे, नो हेतू पुण्यपापयोः। कारणे तु तयोः श्रीद ! ध्याने एव शुभाशुभे ॥ १२० ॥ कृशोपि पश्य दुर्ध्याना-त्कण्डरीको ययावधः ॥ पुष्टोपि पुण्डरीकस्तु शुभध्यानात्सुरोऽभवत् ॥ १२१ ॥ अहो ! स्वामी ममाकूत-मज्ञासीदिति विस्मितः ॥ धनदो जातसंवेग-स्तं नत्वा ह्याश्रयं ययौ ॥ १२२ ॥ श्रीदसामानिको वन-स्वामीजीवस्तदा मुदा ॥ सम्यक्त्वं प्राप तं चान्ये, भाषन्ते जृम्भकामरम् ॥१२३।। स च पञ्चशतीमानं तदध्ययनमग्रहीत् ॥ नत्वा च गणिनं पुण्या-शयः स्वाश्रयमाश्रयत् ॥१२४॥ प्रभाते च गणी नत्वा, जिनेन्द्रानुत्तरन् गिरेः ॥ प्रोचे तैस्तापसैस्त्वं नो, गुरुः शिष्याश्च ते वयम् ॥१२५॥ गौतमः स्माह युष्माक-मस्माकं च गुरूँजिनः ॥ ते प्रोचुः किमु युष्माक-मप्यन्यो विद्यते गुरु : ? ॥१२६॥ गणी जगाद सर्वज्ञः, सुरासुरनमस्कृतः ॥ जितरागो जयति मे, गुरुर्वीरो जगद्गुरुः ॥१२७॥ तदाकर्ण्य प्रमुदिता-स्ते सर्वे तापसोत्तमाः ॥ देवार्पितयतिवेषाः, प्राव्रजन् गौतमान्तिके ॥१२८॥ तैश्च सार्धं चलन् भिक्षा-काले जातेऽथ तान् गणी ॥ किं भोजनं युष्मदर्थ-मानयामीति पृष्टवान्? ॥१२९॥ प्राज्यैः पुण्यैर्गुरुरसौ, प्राप्तो वाञ्छितदायकः ॥ तदद्य हृद्यैरशन-स्तर्पयामः क्षुधानलम् ! ॥१३०॥ इति ते मुदिताः सर्वे-प्यूचिरे त्वत्प्रसादतः ॥ परमात्मन् ! भवतु नः, परमान्नेन पारणम् ॥ १३१॥ ततो गतो गणी पार्श्व-ग्रामे केनापि भक्तितः॥ खण्डाज्यपायसैः प्राज्यैः, प्रासुकैः प्रत्यलम्भ्यत ॥१३२॥ पतद्ग्रहस्तदापूर्ण-स्तत्पाणौ दिद्युते तदा ॥ पूर्णेन्दुरिव तद्वका -लीला शिक्षितुमागतः! ॥ १३३॥ अथायान्तं करस्थैक-पात्रं तं प्रेक्ष्य साधवः ॥ इति ते चिन्तयन्नूनं, पश्चादेष्यति
UTR-2
॥८१॥
Page #84
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥ ८२ ॥
पायसम् ॥१३४॥ इयता त्वमुना नो नो भावीनि तिलकान्यपि ॥ यद्वाचिन्त्यप्रभावेऽस्मिन् कृतं चिन्तनयानया ॥ १३५ ॥ प्रभुस्त्वागत्य विधिवत्परिपाट्या निवेश्य तान् ॥ अभोजयद्यथाकामं, पायसं परिवेषयन् ! ॥ १३६ ॥ अक्षीणमहानसया, लब्ध्या तत्पात्रसंस्थितम् ॥ नाक्षयत्पायसं ताव-दपि वार्द्धेरिवोदकम् ॥१३७॥ एकोत्तरा पञ्चशती, तदा शेवालभक्षिणाम् ॥ इति दध्यावहो भाग्यम-स्माकमुदितोदितम् ! ॥१३८॥ आश्रयं सर्वलब्धीना- मोषधीनामिवाद्रिराट् ॥ प्रवर्तकः सन्मार्गाणां तटिनीनामिवाम्बुदः ॥१३९॥ प्रशास्ता शस्तशास्त्राणां, दिग्देशानामिवार्यमा ॥ यशोभिश्च महोभिश्च न्यञ्चयंश्चन्द्रभास्करौ ॥१४०॥ सिद्धिपुर्याः सार्थवाहो, लोकोत्तरगुणाकरः ॥ यदयं मिलितः स्वामी, कृपारसमहोदधिः ॥१४१॥ (त्रिभिर्विशेषकम् ) किञ्च प्रसादादस्यैव, लब्ध बोधिः सुदुर्लभः ॥ जगच्चिन्तामणिः श्रीमान्, वीरस्वामी च नंस्यते ॥ १४२ ॥ तदिदानीं भवाम्भोधि - रस्माभिस्तीर्ण एव हि।। व्याप्तो जन्मजरारोग-मरणादिजलोर्मिभिः ॥१४३॥ इत्यादि ध्यानमाहात्म्या- भुञ्जाना एव ते क्षणात् ॥ सौहित्यमिव सम्प्रापुः, केवलज्ञानमुज्ज्वलम् ॥१४४॥ अथ सर्वेषु तृप्तेषु गणेशो बुभुजे स्वयम् ॥ तान् विस्मितान् सहादाय, भूयोपि प्राचलत्पुरः ॥ १४५ ॥ क्रमात्समवसरण - समीपभुवमीयुषाम् ॥ दिन्नादीनां प्रातिहार्य - लक्ष्मीमाप्तस्य पश्यताम् ॥१४६॥ एकोत्तरपञ्चशती- मितानां षष्ठकारिणाम् ॥ उत्पेदे केवलज्ञानं, पूर्वोक्तध्यानयोगतः ॥ १४७॥ ( युग्मम् ) तावतामेव कोडिन प्रमुखाणां तु तत्क्षणम् ॥ सर्वज्ञं पश्यतां जज्ञे, पञ्चमज्ञानसंगमः ॥ १४८ ॥ अथ प्रदक्षिणीचक्रे तैर्वृतो गणभृज्जिनम् ॥ ग्रहव्रजैः परिवृतः, सुमेरुमिव चन्द्रमाः ॥ १४९ ॥ तांश्चैवमब्रवीद्वीक्ष्य, व्रजतो जिनपर्षदि ॥ भो भो ! यूयमिहायात, नमत त्रिजगद्गुरुम् ॥ १५० ॥ जिनान्माऽऽशातयेत्युक्त-स्ततो
UTR-2
अध्य. १०
॥८२॥
Page #85
--------------------------------------------------------------------------
________________
अध्य. १०
उत्तराध्ययनसूत्रम् ॥८३॥
भगवता गणी ॥ मिथ्यादुष्कृतपूर्वं तान्, क्षमयित्वेत्यचिन्तयत् ॥ १५१॥ गुरुकर्मा ह्यहं नास्मिन्, भवे प्राप्स्यामि निर्वृतिम्॥ अमी मद्दीक्षिता धन्या-स्तत्कालोत्पन्नकेवलाः ॥१५२॥ कुर्वाणमेवमधृति-मिन्द्रभूतिगणाधिपम् ॥ इति स्माह महावीर -स्वामी विश्वकवत्सलः ॥१५३॥ अष्टापदात्सिद्धिरिति, किं ग्राह्यं दैवतं वचः ॥ यद्वा जिनानामायुष्मन्! जिनानामिति सोऽप्यवक् ॥१५४॥ प्रभुः स्माहाधृतिं तन्मा-कार्षीः स्नेहा यदङ्गिनाम् ॥ भवन्ति सुण्ठद्विदल -चर्मोण्र्णाकटसन्निभाः ॥१५५॥ चिरन्तनात्परिचयात्, | तवोर्णाकटसन्निभः ॥ प्रणयो वर्ततेऽस्मासु, प्राप्यते तन्न केवलम् ॥ १५३॥ यो हि वित्तवधूज्ञाति-रागत्यागनिबन्धनम् ॥ रागोहद्गुरुधर्मादौ, प्रशस्तः कथितो जिनैः ॥१५७॥ सोऽप्यायुष्मन् ! यथाख्यातं, प्रतिबन्ध्नाति संयमम्॥ रविं विना दिनमिव, तं विना नहि केवलम् ॥ १५८ ॥ गते त्वस्मद्गते रागे, ध्रुवं ते भावि केवलम् ॥ आवामितच्युतौ तुल्यौ, भविष्यावो धृतिं कुरु ॥१५१॥ इत्थमुदीर्य तदा हितशिक्षा, तस्य मुनिप्रकरस्य च दातुं ॥ अध्ययनं द्रुमपत्रकसंज्ञं, स्माह जिनो जगतीहितमेतत् ॥१६०॥ इत्युक्ता प्रस्तावना, साम्प्रतं सूत्रमनुसियते, तच्चेदम्
मूलम्-दुमपत्तए पंडुअए जहा, निवडइ राइगणाणमच्चए।
एवं मणुआण जीविअंसमयं गोअम ! मा पमायए ॥१॥ व्याख्या--द्रुमो-वृक्षस्तस्य पत्रं -पर्णं दुमपत्रं तदेव द्रुमपत्रकं, पंडुअए त्ति' आर्षत्वात् 'पाण्डुरकं' कालपरिणामात्तथाविधरोगादेर्वा जातश्वेतभावं, यथा येन प्रकारेण निपतति शिथिलवृन्तबन्धनत्वाद्भश्यति । 'राइगणाणं ति' रात्रिगणानां दिनगणाविना
UTR-2
॥८३॥
Page #86
--------------------------------------------------------------------------
________________
अध्य. १०
उत्तराध्ययनसूत्रम् ॥८४॥
भावित्वादात्रिंदिनसमूहानां, अत्यये अतिक्रमे ‘एवं ति' एवंप्रकारं मनुष्याणामुपलक्षणत्वात्सर्वजीवानां जीवितमायुः, तदपि हि रात्रिदिनगणानामतिक्रमे यथास्थित्या अध्यवसायादिकृतोपक्रमेण वा भ्रश्यतीत्येवमुच्यते । यतश्चैवमतः समयमपि आस्तामावलि| कादि, अपेर्गम्यमानत्वात्, हे गौतम ! हे इन्द्रभूते! मा प्रमादीः, मा प्रमादं कृथाः, शेषशिष्योपलक्षणञ्चेह गौतमग्रहणं, सर्वेषामनुशासनार्थत्वादस्य । अत्र च पाण्डुरकपदाक्षिप्तं यौवनस्याप्यनित्यत्वं प्रकटयितुं नियुक्तिकारो गाथात्रयमाह"परिअट्टिअलायण्णं, चलंतसंधिं मुअंतबिंटागं । पत्तं वसणप्पत्तं, कालप्पत्तं भणति गाहं ॥१॥" परिवर्तितं कालपरिणामादन्यथाकृतं लावण्यं, सौकुमार्यादिरूपमस्येति परिवर्तितलावण्यं, तथा चलत्सन्धिं, अत एव 'मुअंतबिंटागं ति' मुञ्चद्वन्तं त्यजद्वन्तं यस्य तत्तथा पतदित्यर्थः। पत्रं पर्णं, व्यसनमापदं प्राप्त व्यसनप्राप्तं, कालं प्रक्रमात्पतनप्रस्ताव प्राप्तं कालप्राप्त, भणति गाथां पल्लवान् प्रतीति शेषः ॥ १॥ तामेवाह- "जह तुम्हे तह अम्हे, तुब्भे वि अ होहिआ जहा अम्हे ॥ अप्पाहेइ पडतं, पंडुअपत्तं किसलयाणं ॥२॥"यथेति सादृश्ये ततो यथा यूयं सम्प्रति किसलयभावं प्राप्ताः स्निग्धत्वादिगुणैर्गर्वमुद्वहथ अस्मांश्चोपहसथ तथा वयमप्यतीतदशायामभवाम, तथा यूयमपि भविष्यथ यथा वयं विवर्णविच्छायतयोपसहनीयानीति भावः । अप्पाहेइत्ति' पुत्रस्य पितेव हितमुपदिशति, पतत्पाण्डुपत्रं किसलयानां ॥२॥ ननु किमेवं पाण्डुपत्रपल्लवानामुल्लापः सम्भवति ? येनैवमुच्यत इत्याह- "नवि अस्थि नवि अ होही उल्लावो किसलयपंडुपत्ताणं ॥ उवमा खलु एस कया, भविअजणविबोहणट्ठाए ॥३॥" स्पष्टा । यथा चेह किसलयानि पाण्डुपत्रेणानुशिष्यन्ते तथान्योऽपि यौवनगर्वितोऽनुशासनीयः । तथा चोक्तं वाचकमुख्यैः-"परिभवसि किमिति लोकं,जस्सा परिजर्जरीकृतशरीरम् ॥ अचिरात्त्वमपि भविष्यसि, यौवनगर्वं किमुद्वहसि ? ॥१॥" तदेवं जीवितयौवनयोरनित्यतां ज्ञात्वा प्रमादो नस
UTR-2
॥८४॥
Page #87
--------------------------------------------------------------------------
________________
उत्तराध्य
अध्य. १०
यनसूत्रम्
॥८५॥
| विधेय इति सूत्रार्थः ॥१॥ भूयोऽप्यायुष एवानित्यत्वमाह
मूलम्--कुसग्गे जह ओसबिंदुए, थोवं चिट्ठइ लंबमाणए ।
एवं मणुआण जीविअं, समयं गोयम मा पमायए ॥२॥ व्याख्या-- कुशाग्रे यथा अवश्यायबिन्दुकः शरत्कालभाविश्लक्ष्णवर्षबिन्दुः, स्वार्थे कप्रत्ययः, स्तोकमल्पं कालमिति शेषः, तिष्ठति लम्बमानको मनाग् निपतन् । बद्धास्पदो हि कालान्तरमपि क्षमतेत्येवं विशिष्यते, एवमनुजानामीत्यादि प्राग्वदिति सूत्रार्थः ॥ २ ॥ उक्तार्थमुपसंहरन्नुपदेशमाह -- मूलम्--इइ इत्तरिअंमि आउए, जीविअए बहुपच्चवायए। विहुणाहि रयं पुरेकर्ड, समयं गोयम मा पमायए॥३॥
व्याख्या--इत्युक्तन्यायेन इत्वरे स्वल्पकालभाविनि " एति उपक्रमहेतुभिरनपवर्त्यतया यथाबद्धं तथैवानुभवनीयतां गच्छतीति | आयुः" तच्चैवं निरुपक्रममेव तस्मिन्, तथा अनुकम्पितं जीवितं जीवितकं, चशब्दस्य गम्यत्वात्तस्मिंश्च, अर्थात् सोपक्रमायुषि, बहवः प्रभूताः प्रत्यपाया नाशहेतवोऽध्यवसायादयो यस्मिंस्तत्तथा तस्मिन् । अनेन चानुकम्प्यत्वे हेतुः सूचितः, एवञ्चोक्तरूपद्रुमपत्रदृष्टान्तजलबिन्दुदृष्टान्ताभ्यां मनुजायुर्निरुपक्रमं सोपक्रमं च तुच्छमित्यतोऽस्यानित्यतां ज्ञात्वा 'विहुणाहि त्ति' विधुनीहि जीवात् पृथकुरु रजः कर्म, 'पुरेकडं त्ति' पुरा तत्कालापेक्षया पूर्वं कृतं विहितं तत् विधुननोपायमाह-समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ।। ३ ॥ न च पुनर्तृत्वावाप्तौ धर्मोद्यमः करिष्यत इति ध्येयं, यतः --
UTR-2
॥८५॥
Page #88
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम्
॥ ८६ ॥
मूलम्--दुलहे खलु माणुसे भवे, चिरकालेणवि सव्वपाणिणं । गाढा विवाग कम्मुणो, समयं गोयम मा पमायए ॥ ४ ॥
व्याख्या -- दुर्लभो दुष्प्रापः खलुर्विशेषणे, अपुण्यानामिति विशेषयति, मानुषो मनुष्यसम्बन्धी भवो जन्म, चिरकालेनापि प्रभूतकालेनापि आस्तां स्वल्पकालेनेत्यपिशब्दार्थः, सर्वप्राणिनां सर्वजीवानां । कुत इत्याह- गाढा विनाशयितुमशक्याः, च इति यस्मात्, विपाका उदयाः कर्मणां नरगतिविधातिप्रकृतिरूपाणां यत एवमतः समयमपीत्यादि प्राग्वदिति सूत्रार्थ : ॥ ४ ॥ कथं पुनर्मनुजत्वं दुर्लभमिति सूत्रदशकेनाह-
मूलम् - पुढविक्कायमड्गओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम मा पमाय ॥ ५ ॥ व्याख्या--पृथिवीकायमतिगतः प्राप्तः 'उक्कोसं ति' उत्कर्षतो जीवः, तुः पूरणे, संवसेत् तद्रूपतयैवावतिष्ठते, कालं सङ्ख्यातीतं असंख्येयोत्सर्पिण्यवसर्पिणीरूपं, अतः समयमपीत्यादि प्राग्वत् ॥ ५ ॥
मूलम् -- आउक्कायमड्गओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम मा पमायए ॥ ६ ॥ मूलम् -- तेउक्कायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोअम मा पमायए ॥ ७ ॥ मूलम-- वाउक्कायमड्गओ, उक्कोसं जीवो उ संवसे । कालं संखाईअं, समयं गोयम मा पमायए ॥ ८ ॥ व्याख्या - इदं सूत्रत्रयं पृथ्वीसूत्रवद् व्याख्येयम् ॥ ६ ॥ ७ ॥ ८ ॥
UTR-2
अध्य. १०
॥८६॥
Page #89
--------------------------------------------------------------------------
________________
अध्य. १०
उत्तराध्ययनसूत्रम् ॥८७॥
मूलम्-- वणस्सइकायमइगओ, उक्कोसं जीवो उ संवसे । कालमणंतं दुरंतं, समयं गोयम मा पमायए ॥९॥
व्याख्या-- इदमपि प्राग्वत्, नवरं अनन्तं अनन्तोत्सर्पिण्यवसर्पिणीरूपं, साधारणापेक्षञ्चैतत् । दुष्टः अन्तोऽस्येति दुरन्तस्तं, एतदपि साधारणापेक्षमेव । ते ह्यत्यन्ताल्पबोधत्वेन तत उद्वृत्ता अपि न प्रायो विशिष्टं मानुषादिभवमाप्नुवन्ति ॥ ९ ॥ म.बेइंदिअकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखिज्जसण्णिअं, समयं गोयम मा पमायए १० तेइंदियकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखिज्जसण्णिअं, समयं गोयम मा पमायए ११ चउरिदियकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखिज्जसण्णिअं, समयं गोयम मा पमायए १२ __व्याख्या- इदमपि सूत्रत्रयं स्पष्ट, नवरं-कालं 'संखिज्जसण्णिअंति' संख्येयसज्ञितं सङ्ख्यातवर्षसहस्रात्मकम् ॥१०॥११॥१२॥ मूलम्-- पंचिंदियकायमइगओ, उक्कोसं जीवो उ संवसे । सत्तभवग्गहणे, समयं गोयम मा पमायए १३ ॥
व्याख्या--पञ्चेन्द्रिया उत्तरत्र देवनारकयोरभिधास्यमानत्वात् मनुष्यत्वस्य च दुर्लभतया प्रक्रान्तत्वात्तिर्यञ्च एवेह गृह्यन्ते, स| त्तट्ठत्ति' सप्त वा अष्ट वा सप्ताष्टानि भवग्रहणानि जन्मोपादानानि, तत्र सप्त भवाः सङ्ख्यातायुषि, अष्टमस्त्वसङ्ख्यातायुषीति १३ ॥ | मूलम्-- देवे नेइए अइगओ, उक्कोसं जीवो उ संवसे । इक्किक्कभवग्गहणे, समयं गोयम मा पमायए १४ ॥
व्याख्या-- देवान्नैरयिकांश्चातिगत उत्कर्षतो जीवः संवसेत् एकैकभवग्रहणं, अतः समयमपि गौतम! मा प्रमादीरिति सूत्रदशकार्थः ॥१४ ॥ उक्तमेवार्थमुपसंहरनाह--
UTR-2
॥८७॥
Page #90
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥ ८८ ॥
मूलम् -- एवं भवसंसारे, संसरइ सुभासुभेहिं कम्मेहिं । जीवो पमायबहुलो, समयं गोयम मा पमायए १५ व्याख्या-- 'एवमुक्तन्यायेन भवास्तिर्यगादिजन्मान्येव संसारो भवसंसारस्तस्मिन्, 'संसरति' पर्यटति, शुभाशुभैः कर्मभिः पृथ्वीकायादिभवहेतुभिः, जीवः प्रमादबहुलोऽतः समयमपीत्यादि प्राग्वदिति सूत्रार्थः ॥ १५ ॥ इत्थं नृत्वदौर्लभ्यमुक्तमथ तदवाप्तावपि उत्तरोत्तरगुणा दुर्लभा एवेति सूत्रपञ्चकेनाह-
मू०-लद्धूणवि माणुसत्तणं, आरिअत्तं पुणरवि दुल्लहं । बहवे दसुआ मिलक्खुआ, समयं गोयम मा पमायए १६
व्याख्या -- लब्ध्वापि कथञ्चिन्मानुषत्वं, आर्यत्वं मगधाद्यार्यदेशोत्पत्तिरूपं 'पुनरपि' भूयोऽपि दुर्लभं । कुत एवमित्याह यतो बहवो 'दस्यवः' देशप्रत्यन्तवासिनश्चौराः 'मिलक्खुअत्ति' म्लेच्छा अव्यक्तवाचो यदुक्तं आर्यैर्नावधार्यते, ते च शकयवनादिदेशोद्भवाः । येषु धर्माधर्मगम्यागम्यभक्ष्याभक्ष्यादिज्ञानविकलेषु पशुप्रायेष्ववाप्यापि मानुष्यं जन्तुर्न कञ्चिदप्यर्थं साधयतीति । अतः समयमपीत्यादि प्राग्वत् ॥ १६ ॥
मूलम्-लद्धूणवि आरिअत्तणं, अहीणपंचिदिअया हु दुल्लहा । विगलिंदिअया हु दीसइ, समयं गोयम मा पमाय ॥१७॥
व्याख्या -- इत्थमतिदुर्लभमप्यार्यत्वं लब्ध्वा अहीनपञ्चेन्द्रियता हुः अवधारणे भिन्नक्रमश्च ततो दुर्लभैव, कुतः ? इत्याह-विकलानि रोगादिभिरुपहतानीन्द्रियाणि येषां ते तथा तद्भावो विकलेन्द्रियता, हुरितिनिपातो निपातानामनेकार्थत्वाद्बाहुल्यवाचकस्ततश्च यतो बाहुल्येन विकलेन्द्रियता दृश्यते इति अहीनपञ्चेन्द्रियता दुर्लभैवेति । समयमित्यादि प्राग्वत् ॥ १७ ॥
"
UTR-2
अध्य. १०
॥८८॥
Page #91
--------------------------------------------------------------------------
________________
अध्य. १०
उत्तराध्ययनसूत्रम् ॥८९॥
मूलम्-- अहीणपंचंदिअत्तंपि से लहे, उत्तमधम्मसुई हु दुलहा । कुतित्थिनिसेवए जणे, समयं गोयम मा पमायए ॥१८॥
व्याख्या--कथमप्यहीनपञ्चेन्द्रियत्वमपि स जन्तुर्लभेत, तथाप्युत्तमधर्मश्रुतिस्तत्त्वश्रवणात्मिका, हुरवधारणे भिन्नक्रमश्च, ततो दुर्लभैव । किमिति ? यतः कुतीर्थिनिषेवकः शाक्यादिपाखण्डिपर्युपासको जनो लोकः, कुतीथिनो हि लाभाद्यर्थिनो यदेव प्राणिनां प्रियं तदेवोपदिशन्ति, तत्तीर्थकराणामप्येवंविधत्वात् । उक्तञ्च-"सत्कारयशोलाभा-थिभिश्च मूडैरिहान्यतीर्थकरैः ॥ अवसादितं जगदिदं, प्रियाण्यपथ्यान्युपदिशद्भिः ॥१॥" इति सुकरैव तेषां सेवा, तत्सेविनां च कुत उत्तमधर्मश्रुतिः ? ततः समयमित्यादि प्राग्वत् ॥ १८ ॥ | मूलम्-- लद्धणवि उत्तमं सुईं, सद्दहणा पुणरवि दुल्लहा। मिच्छत्तनिसेवए जणे, समयं गोअम मा पमायए ॥१९॥
व्याख्या-- लब्ध्वापि उत्तमां श्रुतिं जिनप्रणीतधर्मश्रवणरूपां, श्रद्धानं' तत्त्वरुचिरूपं पुनरपि दुर्लभं । तत्र हेतुमाह- मिथ्यात्वमतत्त्वे तत्त्वमिति प्रत्ययः तन्निषेवते यः स मिथ्यात्वनिषेवको जनोऽनादिभवाभ्यासाद्गुरुकर्मत्वाच्च प्रायस्तत्रैव प्रवृ|त्तेरतः समयमित्यादि प्राग्वत् ॥१९॥
मूलम्-- धम्मपि हु सद्दहंतया, दुल्लहया काएण फासया । इह कामगुणेसु मुच्छिआ, समयं गोअम मा पमायए ॥२०॥
व्याख्या--धर्मं प्रस्तावात्सर्वज्ञोक्तं, 'अपिर्भिन्नक्रमः, 'हुर्वाक्यालङ्कारे, ततः "सद्दहतयत्ति" श्रद्दधतोऽपि कर्तुमभिलषतोऽपि * दुर्लभकाः कायेन अङ्गेन स्पर्शकाः कर्तारः, हेतुमाह-इह जगति कामगुणेषु शब्दादिषु मूर्च्छिता गृद्धा जन्तव इति शेषः, प्रायेण
UTR-2
॥८९॥
Page #92
--------------------------------------------------------------------------
________________
अध्य. १०
उत्तराध्ययनसूत्रम् ॥९०॥
हि रोगिणामपथ्यमिवाहितकारिणोऽप्यनुकूला विषयाः प्राणिनां प्रियाः स्युरित्यतो दुरापां धर्मसामग्रीमवाप्य समयमपि | गौतम ! मा प्रमादीरिति सूत्रपञ्चकार्थः ॥२०॥ किञ्च सति देहसामर्थ्य धर्मस्पर्शनेति तदनित्यताकथनेनाप्रमादोपदेशं सूत्रषट्केनाह - मूलम्-- परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते । से सोअबले अ हायइ, समयं गोअम मा पमायए २१
व्याख्या-परिजीर्यति सर्वप्रकारैर्वयोहानिमनुभवति ते तव शरीरमेव जरादिभिरभिभूयमानतया अनुकम्प्यमिति शरीरकं । केशाः पाण्डुरकाः, पूर्व जनमनोनयनहारिणोऽत्यन्तं श्यामा अपि भूत्वा साम्प्रतं वयःपरिणामात् शुक्ला भवन्ति ते तव पुनस्ते शब्दोपादानं भिन्नवाक्यत्वाददुष्टं । तथा 'से इति' तत् यत् पूर्वमभूत् श्रोत्रबलं कर्णबलं दुरादपि शब्दोपादानरूपं, चः समुच्चये, हीयते | जरातः स्वयमपैति । अतः शारीरसामर्थ्यस्यास्थिरत्वात्समयमित्यादि प्राग्वत् ॥ २१ ॥ | मूलम्- परिजूरड ते सरीरयं, केसा पंडुरया हवंति ते । से चक्खुबले अ हायई, समयं गोअम मा पमायए २२ | मूलम्- परिजूड ते सरीरयं, केसा पंडुरया हवंति ते । से घाणबले अ हायई, समयं गोअम मा पमायए २३
- परिजूरड ते सरीरयं, केसा पंडुरया हवंति ते । से जिब्भबले अ हायई, समयं गोअम मा पमायए २४ मुलम्- परिजूरह ते सरीरयं, केसा पंडुरया हवंति ते । से फासबले अ हायई, समयं गोअम मा पमायए २५ मूलम्- परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते । से सव्वबले अ हायई, समयं गोअम मा पमायए २६
व्याख्या-- इदमपि सूत्रपञ्चकं प्राग्वन्नेयं, नवरं 'सव्वबले त्ति' सर्वेषां करचरणाद्यवयवानां बलं स्वस्वव्यापारसामर्थ्य इह
UTR-2
॥९॥
Page #93
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥ ९१ ॥
च प्रथमं श्रोत्रोपादानं तद्भावे शेषेन्द्रियाणां सद्भावेन पटुतरत्वेन च प्राधान्यादिति सूत्रषट्कार्थः ॥ २६ ॥ जरात: शरीराशक्तिरुक्ता, अथ रोगेभ्यस्तामाह-
मूलम् -- अरई गंडं विसूईआ, आयंका विविहा फुसंति ते । विवडइ विद्धंसइ ते सरीरयं, समयं गोयम मा पमायए ॥ २७ ॥
व्याख्या-- अरतिर्वातादिजनितश्चित्तोद्वेगः, गंडं गडुः, विसूचिका अजीर्णविशेषः, आतङ्काः सद्यो घातिनो रोगविशेषाः, विविधा: बहुप्रकाराः स्पृशन्ति ते तव शरीरमिति शेषः । ततश्च 'विवडत्ति' विशेषेण पतति बलोपचयादपैति, विध्वस्यति जीवमुक्तमधः पतति ते शरीरकमतो यावज्जरा रोगाश्च गात्रं न जर्जरयन्ति तावत्समयमित्यादि प्राग्वत् । केशपाण्डुरत्वादि जराचिह्न, रोगाश्च, यद्यपि गौतमे न सम्भवन्ति, तथापि तन्निश्रयाशेषशिष्यप्रतिबोधार्थत्वाददुष्टमिदमिति सूत्रार्थः ॥ २७ ॥ अथ यथा अप्रमादो विधेयस्तथाहमूलम्-- वुच्छिंद सिणेहमप्पणो, कुमुअं सारइअं वा पाणिअं ।
से सव्वसिणेहवज्जिए, समयं गोयम मा पमायए ॥ २८ ॥
व्याख्या-- व्युच्छिद्धि अपनय स्नेहं मद्विषयमभिष्वङ्गं आत्मनः स्वस्य किमिव किं? कुमुदमिव चन्द्रविकासिकमलमिव 'सारइअंति' सूत्रत्वाच्छरदिभवं शारदं, वाशब्द उपमार्थो भिन्नक्रमश्च प्राग् योजितः पानीयं जलं ततश्च कुमुदं यथा प्रथमं जलमग्नमपि जलं विहाय वर्तते, तथा त्वमपि विरसं सृष्टमपि मद्विषयं स्नेहं छिंद्धि, छित्वा 'से' इति ततः सर्वस्नेहवर्जितः सन् समयमपि गौतम मा प्रमादीः । इह च शारदपदोपादानं शारदजलस्येव स्नेहस्याप्यतिमनोरमत्वसूचनार्थमिति सूत्रार्थः ॥ २८ ॥ किञ्चमूलम् -- चिच्चा धणं च भारिअं पव्वइओ हि सि अणगारिअं । मावतं पुणोवि आविए, समयं गोयम मा पमाय ॥ २९ ॥
UTR-2
अध्य. १०
॥९१॥
Page #94
--------------------------------------------------------------------------
________________
अध्य. १०
उत्तराध्ययनसूत्रम् ।। ९२ ॥
व्याख्या--त्यक्त्वा परिहत्य धनं चतुष्पदादि, चशब्दो भिन्नक्रमस्ततो भार्यां च त्यक्त्वा, प्रवजितः प्रतिपन्नो हि IX| यस्मात् 'सि त्ति' सूत्रत्वादकार लोपे असि वर्त्तसे 'अनगारिता' मुनित्वं, अतो मा वान्तं उद्गीर्णं पुनरपि भूयोऽपि 'आविए त्ति' आपिबेः । किन्तु समयमित्यादि प्राग्वदिति सूत्रार्थः ।। २९ ।। कथं वान्तापानं न स्यादित्याह--
मूलम्-- अवउज्झिअमित्तबंधवं, विउलं चेव धणोहसंचयं ।
मा तं बिइअंगवेसए, समयं गोयम मा पमायए ॥३०॥ व्याख्या--अपोह्य मुक्त्वा मित्राणि च बान्धवाश्च मित्रबान्धवं, विपुलं विस्तीर्णं, चः समुच्चये, एवः पूर्ती, धनस्य कनकादिद्रव्यस्य ओघः समूहः, तस्य सञ्चयः कोशो धनौघसञ्चयस्तं,मा तत् मित्रादिकं द्वितीयं पुनः स्वीकारार्थमिति शेष: गवेषय अन्वेषय । श्रामण्याश्रयणे हि तत्त्यक्तमिति वान्तोपमं, भूयोऽपि तद्गवेषणे च वान्तापानमेव स्यादित्यभिप्रायः, किन्तु समयमित्यादि प्राग्वदिति सूत्रार्थः ॥ ३० ॥ इत्थं ममत्वोच्छेदार्थमुक्त्वा दर्शनशुद्ध्यर्थमाह--
मूलम्--नहु जिणे अज्ज दीसई, बहुमए दीसई मग्गदेसिए।
संपइ नेआउए पहे, समयं गोयम मा पमायए ॥३१॥ व्याख्या-नहु नैव 'जिनोऽर्हन्' अद्यास्मिन् काले दृश्यते, यद्यपीति गम्यं, तथापि 'बहुमएत्ति' बहुमतः पन्थाः' स च द्रव्यतो नगरादिमार्गो भावतस्तु ज्ञानादिरूपो मुक्तिमार्गः, इह च भावमार्ग एव गृह्यते, ततश्च मुक्तिमार्गो दृश्यते । कीदृशः? इत्याह-'मग्गदेसिए त्ति' मार्यमाणत्वान्मार्गो मोक्षस्तस्य 'देसिए त्ति' सूत्रत्वाद्देशकः-प्रापको मार्गदेशकः। अयं भाव:- यद्यप्यधुनाहन्नास्ति परं तदुपदिष्टो मार्गस्तु दृश्यते । न चेदृशोऽयमतीन्द्रियार्थदर्शिनं जिनं विना सम्भवतीत्यसन्दिग्धचेतसो भाविनोऽपि भव्या
UTR-2
॥१२॥
Page #95
--------------------------------------------------------------------------
________________
अध्य. १०
उत्तराध्ययनसूत्रम् ॥१३॥
| न प्रमादं विधास्यन्ति, ततः सम्प्रति अधुना सत्यपि मयीति भावः। नैयायिके निश्चितमुक्त्याख्यलाभप्रयोजने पथि मार्गे केवलानुत्पत्तिसंशयेन समयमपि गौतम ! मा प्रमादीरित्थञ्च व्याख्या सूत्रस्य सूचकत्वादिति सूत्रार्थः ।। ३१ ॥ तथा
मूलम्-अवसोहिआ कंटगापहं, उइण्णोसि पहं महालयं ।
गच्छसि मग्गं विसोहिआ, समयं गोयम मा पमायए ॥३२॥ व्याख्या-अवशोध्य परिहत्य कण्टगापहं ति' आकारोऽलाक्षणिकः, कण्टकाश्च द्रव्यतो बुब्बूलकण्टकाद्याः, भावतश्चरकादिद| र्शनानि, इह च भावकण्टकैरेवाधिकारः, तैराकुलः पन्था कण्टकपथस्तं, ततश्च अवतीर्णोऽसि अनुप्रविष्टोऽसि पन्थानं सम्यग्दर्शनादिकं भावमार्ग 'महालयं ति' महान्तं, कश्चिदवतीर्णोऽपि मार्ग न गच्छेदत आह-'गच्छसि' यासि मार्ग, न पुनः स्थित एवासि, सम्यग्द
र्शनादेरुत्सर्पणेन मार्गगमनप्रवृत्तत्वाद्भवत: । किं कृत्वा ? विशोध्य निश्चित्य मार्गमेवेति प्रक्रमः, तदेवं प्रवृत्तः सन् समयमपि | गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ ३२ ॥ उक्ता मार्गप्रतिपत्तिस्तत्प्रत्तिपत्तौ च कस्याप्यनुतापोऽपि स्यादिति तं निराकर्तुमाह
मूलम्-अबले जह भारवाहए, मा मग्गे विसमेऽवगाहिआ।
पच्छा पच्छाणुतावए,समयं गोयम मा पमायए॥३३॥ व्याख्या-'अबलो' देहसामर्थ्यहीनो यथेत्यौपम्ये भारवाहकः, 'मा' निषेधे 'मग्गे त्ति' मार्गे 'विसमे त्ति' विषमं, अवगाह्य प्रविश्य, त्यक्ताङ्गीकृतभारः सन्निति गम्यं, पश्चात् तत्कालानन्तरं, पश्चादनुतापकः पश्चात्तापकरोऽभूदिति शेषः। अयं भावः-यथा | कश्चिदुःस्थो देशान्तरं गतो बहुभिरुपायैः स्वर्णादिकमुपायं स्वगृहमागच्छन्नतिभीरुतया वस्त्वन्तरान्तर्हितं स्वर्णादिकं स्वशिरस्यारोप्य
UTR-2
॥१३॥
Page #96
--------------------------------------------------------------------------
________________
उत्तराध्य
अध्य. १०
यनसूत्रम्
॥१४॥
कतिचिद्दिनानि समुत्पाट्य क्वचिदुपलादिसड्कुले पथि अहो अहमनेन भारेणाक्रान्त इति तमुत्सृज्य गृहमागतोऽत्यन्तनिर्धनतयानुतप्यते, किं मया निर्भाग्येन त्यक्तमिति । एवं त्वमपि प्रमादेन त्यक्तसंयमभारः सन्नेवंविधो मा भूः, किन्तु समयमित्यादि प्राग्वदिति सूत्रार्थः ॥ ३३ ॥ अथाल्पं तीणं बहु च तरणीयमित्यभिप्रायेणोत्साहभङ्गो मा भूदित्याह
मूलम्-तिण्णो हु सि अण्णवं महं, किं पुण चिट्ठसि तीरमागओ।
अभितुर पारंगमित्तए, समयं गोयम मा पमायए ॥३४॥ व्याख्या- 'तिण्णो हु सि त्ति' तीर्ण एवासि, अर्णवमिवार्णवं संसार, महान्तं गुरुं, किमिति प्रश्ने, पुनरिति वाक्योपन्यासे, | ततः किं पुनस्तिष्ठसि ? तीरमागतः प्राप्तः । भावतो हि अर्णवो भवः कर्म वा, स च द्विविधोऽपि त्वया तीर्णप्राय एवेति कथं तीरं | प्राप्तोऽपि औदासीन्यं भजसे ? नैवेदं तवोचितमिति भावः । किन्तु अभितुरत्ति' आभिमुख्येन त्वरस्व शीघ्रो भव, पारं परतीरं, भावतो मुक्तिपदं 'गमित्तए त्ति' गन्तुं । ततश्च समयमित्यादि प्राग्वदिति सूत्रार्थः ॥३४॥ न च मम पारप्राप्तियोग्यता नास्तीत्यपि ध्येयं, यतः
मूलम्-अकलेवरसेणिमूसिआ, सिद्धिं गोअम लोअं गच्छसि ।
खेमं च सिवं अणुत्तरं, समयं गोयम मा पमायए ॥३५॥ व्याख्या -न विद्यते कलेवरं वपुर्येषां ते अकलेवराः सिद्धास्तेषां श्रेणि उत्तरोत्तरशुभाध्यवसायरूपां क्षपकश्रेणिं 'ऊसिअत्ति' उच्छ्रित्य उत्तरोत्तरसंयमस्थानावाप्त्या उच्छ्रितामिव कृत्वा हे गौतम! त्वं 'सिद्धि' सिद्धिसंज्ञं लोकं 'गच्छसि त्ति' विभक्तिव्यत्ययाद्गमिष्यसि, कीदृशं ? सिद्धिलोकमित्याह- क्षेमं परचक्रादिभयहीनं, चः समुच्चये, शिवमशेषदुरितोपशान्तिकलितं, अनुत्तरं सर्वोत्कृष्ट, ततः समयमित्यादि प्राग्वदिति सूत्रार्थः ॥ ३५ ॥ अथ निगमयन्नुपदेशसर्वस्वमाह
UTR-2
॥१४॥
Page #97
--------------------------------------------------------------------------
________________
अध्य. १०
उत्तराध्ययनसूत्रम् ॥१५॥
| मूलम्-बुद्धे परिनिव्वुडे चरे, गाम गए नगरे व संजए । संतिमग्गं च वूहए, समयं गोअम मा पमायए ॥३६॥
___ व्याख्या-बुद्धो ज्ञातहेयादिविभागः परिनिर्वृतः कषायाग्निशान्त्या शीतिभूतः सन् चरेरासेवस्व संयममिति शेषः, | 'गाम त्ति' विभक्तिलोपात् ग्रामे गतः स्थितो नगरे वा उपलक्षणत्वादरण्यादिषु वा सर्वत्रापि नीराग इति भावः, संयतः सम्यक्पापस्थानेभ्यो निवृतः 'शान्तिमार्ग' मुक्तिमार्ग, चशब्दो भिन्नक्रमस्ततो 'बृहयेश्च' भव्यजनेभ्य उपदेशनाद्वद्धि नयेः, तत समयमपि गौतम मा प्रमादीरिति सूत्रार्थः ॥ ३६ ॥ इत्थं जिनोक्तमाकर्ण्य गौतमो यदकार्षीत्तदाह
___ मूलम्-बुद्धस्स निसम्म भासिअं, सुकहिअमट्ठपओवसोहिअं॥
रागं दोसं च छिंदिआ, सिद्धिं गई गए भयवं गोयमेत्ति बेमि ॥ ३७॥ ___ व्याख्या-'बुद्धस्य' केवलालोकालोकितलोकालोकस्वरूपस्य श्री वर्धमानस्वामिनो निशम्याकर्ण्य भाषितं वचः, सुष्ठ शोभनेन | उपमादर्शनादिप्रकारेण कथितं, अत एवार्थप्रधानानि पदानि अर्थपदानि तैरुपशोभितं, रागद्वेषं च छित्वा सिद्धिं गतिं गतो | भगवान् गौतमः प्रथमगणधर इति सूत्रार्थः ॥३७॥ इति ब्रवीमीति प्राग्वत् ॥१०॥
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्री-उत्तराध्ययनसूत्रवृत्तौ दशमाध्ययनं सम्पूर्णम् ॥१०॥
UTR-2
॥९५॥
Page #98
--------------------------------------------------------------------------
________________
॥ अथैकादशमध्ययनम् ॥
अध्य. ११
उत्तराध्ययनसूत्रम् ॥१६॥
॥अर्हम् ॥ उक्तं दशममध्ययनं, अथ बहुश्रुतपूजाख्यमेकादशमारभ्यते । अस्य चायं सम्बन्धः, इहानन्तराध्ययनेऽप्रमादार्थमनुशिष्टिरुक्ता, सा च विवेकिनैव सम्यगवधार्यते, विवेकश्च बहुश्रुतपूजातो भवतीत्यत्र बहुश्रुतपूजोच्यते, इत्यनेन सम्बन्धेनायातस्य अस्येदमादिमं सूत्रम्मूलम्-संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो । आयारं पाउकरिस्सामि, आणुपुचि सुणेह मे ॥१॥ ___ व्याख्या संयोगाद्विप्रमुक्तस्यानगारस्य भिक्षोः, आचारमुचितविधि बहुश्रुतपूजारूपं, प्रादुष्करिष्यामि आनुपूर्व्या क्रमेण शृणुत मे मम वदत इति शेष इति सूत्रार्थः ॥ १॥ इह हि बहुश्रुतपूजा प्रक्रान्ता, बहुश्रुतस्वरूपञ्चाबहुश्रुतस्वरूपे प्ररूपिते सुखेनैव ज्ञायत इति तत्स्वरूपं तावदाहमूलम्-जे आवि होइ निविज्जे, थद्धे लुद्धे अणिग्गहे । अभिक्खणं उल्लवई, अविणीए अबहुस्सुए ॥२॥
व्याख्या-यः कश्चित्, चापिशब्दौ भिन्नक्रमावग्रे योक्ष्येते, भवति निर्विद्यः सम्यक्शास्त्रावगमविनाकृतः, अपि शब्दस्यह सम्बन्धात्सविद्योऽपि स्तब्धोऽहङ्कारी, लुब्धो रसादिषु गृद्धः, न विद्यते निग्रह इन्द्रियमनोनिरोधात्मकोऽस्येत्यनिग्रहः, | अभीक्ष्णं, पुनः पुनः उत् प्राबल्येनासम्बद्धभाषितादिरूपेण लपति वक्ति उल्लपति, अविनीतश्च विनयरहितः, 'अबहुस्सुएत्ति'
UTR-2
॥१६॥
Page #99
--------------------------------------------------------------------------
________________
अध्य. ११
उत्तराध्ययनसूत्रम् ॥९७॥
यत्तदोर्नित्याभिसम्बन्धात्सोऽबहुश्रुत उच्यते इति शेषः। इह च सविद्यस्याप्यबहुश्रुतत्वं बहुश्रुतत्वफलाभावादिति ध्येयं, एतद्विपरीतस्तु बहुश्रुत इति सूत्रार्थः ॥ २ ॥ अथेदृशमबहुश्रुतत्वं बहुश्रुतत्वञ्च कथं स्यादित्याह-- मूलम् --अह पंचहि ठाणेहिं, जेहिं सिक्खा न लब्भई । थंभा कोहा पमाएणं, रोगेणालस्सएण य ॥ ३ ॥
व्याख्या-- अथेत्युपन्यासे, पञ्चभिः स्थानैः प्रकारैर्वक्ष्यमाणैः शिक्षा ग्रहणासेवनात्मिका न लभ्यते तैरीदृशमबहुश्रुतत्वं | प्राप्यत इति शेषः । कैः पुनः सा न लभ्यते? इत्याह-स्तम्भात् मानात्, क्रोधात् कोपात् , प्रमादेन मद्यादिना, रोगेण गलत्कुष्टादिना, आलस्येनानुत्साहात्मना, शिक्षा न लभ्यत इति प्रक्रमः । चशब्दः समस्तानां व्यस्तानाञ्चैषां हेतुत्वं द्योतयति ॥ ३ ॥ एवमबहुश्रुतत्वहेतूनुक्त्वा बहुश्रुतत्वहेतूनाह-- मूलम्-- अह अट्टहिं ठाणेहि, सिक्खासीलेत्ति वुच्चइ । अहस्सिरे सया दंते, न य मम्ममुदाहरे ॥ ४ ॥
व्याख्या--अथाष्टभिः स्थानैः शिक्षां शीलयत्यभ्यस्यतीति शिक्षाशील इति उच्यते, जिनादिभिरिति शेषः । तान्येवाह-- 'अहस्सिरे त्ति' अहसनशीलो न सहेतुकमहेतुकं वा हसन्नेवास्ते, सदा सर्वकालं दान्त इन्द्रियनोइन्द्रियदमवान्, न च मर्म परापभ्राजनकारि उदाहरेत् उच्चारयेत् ॥ ४॥ मूलम्-- नासीले न विसीले अ, न सिआ अइलोलुए । अक्कोहणे सच्चरए, सिक्खासीलेत्ति वुच्चइ ॥ ५ ॥
व्याख्या--न नैव अशीलः सर्वथाशीलविकल: न विशीलो न विरूपशीलोऽतीचारकलुषितव्रतः, न स्यान्न भवेदति--
UTR-2
॥९७॥
Page #100
--------------------------------------------------------------------------
________________
अध्य. ११
उत्तराध्ययनसूत्रम् ॥९८॥
लोलुपोऽत्यन्तं रसलम्पटः, अक्रोधनः क्षमावान्, सत्यरतस्तथ्यवचनासक्तः, 'सिक्खासीले त्ति' इत्येवमनन्तरोक्तगुणवान् शिक्षाशील इत्युच्यत इति सूत्रत्रयार्थः ॥ ५ ॥ किञ्चाबहुश्रुतत्वबहुश्रुतत्वयोरविनयविनयावेव मूलहेतू ततो यैः स्थानैरविनीतो यैश्च विनीतस्तानि दर्शयितुमाह -- मूलम्--अह चउदसहि ठाणेहिं, वट्टमाणे उ संजए । अविणीए वुच्चई सो उ, निव्वाणं च न गच्छइ ॥ ६ ॥
व्याख्या-- अथेति प्राग्वत्, चतुर्दशसु स्थानेषु, सूत्रे सप्तम्यर्थे तृतीया सूत्रत्वात्, वर्तमानस्तिष्ठन्, तुः पूरणे, संयतो मुनिरविनीत इत्युच्यते, 'सो उत्ति' स पुनरविनीतो निर्वाणं मोक्षं न गच्छति ॥ ६ ॥ चतुर्दशस्थानान्याह- .. मूलम्-- अभिक्खणं कोही हवइ, पबंधं च पकुव्वई । मित्तिज्जमाणो वमइ, सुअं लभ्रूण मज्जइ ॥ ७ ॥
व्याख्या--अभीक्ष्णं पुनः पुनः क्रोधी भवति, सहेतुकमहेतुकं वा कुप्यन्नेवास्ते १ । प्रबन्धं च कोपस्यैवाविच्छेदरूपं 'पकुव्वइत्ति' प्रकर्षेण करोति, कुपितः सन्ननेकैरपि सान्त्वनैर्नोपशाम्यति २ । 'मित्तिज्जमाणोत्ति' मित्रीयमाणोऽपि |X मित्रं ममायमस्त्वितीष्यमाणोऽपि अपेलृप्तस्य दर्शनाद्वमति त्यजति, प्रस्तावान्मैत्री, अयं भाव:- यदि कोऽपि साधुर्धामिकतया वक्ति, यथाहं तव पात्रलेपादि कार्यं कुर्वे इति, ततोऽसौ प्रत्युपकारभीरुतया प्रतिवक्ति, ममालमनेनेति । यद्वा कृतमपि कृतघ्नतया न मन्यते इति वमतीत्युच्यते ३ । तथा 'सुअंति' अपेर्गम्यत्वात् श्रुतमप्यागममपि लब्ध्वा माद्यति, दर्प याति । श्रुतं हि मदापहं, स तु तेनापि दृप्यतीति भावः ४ ॥७॥
UTR-2
॥९८॥
Page #101
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम्
॥ ९९ ॥
मूलम् - अवि पावपरिक्खेवी, अवि मित्तेसु कुप्पड़ । सुप्पि अस्सावि मित्तस्स, रहे भासइ पावगं ॥८॥ व्याख्या -- अपि सम्भावने, पापैः कथञ्चित्समित्यादिषु स्खलितलक्षणैः परिक्षिपति निन्दतीत्येवंशीलः पापपरिक्षेपी, आचार्यादीनामिति शेषः । गुरूणां समित्यादौ स्खलितलक्षणं पापं पुरस्कृत्य तान्निदतीत्यर्थः ५ । अपिभिन्नक्रमस्ततो मित्रेभ्योऽपि सुहृदभ्योऽपि कुप्यति क्रुध्यति सूत्रे सप्तमी चतुर्थ्यर्थे ६ । तथा सुप्रियस्याप्यतिवल्लभस्यापि मित्रस्य रहसि एकान्ते भाषते पापमेव पापकं, अग्रतः प्रियं वक्ति पृष्ठतस्तु प्रतिसेवकोऽयमित्यादिकं तद्दोषमेवाविष्करोतीति भावः ७ ॥ ८ ॥
मूलम् - पइण्णवाई दुहिले, थद्धे लुद्धे अणिग्गहे । असंविभागी अविअत्ते, अविणीएत्ति वुच्चई ॥ ९ ॥
व्याख्या प्रतिज्ञया इदमित्थमेवेत्येकान्तवादरूपया वदनशीलः प्रतिज्ञावादी, यद्वा प्रकीर्णमसम्बद्धं वदतीति प्रकीर्णवादी ८ । 'दुहिलेत्ति' द्रोहणशीलो द्रोग्धा, मित्रस्यापीति शेषः ९ । स्तब्धस्तपस्व्यहमित्याद्यहङ्कृतिमान् १० । लुब्धो भोज्यादिष्वभिकांक्षावान् ११ । अनिग्रहः प्राग्वत् १२ । असंविभागी आहारादिकं प्राप्यातिगर्द्धनो नान्यस्मै स्वल्पमपि यच्छति किन्त्वात्मानमेव पोषयति १३ । 'अविअत्तेत्ति' अप्रीतिकरो दृश्यमानो भाष्यमाणो वा सर्वस्याप्रीतिमेवोत्पादयति १४ । एवंविधदोषान्वितोऽविनीत इत्युच्यते इतिनिगमनम् ॥ ९ ॥ इत्थमविनीतस्थानान्युक्त्वा विनीतस्थानान्याहमूलम् -- अह पण्णरसहिं ठाणेहिं, सुविणीएत्ति वुच्चई । नीआवित्ती अचवले, अमाई अकुऊहले ॥ १० ॥
UTR-2
अध्य. ११
॥९९॥
Page #102
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥ १०० ॥
व्याख्या -अथ पंचदशभिः स्थानैः सुष्ठु शोभनो विनीतो विनयान्वितः सुविनीत इत्युच्यते, तान्येवाह- 'नीआवित्तीत्ति' नीचमनुद्धतं यथा स्यादेवं वर्तत इत्येवंशीलो नीचवर्ती, गुरुषु न्यग्वृत्तिमान् । यदुक्तं-- "नीअं सिज्जं गई ठाणं, नीयं च आसणाणि अ ॥ नीअं च पाए वंदिज्जा, नीअं कुज्जा य अंजलिं ॥ १ ॥ " तथा न चपलोऽचपलस्तत्र चपलो गतिस्थानभाषाभावभेदाच्चतुर्धा । तत्र गतिचपलो द्रुतद्रुतचारी, स्थानचपलो यस्तिष्ठन्नपि हस्तादिभिश्चलनेवास्ते, भाषाचपलोऽसदसभ्यासमीक्ष्यादेशकालप्रलापिभेदाच्चतुर्धा । तत्रासदविद्यमानमस्ति खपुष्पमित्यादि, असभ्यं खरपरुषादि, असमीक्ष्यानालोच्य प्रलपन्तीत्येवंशीला असदसभ्यासमीक्ष्यप्रलापिनस्त्रयः, अदेशकालप्रलापी तु चतुर्थो योऽतीते कार्ये वक्ति, यदीदं तत्र देशे काले वाऽकरिष्यत्तदा सुन्दरमभविष्यदिति । भावचपलस्तु सः यः प्रस्तुते सूत्रेऽर्थे वाऽसमाप्त एवान्यद् गृह्णाति २ । अमायी, न मनोज्ञमाहारादिकमवाप्य गुर्वादिवञ्चकः ३ । अकुतूहलो नेन्द्रजालादिकौतुकविलोकनतत्परः ४ ॥ १० ॥
मूलम् - अप्पं चाहिक्खिवइ, पबंधं च न कुव्वई । मित्तिज्जमाणो भयड़, सुअं लद्धुं न मज्जइ ॥११॥ व्याख्या अत्राल्पशब्दोऽभाववाची, ततश्चाल्पमिति नैव कञ्चनाधिक्षिपति तिरस्करोति ५ । प्रबन्धञ्च कोपाविच्छेदरूपं न करोति ६ । मित्रीयमाणः पूर्वोक्तन्यायेन भजते, मित्रीयितारमुपकुरुते, प्रत्युपकारम्प्रत्यशक्तो वा कृतघ्न न स्यात् ९ । श्रुतं लब्ध्वा न माद्यति, किन्तु मददोषपरिज्ञानात्सुतरामेव नमति ८ ॥ ११ ॥
मूलम् - न य पावपरिक्खेवी, न य मित्तेसु कुप्पई । अपिअस्सावि मित्तस्स, रहे कल्लाण भासई ॥ १२ ॥
UTR-2
अध्य. ११
॥१००॥
Page #103
--------------------------------------------------------------------------
________________
अध्य. ११
उत्तराध्ययनसूत्रम् ॥१०१॥
व्याख्या-न च पापपरिक्षेपी, पूर्वोक्तरूप: ९ । न च कथञ्चित्सापराधेभ्योऽपि मित्रेभ्यः कुप्यति १० । अप्रियस्यापि मित्रस्य रहसि कल्याणं भाषते, अयं भावः मित्रमिति य प्रतिपन्नः स यद्यप्यपकृतिशतानि कुरुते तथाप्येकमपि | तत्कृतमुपकारमनुस्मरन् न रहस्यपि तद्दोषं वक्ति । आह च-"एकसुकृतेन दुष्कृतशतानि ये नाशयन्ति ते धन्याः, न त्वेकदोषजनितो, येषां रोषः शतकृतघ्नः ॥१॥ इति ॥ ११ ॥ १२ ॥ मूलम्--कलहडमरवज्जए, बुद्धे अभिजाइगे । हिरिमं पडिसंलीणे, सुविणीएत्ति वुच्चई ॥ १३ ॥
व्याख्या--कलहश्च वाचिको विग्रहः, डमरञ्च पाणिघातादिजं तद्वर्जकः कलहडमरवर्जकः१२ । बुद्धो बुद्धिमानेतच्च सर्वत्रानुगम्यत एवेति न प्रकृतसंख्याविरोधः । अभिजातिं कुलीनतां गच्छति जात्यवृषभ इवोत्क्षिप्तभारनिवहणादित्यभिजातिग: १३ । हीमान् लज्जावान्, स हि कलुषाशयत्वेऽप्यकार्यमाचरन् लज्जते १४ । प्रतिसंलीनो गुरु पार्श्वेन्यत्र वा स्थितो न हि कार्य विना यतस्ततश्चेष्टते १५ । प्रस्तुतमुपसंहरति, 'सुविणीएत्ति' स एवंविधगुणा- न्वितः सुविनीत इत्युच्यते इति सूत्राष्टकार्थः ॥ १३ ॥ यश्चैवं विनीतः स कीदृक् स्यादित्याह-- | मूलम्--वसे गुरुकुले णिच्चं, जोगवं उवहाणवं । पिअंकरे पिअंवाई, से सिक्खं लद्भुमरिहई ॥ १४ ॥
व्याख्या - वसेत्तिष्ठेद्गुरुकुले गच्छे नित्यं सदा गुर्वाज्ञोपलक्षणञ्चैतत्ततो यावज्जीवमपि गुर्वाज्ञायामेव तिष्ठेदित्यर्थः । योगो व्यापारो धर्मस्य तद्वान्, उपधानमङ्गोपाङ्गाध्ययनादौ यथायोगमाचाम्लादिस्तपोविशेषस्तद्वान्, प्रियङ्करः कथञ्चित्केनचिदपकृतोऽपि | न तत्प्रतिकूलं करोति, किन्तु ममैव कर्मणोऽसौ दोष इति ध्यायन् अप्रियकारिण्यपि प्रियमेव चेष्टत इत्यर्थः ।
UTR-2
॥१०१॥
Page #104
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ।। १०२ ।।
अत एव 'पिअंवाइत्ति' केनचिदप्रियमुक्तोऽपि प्रियमेव वदतीत्येवंशीलः प्रियंवादी । आह च - " करयलमलिअस्सवि दमणयस्स महमहइ पेसलो गंधो । तविअस्सवि सज्जणमाणुसस्स महुरा समुल्लावा ॥ १ ॥ तथा चास्य को गुणः ? इत्याहस एवंविधगुणवान् शिक्षां शास्त्रार्थग्रहणतदासेवनादिरूपां लब्धुमवाप्तुमर्हति योग्यो भवति न तु तद्विपरीतोऽविनीतः । यश्च शिक्षां लभते स बहुश्रुतोऽपरस्त्वबहुश्रुत इति भाव इति सूत्रार्थः ॥ १४ ॥ एवं सविपक्षं बहुश्रुतं सप्रपञ्चमभिधाय तस्यैव स्तुतिद्वारेण पूर्वप्रतिज्ञातं तत्प्रतिपत्तिरूपमाचारमाह
मूलम्-जहा संखंमि पयं निहित्तं, दुहओवि विराय । एवं बहुस्सुए भिक्खू, धम्मो कित्ती तहा सुयं ॥ १५॥
व्याख्या- यथेति दृष्टान्ते, शंखे पयो दुग्धं निहितं न्यस्तं 'दुहओवित्ति' स्वसम्बन्ध्याश्रयसम्बन्धिगुणद्वयलक्षणेन प्रकारद्वयेनापीत्यपिशब्दार्थ:, 'विराजते' शोभते, तत्र हि तन्न कलुषीभवति, न चाम्लतां भजते, नापि च परिश्रवति, एवमनेन प्रकारेण बहुश्रुते 'भिक्खू त्ति' भिक्षौ मुनौ धर्मो मुनिधर्मः कीर्त्तिः श्लाघा, तथा श्रुतमागमो विराजते इति सम्बन्धः । अयं भावः यद्यपि धर्मकीर्त्तिश्रुतानि निरुपलेपतादिगुणेन स्वयं शोभावन्ति तथापि मिथ्यात्वादिकालुष्यापगमान्नैर्मल्यादिगुणैः शंखसदृशे बहुश्रुते स्थितान्याश्रयगुणेन विशेषात् शोभन्ते, न च तत्र तानि मालिन्यमन्यथाभावं हानिञ्च कदाचित् प्रयान्तीति सूत्रार्थः ॥ १५ ॥ पुनर्बहुश्रुतस्तवमेवाह
मूलम् - जहा से कंबोआणं, आइण्णे कंथए सिआ । आसे जवेण पवरे, एवं भवइ बहुस्सुए ॥ १६ ॥
व्याख्या- यथा स इति प्रसिद्धः, काम्बोजानां काम्बोजदेशोद्भवानां अश्वानां मध्ये आकीर्णो गुणैरिति शेषः, कन्थकः प्रधानोऽश्वो यः किल दृषच्छकलभृतकुतपनिपातध्वनेर्न सन्त्रस्यति, स्यात् भवेदश्वो जवेन वेगेन प्रवरः प्रधानः, एवमित्यु
UTR-2
अध्य. ११
॥१०२॥
Page #105
--------------------------------------------------------------------------
________________
अध्य. ११
उत्तराध्ययनसूत्रम् ॥१०३ ॥
पनये, तत ईदृशो भवति बहुश्रुतः, जैना हि मुनयः परतीर्थिकेभ्यः सकलगुणैः काम्बोजा इवान्याश्वेभ्यो विशिष्यन्ते, अयं त्वाकीर्णकन्थकाश्ववत्तेभ्योऽप्यधिकः शीलादिगुणैः प्रवर इति सूत्रार्थः ॥ १६ ॥ मूलम्-- जहाइण्णसमारूढे, सूरे दढपरक्कमे । उभओ नंदिघोसेणं, एवं भवति बहुस्सुए ॥ १७ ॥
व्याख्या--यथा आकीर्णं जात्यादिगुणोपेतमश्वं समारूढोऽध्यासितः आकीर्णसमारूढः शूरचारभटो दृढपराक्रमो गाढबल: 'उभओ त्ति' उभयतो वामतो दक्षिणतश्च नान्दीघोषेण द्वादशतूर्यनिनादेन उपलक्षितो भाति, एवं भवति बहुश्रुतः । अयं भावःयथैवंविधः शूरो न केनाप्यभिभूयते, न चान्यस्तदाश्रितस्तथायमपि जिनागमाश्वमाश्रितो दृप्तपरवादिदर्शनेऽपि चात्रस्तस्तज्जयम्प्रति समर्थ उभयतश्च दिनरात्र्योः स्वाध्यायघोषात्मकेन नान्दीघोषेणोपलक्षितो दृप्तैरपि परैर्न पराभूयते, न च तदाश्रितोऽन्योऽपिति सूत्रार्थः॥१७॥ मूलम्--जहा करेणुपरिकिण्णे, कुंजरे सट्ठिहायणे । बलवंते अप्पडिहए, एवं भवति बहुस्सुए ॥ १८ ॥
व्याख्या--यथा करेणुपरिकीर्णो हस्तिनीभिः परिवृत्तः कुञ्जरो हस्ती षष्टिहायनः षष्टिवर्षप्रमाण: तस्य ह्येतावत्कालं यावत्प्रतिवर्ष बलोपचयस्ततस्तदपचय इत्येवमुक्तं, अत एव च 'बलवंते ति' बलं वपुःसामर्थ्यमस्यास्तीति बलवान्, अप्रतिहतो न मदोत्कटैरपि परगजैः पराङ्मुखीक्रियते, एवं भवति बहुश्रुतः, सोऽपि हि करेणुभिरिव औत्पत्तिक्यादिबुद्धिभिर्विविधविद्याभिश्च वृतः षष्टिहायनतया स्थिरमतिरत एव च बलवत्तया अप्रतिहतो भवति, न हि दर्शनोपहन्तृभिः प्रतिहन्तुं शक्यत इति सूत्रार्थः ॥ १८ ॥ मूलम्--जहा से तिक्खसिंगे, जायखंधे विरायई । वसहे जूहाहिवई, एवं भवइ बहुस्सुए ॥ १९ ॥
UTR-2
॥१०३॥
Page #106
--------------------------------------------------------------------------
________________
उत्तराध्य
अध्य. ११
यनसूत्रम्
॥१०४॥
व्याख्या-- यथा स तीक्ष्णशृङ्गो निशितविषाण: जातोऽत्यन्तमुपचितः स्कन्धोऽस्येति जातस्कन्धः, समस्ताङ्गोपाङ्गोपचयोपलक्षणञ्चैतत्, विराजते वृषभो यूथाधिपतिर्गोसमूहस्वामी सन्, एवं भवति बहुश्रुतः । सोऽपि परपक्षक्षोदकतया तीक्ष्णाभ्यां स्वशास्त्रपरशास्त्ररूपाभ्यां शृङ्गाभ्यां शोभितो गच्छादिगुरुकार्यधुराधरणधुरीणतया च जातस्कन्ध इव जातस्कन्धः । अत एव यूथस्य साध्वादिसमूहस्याधिपतिराचार्यत्वं गतः सन् विराजते इति सूत्रार्थः ॥ १९ ॥ मूलम्--जहा से तिक्खदाढे, उदग्गे दुप्पहंसए । सीहे मिआण पवरे, एवं भवइ बहुस्सुए ॥ २०॥
व्याख्या--यथा स तीक्ष्णदंष्ट्र उदग्र उत्कट अत एव 'दुप्पहंसए त्ति' दुष्प्रधर्षकोऽन्यैः पराभवितुमशक्यः सिंह: केसरी मृगाणामारण्यजन्तूनां प्रवरो भवति, एवं भवति बहुश्रुतः । अयमपि हि परपक्षभेदकत्वात्तीक्ष्णदंष्ट्रादेश्यैर्नंगमादिनयैः प्रतिभादिगुणोदग्रतया च दुरभिभव इत्यन्यतीर्थ्यानां मृगतुल्यानां प्रवर एवेति सूत्रार्थः ॥ २० ॥ मूलम्-- जहा से वासुदेवे संखचक्कगदाधरे । अप्पडिहयबले जोहे, एवं भवइ बहुस्सुए ॥ २१ ॥
व्याख्या-यथा स वासुदेवः, शंखं पाञ्चजन्यं, चक्रं सुदर्शनं, गदां च कौमोदकी, धरतीति शङ्खचक्रगदाधरः । अप्रतिहतबल: अस्खलितसामर्थ्यः, अयं भाव:-एकं सहजसामर्थ्यवानन्यच्च तथाविधायुधान्वित इति योधः सुभटः, एवं भवति बहुश्रुतः । सोऽपि ह्येकं सहजप्रतिभाप्रागल्भ्यवानपरञ्च शंखचक्रगदातुल्यैः सम्यग्ज्ञानदर्शनचारित्रैरुपेत इति योधः कर्मवैरी पराभवं प्रतीति सूत्रार्थः ॥२१॥ मूलम्-- जहा से चाउरते, चक्कवट्टी महिड्ढिए । चउदसरयणाहिवई, एवं भवइ बहुस्सुए ॥ २२ ॥
UTR-2
॥१०४॥
Page #107
--------------------------------------------------------------------------
________________
अध्य. ११
उत्तराध्ययनसूत्रम् ॥१०५॥
व्याख्या--यथा स चतुर्भिक्ष्यगजरथनरात्मकैः सैन्यैरन्तः शत्रुविनाशरूपो यस्य स तथा, चक्रवर्ती षट्खण्डभरताधिपो महर्द्धिको दिव्यलक्ष्मीवान्, चतुर्दश च तानि रत्नानि च चतुर्दशरत्नानि, तानि चामूनि' सेणावई गहावई, पुरोहिय गय तुरय वड्डई इत्थी । चक्कं छत्तं चम्म, मणि कागिणि खग्ग दंडो अ ॥१॥ त्ति" तेषामधिपतिः- स्वामी चतुर्दशरत्नाधिपतिः ।
एवं भवति बहुश्रुतः, सोऽपि हि दानादिभिश्चतुर्भिर्धमैरन्तः कर्मवैरिणामस्येति चतुरन्तः, ऋद्धयश्चामर्षोंषध्याद्या महत्य 3 एवास्य भवन्ति, सम्भवन्ति च चतुर्दशरत्नोपमानि पूर्वाणि तस्येति सूत्रार्थः ॥ २२ ॥ मूलम्-जहा से सहस्सक्खे, वज्जपाणी पुरंदरे । सक्के देवाहिवइ, एवं भवइ बहुस्सुए ॥२३॥
व्याख्या यथा सहस्राक्षः सहस्रलोचनः, कथमिति चेदुच्यते, इन्द्रस्य हि पंच मन्त्रिशतानि तन्नेत्राणां च सहस्रं इन्द्रकार्य एव व्याप्रियते इति, यद्वा यदन्ये नेत्राणां सहस्रेण पश्यन्ति तदसौ द्वाभ्यां नेत्राभ्यां साधिकं पश्यतीति सहस्राक्ष इत्युच्यते, इति सम्प्रदायः । तथा वज्र-प्रहरणविशेषः पाणावस्येति वज्रपाणिः, लोकोक्त्या च असुराणां पूर्दारणात् पुरन्दरः, शक्रो देवाधिपतिरेवं भवति बहुश्रुतः । सोऽपि श्रुतज्ञानेन सकलातिशयनिधानेन लोचनसहस्रेणेव जानीते, इदृशस्य च प्रशस्यलक्षणतया वजलक्षणमपि पाणौ सम्भवतीति वज्रपाणिः, पूः शरीरमप्युच्यते तच्च दुस्तपतपोनुष्ठानेन दारयति कृशीकरोतीति पुरन्दरः, दृढधर्मतया चायं सुरैरपि पूज्यत इति तत्पतिरप्युच्यत इति सूत्रार्थः॥ २३ ॥
UTR-2
॥१०५॥
Page #108
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
।। १०६ ।।
मूलम् -- जहा से तिमिरविद्धंसे, उत्तिट्टंते दिवायरे । जलंते इव तेएणं, एवं भवइ बहुस्सु ॥ २४ ॥ व्याख्या-- यथा स तिमिरविध्वंसस्तमः स्तोमविनाशकः उत्तिष्ठन्नुद्गच्छन् दिवाकरः सूर्यः, स हि ऊर्ध्वं नभोभागमाक्रामन् भृशं तेजस्वितां भजते न त्ववतरन्नित्येवं विशिष्यते, ज्वलन्निव ज्वालां मुञ्चन्निव तेजसा महसा, एवं भवति बहुश्रुतः । सोऽपि हि अज्ञानध्वान्तविध्वंसी संयमस्थानेषु शुद्धशुद्धतमाद्यध्यवसायत उत्सर्पस्तपस्तेजसा ज्वलन्निव भवतीति सूत्रार्थः ॥ २४ ॥ मूलम् -- जहा से उडुवइ चंदे, नक्खत्तपरिवारिए । पडिपुण्णे पुण्णमासीए, एवं भवइ बहुस्सुए ॥ २५ ॥
व्याख्या-- यथा स पौर्णमास्याः पूर्णिमायाः उडुपतिर्नक्षत्राधिपश्चन्द्रो नक्षत्रैरश्विन्यादिभिरुपलक्षणत्वाद्ग्रहतारकाभिश्च परिवारितः, पतिरपि कश्चिदेकाक्येव स्यान्मृगपतिवदिति उडुपतिरित्युक्तेऽपि नक्षत्रपरिवारित इत्युक्तं, प्रतिपूर्णः सकलकलाकलितः, एवं भवति बहुश्रुतः । सोऽपि नक्षत्रकल्पानां साधुनां पतिस्तत्परिवारितः सकलकलाकलितत्वेन प्रतिपूर्णश्च स्यादिति सूत्रार्थः ॥ २५ ॥ मूलम् -- जहा से सामाइआणं, कोट्ठागारे सुरक्खिए । नाणाधन्नपडिपुण्णे, एवं भवइ बहुस्सुए ॥ २६ ॥
व्याख्या -- यथा स 'सामाइआणं ति' समाजं समूहं समवयन्तीति सामाजिकाः समूहवृत्तयो लोकास्तेषां कोष्ठागारो धान्याश्रयः सुष्ठुप्राहरिकपुरुषादिव्यापारणद्वारेण रक्षितश्चौरमूषकादिभ्य इति सुरक्षितः, नाना अनेकप्रकाराणि धान्यानि शाल्यादीनि तै: प्रतिपूर्णो भृतो नानाधान्यप्रतिपूर्ण, एवं भवति बहुश्रुतः । सोऽपि सामाजिकानामिव गच्छ्वासिनामुपयोगिभिर्नानाधान्योपमैरङ्गोपाङ्गप्रकीर्णकादिभेदैः श्रुतज्ञानविशेषैः प्रतिपूर्णः प्रवचनाधारतया सुरक्षितश्च परवादिरोगादिभ्यो भवति । उक्तं हि -- "जेण कुलं
UTR-2
अध्य. ११
॥१०६ ॥
Page #109
--------------------------------------------------------------------------
________________
अध्य. ११
उत्तराध्ययनसूत्रम् ॥१०७॥
आयत्तं, तं पुरिसं आयरेण रक्खेह । न हु तुंबंमि विणटे, अरया साहारया हुँति ॥१॥"त्ति सूत्रार्थः ॥ २६ ॥ INI मूलम्-- जहा सा दुमाण पवरा, जंबू नाम सुदंसणा । अणाढिअस्स देवस्स, एवं भवइ बहुस्सुए ॥ २७ ॥
व्याख्या-- यथा सा द्रमाणां प्रवरा जम्बूर्नाम्नाभिधानेन सुदर्शना, न हि यथेयममृतफला देवाद्याश्रयश्च तथान्यः कोऽपि द्रुमोऽस्ति, द्रुमत्वं फलव्यवहारश्चास्यास्तत्प्रतिरूपतयैव, वस्तुतस्तु पार्थिवतयोक्तत्वात्, सा च कस्येत्याह-अनादृतस्य अनादृतनाम्नो देवस्य जम्बूद्वीपाधिपतेर्व्यन्तरसुरस्य आश्रयतया सम्बन्धिनी, एवं भवति बहुश्रुतः । सोऽपि हि अमृतफलोपमश्रुतान्वितो देवानामपि पूज्यतयाभिगम्यः शेषगुमोपमसर्वसाधुषु च प्रवर इति सूत्रार्थः ।। २७॥ मूलम्--जहा सा नईण पवरा, सलिला सागरंगमा । सीआ नीलवंतप्पवहा, एवं भवइ बहुस्सुए ॥ २८ ॥
व्याख्या-- यथा सा नदीनां प्रवरा सलिला नदी सागरं समुद्रं गच्छतीति सागरगमा समुद्रपातिनी न तु क्षुद्रनदीवदन्तरा विशीर्यते इत्यर्थः। शीता नाम्नी नीलवान्मेरोरुत्तरदिशि वर्षधरस्ततः प्रवहतीति नीलवत्प्रवहा, एवं भवति बहुश्रुतः। सोऽपि हि सरित्समानामन्यमुनीनां वरेण्यो निर्मलजलकल्पश्रुतज्ञानान्वितः सागरदेश्यां मुक्तिमेव गच्छति, तदर्हानुष्ठान एव तस्य प्रवृतेः। न हि तस्य विवेकिनो देवत्वादिवाञ्छा, तथा कथमस्यान्तरावस्थानं स्यात् ? तस्य च महाभागस्य नीलवत्कल्पादुच्छ्रितोच्छ्रितकुला| देव प्रसूतिरिति सूत्रार्थः ॥ २८ ॥ मूलम्-- जहा से नगाण पवरे, सुमहं मंदरे गिरी । नाणोसहिपज्जलिए, एवं भवइ बहुस्सुए ॥ २९ ॥
UTR-2
॥१०७॥
Page #110
--------------------------------------------------------------------------
________________
अध्य. ११
उत्तराध्ययनसूत्रम् ॥१०८॥
व्याख्या--यथा स नगानां प्रवरः सुमहानत्यन्तं गुरुर्मन्दरो गिरिमेरुपर्वतः नानौषधिभिरनेकसमहिमवनस्पतिभिः प्रकर्षण ज्वलितोदीप्तो नानौषधिप्रज्वलितः, औषधयो एतिशायिन्यो दीपिका इव प्रज्वलन्त्य एव स्युस्ततो गिरिरपि प्रज्वलन्निव स्यात्, * एवं भवति बहुश्रुतः । सोऽपि श्रुतमहिम्नात्यन्तं स्थिरोऽपरशैलकल्पान्यसाध्वपेक्षया प्रवरोऽन्धकारेऽपि प्रकाशनिदानामर्षोषध्यादिलब्धिसहितश्च स्यादिति सूत्रार्थः ॥२९॥ किंबहुना ? मूलम्-- जहा से सयंभुरमणे, उदही अक्खओदए । नाणारयणपडिपुण्णे, एवं भवइ बहुस्सुए ॥ ३० ॥
व्याख्या-- यथा स स्वयम्भूरमण उदधिः समुद्रः, अक्षयमविनाशी उदकं जलं यत्र स, तथा नानारत्नैर्मरकतादिभिः प्रतिपूर्णो नानारत्नप्रतिपूर्णः, एवं भवति बहुश्रुतः । सोऽपि ह्यक्षयसम्यग्ज्ञानोदको नानातिशयरत्नाढ्यश्च भवतीति सूत्रार्थः ॥ ३० ॥ अथोक्तगुणानुवादेन फलोपदर्शनेन च तस्यैव माहात्म्यमाह--
मूलम्-- समुद्दगंभीरसमा दुरासया, अचक्किआ केणई दुप्पधंसया ।
सुअस्स पुण्णा विउलस्स ताइणो, खवित्तु कम्मं गइमुत्तमं गया ॥३१॥ व्याख्या--'समुद्दगंभीरसम त्ति' आर्षत्वाद्गाम्भीर्येणालब्धमध्यात्मकेन गुणेन समा गाम्भीर्यसमाः, समुद्रस्य गाम्भीर्यसमाः समुद्रगाम्भीर्यसमाः, समुद्रवद्गम्भीरा इत्यर्थः । 'दुरासय त्ति' दुःखेनाश्रीयन्ते पराभवबुद्ध्या केनापीति दुराश्रयाः, अत एवाचकिताः अत्रस्ता: केनचित् परीषहपरवाद्यादिना, तथा दुःखेन प्रधर्घ्यन्ते केनापीति दुष्प्रधर्षकाः, 'सुअस्स पुण्णा विउलस्स त्ति' सुप्व्यत्ययात्
UTR-2
॥१०८॥
Page #111
--------------------------------------------------------------------------
________________
अध्य. ११
उत्तराध्ययनसूत्रम् ॥१०९ ॥
| श्रुतेनागमेन पूर्णा भृता विपुलेन अङ्गानङ्गप्रविष्टादिभेदैविस्तीर्णेन बहुश्रुता इत्यर्थः। त्रायिणः त्रातारः, स्वस्य परस्य दुर्गतिपाताद्यपायेभ्यः । क्षपयित्वा विनाश्य कर्म ज्ञानावरणादि गतिमुत्तमां मुक्तिरूपां गताः प्राप्ता उपलक्षणत्वाद्गच्छन्ति गमिष्यन्ति च । इहैकवचनप्रक्रमेऽपि बहुवचननिर्देशो व्याप्तिप्रदर्शनायेति सूत्रार्थः ॥ ३१ ॥ इत्थं बहुश्रुतगुणवर्णनरूपां पूजामुक्त्वा शिष्योपदेशमाह-- मूलम्--तम्हा सुअमहिट्ठिज्जा, उत्तिमट्ठगवेसए । जेणप्पाणं परं चेव, सिद्धिं संपाउणिज्जासि त्ति बेमि ॥ ३२ ॥
व्याख्या--'तम्हत्ति' यस्मादमी मुक्तिगमनावसाना बहुश्रुतस्य गुणास्तस्मात् श्रुतमागममधितिष्ठेत्, अध्ययनश्रवण - चिन्तनादिना श्रयेत, उत्तमः प्रधानोऽर्थो मोक्ष एव तं गवेषयत्यन्वेषयतीत्युत्तमार्थगवेषकः, येन श्रुताश्रयणेनात्मानं परञ्चैव सिद्धि मुक्ति सम्प्रापयेदिति सूत्रार्थः ॥ ३२ ॥ इति ब्रवीमीति प्राग्वत् ।।
इति श्रीतपागच्छीयोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमनिविमलगणिशिष्याश्रवोपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ एकादशमध्ययनं सम्पूर्णम् ॥११॥
UTR-2
॥१०९॥
Page #112
--------------------------------------------------------------------------
________________
॥ अथ द्वादशमध्ययनम्
॥
अध्य. १२
उत्तराध्ययनसूत्रम् ॥११०॥
॥अर्हम् ॥ उक्तमेकादशमध्ययनमधुना हरिकेशबलमुनिवक्तव्यतानिबद्धं हरिकेशीयाख्यं द्वादशमारभ्यते । अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने बहुश्रुतपूजोक्ता, इह तु बहुश्रुतेनापि तपसि यतनीयमिति ख्यापनार्थं तपःसमृद्धिर्वर्ण्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य प्रस्तावनार्थं हरिकेशबलचरितं तावदुच्यते । तथाहि--
मथुरायां महापुर्या, शंखनामा महीधवः ॥ भुक्त्वा राज्यं विरक्तात्मा, परिव्रज्यामुपाददे ॥ १॥ क्रमाद्गीतार्थतां प्राप्तो, विहरन् वसुधातले ॥ सोऽगाव्रजपुरं भिक्षा-निमित्तं तत्र चाविशत् ॥ २ ॥ एका रथ्या हुतवह-रथाह्वा तत्र चाभवत् । सा हि ग्रीष्मार्कसन्तप्ता, तप्तायस्पात्रतां दधौ ॥३॥ ताञ्चातिगन्तुं पादाभ्यां, मुर्मुरोपमवालुकाम् ॥ नाभूत्कोऽपि प्रभुर्वज्र-वालुकामिव निम्नगाम् ॥ ४ ॥ यश्चाज्ञानाज्जनस्तस्यां, रथ्यायां प्रविशेत्तदा ॥ स द्राक् म्रियेत चनको, भृज्ज्यमान इवोच्छलन् ।। ५ ।। ताञ्च प्राप्तो भ्रमन् साधु-रसञ्चारां समीक्ष्य सः ॥ पप्रच्छासन्नसौधस्थं, सोमदेवपुरोधसम् ॥६॥ मार्गेणानेन गच्छामि, न वेति वद सन्मते ! ॥ न ह्यज्ञातस्वरूपेणा-ध्वना गच्छन्ति धीधनाः ॥ ७ ॥ दन्दह्यमानं मार्गेऽस्मिन् , विलुठन्तमितस्ततः ।। पश्याम्येनमिति द्विष्टः, सोऽप्यूचे गम्यतामिति ॥ ८ ॥ ततस्तेनैव मार्गेण, गन्तुं प्रववृते व्रती ॥ तन्महिम्ना स मार्गोऽभू-त्सलिलादपि शीतलः ॥ ९ ॥ पुरोहितोऽपि तं द्रष्ट-मारोहद्गेहकुट्टिमम् ॥ तञ्चोपयुक्तं तत्रापि, यान्तमद्तमैक्षत ॥ १० ॥ ततः स विस्मितो विप्र-स्तस्मिन्मार्गे
UTR-2
॥११०॥
Page #113
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥ १११ ॥
ययौ स्वयम् ॥ तुषारशीतलस्पर्शं तञ्च वीक्ष्येत्यचिन्तयत् ॥ ११ ॥ पापेन पापकर्मेदं, किमहो विहितं मया ! ॥ करिषाग्निसमस्पर्शे मार्गेऽसौ यत्प्रवेशितः ॥ १२ ॥ अहो ! अस्य तपः शक्ति -र्यदध्वा तादृशोऽप्यसौ । सुधारसैः सिक्त इव, प्राप शैत्यं वचोतिगम्! ॥१३॥ तस्मान्महाप्रभावोऽयं, महात्मा श्रमणाग्रणीः ॥ वन्दनीयो जगद्वन्द्यः, शमामृतमहोदधिः ॥ १४ ॥ इति ध्यात्वा नवाम्भोदसिक्तस्तापमिवाचलः ॥ उद्गिरन् स्वमनाचारमनमत्तं मुनिं द्विजः ॥ १५ ॥ ततस्तस्मै शंखसाधुः, साधुधर्ममुपादिशत् ॥ तदाकर्ण्योरुवैराग्यः, पर्यव्राजीत्पुरोहितः ।। १६ ।। जातिरूपमदौ चक्रे, स व्रतं पालयन्नपि ॥ मदो हि प्राणिनां मत्त - गजेन्द्र इव दुर्जयः ॥ १७ ॥ तौ च प्रान्तेऽप्यनालोच्य, मदौ मृत्वा दिवङ्गतः ॥ समं सुरीभिर्बुभुजे, भोगान् पुण्यद्रुपल्लवान् ॥ १८ ॥ ( इतश्च )
मृतगङ्गातीरवासी, श्वपचानामधीश्वरः । बलकोट्टाख्यजातीनां बलकोट्टाभिधोऽभवत् ॥ १९ ॥ तस्याभूतामुभे गौरी-गान्धारीसंज्ञके प्रिये ॥ सोऽथ देवश्च्युतः स्वर्गा--द्गौर्याः कुक्षाववातरत् ॥ २० ॥ वसन्तसङ्गसम्भूत - प्रभूतनवपल्लवम् ॥ स्वप्ने गरी तदाऽपश्य-त्सहकारमहीरुहम् ॥ २१ ॥ तथा पृष्टः स्वप्नफल- मित्यूचे स्वप्नपाठकः ॥ स्वप्नेनानेन भद्रे ! त्वं, सुतं श्रेष्ठमवाप्स्यसि ॥ २२ ॥ साथ तुष्टा दधौ गर्भ- मर्भञ्च सुषुवे क्रमात् ॥ बलकोट्टस्ततस्तस्य बल इत्यभिधां व्यधात् ॥ २३ ॥ स हि जातिमदाप्राच्या-ल्लेभे जन्माधमे कुले ॥ रूपदर्पाच्च वैरूप्यं, स्वेषामपि विषादकृत् ! ॥ २४ ॥ स च भण्डनशीलोऽन्या- सहनः कटुवाक्पटुः ॥ उद्वेजकोऽभूत्सर्वेषां वर्धमानो विषद्रुवत् ॥ २५ ॥ स्वजनेष्वन्यदाऽऽपान-गोष्ठीस्थेषु मधूत्सवे ॥ डिम्भरूपैः समं भण्ड- चेष्टां चक्रे मुहुर्बलः ॥ २६ ॥ ततः स सर्वैरापाना - भोजनादिव कुन्तलः ॥ बहिष्कृतो बलो बालो, बाढं दुरमनायत ॥ २७ ॥ तदा च निर्ग
UTR-2
अध्य. १२
॥ १११ ॥
Page #114
--------------------------------------------------------------------------
________________
अध्य. १२
उत्तराध्ययनसूत्रम् ॥११२॥
तस्तत्रा-ञ्जनपुञ्जद्युतिः फणी ।। जजे द्राक् श्वपचैर्दुष्ट विषोऽयमिति भाषिभिः ॥ २८ ॥ क्षणान्तरे च तत्रागा-नागो दीपकजातिजः ॥ मुमुचे स तु चाण्डालै-निर्विषोऽयमिति स्वयम् ॥ २९ ॥ तन्निरीक्ष्य बलो दध्यौ, स्वदोषैरेव जन्तवः ॥ लभन्ते विपदं स्वीयगुणैरेव च सम्पदम् ॥ ३० ॥ सदोषत्वादेव सर्वे, बाधन्ते बन्धवोऽपि माम् ।। त्यज्यते मलवत्प्राज्ञै-र्दोषवानङ्गजोऽपि हि ॥ ३१ ॥ मारितः सविषः सर्पो, निर्विषस्तु न मारितः ॥ तद्दोषविषमुत्सृज्य, निर्विषत्वं श्रयाम्यहम् ॥ ३२ ॥ ध्यायन्नित्यादि तत्कालं, प्राप्तो जातिस्मृतिं बलः ॥ नरदेवभवौ प्राच्यौ, स्मृत्वा संवेगमासदत् ॥ ३३ ॥ अहो ! मदस्य दुष्टत्वमिति चान्तर्विभावयन् ॥ मुनीनामन्तिके धर्म, श्रुत्वा व्रतमुपाददे ॥ ३४ ॥ तप्यमानस्तपस्तीव्र, विहरन् सोऽन्यदा ययौ ॥ वाराणसी पुरी धर्मविहङ्गममहाद्रुमः ॥ ३५ ॥ तत्राभूत्तिन्दुकोद्याने, गण्डीतिन्दुकयक्षराट् ॥ तमनुज्ञाप्य तच्चैत्ये, तस्थौ स्वस्थमना मुनिः ॥ ३६ ॥ तञ्च प्रेक्ष्य गुणाम्भोधिं, यक्षस्तत्रान्वरज्यत ॥ परोऽपि ध्रियते हार, इव चारुगुणो हदि ॥ ३७ ॥ सेवमानो मुनिं तञ्चा-निशं हंस इवाम्बुजम् ।। कदाचिदपि नान्यत्र, यक्षराजो जगाम सः ॥ ३८ ॥ तत्रायातोऽन्यदा यक्षः, कश्चिदन्यवनस्थितः ॥ नाधुना दृश्यसे किं त्वमिति पप्रच्छ तिन्दुकम् ॥ ३९ ॥ महात्मानममुं साधु, सेवे मित्राहमन्वहम् ॥ इति सम्प्रति तेऽभ्यर्णं, नागच्छामीति सोऽप्यवक् ॥ ४० ॥ सोऽथ तच्चरितं वीक्ष्य, सम्बुद्धस्तिन्दुकं जगौ ॥ कृतार्थस्त्वं यदुद्याने, वसत्येष महामुनिः ॥४१॥ ममोद्यानेऽपि यतयः, सन्ति भूयांस ईदृशाः ॥ तदेहि तत्र गच्छावो भजावस्तानपि क्षणम् ॥ ४२ ॥ तिन्दुकोऽथ ययौ तेन, यक्षेण सह तद्वनम् ॥ विकथानिस्तांस्तांश्च, निरीक्ष्यैवमभाषत ।। ४३ ॥ स्त्रीभक्तराजदेशानां, जायन्त इह सङ्कथाः ।। रम्यं महर्षिणा तेन, यामस्तिन्दुकमेव तत् ॥ ४४ ॥ सुकर
UTR-2
॥११२॥
Page #115
--------------------------------------------------------------------------
________________
अध्य. १२
उत्तराध्ययनसूत्रम् ॥११३॥
मुण्डमौलित्वं, सुकरं वेषधारणम् ॥ बाह्या क्रियापि सुकरा, समाधानं तु दुष्करम् ! ॥ ४५ ॥ इत्युक्त्वा स प्रतिगतस्तत्रैवारज्यताधिकम् ॥ आम्रमिष्टतरं निम्बे, ह्यनुभूते भवेभृशम् ॥ ४६ ॥ अहो ! धर्मस्य माहात्म्यं, यदाराध्योऽपि भूस्पृशाम् ॥ यक्षः सिषेवे तं साधुमपि श्वपचवंशजम् ! ॥ ४७ ॥ राज्ञः कौशलिकाख्यस्य, सुता भद्राभिधाऽन्यदा ॥ ययौ पूजयितुं यक्षं, तच्चैत्ये सपरिच्छदा ॥ ४८ ॥ सा प्रदक्षिणयन्ती च, यक्षं तं मुनिमैक्षत । मलाप्लुतवपुर्वस्त्रं, कुरूपं शुष्कभूधनम् ॥ ४९ ॥ अहो! निन्द्यस्वरूपोऽसौ, सर्वथापीति सा ततः ॥ थूच्चकार विमूढा हि, तत्त्वं पश्यन्ति नान्तरम् ॥ ५० ॥ ततो रुष्टेन यक्षेण, सा कनी विवशीकृता ॥ असमञ्जसमाख्यातुमारेभे दुष्टचेष्टिता ॥ ५१ ॥ सा विषण्णेन तन्त्रेण, निन्ये नृपनिकेतनम् ॥ नृपोऽपि तां तथा वीक्ष्य, विषादाद्वैतमासदत् ॥ ५२ ॥ राज्ञाथ कारिता वैद्य-मान्त्रिकादिप्रतिक्रियाः ॥ मोघास्तत्राभवन् सर्वाः, सत्क्रिया इव दुर्जने ॥ ५३ ॥ किङ्कर्तव्यविमूढेऽथ, जाते राज्ञि सधीसखे ॥ पात्रमेकमधिष्ठाय, यक्षोऽध्यक्षमदोऽवदत् ।। ५४ ॥ निन्दा निदानं दुःखानां, यन्मुनेनिर्मितानया ॥ तद्यदीयं दीयतेऽस्मै, तदा मुञ्चामि नान्यथा ॥ ५५ ॥ जीवत्वसाविति क्षमापः, प्रत्यपद्यत तद्वचः ॥ ततः सा सुस्थतां प्राप, तमोमुक्तेव चन्द्रिका ॥५६॥ साथ राज्ञाभ्यनुज्ञाता, सतन्त्रागात्सुरालयम् ॥ महत्तरीभिश्चादिष्टा, निश्यगान्मुनिसन्निधौ ॥ ५७ ॥ तञ्च साधुं प्रणम्योचे, स्वामिन् ! पाणिं गृहाण मे ॥ स्माह व्रती कृतं भद्रे! वार्त्तयाप्यनया मया! ॥ ५८॥ न ये स्त्रीभिः सहेच्छन्ति, वासमप्येकसद्मनि ॥ कुर्वन्ति पाणिग्रहणं, तासां ते श्रमणा: कथम् ? ॥ ५९॥ नारीष्वशुचिपूर्णासु, मुक्तिस्त्रीसङ्गमोत्सुकाः ॥ ग्रैवेयकादिसुरव-द्रज्यन्ते नो महर्षयः! ॥ ६० ॥ श्रुत्वेति वलमाना सा, व्यूढा यक्षेण सक्रुधा ॥ आच्छाद्य शमिनो रूपं, रूपा
UTR-2
॥११३॥
Page #116
--------------------------------------------------------------------------
________________
उत्तराध्य
अध्य. १२
यनसूत्रम् ॥११४॥
न्तरविधायिना ॥६१ ॥ मुहुर्मुहुर्मुने रूपं, दिव्यं रूपञ्च दर्शयन् ।। यक्षो विडम्बयामास, तां कनीमखिलां निशाम् ॥६२ ॥ प्रभाते च मुनिन त्वामिच्छतीत्यामरं वचः। श्रुत्वा सा विमनास्तात-गेहेऽगात्सपरिच्छदा ॥ ६३ ॥ ताञ्चायान्तीं वीक्ष्य रक्तो, रुद्रदेवपुरोहितः ॥ ज्ञाततत्पूर्ववृत्तान्तः, पृथ्वीकान्तमदोऽवदत् ।। ६४ ।। स्वामिन्नसौ मुनिवधू-स्त्यक्ता तेनेति साम्प्रतम् ॥ द्विजानां कल्पते देवार्चकानामिव तद्वलिः ॥ ६५ ॥ युज्यतेऽथैवमेवेति, ध्यात्वा भूपोऽपि तां कनीम् ॥ तस्मायेव ददौ गौरी- मिवेशाय हिमाचलः ॥६६ ॥ मुनिवान्तामपि प्राप्य, तां जहर्ष पुरोहितः ॥ क्षुद्रो ह्यसारमप्याप्य, वस्तु श्वेवास्थि मोदते ॥ ६७ ॥ अथ भोगसुखं तया समं, बुभुजे भूरि मुदा पुरोहितः । स च यज्ञवधूं विधाय तां, नृपपुत्री मखमन्यदा व्यधात् ॥६८ ॥ इत्युक्तः सम्प्रदायः । सम्प्रदायशेषं तु सूत्रसिद्धमिति सम्प्रति सूत्रमेवानुस्त्रियते । तच्चेदम्मूलम्--सोवागकुलसंभूओ, गुणुत्तरधरो मुणी। हरिएसबलो नामं, आसि भिक्ख जिइंदिओ ॥१॥
व्याख्या-श्वपाककुलं-चाण्डालवंशस्तत्र सम्भूतः-उत्पन्नः श्वपाककुलसम्भूतः, उत्तरान्-प्रकृष्टान् गुणान्-ज्ञानादीन् धरतीति उत्तरगुणधरः, सूत्रे तु पूर्वापरनिपातः प्राकृतत्वात्, मुनिः साधुः, श्वपाककुलोत्पन्नोऽपि कश्चित्सवासादिना पूर्व मेतार्य इवान्यथापि प्रतीतः स्यादत आह-हरिकेशो हरिकेश इति चाण्डाल इति सर्वत्र प्रतीतो बलो नाम बलाभिधः, आसीभिक्षुर्जितेन्द्रिय इति सूत्रार्थः ॥१॥स कीदृशः किञ्च चकारेत्याहमूलम्-इरिएसणभासाए उच्चारेसमिईसु अ । जओ आयाणनिक्खेवे, संजओ सुसमाहिओ ॥ २ ॥
UTR-2
॥११४॥
Page #117
--------------------------------------------------------------------------
________________
अध्य. १२
उत्तराध्ययनसूत्रम् ॥११५ ॥
व्याख्या-ईर्या च एषणा च भाषा च उच्चारश्च ईयैषणाभाषोच्चाराः, एकारस्तूभयत्रापि सूत्रेऽलाक्षणिकः। तत्रोच्चार:-पुरीषं, तत् परिष्ठापनमपीहोच्चार उक्तः, उपलक्षणञ्चैतत् प्रश्रवणादिपरिष्ठापनस्य, तद्विषयाः समितयः, सम्यक्प्रवर्तनरूपा ईर्थेषणाभाषोच्चारसमितयस्तासु यतो यत्रवान् । प्राच्यचशब्दस्य भिन्नक्रमत्वादादाननिक्षेपे च पीठफलकादिग्रहणस्थापने च यतः। किम्भूतः सन्नित्याह-संयतः संयमयुक्तः, सुसमाहितः सुष्ठ समाधिमानिति सूत्रार्थः ॥२॥ मूलम्-मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ । भिक्खट्ठा बंभइज्जंमि, जणवाडमुवट्टिओ ॥ ३ ॥
व्याख्या-मनो गुप्तमशुभाध्यवसायेभ्यो निवृत्तमस्येति मनोगुप्तः, एवं वाग्गुप्तः, कायगुप्तश्च, जितेन्द्रियः पुनरस्योपादानमतिशयख्यापकं, 'भिक्खट्ठ त्ति' भिक्षार्थ, 'बंभइज्जंमित्ति' ब्रह्मणां-ब्राह्मणानां इज्या-यजनं यस्मिन् स ब्रह्मज्यस्तस्मिन् 'जण्णवाडंति' यज्ञपाटे उपस्थितः प्राप्त इति सूत्रार्थः ॥ ३॥ तदा च - मूलम्-तं पासिऊणमेज्जंतं, तवेण परिसोसिअं । पंतोवहिउवगरणं, उवहसंति अणारिआ ॥ ४ ॥
व्याख्या-तं बलमुनि 'पासिऊणंति' दृष्ट्वा 'एज्जंतंति' आयान्तं, तपसा षष्ठष्टमादिना परिशोषितं कृशीकृतं, तथा प्रान्तो जीर्णत्वमालिन्यादिना असार उपधिर्व कल्पादिरौधिकः, उपकरणञ्च-दण्डकादि औपग्रहिकं यस्य स प्रान्तोपध्युपकरणस्तं, उपहसन्त्यनार्या अशिष्टा इति सूत्रार्थः ॥ ४॥ कथं पुनरनार्याः कथञ्चोपाहसन्नित्याहमलम-जाईमयपडित्थद्धा, हिंसगा अजिइंदिआ । अबंभचारिणो बाला, इमं वयणमब्बवी ॥ ५ ॥
UTR-2
॥११५॥
Page #118
--------------------------------------------------------------------------
________________
अध्य. १२
उत्तराध्ययनसूत्रम् ॥११६॥
व्याख्या-जातिमदेन ब्राह्मणा वयमित्यादिरूपेण प्रतिस्तब्धाः जातिमदप्रतिस्तब्धाः हिंसकाः प्राणिप्राणापहारिणः, अजितेन्द्रियाः, अत एव अब्रह्मचारिणो मैथुनसेविनः। वय॑ते हि तन्मते मैथुनमपि धर्माय-"धर्मार्थं पुत्रकामस्य, स्वदारेष्वधिकारिणः॥ ऋतुकाले विधानेन, तत्र दोषो न विद्यते ॥१॥" तथा "अपुत्रस्य गति स्ति, स्वर्गो नैव च नैव च ॥ तस्मात्पुत्रमुखं दृष्ट्वा, पश्चात्स्वर्गं गमिष्यति ॥ २॥" इत्यादिकथनादत एव बाला बालक्रीडाकल्पेष्वग्निहोत्रादिषु प्रवृत्तत्वात् , इदं वक्ष्यमाणं वचनं 'अब्बवि त्ति' अब्रुवन्निति सूत्रार्थः ॥५॥ किं तदित्याह -
मूलम्-कयरे आगच्छइ दित्तरूवे, काले विकराले फोक्कनासे।
ओमचेलए पंसुपिसायभूए, संकरदसं परिहरिअ कंठे ॥६॥ व्याख्या- कयरे त्ति' कतरः, एकार: प्राकृतत्वात्, आगच्छति, दीप्तरूपो बीभत्साकारः, कालो वर्णतः, विकरालो दन्तुरत्वादिना भीषणः, 'फोक्क त्ति' देशीपदं, ततश्च फोक्का अग्रे स्थूला उन्नता च नासाऽस्येति फोक्कनासः। अवमचेलो निकृष्टचीवरः, पांशुना रेणुना पिशाच इव भूतो जातः पांशुपिशाचभूतः, पिशाचो हि लोके दीर्घश्मश्रुनखरोमा, पांशुगुण्डितश्च रूढस्ततः सोऽपि निष्प्रतिकर्मतया रजोदिग्धतया चैवमुच्यते । तथा 'संकरदूसं ति' संकरस्तृणभस्मगोमयादिराशिरुत्कुरुडिकेतियावत्, तस्य दूष्यं वस्त्रं संकरदूष्यं, तत्र हि यदतीवनिकृष्टं निरुपयोगि स्यात्तदेव लोकैरुत्सृज्यते, ततस्तत्प्रायं वस्त्रं परिधृत्य निक्षिप्य कण्ठे गले । स हि अनिक्षिप्तोपधितया स्वमुपकरणमादायैव भ्रमतीत्येवमुक्तमिति सूत्रार्थः ॥ ६ ॥ इत्थं दूरादागच्छनुक्तः, आसन्नं चैनं किमूचुरित्याह
UTR-2
॥११६॥
Page #119
--------------------------------------------------------------------------
________________
अध्य. १२
उत्तराध्ययनसूत्रम् ॥११७॥
मूलम्-- कयरे तुम इअ अदंसणिज्जे, का एव आसा इह मागओसि।
ओमचेलगा पंसुपिसायभूआ, गच्छ खलाहि किमिह ट्रिओसि ?॥ ७ ॥ व्याख्या-कतरस्त्वं? ( पाठान्तरे च 'को रे' त्वं ? तत्राधिक्षेपे 'रे' शब्दः) 'इअत्ति' इति अमुना प्रकारेणादर्शनीयोऽद्रष्टव्यः | 'का एव त्ति' कया वा आसाइहमागओसि त्ति' प्राकृतत्वादेकारलोपो मकारश्चागमिकस्तत आशया वाञ्छया इह यज्ञपाटे आगतः प्राप्तोऽसि वर्त्तसे ? अवमचेलक! पांशुपिशाचभूत! पुनरनयोहणमत्यन्तनिन्दासूचकं, गच्छ व्रज ‘खलाहि त्ति' देशीभाषया | अपसर अस्मदृष्टिपथादिति शेषः। किमिह स्थितोसि त्वं ? नैवेह त्वया स्थेयमिति सूत्रार्थः ॥ ७ ॥ एवमधिक्षिप्ते साधौ शान्ततया किञ्चिदजल्पति तत्सान्निध्यकारी गण्डीतिन्दुकयक्षो यच्चक्रे तदाहमूलम्- जक्खो तहिं तिंदुअरुक्खवासी, अणुकंपओ तस्स महामुणिस्स।
पच्छायइत्ता निअयं सरीरं, इमाइं वयणाई उदाहरित्था ॥ ८ ॥ व्याख्या- यक्षः 'तहिं ति' तस्मिन्नवसरे इति शेषः, तिन्दुकवृक्षवासी, तिन्दुकवनमध्ये हि महांस्तिन्दुकवृक्षस्तत्रासौ वसति, तस्यैव च तरोरधस्तात्तच्चैत्यं, तत्र स यतिस्तिष्ठतीति वृद्धाः । अनुकम्पकोऽनुकुलप्रवृत्तिः, कस्येत्याह- तस्य हरिकेशबलस्य महामुनेः, प्रच्छाद्य आवृत्य निजकं स्वकीयं शरीरं, मुनिदेह एव प्रविश्य स्वयमनुपलक्ष्यः सन्नित्यर्थः, इमानि वक्ष्यमाणानि वचनानि 'उदाहरित्थ त्ति' उदाहतवानिति सूत्रार्थः ॥ ८ ॥ तान्येवाह
UTR-2
॥११७॥
Page #120
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
।। ११८ ।।
मूलम् - समणो अहं संजओ बंभयारी, विरओ धणपयणपरिग्गहाओ । परप्पवित्तस्स उ भिक्खकाले, अन्नस्स अट्ठाइह मागओम्हि ॥ ९ ॥
व्याख्या-श्रमणः साधुरहं, संयतः सम्यगुपरतः पापव्यापारेभ्य इति शेषः, अत एव ब्रह्मचारी, तथा विरतो निवृत्त धनपचनपरिग्रहात्, तत्र धनं चतुष्पदादि, पचनमाहारपाकः, परिग्रहो द्रव्यादिमूर्च्छा, अत एव परस्मै परार्थं प्रवृत्तं निष्पन्नं परप्रवृत्तं, तुशब्दोऽवधारणे, ततः परप्रवृत्तस्यैव, न तु मदर्थं निष्पन्नस्य, भिक्षाकाले अन्नस्य अशनस्य 'अट्ठ त्ति' अर्थाय इह यज्ञपाटे आगतोऽस्मीति सूत्रार्थः ॥ ९ ॥ अथ ते कदाचिदित्थं ब्रूयुर्यन्नात्र किञ्चित्कस्मैचिद्दीयत इत्याह
मूलम् - विअरिज्जइ खज्जइ भुज्जइ अ, अन्नं पभूअं भवयाणमेअं । जाणा मे जायणजीविणोत्ति, सेसावसेसं लहऊ तवस्सी ॥ १०॥
व्याख्या - वितीर्यते दीयते दीनादिभ्यः, खाद्यते खण्डखाद्यादि, भुज्यते च भक्तसूपादि, अन्नमशनं, प्रभूतं भूरि, भवतां युष्माकं सम्बन्धि, एतत्प्रत्यक्षं । तथा जानीतावगच्छत 'मे त्ति' मां 'जायणजीविणो त्ति' याचनजीवितं याचनेन जीवनशीलं सूत्रे च द्वितीयार्थे षष्ठी, इत्यतो हेतोः शेषावशेषमुद्धरितादप्युद्धरितं, अन्तप्रान्तमित्यर्थः, लभतां तपस्वी यतिरिति सूत्रार्थः ॥ १० ॥ इति यक्षेणोक्ते द्विजा एवं स्माहुः
मूलम् उवक्खडं भोअण माहणाणं, अत्तट्ठिअं सिद्धमिहेगपक्खं ।
न हु वयं एरिसमन्नपाणं, दाहामु तुब्भं किमिहं ठिओसि ? ॥ ११ ॥
UTR-2
अध्य. १२
॥ ११८ ॥
Page #121
--------------------------------------------------------------------------
________________
अध्य. १२
उत्तराध्ययनसूत्रम् ॥११९ ॥
व्याख्या- उपस्कृतं संस्कृतं भोजनं माहनानां ब्राह्मणानां 'अत्तट्ठिअंति' आत्मार्थे भवं आत्मार्थिकं, ब्राह्मणैरपि स्वयमेव भोज्यं न त्वन्यस्मै देयं, किमिति ? यतः सिद्धं निष्पन्नं इह यज्ञे एकः पक्षो ब्राह्मणरूपो यस्य तदेकपक्षं, अयं भावः-यदत्रोपस्क्रियते न तद्ब्राह्मणव्यतिरिक्ताय दीयते, विशेषतस्तु शूद्राय । यत उक्तं "न शूद्राय मतिं दद्या-नोच्छिष्टं न हविःकृतम् ॥ न चास्योपदिशेद्धर्म, न चास्य व्रतमादिशेत् ॥१॥" यतश्चैवमतो न तु नैव वयमीदृशं उक्तरूपं अन्नपानं दास्यामस्तुभ्यं किमिह | स्थितोऽसीति ? इति सूत्रार्थः ॥ ११ ॥ यक्षः प्राह
मूलम् - थलेसु बीआई वपंति कासगा, तहेव निन्नेसु अ आससाए ।
एआइ सद्धाइ दलाहि मज्झं, आराहए पुण्णमिणं खु खित्तं ॥१२॥ _व्याख्या-स्थलेषूच्चभागेषु बीजानि मुद्गादीनि वपन्ति 'कासग त्ति' कर्षकाः कृषीवलाः, तथैव स्थलवदेव निम्नेषु च नीचभूभागेषु "आससाए त्ति" आशंसया यदि भूयसी वृष्टिस्तदा स्थलेषु फलप्राप्तिरथ स्तोका तदा निम्नेषु इत्येवंरूपया वाञ्छया एतया कर्षकाशंसाकल्पया श्रद्धया 'दलाहि त्ति' ददध्वं मह्यम्, अयं भाव:-यद्यपि यूयं निम्नक्षेत्रतुल्यमात्मानं मन्यध्वे, माञ्च स्थलतुल्यं, तथापि मह्यमपि दातुमुचितं, न चैवं दत्तेऽपि न फलावाप्तिरिति ध्येयमित्याह- 'आराहए पुण्णमिणं खु त्ति' खुशब्दस्य एवकारार्थस्य भिन्नक्रमत्वादाराधयेदेव साधयेदेव नात्रान्यथाभावः, पुण्यं शुभमिदं दृश्यमानं क्षेत्रं दानस्थानं, पुण्यसस्यप्ररोहहेतुतया आत्मानमेव एवं स्माहेति सूत्रार्थः ॥ १२ ॥ इति यक्षेणोक्ते ते स्माहुः
UTR-2
॥११९॥
Page #122
--------------------------------------------------------------------------
________________
अध्य. १२
उत्तराध्ययनसूत्रम् ॥१२० ॥
ता: जातिविद्योपपेताः, गणं ब्राह्मणबुवे ॥ सहस्त्जे
मूलम-खेत्ताणि अहं विइआणि लोए, जहिं पकिण्णा विरुहंति पुण्णा ।
जे माहणा जाइविज्जोववेआ, ताई तु खित्ताई सुपेसलाई ॥१३॥ व्याख्या-क्षेत्राणि अस्माकं विदितानि ज्ञातानि, सन्तीति शेषः, लोके जगति 'जहिं ति' वचनव्यत्ययायेषु क्षेत्रेषु प्रकीर्णानि दत्तानि, अशनादीनीति शेषः, विरोहन्ति जन्मान्तरे प्रादुर्भवन्ति पूर्णानि समस्तानि, न चाहमपि तन्मध्यवत्येवेति त्वया ध्येयं, यतो ये बाह्मणाः, जातिश्च-ब्राह्मणजातिरूपा, विद्या च चतुर्दशविद्यास्थानात्मिका, ताभ्यां 'उववेअ त्ति' उपपेताः अन्विताः जातिविद्योपपेताः, 'ताई तु त्ति' तान्येव क्षेत्राणि सुपेशलानि शोभनानि, न तु भवादृशानि शूद्रजातीनि विद्याविकलानि। यदुक्तं -"सममश्रोत्रिये दानं, द्विगुणं ब्राह्मणब्रुवे ॥ सहस्रगुणमाचार्ये, अनन्तं वेदपारगे ॥१॥ इति सूत्रार्थः ॥ १३ ॥ यक्षः स्माह
मूलम्- कोहो अ माणो अ वहो अ जेसिं, मोसं अदत्तं च परिग्गहो अ ।
ते माहणा जातिविज्जाविहीणा, ताई तु खित्ताई सुपावगाई ॥ १४ ॥ व्याख्या - क्रोधश्च, मानश्च, च शब्दान्मायालोभौ च, वधश्च येषामिति प्रक्रमाद्भवतां ब्राह्मणानां 'मोसं ति' मृषा अलीकभाषणं, अदत्तं अदत्तादानं, चशब्दान्मैथुनं च, परिग्रहश्च गोभूम्यादि स्वीकारोऽस्तीति सर्वत्र गम्यते, ते इति क्रोधाद्युपेता यूयं जातिविद्याविहीनाः । कथमिति चेदुच्यते-क्रियाकर्मविभागेन हि चातुर्वर्ण्यव्यवस्था। यदुक्तं -“एकवर्णमिदं सर्वं, पूर्णमासीद्युधिष्ठिर ! ।। क्रियाकर्मविभागेन, चातुर्वर्ण्य व्यवस्थितम् ॥१॥ ब्राह्मणो ब्रह्मचर्येण, यथा शिल्पेन शिल्पिकः ॥ अन्यथा नाममात्रं स्या
सि, मोसं अद
UTR-2
॥१२०॥
Page #123
--------------------------------------------------------------------------
________________
अध्य. १२
उत्तराध्ययनसूत्रम् ॥१२१॥
दिन्द्रगोपककीटवत् ॥२॥" न चेदृशी क्रिया ब्रह्मचर्यात्मिका कोपाद्युपेतेषु युष्मासु तत्त्वतः सम्भवत्यतो न तावज्जातिसम्भवः, तथा विद्यापि सम्यग्ज्ञानात्मिका न सम्भवत्येव भवत्सु, अज्ञानज्ञापकेषु बालक्रीडाप्रायेष्वग्निहोत्रादिषु प्रवृत्तिदर्शनात्, किञ्च सम्यग्ज्ञानस्य फलं विरतिरेव, ज्ञानस्य फलं विरतिरिति वचनात्, न च युष्मासु विरतिसम्भवोऽस्ति, तदभावे च ज्ञानं सदप्यसदेवेति स्थितं । “ताई तु त्ति" तुरवधारणे भिन्नक्रमश्च ततस्तानि भवद्विदितानि द्विजरूपाणि क्षेत्राणि सुपापकान्येव, न तु सुपेशलानि, कोपादिपापस्थानकलितत्वेनातिशयपापहेतुत्वादिति सूत्रार्थः ॥ १४॥ अथ कदाचित्ते ब्रूयुर्वेदविद्याविदो वयं ब्राह्मणजातयश्च तत्कथं जातिविद्याविहीना इत्यब्रवीरित्याह
मूलम्- तुब्भेत्थ भो भारधरा गिराणं, अटुं न याणाह अहिज्ज वेए ।
उच्चावयाई मुणिणो चरंति, ताई तु खित्ताई सुपेसलाई ॥ १५ ॥ व्याख्या-यूयं 'इत्थ त्ति' अत्र लोके भो इत्यामन्त्रणे,भारधरा भारवहा गिरां वाचां प्रक्रमाद्वेदसम्बन्धिनीनां भारश्चेह तासां भूयस्त्वमेव, कुतो भारधराः ? इति चेदुच्यते-यत: अर्थमभिधेयं न जानीथ अहिज्ज त्ति' अपेर्गम्यत्वादधीत्यापि वेदान् अथ चेदर्थं | जानीथ तदा "न हिंस्यात्सर्वभूतानि" इत्यादिवेदवाचामर्थं विदन्तोऽपि किमर्थं पशुहिंसात्मकान् यागान् कुरुथ ? तत्करणे तु तत्त्वतो वेदविद्याविदोपि भवन्तो न स्युः, तत्कथं जातिविद्यासम्पन्नत्वेन क्षेत्रभूताः स्युः ? कानि तर्हि क्षेत्राणि ? इत्याह'उच्चावयाई ति' उच्चान्युत्तमानि अवचान्यधमानि उच्चावचानि, गृहाणीति शेषः, मुनयश्चरन्ति भिक्षार्थं पर्यटन्ति, न तु युष्मद्वत्पचनाद्यारम्भप्रवृत्ताः! त एव तत्त्वतो वेदार्थं विदति, तत्रापि भिक्षावृत्तेरेव समर्थितत्वात्, तथा च वेदान्तानुवादिनः-"चरे
UTR-2
॥१२१॥
Page #124
--------------------------------------------------------------------------
________________
अध्य. १२
उत्तराध्ययनसूत्रम् ॥१२२॥
न्माधुकरी वृत्ति-मपि म्लेच्छकुलादपि ॥ एकान्नं नैव भुञ्जीत, बृहस्पतिसमादपि ॥१॥" ततस्तान्येव मुनिलक्षणानि क्षेत्राणि सुपेशलानीति सूत्रार्थः ॥ १५ ॥ इत्थमध्यापकं यक्षेणाधिक्षिप्तं वीक्ष्य तच्छात्राः स्माहुः
मूलम्-अज्झावयाणं पडिकूलभासी, पभाससे किं न सगासि अम्हं ।
अवि एअं विणस्सउ अन्नपाणं, न य णं दाहामु तुमं निअंठा ॥ १६ ॥ व्याख्या- अध्यापकानां उपाध्यायानां प्रतिकूलभाषी सन् त्वं प्रभाषसे प्रकर्षेण ब्रूषे, किमिति क्षेपे, नुरित्यक्षमायां, | ततश्च धिग् भवन्तं, न वयं क्षमामहे यदेवं भवान् ब्रूते सकाशे पार्श्वेऽस्माकम् । अपिः सम्भावने, एतत्प्रत्यक्ष विनश्यतु कुथितादिभावं प्राप्नोतु अन्नपानं, न च नैव ‘णं' वाक्यालङ्कारे 'दाहामु त्ति' दास्यामस्तव निर्ग्रन्थ ! निष्किञ्चन ! गुरु प्रत्यनीको हि भवानिति भाव इति सूत्रार्थः ॥ १६ ॥ यक्ष स्माह
मूलम्-समिईहिं मज्झं सुसमाहिअस्स, गुत्तीहिं गुत्तस्स जिइंदिअस्स ।
जड़ मे न दाहित्थ अहेसणिज्जं, किमज्ज जण्णाण लहित्थ लाभं ? ॥ १७ ॥ व्याख्या-समितिभिर्यासमित्यादिभिर्मह्यं सुसमाहिताय सुष्ठसमाधिमते, गुप्तिभिर्मनोगुप्त्यादिभिर्गुप्ताय, जितेन्द्रियाय, यदि मे मां, पूर्वोक्त मज्झं ति 'पदस्य व्यवहितत्वात्युनमें इति ग्रहणमदुष्ट, न दास्यथ, अथेत्युपन्यासे, एषणीयं एषणाविशुद्धमन्नादि तर्हि किं ? न किञ्चिदित्यर्थोऽद्य यज्ञानां 'लहित्थत्ति' सूत्रत्वाल्लप्स्यध्वे प्राप्स्यथ ? लाभं पुण्यप्राप्तिरूपं ।
विशुद्धमन्नादिन पूर्वोक्त मज्झं ति पदस्य सुसमाहिताय सुष्वसमा
UTR-2
॥१२२॥
Page #125
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
।। १२३ ।।
पात्रदानादेव हि विशिष्टपुण्यप्राप्तिरन्यत्र तु तादृशफलाभावाद्दीयमानस्य हानिरेव । यदुक्तं " दधिमधुघृतान्यपात्रे, क्षिप्तानि यथाशु नाशमुपयान्ति ॥ एवमपात्रे दत्तानि, केवलं नाशमुपयान्ति ॥ १ ॥” इति सूत्रार्थः ॥ १७ ॥ एवं तेनोक्ते यदध्यापकः स्माह तदाहमूलम् - के इत्थ खत्ता उवजोइआ वा, अज्झावया वा सह खंडिएहिं ।
अंतु दंडेण फलेण हंता, कंठंमि घित्तूण खलेज्ज जो णं ॥ १८ ॥ व्याख्या - के 'इत्थ त्ति' अत्रास्मिन् स्थाने क्षत्रा: क्षत्रियजातय: 'उवजोइअ त्ति' उपज्योतिषोऽग्निपार्श्ववर्त्तिनो महानसिका इत्यर्थः, अध्यापकाः पाठकाः सर्वत्र वा विकल्पे, 'सहेति' युक्ताः, खण्डिकैः छात्रैः सन्तीति शेषः, ये किमित्याहएतं मुनिं दण्डेन यष्ट्यादिना, फलेन बिल्वादिना, यद्वा दण्डेन कूर्पराभिघातेन, फलेन मुष्टिप्रहारेणेति वृद्धाः, 'हंत त्ति' हत्वा ताडयित्वा ततश्च कण्ठे गले गृहीत्वा 'खलेज्ज त्ति' स्खलयेयुर्निष्काशयेयुः, 'जो त्ति' वचनव्यत्ययात् ये, 'णमिति' वाक्यालङ्कारे इति सूत्रार्थः ॥ १८ ॥ तदा च तत्र यदभूत्तदाह
मूलम् - अज्झायाणं वयणं सुणित्ता, उद्धाइआ तत्थ बहू कुमारा । दंडेहिं वेत्तेहिं कसेहिं चेव, समागया तं
इसिं तालयंति ॥ १९॥
त्याख्या- अध्यापकानां पाठकानां वचनं श्रुत्वा उद्धाविता वेगेन धावितास्तत्र बहवः कुमाराश्छात्रादयः, ते हि अहो ! क्रीडनकमागतमिति रभसतो दण्डैर्वेशदण्डाद्यैर्वेत्रैर्जलवंशरूपैः कशैश्चैव वध्र्विकारैः समागता' मिलितास्तं ऋषि मुनिं ताडयन्तीति सूत्रार्थः ॥ १९ ॥ तदा च
UTR-2
अध्य. १२
॥ १२३ ॥
Page #126
--------------------------------------------------------------------------
________________
उत्तराध्य
धनसूत्रम्
। १२४ ।।
मूलम् - रण्णो तहिं कोसलिअस्स धूआ, भद्दत्ति नामेण अणिदिअंगी । तं पासिआ संजयं हम्ममाणं, कुद्धे कुमारे परिनिव्ववे ॥ २० ॥ व्याख्या- राज्ञो नृपतेस्तत्र यज्ञपाटे कोशलायां भवः कौशलिकस्तस्य 'धूअ त्ति' सुता भद्रेति नाम्ना अनिन्दिताङ्गी मनोज्ञदेहा तं हरिकेशबलं 'पासिअ त्ति' दृष्ट्वा संयतं तस्यामप्यवस्थायां हिंसादेर्निवृत्तं हन्यमानं क्रुद्धान् कुमारान् परिनिर्वापयति क्रोधाग्निविध्यापनेन शीतीकरोतीति सूत्रार्थः ॥ २० ॥ सा च तान्निर्वापयन्ती तस्य प्रभावमतिनि:स्पृहताञ्चाहमूलम् - देवाभिओगेण निओइएणं, दिण्णासु रण्णा मणसा न झाया । नरिंददेविंदभिवंदिएणं, जेणामि वंता इसिणा स एसो ॥ २१ ॥ व्याख्या--देवस्याभियोगो-बलात्कारो देवाभियोगस्तेन नियोजितेन व्यापारितेन 'दिण्णासुत्ति' दत्तास्मि अहं राज्ञा प्रक्रमात्कौशलिकेन तथापि 'मणस त्ति' अपेर्गम्यमानत्वान्मनसापि चित्तेनापि न ध्याता न कामिता येनेति सम्बध्यते, नरेन्द्रदेवेन्द्राभिवन्दितेन येनास्म्यहं वान्ता त्यक्ता ऋषिणा साधुना स एष युष्माभिः कदर्थयितुमारब्धस्ततोऽनुचितमेतदिति सूत्रार्थः ॥ २१ ॥ इममेवार्थं समर्थयितुमाह-
मूलम् - एसो
हु
सो उग्गतवो महप्पा, जिइंदिओ संजओ बंभयारी ।
जो मे तया निच्छइ दिज्जमाणिं, पिउणा सयं कोसलिएण रण्णा ॥ २२ ॥
UTR-2
अध्य. १२
॥१२४॥
Page #127
--------------------------------------------------------------------------
________________
अध्य. १२
उत्तराध्ययनसूत्रम् ॥१२५॥
व्याख्या- 'एसो हु सो त्ति' एष एव स उग्रतपा अत एव महात्मा जितेन्द्रियः संयतो ब्रह्मचारी च, यो 'मे त्ति' मां तदा नेच्छति दीयमानां पित्रा जनकेन स्वयं आत्मना न त्वन्यप्रेषणादिना कौशलिकेन राज्ञेति सूत्रार्थः ॥ २२ ॥ इत्थं निःस्पृहतामुक्त्वा पुनर्माहात्म्यमाह
मूलम्- महाजसो एस महाणुभागो, घोरव्वओ घोरपरक्कमो अ ।
मा एअं हीलह अहीलणिज्जं, मा सव्वे तेएण भे निद्दहिज्जा ॥ २३ ॥ व्याख्या-महायशा एष मुनिर्महानुभागोऽतिशयाचिन्त्यशक्तिः, घोरवतो धृतदुर्धरमहाव्रतः, घोरपराक्रमश्च कषायादिवैरिजयम्प्रति रौद्रसामर्थ्यः, यतश्चायमीदृशस्ततो मा एनं मुनिं हीलयत अहीलनीयं, किमिति ? यतो मा सर्वांस्तेजसा तपोमाहात्म्येन भवतो निर्धाक्षीत् भस्मसात्कार्षीत्, अयं हि रुष्टो भस्मसादेव कुर्यादिति भाव इति सूत्रार्थः ।। २३ ॥ तदा च मा भूदस्या वचो विफलमिति यक्षो यच्चक्रे तदाह___ मूलम्-एताई तीसे वयणाई सुच्चा, पत्तीइ भद्दाइ सुभासिआई ।
इसिस्स वेआवडिअट्ठयाए, जक्खा कुमारे विनिवारयति ॥ २४ ॥ ___व्याख्या- एतानि पूर्वोक्तानि वचनानि तस्याः श्रुत्वा पल्या भार्याया रुद्रदेवपुरोहितस्येति शेषः, भद्रायाः सुभाषितानि सूक्तानि वचनानीति योज्यते, ऋषेवैयावृत्त्यार्थं यक्षा यक्षपरिवारस्य बहुत्वाद्बहुवचनं, कुमारान् विनिवारयन्ति, उपद्रवान्
UTR-2
॥१२५॥
Page #128
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ।। १२६ ।।
कुर्वतो निराकुर्वन्तीति सूत्रार्थः ॥ २४ ॥ कथं निवारयन्तीत्याह
मूलम्-ते घोररूवा ठिअ अंतलिक्खे, असुरा तहिं तं जणं तालयंति । ते भिन्नदेहे रुहिरं वमंते, पासित्तु भद्दा इणमाहु भुज्जो ॥ २५ ॥
व्याख्या- ते यक्षा घोररूपा रौद्राकारधारिणः 'ठिअ त्ति' स्थिता अन्तरिक्षे नभसि असुरा आसुरभावान्वितत्वात् स्मिन् यज्ञपाटे तं उपद्रवकरं जनं ताडयन्ति, ततश्च तान् कुमारान् भिन्नदेहान् विदारिताङ्गान् यक्षप्रहारैरिति गम्यं, तथा रुधिरं तो दृष्ट्वा भद्रा इदं वक्ष्यमाणं 'आहु त्ति' वचनव्यत्ययादाह ब्रूते भूयः पुनरिति सूत्रार्थः ॥ २५ ॥ तद्यथा-६ल्म् - गिरिं नहेहिं खणह, अयं दंतेहिं खायह । जायतेअं पाएहिं हणह, जे भिक्खुं अवमन्नह ॥ २६ ॥
व्याख्या - गिरिं नखैः खनथ, इह सर्वत्रेवार्थो द्रष्टव्यस्ततः खनथेव खनथ, तथा अयो लोहं दन्तैः खादथ, जाततेजसं न पादैर्हन्यथ ताडयथ, ये यूयं भिक्षु प्रक्रमादेनं अवमन्यध्वे अवधीरयथ, अनर्थफलत्वाद्भिक्ष्वपमानस्येति सूत्रार्थः ॥ कथमिदमित्याह-
I
मूलम् - आसीविसो उग्गतवो महेसी, घोरव्वओ घोरपरक्कम अ ।
अगणि व पक्खंद पयंगसेणा, जे भिक्खुअं भत्तकाले वह ॥ २७ ॥
UTR-2
अध्य. १२
॥१२६ ॥
Page #129
--------------------------------------------------------------------------
________________
अध्य. १२
उत्तराध्ययनसूत्रम् ॥ १२७॥
व्याख्या - आशीविष आशीविषलब्धिमान् - शापानुग्रहसमर्थः, कुत इत्याह-यतोसौ उग्रतपा महर्षि?व्रतो घोरपराक्रमश्च ततश्च 'अगणिंव त्ति' अग्निं वह्नि वाशब्द इवार्थो भिन्नक्रमश्च, ततः प्रस्कन्दथेव आक्रामथेव, केव ? 'पयंगसेण त्ति' इवशब्दस्य गम्यत्वात् पतङ्गसेनेव शलभश्रेणिरिव, यथा हि सा तमाक्रामन्ती सद्यो नाशमश्नुते तथा यूयमपीति भावः, ये यूयं | भिक्षुकं भक्तकाले भोजनावसरे, तत्र हि दीनादीनामवश्यं देयमिति शिष्टाचार: यूयं तु केवलं न दत्तेति न, किन्तु तत्रापि 'वहेहत्ति' विध्यथ, ताडयथेति सूत्रार्थः ॥ २७ ॥ इत्थं तन्माहात्म्यमावेद्य कृत्योपदेशमाह
मूलम्- सीसेणं एअं सरणं उवेह, समागया सव्वजणेण तुब्भे।
जइ इच्छह जीविअं वा धणं वा, लोअंपि एसो कुविओ डहेज्जा ॥ २८ ॥ व्याख्या-शीर्षेण मूर्जा एतं मुनि शरणं त्राणमुपेताभ्युपगच्छत, शिरोनमनपूर्वं त्वमेव नः शरणमिति प्रतिपद्यध्वमिति | भावः । समागताः मिलिताः सर्वजनेन सह यूयं यदीच्छत जीवितं वा धनं वा, अस्मिन् हि कुपिते नापरं जीवितादिरक्षाक्षमं शरणमस्ति, कुत इत्याह-यतो लोकमपि जगदप्येष कुपितो दहेदिति सूत्रार्थः ॥ २८ ॥ अथोपाध्यायस्तान् यादृशान् दृष्ट्वा यदकरोत्तदाहमूलम्-अवहेडिअपिट्ठसउत्तमंगे, पसारिआबाहुअकम्मचिढे । निब्भेरितच्छे रुहिरं वमंते, ऊर्द्धमुहे निग्गयजीहनेत्ते ॥२९॥
मूलम् - ते पासिआ खंडिअ कट्ठभूए, विमणो विसण्णो अह माहणो सो ।
इसिं पसादेति सभारिआओ, हीलं च निंदं च खमाह भंते ! ॥ ३० ॥
UTR-2
॥१२७॥
Page #130
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
।। १२८ ।।
व्याख्या- अवहेठितानि अधोनमितानि 'पिट्ठत्ति' पृष्ठं यावत्सन्ति शोभनानि उत्तमाङ्गानि शिरांसि येषां ते अवहेठितपृष्ठसदुत्तमाङ्गाः मध्यमपदलोपी समासस्तान्, प्रसारिता बाहवो येषां ते तथा कर्माण्यग्नौ समित्क्षेपादीनि तद्विषया चेष्टा कर्मचेष्टा, न विद्यते कर्मचेष्टा येषां ते तथा ततः कर्मधारये प्रसारितबाह्वकर्मचेष्टास्तान्, 'निब्भेरिय ति' प्रसारितान्यक्षीणि नयनानि येषां ते तथा तान्, रुधिरं वमतः, 'उड्डूंमुहेत्ति' उर्ध्वमुखान् निर्गतजिह्वानेत्रान् ॥ २९ ॥ ते पासिआ इति' तान् दृष्ट्वा 'खंडिअत्ति' खण्डिकान् छात्रान् काष्ठभूतान् अत्यन्तनिश्चेष्टतया काष्ठकल्पान् विमना विचित्तो विषण्णः कथममी सज्जा भविष्य|न्तीति विषादं प्राप्तः, अथेति दर्शनानन्तरं ब्राह्मणः स इति रुद्रदेवाख्यः ऋषिं प्रसादयति सभार्याको भार्यायुक्तः कथमित्याहहीलां चावज्ञां, निंदां च दोषोद्भावनरूपां, क्षमध्वं भदन्तेति सूत्रार्थः ॥ ३० ॥ पुनः प्रसादनामेवाह -
मूलम् - बालेहिं मूढेहिं अयाणएहिं, जं हीलीआ तस्स खमाह भंते ! ।
महप्पसाया इसिणो हवंति, न हु मुणी कोवरा हवंति ॥ ३१ ॥ व्याख्या - बालैः शिशुभिर्मूढै कषायोदयाद्विचित्ततां गतैरत एवाज्ञैर्हिताहितविवेकविकलैर्यत् हीलिताः 'तस्स त्ति' सूत्रत्वात् तत् क्षमध्वं भदन्त ! न ह्यमी शिशवो मूढाः सतां कोपार्हाः, किन्त्वनुकम्पार्हा एव । यदुक्तं- "आत्मद्रुहममर्यादं मूढमुज्झितसत्पथम् ॥ सुतरामनुकम्पेत, नरकार्चिष्मदिन्धनम् ॥ १ ॥ " किञ्च महाप्रसादा ऋषयो भवन्ति, न हु त्ति' न पुनर्मुनयः | कोपपरा भवन्तीति सूत्रार्थः ॥ ३१ ॥ मुनिराह -
UTR-2
अध्य. १२
॥१२८॥
Page #131
--------------------------------------------------------------------------
________________
अध्य. १२
उत्तराध्ययनसूत्रम् ।। १२९ ॥
मूलम्- पुट्विं च इण्डिं च अणागयं च, मणप्पओसो न मे अस्थि कोई ।
जक्खा हु वेआवडिअं करन्ति, तम्हा हु एए निहया कुमारा ॥ ३२ ॥ व्याख्या-पूर्वं च पुरा, इदानीञ्चाधुना अनागते च भविष्यति काले, मन:प्रद्वेषो न मे अस्ति, उपलक्षणत्वादासीद्भविष्यति च कोऽपीत्यल्पोपि । तर्हि कथममी ईदृशा जाता:? इत्याह-यक्षाः 'हुरि ति' यस्माद्वैयावृत्त्यं कुर्वन्ति, तस्मात् हुरवधारणे, ततस्तस्मादेव हेतो एते प्रत्यक्षा निहताः कुमाराः, न तु मम प्रद्वेषोऽत्र हेतुरिति सूत्रार्थः ॥ ३२ ॥ ततस्तद्गुणाकृष्टचित्ता उपाध्यायादय इदमाहुः
मूलम्-अत्थं च धम्मं च विआणमाणा, तुब्भे णवि कुप्पह भूइपण्णा ।
तुब्भं तु पाए सरणं उवेमो, समागया सव्वजणेण अम्हे ॥ ३३ ॥ व्याख्या- अर्थं च शास्त्राणामभिधेयं, धर्म च यतिधर्म क्षान्त्यादिकं विजानन्तो विशेषेणावगच्छन्तो यूयं नापि * नैव कुप्यथ, 'भूइपण्ण त्ति' भूतिर्मङ्गलं १ वृद्धिः २ रक्षा वेति वृद्धाः ततो भूतिर्मङ्गलं सर्वमङ्गलोत्तमत्वेन, वृद्धिर्वा वृद्धि
विशिष्टत्वेन, रक्षा वा सर्वप्राणिरक्षकत्वेन, प्रज्ञा बुद्धिर्येषां ते भूतिप्रज्ञाः, अत एव तुब्भं तु त्ति' युष्माकमेव पादौ शरणं उपेम: | स्वीकुर्मः समागताः सर्वजनेन वयमिति सूत्रार्थः ॥ ३३ ॥ तथामूलम् - अच्चेमु ते महाभाग!, न ते किंचि न अच्चिमो । भुंजाहि सालिमं कूर, नाणावंजणसंजुअं ॥३४॥
UTR-2
॥१२९॥
Page #132
--------------------------------------------------------------------------
________________
अध्य. १२
उत्तराध्ययनसूत्रम्
॥१३०॥
व्याख्या- अर्चयामः पूजयामः 'ते' इति सुब्व्यत्ययात्त्वां हे महाभाग! न नैव ते तव किञ्चिच्चरणरेण्वादिकमपि नार्चयामः, तथा भुक्ष्व इतो गृहीत्वा 'सालिमं त्ति' शालिमयं शालिनिष्पन्नं कूरं ओदनं नानाव्यञ्जनैर्दध्यादिभिः संयुतमिति सूत्रार्थः ॥ ३४ ॥ अन्यच्च
मूलम्-इमं च मे अस्थि पभूअमन्नं, तं भूजसू अम्हमणुग्गहट्ठा ।
बाढंति पडिच्छइ भत्तपाणं, मासस्स उ पारणए महप्पा! ॥ ३५ ॥ व्याख्या- इदं च प्रत्यक्षत एव दृश्यमानं मे मम अस्ति प्रभूतं भूरि अन्नं मण्डकखण्डखाद्यादि भोजनं तद्भुक्ष्व अस्माकमनुग्रहार्थं, एवं तेनोक्ते मुनिराह- बाढमेवं कुर्म इतीत्येवं बुवाण इति शेषः, प्रतीच्छति द्रव्यादिभिः शुद्धमिति गृह्णाति भक्तपानं 'मासस्स उ त्ति' मासस्यैव मासक्षपणस्यैवान्ते इति गम्यं, पार्यते-पर्यन्तः क्रियते नियमस्यानेनेति पारणं, तदेव | पारणकं, भोजनमित्यर्थः, तस्मिन्महात्मेति सूत्रार्थः ॥ ३५ ॥ तदा च तत्र यदभूत्तदाह
मूलम-तहिअं गंधोदयपुष्फवासं, दिव्वा तहिं वसुहारा य वुट्ठा ।
पहयाओ दुंदुहीओ सुरेहि, आगासे अहो दाणं च घुटुं ॥ ३६ ॥ व्याख्या-'तहिअंति' तत्र यज्ञपाटे गन्धोदकं च पुष्पाणि च गन्धोदकपुष्पाणि तेषां वर्ष वर्षणं गन्धोदकपुष्पवर्षं सुरैरिति | सम्बन्धात्कृतमिति गम्यते, नपुंसकलिङ्गनिर्देशश्चेह वर्षशब्दस्य पुनपुंसकलिङ्गत्वात् । दिव्या श्रेष्ठा 'तहिं ति' तत्र वसु-द्रव्यं तस्य धारा सततनिपातजनितासंततिर्वसुधारा, सा च वृष्टा पातिता सुरैरिति इहापि योज्यते । तथा प्रहता दुन्दुभयो देवानकाः सुरैः।
UTR-2
॥१३०॥
Page #133
--------------------------------------------------------------------------
________________
अध्य. १२
उत्तराध्ययनसूत्रम् ॥१३१ ॥
तथा तैरेवाकाशे अहो ! इत्याश्चर्ये कोऽन्यः किलैवं दानं दातुं शक्तः ? इत्यहोदानं च घुष्टं संशब्दितमिति सूत्रार्थः ॥ ३६ ॥ तच्च प्रेक्ष्य विस्मिता विप्रा अप्येवमाहुःमूलम् -- सक्खं खु दीसइ तवोविसेसो, न दीसई जाइविसेसु कोई।
सोवागपुत्तं हरिएससाहुं , जस्सेरिसा इड्डि महाणुभागा ॥ ३७ ॥ व्याख्या-'सक्खं खु त्ति' खुशब्दोऽवधारणे, ततः साक्षादेव दृश्यते तपसो विशेषो माहात्म्यं तपोविशेषः, न नैव दृश्यते जातिविशेषो जातिमाहात्म्यरूपः कोऽपि स्वल्पोपि । कुतः ? इत्याह-यतः श्वपाकपुत्रं हरिकेशसाधुं पश्यतेति शेषः, यस्येदृशी दृश्यमानरूपा ऋद्धिदेवसान्निध्यलक्षणा संपन्महानुभागा सातिशयमाहात्म्या । जातिविशेषे हि सति द्विजातीनामस्माकमेव देवाः सान्निध्यं विदध्युरिति सूत्रार्थः ॥ ३७ ॥ अथ स एव मुनिस्तानुपशान्तमिथ्यात्वानिव पश्यन्निदमाह
मूलम्- किं माहणा जोईसमारभंता, उदएण सोहिं बहिआ विमग्गह ।
जं मग्गहा बाहिरिअं विसोहिं, न तं सुदिटुं कुसला वयंति ॥ ३८ ॥ व्याख्या-किमिति क्षेपे, ततो न युक्तमिदं हे माहनाः ब्राह्मणाः! ज्योतिरग्निस्तं समारभमाणाः प्रस्तावाद्यागं कुर्वन्त इत्यर्थः, उदकेन जलेन शोधिं विशुद्धिं 'बहिअ त्ति' बाह्यां विमार्गयथान्वेषयथ । किमेवमुपदिश्यते ? इत्याहयद्यूयं मार्गयथ बाह्यां स्नानादिबाह्यहेतुजां विशुद्धिं निर्मलतां न तत् सुदृष्टं सुष्ठ प्रेक्षितं कुशलास्तत्त्वविदो वदन्तीतिसूत्रार्थ: ॥ ३८ ॥ एतदेव स्पष्टयति --
UTR-2
॥१३१॥
Page #134
--------------------------------------------------------------------------
________________
अध्य. १२
उत्तराध्ययनसूत्रम् ॥१३२॥
मूलम्- कुसं च जूवं तणकट्टमग्गिं, सायं च पायं उदयं फसंता ।
पाणाई भूआई विहेडयंता, भुज्जोवि मंदा पकरेह पावं ॥ ३९ ॥ व्याख्या-कुशं च दर्भ, यूपं यज्ञस्तम्भं, तृणं च वीरणादि, काष्ठं च इन्धनादि, तृणकाष्ठं । अग्निं वह्नि, सर्वत्र प्रतिगृह्णन्त इति शेषः । सायं सन्ध्यायां चशब्दो भिन्नक्रमस्ततः 'पायं ति' प्रातश्च प्रभाते उदकं जलं स्पृशन्त आचमनादिषु परामृशन्तः 'पाणाई ति' प्राणिनो द्वीन्द्रियादीनुदकादौ भूतान् तरून् पृथिव्याधुपलक्षणञ्चैतत् विहेठमाना: विविधं बाधमाना: भूयोपि पुनरपि न केवलं पुरा किन्तु शुद्धिकालेपि जलानलादिजीवोपमर्दनेन मन्दा जडाः सन्तः प्रकुरुथ प्रकर्षेण उपचिनुथ पापमशुभकर्म । अयं भावः - कुशला हि कर्ममलविगमात्मिकां तात्त्विकीमेव शुद्धि मन्यन्ते, भवदभिमते यागस्नाने च यूपादिपरिग्रहजलस्पर्शादिभिर्जन्तूपमर्दहेतुतया प्रत्युत कर्ममलोपचयनिबन्धने एव, तत्कथं तद्धेतुकशुद्धिमार्गणं सुदृष्ट विदो वदेयुः? आह च वाचकमुख्यः-"शौचमाध्यात्मिकं त्यक्त्वा भावशुद्ध्यात्मकं शुभम् ॥ जलादिशौचं यत्रेदं, मूढविस्मापनं हि तत् ॥१॥" | इति सूत्रार्थः ॥ ३९ ॥ इत्थं तद्वाचा जातसन्देहास्ते यागमाश्रित्यैवमप्राक्षः -
मूलम्- कहं चरे भिक्खु वयं जयामो, पावाई कम्माइं पणोल्लयामो।
अक्खाहि णो संजय जक्खपूइआ, कहं सुइट्ठ कुसला वयंति ॥ ४० ॥
UTR-2
॥१३२॥
Page #135
--------------------------------------------------------------------------
________________
अध्य. १२
उत्तराध्ययनसूत्रम् ॥१३३॥
व्याख्या-कथं केन प्रकारेण 'चरे त्ति' सूत्रत्वाच्चरामो यागार्थ प्रवद्महे वयं, हे भिक्षो । तथा यजामो यागं कुर्मः? कथमिति योगः, पापान्यशुभानि कर्माणि 'पणुल्लयामोत्ति' प्रणुदामः प्रेरयामो येनेति गम्यते, आख्याहि कथय नोऽस्माकं संयत यक्षपूजित ! यो ह्यस्मद्विदितः कर्मप्रणोदनोपायो याग: स तु युष्माभिर्दूषित इति भवन्त एवापरं यागमुपदिशन्त्विति भावः । ततः कथं स्विष्टं शोभनयजनं कुशला वदन्तीति सूत्रार्थः ॥ ४० ॥ मुनिराह
मूलम्-छज्जीवकाए असमारभंता, मोसं अदत्तं च असेवमाणा ।
परिग्गहं इथिओ माण मायं, एअं परिणाय चरंति दंता ॥ ४१ ॥ व्याख्या- षड्जीवकायान् पृथिव्यादीन् असमारभमाणा अनुपमर्दयन्तः 'मोसं ति' मृषां अलीकं, अदत्तं च अदत्तादानमसेवमानाः, 'परिग्गहं' मूर्छा, स्त्रियो मानं माया तत्सहचरात्कोपलोभौ च एतदनन्तरोक्तं परिज्ञाय ज्ञपरिजया दुष्कर्मनिबन्धनमिति ज्ञात्वा प्रत्याख्यानपरिज्ञया च प्रत्याख्याय चरन्ति यागे प्रवर्तन्ते दान्ताः। यतश्च दान्ता एवं चरन्ति ततो भवद्भिरप्येवं चरितव्यमिति सूत्रार्थः ॥ ४१ ॥ अनेन कथं चरामो यागायेति प्रश्नस्योत्तरमुक्तं, अथ कथं यजाम इति द्वितीयप्रश्नस्योत्तरमाह
मूलम्-सुसंवुडा पंचहिं संवरेहि, इह जीविअं अणवकंखमाणा ।
वोसट्टकाया सुइचत्तदेहा, महाजयं जयइ जण्णसिटुं ॥ ४२॥ व्याख्या - सुसंवृता स्थगिताश्रवद्वाराः पञ्चभिः संवरैः प्राणातिपातविरमणादिव्रतैः, इहेत्यस्मिन्मनुष्यजन्मनि, उपलक्षणत्वात्परलोके च जीवितं प्रस्तावादसंयमजीवितमनवकांक्षन्तोऽनिच्छन्तः, अत एव व्युत्सृष्टकायाः परीषहोपसर्गसहिष्णुतया
UTR-2
॥१३३॥
Page #136
--------------------------------------------------------------------------
________________
अध्य. १२
उत्तराध्ययनसूत्रम् ॥१३४॥
त्यक्तकायाः, शुचयोऽकलुषव्रतास्ते च ते त्यक्तदेहाश्चात्यन्तनिष्प्रतिकर्मतया शुचित्यक्तदेहाः, महान् जयः कर्मारिपराजयरूपो यत्र स महाजयस्तं 'जयइ त्ति' वचनव्यत्ययाद्यजन्ति यतय इति गम्यं । ततो भवन्तोप्येवं यजन्तां 'जण्णसिटुं ति' प्राकृतत्वात् श्रेष्ठयज्ञं श्रेष्ठशब्देन च एतद्यजनं स्विष्टं कुशला वदन्ति, एष एव च कर्मप्रणोदनोपाय इति सूचितमिति सूत्रार्थः ॥ ४२ ॥ अथ यद्ययं यज्ञः श्रेष्ठस्तदामु यजमानस्य कान्युपकरणानि ? को वा यजनविधिः ? इति ते प्रश्नयामासूः
मूलम्-के ते जोई किं व ते जोइठाणं, का ते सुआ किं व ते कारिसंगं ।
एहा य ते कयरा संति भिक्खू , कयरेण होमेण हुणासि जोइं ॥ ४३ ॥ व्याख्या-'के इति' किं ते तव ज्योतिरग्निः? किं वा ते तव ज्योतिःस्थानं ? यत्राग्निनिधीयते, कास्ते खुचो घृतादिक्षेपिका दळः? किं वा ते करीष एवाङ्ग अनलोद्दीपनहेतुः करीषाङ्गं? येनाग्निः सन्धुक्ष्यते, एधाश्च समिधो याभिरग्निः प्रज्वाल्यते ते तव कतराः काः ? 'संति त्ति' चस्य गम्यत्वाच्छान्तिश्च दुरितोपशमहेतुरध्ययनपद्धतिः! कतरेति प्रक्रमः, हे भिक्षो! कतरेण होमेन हवनविधिना जुहोषि ? आहुतिभिस्तर्पयसि, ज्योतिरग्निं । षड्जीवकायारम्भनिषेधे ह्यस्मदिष्टो होमस्तदुपकरणानि च पूर्व निषिद्धानि तत्कथं तव यज्ञसम्भवः ? इति सूत्रार्थः ॥ ४३ ॥ मुनिराह
मूलम्- तवो जोई जीवो जोइठाणं, जोगा सुआ-सरीरं कारिसंगं ।
कम्मे एहा संजमजोगसंती, होमं हुणामि इसिणं पसत्थं ॥ ४४॥ व्याख्या-तपो बाह्याभ्यन्तरभेदभिन्नं ज्योतिरग्निस्तस्यैव कर्मलक्षणभावेन्धनदाहकत्वात्, जीवो ज्योतिःस्थानं, तपोज्यो
UTR-2
॥१३४॥
Page #137
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ।। १३५ ।।
तिषस्तदाश्रितत्वात्, योगा: मनोवाक्कायाः स्रुचस्तैर्हि शुभव्यापाराः स्नेहस्थानीयास्तपोज्वलनप्रज्वलनहेतवस्तत्र संस्थाप्यन्त इति, शरीरं करीषांगं तेनैव हि तपोज्योतिरुद्दीप्यते तद्भावभावित्वात्तपसः, कर्म एधास्तस्यैव तपसा भस्मीभवनात्, संयमयोगाः संयमव्यापारा: शान्ति:, सर्वजीवोपद्रवापहारित्वात्तेषां तथा 'होमं ति' होमेन जुहोमि तपोज्योतिरिति शेषः, ऋषीणां मुनीनां सम्बन्धिना 'पसत्थं ति' प्रशस्तेन जीवघातरहिततया विवेकिभिः श्लाघितेन सम्यक् चारित्ररूपेणेति भावः । अनेन च कतरेण होमेन जुहोषि ज्योतिरिति प्रत्युक्तमिति सूत्रार्थ: ॥ ४४ ॥ इत्थं यज्ञस्वरूपं ज्ञात्वा स्नानस्वरूपं पृच्छन्तस्ते इदं स्माहु
मूलम् - के ते हरए के अ ते संतितित्थे, कहिंसि पहाओ व रयं जहासि । अक्खाहि णो संजय जक्खपूड़आ, इच्छामु नाउं भवओ सगासे ॥ ४५ ॥
व्याख्या- कस्ते तव हृदो नदः ? 'के अ ते त्ति' किं च ते शान्त्यै पापोपशमार्थं तीर्थं ? 'कहिंसि ण्हाओ व त्ति' वाशब्दस्य भिन्नक्रमत्वात्कस्मिन्वा स्नातः शुचीभूतो रज इव रजः कर्म जहासि त्यजसि ? गम्भीराशयो हि त्वं, तत्किमस्माकमिव तवापि हृदतीर्थमेव शुद्धिस्थानमन्यद्वेति न विद्म इति भावः । आचक्ष्व वद नोऽस्माकं संयत यक्षपूजित ! इच्छामो ज्ञातुं भवतः सकाशे समीपे इति सूत्रार्थः ॥ ४५ ॥ मुनिराह
मूलम्
धम्मे हरए
बंभे संतितित्थे, अणाइले अत्तपसन्नलेसे ।
जहिंसि हाओ विमलो विसुद्धो, सुसीतिभूओ पजहामि दोसं ॥ ४६ ॥
UTR-2
अध्य. १२
॥१३५॥
Page #138
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम्
॥ १३६ ॥
व्याख्या-धर्मः अहिंसादिरूपो हृदस्तस्यैव कर्मरजोपहारित्वात्, ब्रह्मेति ब्रह्मचर्यं शान्तितीर्थं तदासेवने हि सकलमलमूलं रागद्वेषावुन्मूलितावेव, तदुन्मूलने च न पुर्नमलसम्भव इति, सत्याद्युपलक्षणं चैतत्तथा चाह -"ब्रह्मचर्येण सत्येन, तपसा संयमेन च ॥ मातङ्गर्षिर्गतः शुद्धिं, न शुद्धिस्तीर्थयात्रया ॥१॥ किं च भवदिष्टतीर्थानि प्राणिपीडाहेतुतया प्रत्युत मलोपचयनिमित्तानीति कुतस्तेषां शुद्धिहेतुता ? यदुक्तं - " कुर्याद्वर्षसहस्त्रं तु, अहन्यहनि मज्जनम् ॥ सागरेणापि कृच्छ्रेण, वधको नैव शुद्ध्यति ॥१॥ हृदशान्तितिर्थे एव विशिनष्टि, अनाविले मिथ्यात्वगुप्तिविराधनादिभिरकलुषे, अत एवात्मनो जीवस्य प्रसन्ना मनागप्यकलुषा लेश्या पीताद्यन्यतरा यस्मिंस्तदात्मप्रसन्नलेश्यं तस्मिन् धर्महृदे ब्रह्माख्यशान्तितीर्थे च 'जहिंसि त्ति' यस्मिन् स्नात इव स्नातो विमलो भावमलरहितः, अत एव विशुद्धो गतकलङ्कः सुशीतीभूतो रागाद्युत्तप्तिमुक्तः प्रजहामि प्रकर्षेण त्यजामि दूषयति आत्मानं विकृति नयतीति दोषः कर्म । तदेवं ममापि हृदतीर्थे एव शुद्धिस्थानं परमीदृशे एवेति सूत्रार्थः ॥ ४६ ॥ निगमयितुमाह -
मूलम् - एअं सिणाणं कुसलेहिं दिट्ठ, महासिणाणं इसिणं पसत्थं ।
जहिंसि णाया विमला विसुद्धा, महारिसी उत्तमठाणं पत्तत्ति बेमि ॥४७॥
व्याख्या- एतदनन्तरोक्तं स्नानं कुशलैर्दृष्टं, इदमेव च महास्त्रानं, न तु युष्मत्प्रतीतमस्यैव सकलमलापहारित्वात्, अत एव ऋषीणां प्रशस्तं प्रशंसास्पदं न तु जलस्नानवत् सदोषतया निन्द्यं, अस्यैव फलमाह 'जहिंसि त्ति' सुप्व्यत्ययात् येन स्नाता विमला विशुद्धा इति प्राग्वत्, महर्षय उत्तमस्थानं मुक्तिरूपं प्राप्ता गता इति ब्रवीमीति प्राग्वदिति सूत्रार्थः ॥ ४७ ॥ एवं द्विजेषु मुनिमुपसम्पन्नेषु यक्षेण प्रगुणीकृतच्छात्राः ततस्तत्कालोचितधर्मदेशनया विप्रान् प्रतिबोध्य साधुः स्वस्थानमाययौ ययौ च क्रमान्मुक्तिम् ॥
इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिशिष्यमहोपाध्याय - श्री मुनिविमलगणिशिष्याश्रवोपाध्यायश्रीभावविजयगणिसमर्थितायां श्री - उत्तराध्ययनसूत्रवृत्तौ द्वादशमध्ययनं सम्पूर्णम् ॥ १२ ॥
UTR-2
अध्य. १२
॥१३६॥
Page #139
--------------------------------------------------------------------------
________________
उत्तराध्य
॥अथ त्रयोदशमध्ययनम् ॥
अध्य. १३
यनसूत्रम्
॥१३७॥
॥ अर्हम् ॥ व्याख्यातं द्वादशमध्ययनं, अथ त्रयोदशमारभ्यते । अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने तपसि यत्नो विधेय इत्युक्तं, तपः कुर्वता च निदानं त्याज्यमिति निदानदोषं चित्रसम्भूतोदाहरणेन दर्शयितुं चित्रसम्भूतीयाख्यमिदमुच्यते, | इत्यनेन सम्बन्धेनायातस्यास्येदमादौ सूत्रत्रयम्मूलम्-जाई पराजिओ खलु , कासि निआणं तु हत्थिणपुरंमि । चुलणीइ बंभदत्तो, उववन्नो पउमगुम्माओ॥१॥
व्याख्या- जात्या प्रक्रमाच्चाण्डालाख्यजात्या पराजितः पूर्वभवे पराभूतो जातिपराजितः, खलुर्वाक्यालङ्कारे 'कासि त्ति" अकार्षीनिदानं चक्रवर्तिपदप्राप्तिमें भूयादित्येवं रूपं, तुः पूर्ती, हस्तिनापुरे नगरे । तदनु च चुलन्यां ब्रह्मदत्त उपपन्न उत्पन्न: पद्मगुल्मान्नलिनीगुल्मविमानाच्च्युत्वेति शेषः । चुलन्यां ब्रह्मदत्त उत्पन्न इत्युक्तं, स च क्वेत्याहमूलम्-कंपिल्ले संभूओ चित्तो, पुण जाओ पुरिमतालंमि । सिट्टिकुलंमि विसाले, धम्मं सोऊण पव्वईओ ॥२॥
व्याख्या-काम्पील्ये काम्पील्यनाम्नि नगरे सम्भूतः प्राग्भवे सम्भूताभिधः, चित्रस्य का वार्ते त्याह - चित्रः पुनर्जातः पुरिमताले पुरिमतालपुरे श्रेष्ठिकुले विशाले पुत्रपौत्रादिभिविस्तीर्णे, प्राप्तयौवनश्च तथाविधाचार्यसमीपे धर्म श्रुत्वा प्रव्रजितः ॥२॥ ततः किमित्याह -
UTR-2
॥१३७॥
Page #140
--------------------------------------------------------------------------
________________
अध्य.१३
उत्तराध्ययनसूत्रम् ॥१३८ ॥
मूलम्-कंपिल्लंमि अ णयरे, समागया दोवि चित्तसंभूआ । सुहदुक्खफलविवागं, कहति ते इक्कमिक्कस्स ॥ ३ ॥
व्याख्या-काम्पील्ये च नगरे समागतौ मिलितौ द्वावपि चित्रसम्भूतौ पूर्वभवनाम्ना सुखदुःखफलविपाकं सुकृतदुष्कृतकर्मानुभवरूपं कथयतस्तौ 'एक्कमेक्कस्सत्ति' एकैकस्य अन्योन्यं, सर्वत्र वर्तमाननिर्देशस्तत्कालापेक्षयेति सूत्रत्रयाक्षरार्थो भावार्थस्तु कथानकादवसेयस्तत्र चायं सम्प्रदायः । तथाहि
अस्ति पुरं साकेतं, सङ्केतनिकेतनं शुभश्रीणाम् । तत्र मुनिचन्द्रोऽभू - भूपश्चन्द्रावतंससुतः ॥१॥ स च सागरचन्द्रगुरोः, पार्श्वे प्रव्रज्य भवविरक्तमनाः॥ देशान्तरे विहर्तुं, गुरुणा सममन्यदाचालीत् ॥ २ ॥ भिक्षार्थमथ क्वापि, ग्रामे गतवति महामुनौ तस्मिन् ॥ सार्थेन समं चेलु-गुरवः स तु सार्थवियुतोऽभूत् ॥ ३ ॥ तमटन्तमटव्यन्तः, क्षुत्तृष्णाबाधितं तृतीयदिने ॥ प्रतिचेरुर्बन्धव इव, चत्वारो वल्लवाश्चतुराः ॥ ४॥ प्रत्युपकर्तुमिवोचे,तेभ्यो वाचंयमोऽपि जिनधर्मम् ॥ तं श्रुत्वा सम्बुद्धाः, प्रवव्रजुस्तेऽपि भवभीताः | ॥५॥ तेषु च धर्मजुगुप्सा-मुभौ व्यधत्तां व्रतप्रभावाच्च ॥ दिवि देवत्वं प्राप्तौ, ततश्च्युतौ चायुषि क्षीणे ॥६॥ दशपुरनगरे शाण्डिल्य-विप्रदास्याः सुतौ युगलजातौ ॥ जातौ तौ जयवत्याः, प्राक्कृतनिन्दाविपाकवशात् ॥ ७॥ तौ सम्प्राप्तौ तारुण्य-मन्यदा क्षेत्ररक्षणाय गतौ ॥ सुषुपतुरधो वटतरो-निरगात्तत्कोटराच्च फणी ॥ ८ ॥ तेन च दष्टे दुष्टे-नैकस्मिंस्तं गवेषयन् भुजगम् ॥ अपरोऽप्यदंशि तेनैव, भोगिना पूर्वरिपुणेव ॥९॥ तौ चाप्राप्तचिकित्सौ,विपद्य कालिञ्जराचलोपान्ते ॥ हरिणीकुक्षिप्रभवौ, सञ्जातौ
UTR-2
॥१३८॥
Page #141
--------------------------------------------------------------------------
________________
अध्य.१३
उत्तराध्ययनसूत्रम् ॥१३९॥
युग्मजौ हरिणौ ॥ १० ॥ स्नेहात् सह विहरन्तौ,मुक्तकशरेण मृगयुणा तौ च ॥ व्यापादितौ वराको, क्षिप्ताशनिना घनेनेव ॥ ११ ॥ अथ मृतगङ्गातटिनी-तटस्थहंसीसुतावभूतां तौ ॥ बाल्यादपि भ्रमन्तौ, सममेव दृढानुरागेण ॥ १२ ॥ जालेन तौ निबध्यान्यदाऽवधीज्जालिको गलं भक्त्वा ॥ विषवल्लेरिव दारुण-महो ! फलं धर्मनिन्दायाः ॥ १३ ॥ अथ तौ वाणारस्यां, प्रभूतवित्तस्य भूतदत्तस्य ॥ तनयावुभावभूतां, श्वपचपतेश्चित्र-सम्भूतौ ॥ १४ ॥ वाणारस्यां च तदा, बभूव शंखाभिधो धराधिपतिः ॥ तस्य च दुर्मतिसचिवः, सचिवाऽभूत्रमुचिरिति नाम्ना ॥ १५ ॥ अपराधे स च महति, प्रच्छन्नवधाय भूतदत्ताय ॥ दत्तोऽन्यदा नृपतिना, तं चेत्यूचे श्वपचनाथः ॥ १६ ॥ त्वां जीवयामि यदि मे, पुत्रौ पाठयसि भूमिगेहस्थः ॥ नमुचिरपि प्रतिपेदे, तदपि वचो जीवितव्यकृते ॥ १७ ॥ अध्यापयच्च सततं, कला विचित्राः स चित्रसम्भूतौ ॥ मातङ्गपतेः पत्नी-मनुरक्तामरमयच्च कुधीः॥१८॥ तच्चावबुद्ध्य रुष्टे, श्वपचपतौ हन्तुमुद्यते नमुचिम् ॥ त्वरितमनाशयतामुप- कारित्वाच्चित्रसम्भूतौ ॥ १९ ॥ निर्गत्य ततो नमुचि-द्रुतं ययौ हस्तिनापुरे नगरे। तत्र च सनत्कुमार-श्चक्री तं धीसखं चक्रे ॥२०॥
इतश्च रूपमनिन्द्यं, लावण्यमद्भुतं यौवनं च तौ नव्यम् ।। प्राप्तौ श्वपचसुतौ स्मर-मधुसमयाविव युतौ बभतुः ॥२१॥ वीणा-| वेणुकलक्वण-सम्बन्धसुबन्धुरं च तौ गीतम् ॥ गायन्तौ नृत्यन्तौ, जगतोऽपि मनो व्यपाहरताम् ॥ २२ ॥ अन्येद्युः पुरि तस्यां, मधूत्सवः प्रववृते महः प्रवरः ॥ तत्राविगीतगीता, विनिर्ययुः पौरचच्चर्यः ॥ २३ ॥ निरगाच्च चच्चरी तत्र, चित्र-सम्भूतयोरपि प्रवरा ॥ तत्र च जगतुर्गीतं, किन्नरमदहारि तौ स्फीतम् ॥ २४ ॥ आकर्ण्य कर्णमधुरं तद्गीतं विश्वकार्मणममन्त्रम् ॥ त्यक्तान्यचच्चरीकाः,
UTR-2
॥१३२॥
Page #142
--------------------------------------------------------------------------
________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥१४०॥
पौरा: पौर्यश्च तत्र ययुः ॥ २५ ॥ सर्वस्मिन्नपि लोके, तद्गीतगुणेन मृगवदाकृष्टे । गातारोऽन्ये भूपं, व्यजिज्ञपन्नित्यमर्षवशात् ॥ २६ ॥ मातङ्गाभ्यां स्वामिन्!, गीतेनाकृष्य पौरलोकोऽयम् ।। सकलोऽपि कृतो मलिन-स्तत इत्यलपन्नृपः कोपात् ।। २७ ॥ पुर्यां प्रवेष्टुमनयोनों देयं वेश्मनीव कुकुरयोः ॥ तत आरभ्य वृकाविव, तौ दुरमतिष्ठतां पुर्याः ॥ २८ ॥ तस्यां च पुरि प्रवरे, प्रवृत्तवति कौमुदीमहे - न्येयुः ॥ उल्लंघ्य नृपतिवचनं, प्राविशतामजितकरणौ तौ ॥ २९ ॥ विहितावगुण्ठनौ तौ, छन्नमटन्तौ महं च पश्यन्तौ ॥ क्रोष्टरवैः क्रोष्टारा-विव गानोत्कौ प्रजागीतैः ॥ ३० ॥ अवगणितभूपभीती, अगायतामतिमनोहरं गीतम् ॥ तच्च निशम्य जनास्तौ, परीवर्मक्षिका मधुवत् ॥ ३१ ॥(युग्मम् ) कावेताविति लोकै -आतुं कृष्टावगुण्ठनावथ तौ ॥ उपलक्षितौ नृपाज्ञा-विलोपकत्वाभृशं निहतौ ॥ ३२ ॥ नश्यन्तौ पश्यन्तौ, दीनं भयविह्वलौ स्खलत्पादौ ॥ लोकैश्च हन्यमानौ, कथमपि तौ निर्गतौ पुर्याः ॥ ३३ ॥ गम्भीरोद्यानं च प्राप्तौ, ताविति मिथो व्यचिन्तयताम् । धिग् नौ कुलदोषहतान्, रूपकलाकौशलादिगुणान् ॥ ३४ ॥धातव इव क्षयरुजा, दोषेणानेन दूषिता हि गुणाः ॥ जाता विपत्तये नौ, पत्तय इव भेदिता द्विषता ॥ ३५ ॥ व्यसनैरिव नौ व्यसनं, जज्ञे कूलदोषदूषितैर्हि गुणैः ।। स च सहचारी वपुष-स्तत्त्याज्यं रज इवेदमपि ॥३६॥ध्यात्वेति मर्तुकामौ, यान्तौ प्रतिदक्षिणामुभावपि तौ ।। दूरंगतौ महीधरमपश्यतामेकमतितुङ्गम् ॥ ३७ ॥ तं चारोहन्तौ तौ, भृगुपातचिकीर्षया श्रमणमेकम् ॥ ध्यानस्थममानगुणं, प्रेक्ष्य प्रोच्चैर्मुदमधत्ताम् ॥ ३८ ॥ छायातरुमिव पथिकौ, तं प्राप्यापगतसकलसन्तापौ । तावनमतां वमन्तौ, प्राग् दुःखमिवाश्रुजलदम्भात् ॥ ३९ ॥ ध्यानं समाप्य मुनिना, कुत आयातौ युवामितकि पृष्टौ । प्राकाशयतां स्वाशय-मुक्त्वा निजवृत्तमखिलं तौ ॥ ४० ॥ तत इत्यूचे
UTR-2
॥१४०॥
Page #143
--------------------------------------------------------------------------
________________
अध्य.१३
उत्तराध्ययनसूत्रम् ॥१४१॥
श्रमणो, विलीयते देह एव भृगुपातात् ॥ न तु पातकं ततोऽसौ,न युज्यते दक्षयोर्युवयोः ॥ ४१ ॥ दुःखानां बीजमघं, तपसैव क्षीयते न मरणेन ॥ तदिदं हेयं देह, सफलीक्रियतां तपश्चरणैः ॥४२॥ ग्लानाविव वैद्यवच-स्तत्साधुवचः प्रपद्य तौ सद्यः ॥ प्राव्रजतां तत्पार्श्वे , मादभूतां च गीतार्थों ॥ ४३ ॥ षष्ठाष्टमादितपसा, क्रशयन्तौ विग्रहं समं पापैः ॥ मूर्ती तपःशमाविव, सममेव विजहूतुर्भुवि तौ ॥ ४४ ॥ विहरन्तौ तौ जग्मतु - रन्येधुर्हस्तिनापुरे नगरे । बहिरुद्यानस्थौ तत्र, चेस्तुर्दुश्चरं च तपः ॥ ४५ ॥ सम्भूतमुनि गरे, मासक्षपणस्य पारणेऽन्येद्युः ॥ भिक्षार्थमटन् ददृशे, दुरात्मना नमुचिसचिवेन ॥ ४६ ॥ मातङ्गसुतः सोऽयं, मम वृत्तं वक्ष्यतीति साशङ्कः ॥ निष्काश्यतां पुरादय-मित्यूचे निजभटान्नमुचिः ॥ ४७ ॥ यमदूतैरिव चण्डै-स्तैर्लकुटादिप्रहारदानपरैः।। विधुरीकृतोऽथ साधु-द्रुतं न्यवर्तत ततः स्थानात् ॥४८॥ निर्गच्छन्नपि स मुनि -नमुचिभटैर्न मुमुचे यदाऽपदयैः ॥ शान्तोऽपि चुकोप तदा, स्यादुष्णं जलमपि ह्यनलात् ॥ ४९॥ तद्वदनान्निरगादथ, धूमस्तोमः समन्ततः प्रसरन् ॥ तदनु च तेजोलेश्या, ज्वालापटलैनभःस्पृशती ॥५०॥ तद्वीक्ष्य सभयकौतुक -मेयुः पौरा मुनिं प्रसादयितुम् ॥ आयासीत्पुरनाथः, सनत्कुमारश्च चक्रिवरः ॥५१॥ नत्वा चैवमवोचत्, भगवन्नेतन्न युज्यते भवतः ॥ दग्धः कृशानुनापि हि, नागुरुरुगिरति दुर्गन्धम् ॥५२॥ क्रियतामस्मासु कृपा, संहियतामाशु कोपफलमेतत् ॥ व्यभिचरति सतां कोप; फले खलानामिव स्नेहः ॥५३॥ उक्तं च -"न भवति भवति च न चिरं, भवति चिरं चेत्फले विसंवदति ॥ कोपः सत्पुरुषाणां, तुल्यः स्नेहेन नीचानाम् ॥ ५४॥" तन्मुंच मुंच कोपं, नीचजनोचितमनंचितं मुनिभिः । इत्युक्तोऽपि न यावत्, प्रससाद स साधुरतिकुपितः ॥ ५५॥ तावत्तत्रायातः , चित्रस्तं व्यतिकरं जनात्
UTR-2
॥१४॥
Page #144
--------------------------------------------------------------------------
________________
अध्य.१३
उत्तराध्ययनसूत्रम् ॥१४२ ॥
श्रुत्वा ॥ इत्यूचे भ्रातस्त्यज, रोषमिमं चरणवनदहनम् ॥५६॥ देशोनपूर्वकोट्या, यदर्जितं भवति विमलचारित्रम् ॥ तदपि हि कषायकलुषो, हारयति यतिर्मुहूर्तेन ॥५७॥ सुलभा हि बालसङ्गा-दाक्रोशाघातमरणधर्मगमाः ॥ एषु च यथोत्तरस्याभावे मनुते मुनिर्लाभम् ॥ ५८॥ अपकृतिकारिषु कोपः, क्रियते चेत्कोप एव स क्रियताम् ॥ यो हरति धर्मवित्तं, दत्ते चानन्तदुःखभरम् ॥ ५९॥ इत्यादिचित्रवाक्यैः, श्रुतानुगामिभिरशामि तत्कोपः॥ पाथोधरपाथोभि - गिरिदावानल इव प्रबलः ॥६०॥ तं चोपशान्तमनसं, प्रणम्य लोका ययुनिजं स्थानम् ॥ तौ च श्रमणौ जग्मतु-रुद्यानं दध्यतुश्चैवम् ॥ ६१॥ आहारार्थं प्रतिगृह - मटद्भिरासाद्यते व्यसनमुच्चैः ॥ गात्रं चैतद्गत्वर-माहारेणापि कृतपोषम् ॥६२॥ तत्कृतसंलेखनयो-राहारैरावयोः कृतमिदानीम् ॥ इति तौ चतुर्विधाहारमनशनं चक्रतुः कृतिनौ ॥६३॥ कः पर्यभून्मयि नृपे, सति यतिमिति पृच्छतो जनान् राज्ञः ॥ केनाप्यूचे नमुचि - स्तमथ नृपोऽबन्धयत्कुपितः ॥ ६४॥ पुनरप्येवं माऽन्यो, मान्यानपमानयत्विति महीमान् ॥ पुरमध्येनानैषी-दुपमुनि तं दस्युमिव बद्धम् ॥ ६५॥ तौ चावन्दत भूपो-ऽङ्कुरयन्निव मेदिनीं मुकुटकिरणैः ॥ तं चानन्दयतां चारु धर्मलाभाशिषा श्रमणौ ॥६६॥ लभतामपराधी वः, स्वकर्मफलमयमिति ब्रुवन्नृपतिः ॥ शमिनोरदर्शयदथोपस्थितमरणं नमुचिसचिवम् ॥६७॥ मोक्तव्य एव राजन्नयमित्युदितस्ततो नृपस्ताभ्याम् ॥ निर्वास्य पुरादमुच-द्गुरुवचनाद्वध्यमपि तं द्राक् ॥ ६८॥ तौ नन्तुमथायासीत्स्त्रीरत्नं चक्रिण: सुनन्दाख्या ॥ देवीभिरिवेन्द्राणी, वृता सपत्नीभिरखिलाभिः॥ ६९॥ तस्याश्च प्रणताया, वेणिलतास्पर्शमनुभवन् सद्यः ॥ सम्भूतोऽभूद्रक्तो - ऽनङ्गस्यापि प्रबलताहो ! ।। ७०॥ दध्यौ चैवं यस्या, वेणिस्पर्शोऽपि सृजति सुख
UTR-2
॥१४२॥
Page #145
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ।। १४३ ।।
मतुलम् ॥ तस्या नलिनास्यायाः, कायस्पर्शस्य का वार्ता ? ॥ ७१ ॥ अन्तः पुरमन्तः पुरयुक्ते, राजनि गतेऽथ तौ नत्वा ॥ सम्भूतमुनिर्विदधे, निदानमिति कामरागान्धः ॥ ७२ ॥ अतिदुष्करस्य यदि मे, तपसः स्यात्फलममुष्य किमपि तदा ॥ स्त्रीरत्नस्य स्वामी, भूयासं भाविनि भवेऽहम् ॥ ७३ ॥ तच्च श्रुत्वा चित्रो, दध्यौ मोहस्य दुर्जयत्वमहो ! ॥ विदितागमोऽपि निपतति, यदयं संसारवारिनिधौ ॥ ७४॥ तद्बोधयाम्यमुमिति, प्रोचे चित्रः करोषि किं ? भ्रातः ! ॥ तपसोऽमुष्मात्किमिदं कामयसे तृणमिव द्युमणेः ? ।।७५।। क्षणिकाक्षणिकान् कांक्षति, भोगानपहाय निर्वृतिसुखं यः । स हि काचसकलमुररीकरोति सुररत्नमपहाय ! ॥ ७६ ॥ तद्दुः खनिदानमिदं, मुंच निदानं विमुह्यसि कृतिन् ! किम् ? ॥ इत्युक्तोऽपि स मुमुचे, न निदानं धिग् विषयतृष्णाम् ॥ ७७॥ पूर्णायुष्क, सौधर्मे निर्जरावजायेताम् ॥ चित्रस्ततश्चयुतोऽभू-दिभ्यसुतः पुरिमतालपुरे ॥ ७८ ॥ सम्भूतोऽपि च्युत्वा, काम्पील्यपुरे महभिरुचिरे ॥ चुलनीकुक्षिप्रभवो ब्रह्मनृपस्याभवत्तनयः ॥ ७९ ॥ तस्य चतुर्दशसुस्वप्नसुचितागामिसम्पदो मुदितः ॥ विदधे सोत्सवमभिधां ब्रह्मनृपो ब्रह्मदत्त इति ॥८०॥ ववृधे सोऽथ कुमारः, सितपक्षशशीव शुभकलाशाली ॥ जगदानन्दं जनयन् वचोऽमृतेनातिमधुरेण ॥ ८१ ॥ अभवन् वयस्य भूपा श्चत्वारो ब्रह्मणोऽथ तेष्वाद्यः ॥ कटकः काशीशोऽन्यः, कणेरुदत्तो गजपुरेशः ॥ ८२ ॥ दीर्घश्च कोशलेशश्चम्पानाथश्च पुष्पचूलनृपः । सामान्यमिव व्यक्तिषु तेषु स्नेहोऽभवद्व्यापि ॥८३॥ पञ्चापि ब्रह्माद्या - स्तेऽन्योन्यं विरहमक्षमाः सोढुम् ॥ एकैकपुरे न्यवसन्, प्रतिवर्षं संयुतः क्रमशः ॥८४॥ काम्पील्यपुरेऽन्येद्युः, सममायातेषु तेषु परिपाट्या | ब्रह्मनृपस्य कदाचिच्छिरोव्यथा दुस्सहा जज्ञे ॥८५॥ जातद्वादशवर्षं न्यस्यांके ब्रह्मदत्तमथ
UTR-2
अध्य. १३
॥ १४३ ॥
Page #146
--------------------------------------------------------------------------
________________
अध्य.१३
उत्तराध्ययनसूत्रम् ॥१४४ ॥
सुहृदाम् ॥ सोचे कारयितव्यं, राज्यमिदमनेन युष्माभिः ॥८६॥ इत्युक्त्वा राज्ञि मृते, कृत्वा तत्प्रेतकर्म तत्सुहृदः । दध्युमित्रस्य सुतः, शैशवमवगाहते यावत् ॥४७॥ तावद्राज्यमिदं रक्षणीयमारक्षकैरिवास्माभिः ॥ इति दीर्घ रक्षार्थं, मुक्त्वाऽन्ये स्वस्वनगरमगुः ॥८८॥ दीर्घोऽथ राज्यमखिलं, बुभुजेऽरक्षकमिवौदनं काकः ॥ मार्जारो दुग्धमिवा-वैषीत्कोशं च चिरगूढम् ॥८९ ॥ मध्ये शुद्धान्तमगा - दनर्गल: पूर्वपरिचयादनिशम् ।। रहसि च चुलनीदेवी - मवार्त्तयन्नमनिपुणगिरा ॥९०॥ सोऽथावमत्य लोकं, ब्रह्मनृपतिसौहृदं कुलाचारम् ॥ अरमयदनिशं चुलनी -महो ! अजय्यत्वमक्षाणाम् ॥९१॥ ग्रहिलापटमिव मुमुचे, चुलन्यपि प्रेम रमणविषयं द्राक् ॥ तौ च सुखं भुञ्जानौ, नाज्ञासिष्टां दिनान् व्रजतः ॥१२॥ तच्च तयोर्दुश्चरितं, ब्रह्मनृपस्य द्वितीयमिव हृदयम् ॥ ज्ञात्वा सचिवो धनुरिति, दध्यौ सद्बुद्धिजलजलधिः॥१३॥ कुरुतामकार्यमेत-च्चुलनी जातिस्वभावचपलमतिः ॥न्यासेऽर्पितमपि सकलं, दी? विद्रवति तदयुक्तम् ॥ ९४॥ तदसौ किमपि विदध्या- भूपभुवोऽपि व्यलीकमतिदुष्टः ॥ नीचो हि पोषकस्या -प्यात्मीयः स्यान भुजग इव ॥१५॥ ध्यात्वेति ज्ञापयितुं, तत्सकलं सेवितुं कुमारं तम् ॥ वरधनुसंज्ञं निजसुत-मादिशदतिनिपुणमतिविभवम् ॥१६॥ तेनाथ तयोश्चरिते, निवेदिते ब्रह्मसुस्तदसहिष्णुः ॥ अन्तःपुरान्तरगम-बध्वा द्विककोकिले कुपितः ॥ ९७ ॥ वध्याविमौ यथा वर्ण-सङ्करादीदृशः परोऽपि तथा॥हन्तव्यो मे निश्चित - मित्युच्चैस्तत्र चावादीत् ॥९८॥ काकोऽहं त्वं च पिकीत्यावां खलु हन्तुमिच्छति सुतस्ते ॥ तत इति दीर्घेणोक्ते देव्यूचे शिशुगिरा का भी: ? ॥९९॥ भद्रकरेणुमृगेभौ, नीत्वा तत्रान्यदा तथैव पुनः ।। नृपभूः प्रोचे तच्च, श्रुत्वा दीर्घोऽवदच्चुलनीम् ॥१००॥ शृणु सुभगे सुतवाणी , साभिप्रायां हलाहलप्रायाम् ।।
UTR-2
॥१४४॥
Page #147
--------------------------------------------------------------------------
________________
अध्य.१३
उत्तराध्ययनसूत्रम् ।। १४५।।
देव्यवदद्भवतु तथा-प्यनेन किं जायते शिशुना ? ॥१०१ ॥ हंस्या सममन्येधु-बंकमादायावरोधमायातः ॥ नृपभूरुवाच नैवं, कस्याप्यनयं सहिष्येऽहम् ॥१०२॥ तत इत्यवदद्दीर्घः , शृणु देवि ! शिशोः सुतस्य वचनमिदम् ।। अनुमापयति मनस्थं, कोपं यद्धूम इव वह्निम् ॥ ३०३॥ वृद्धिं गतो हि भावी, सुख-विघ्नायावयोरसौ नियतम् ॥ तदयमुदयन्निवामय, उच्छेद्यः शिशुरपि दुरात्मा ! ॥१०४॥ देव्यूचे राज्यधरं, हन्मि कथं तनयमौरसं स्वामिन् ! ॥ पशवोऽपि प्राणानिव, निजान्यपत्यानि रक्षन्ति ॥१०५॥ भूयोऽप्यूचे दीर्घा, रिपुमेवावेहि सुतममुं सुतनो! । तत्किं मुह्यसि मयि सति, बहवस्तव भाविनस्तनयाः ॥१०६॥ तदथ प्रतिपद्योचे, चुलनी रतरागलुप्तसुतमोहा । केनोपायेनास्मि - निहते वचनीयता न स्यात् ॥१०७॥ दीर्घोऽब्रवीत्कुमारो , विवाह्यतां तस्य वासगृहदम्भात् ॥ गूढप्रवेशनिर्गम - मेकं लाक्षागृहं कार्यम् ॥ १०८॥ तत्र च सवधूकेऽस्मिन्, सुप्ते रात्रौ हुताशनो ज्वाल्यः ।। इति तौ विमृश्य जतुगृह-मारम्भयतामसारमती ॥१०९॥ वृत्वा ब्रह्मसुतार्थ, पुष्पवतीं पुष्पचुलनृपतिसुताम् ॥ सामग्री च समग्रां, विवाहसक्तामकारयताम् ॥११०॥ जतुगृहरचनादथ धनु-सचिवो दुष्टं तयोर्विदन् भावम् ॥ ब्रह्मभुवो हितमिच्छु-र्गत्वाख्यद्दीर्घनृपमेवम् ॥१११॥ अस्ति सुतो मे वरधनु -नामा युष्मनिदेशकरणचणः ॥ तदहं जरी चिकीर्षे, परलोकहितं क्वचिद्गत्वा ॥११२॥ कुर्यात्कमप्यनर्थं, गतः परत्रायमिति धृताशङ्कः॥ दीर्घः कृतावहित्थ- स्तमित्यवोचत्ततो दम्भात् ॥११३॥ त्वामन्तरा हि राज्यं, न भाति नभ इव विना निशानाथम् ॥ तदलं परत्र गमनैः, कुरु धर्ममिहैव दानाद्यम् ॥११४॥ गङ्गातटेऽथ कृत्वा, सद्बुद्धिः सत्रमण्डपं मंत्री ॥ दीनादीनां दानं, ददौ यथाकाममन्नादेः ॥११५॥ प्रत्ययितनरैर्दानो-पकारमानैर्वशीकृतैः सचिवः ॥
UTR-2
॥१४५॥
Page #148
--------------------------------------------------------------------------
________________
अध्य.१३
उत्तराध्ययनसूत्रम् ॥१४६ ॥
द्विक्रोशां च सुरङ्गा - मचीखनज्जतुगृहं यावत् ॥११६॥ वार्तां तां च छन्नं, न्यवेदयत् पुष्पचूलभूपतये ॥ सोऽपि ततो दासेरी, प्रैषीद्दुहितुः पदे रुचिराम् ॥११७॥ भूषणभृतेति सुपरि-च्छदेति तां नृपसुतां जनो मेने ॥ उत्तेजिता मणियुता, कनकमिवाभाति रीतिरपि ॥११८॥ गणिकाप्रेमेव मनो-बाह्यं कृत्वा महोत्सवं चुलनी ॥ तामथ पुरे प्रविष्टां, व्यवाहयद्ब्रह्मदत्तेन ॥११९॥ लोकं विसृज्य तनयं, प्रैषीदथ सस्नुषं जतुगृहे सा ॥ सोऽपि वधु-वरधनुयुग, विसृष्टतन्त्रो ययौ तस्मिन् ॥ १२०॥ तस्य च गतेऽर्द्धरात्रे, वार्ताभिः सचिवसुनुरचिताभिः। तत्राज्वलयज्ज्वलनं, जतुवेश्मनि निजनरैश्चलनी ॥ १२१ ॥ दीर्घ-चूलन्योरपयश, इव धूमो व्यानशेऽथ भूवलयम् ॥ तत्स्पर्द्धयेव परित- स्तत्सदनं व्यापदनलोऽपि ॥१२२॥ सम्भ्रान्तोऽथ कुमारः, किमेतदिति मन्त्रिनन्दनमपृच्छत् ॥ सोऽप्यब्रवीदिदं खलु, चुलनीदुश्चेष्टितं निखिलम् ॥१२३॥ सत्रं यावत्पित्रा, तदिह सुरङ्गा कृतास्ति पातुं त्वाम् ॥ तद्वारमितः प्रविश, प्रकाश्य पाणिप्रहारेण ॥१२४ ॥छन्नमुदन्तममुं मम, पिता न्यवेदयदतस्तव श्वसुरः ॥ प्रैषीद्दासीमेनां तत् प्रतिबन्धं विमुंचास्याः ॥१२५॥ तेनेत्युक्तो नृपभू-भूपुटमास्फोट्य पाणिघातेन ।। सुहृदा समं सुरंगां, विवेश योगीव भूविवरम् ॥ १२६॥ प्राप्तौ च सुरंगान्ते, तुरगावारुह्य मन्त्रिणा दत्तौ ॥ तौ जग्मतुः कुमारी, पंचाशद्योजनानि द्राक् ॥१२७।। तत्र च विहाय वाहौ, गुरुमार्गातिक्रमश्रमेण मृतौ ॥ क्रोष्टकसंज्ञमगातां, ग्रामं तौ पादचारेण ॥१२८॥ स्माहाथ भूपभूरिति, मां पीडयतः सखे ! क्षुधोदन्ये ॥ क्षणमिह तिष्ठ स्वामि - नित्यूचे तं च सचिवसुतः ॥१२९॥ किंचिच्च विचार्य दिवाकीर्ति ग्रामात्ततः समाकार्य ॥ तौ वपनमकारयतां, चूडामात्रं त्वधारयताम् ॥१३०॥ सन्ध्याभ्राणीव रवि- श्वेतरुची धातुरक्तवस
UTR-2
॥१४६॥
१- पित्तलम्
Page #149
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
।। १४७ ।।
नानि ॥ परिधाय न्यक्षिपता, स्वकण्ठयोर्ब्रह्मसूत्रं तौ ॥ १३१ ॥ वरधनुरथ भूपभुवः, श्रीवत्सालङ्कृतं हृदयपट्टम् । चतुरङ्गलपट्टेन, प्यधादहो ! रिपुभयं प्रबलम् ॥१३२॥ वेषान्तरमिति कृत्वा, ग्रामान्तस्तौ गतौ द्विजः कश्चित् ॥ भोजनकृते न्यमन्त्रय - दभोजयच्चातिगौरवतः ॥ १३३ ॥ अथ मूर्ध्नि ब्रह्मभुवो ऽक्षतान् क्षिपन्ती द्विजप्रिया प्रमदात् ॥ सितवसनयुगं कन्यां चोपानिन्येऽप्सरः कल्पाम् ॥१३४॥ ऊचेऽथ वरधनुः किं, ददास्यमूमस्य निष्कलस्य बटोः ॥ नह्यति नह्यतिरुचिरां, हारलतां कोऽपि करभगले ! ॥ १३५ ॥ तत इत्यवदद्विप्रो 'बन्धुमती' संज्ञका मम सुतासौ ॥ अस्याश्च वरश्चक्री, भावीत्युक्तं निमित्तज्ञैः ॥१३६ ॥ पट्टाच्छादितहृदयो, भुं यस्तव गृहे समित्रस्तम् । जानीया दुहितुर्वर मिति तैरेव च मम प्रोक्तम् ॥ १३७ ॥ योग्याय सुविद्यामिव ददे तदेनां कनी - महममुष्मै । प्राणप्रियां सुतां खलु यच्छामि यथातथा न सखे! ॥१३८॥ तामथ परिणीय कनीं नृपभूः स्थित्वा च तत्र तां रजनीम् ।। सद्भावं भार्यायै प्रोच्य समित्रोऽचलत्प्रातः ॥ १३९ ॥ दूरग्रामं च गतौ शुश्रुवतुस्ताविदं जनश्रुत्या ॥ सर्वेऽध्वानो रुद्धा, दीर्घेण ब्रह्मदत्तकृते ॥१४०॥ प्राणत्राणकृते तौ गच्छन्तावुत्पथेन तच्छ्रुत्वा ।। प्रापतुरटवीमेकां, तत्र च नृपभूरभूत्तृषितः ॥ १४१ ॥ तमथ वटा मुक्त्वा, द्रुतं गतो वरधनुः कृते पयसः ॥ उपलक्ष्य दीर्घपुरुषैः सायं रुरुधे च जगृहे च ॥ १४२ ॥ सोऽथ पलायनसंज्ञां ब्रह्मभुवो व्यधित हन्यमानस्तैः ॥ तूर्णं ततः कुमारो, ननाश पारद इवाज्ञातः ॥ १४३ ॥ वेगाद्वजंश्च पतितः, कान्तारे धूर्त्तचित्त इव गहने ॥ विरसफलानि स बुभुजे, दुरवस्थायां हि किमभक्ष्यम् ॥ १४४॥ भ्राम्यंश्चैकं तापस-महनि तृतीये ददर्श नृपतिसुतः । प्रवहणमिवाब्धिपतित स्तं च प्राप्याधिकं मुमुदे ॥ १३५ ॥ कुत्रास्ति भदन्ताना-माश्रम इति तं वदन्तमथ स मुनिः ॥
UTR-2
अध्य. १३
॥ १४७ ॥
Page #150
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ।। १४८ ।।
नीत्वा श्रममुपकुलपति, निन्ये व्रतलिप्सुमिव सद्यः ॥ १४६ ॥ तं च प्रणतं प्रणयादित्यलपत्कुलपतिः कृपाजलधिः ॥ कस्त्वं किमिहायासी-र्वायोरपि दुर्गमे गहने ? ॥ १४७ ॥ नृपभूस्ततः स्ववृत्तं, स्माह यथावृत्तमखिलमपि तस्मै ॥ तच्च श्रुत्वा कुलपतिरित्यवदत्प्रमदगद्गदगीः॥ १४८ ॥ ब्रह्मनृपस्य भ्राता, लघुरहमस्मि त्वदीयतातस्य ॥ तत्प्राप्तोऽसि स्वगृहं तिष्ठ सुखं वत्स ! मा भैषीः ॥ १४९ ॥ तेनेति बाढमुदितो, मुदितस्तत्राश्रमे कुमारोऽस्थात् ॥ आगाच्च जलदकालः काल इव निदाघदाहस्य ॥ १५० ॥ तमथ पितृव्यः प्रेम्णा, सविशेषमपाठयत्कलाः सकलाः । पात्रे दत्ता श्रीरिव, विद्या हि स्यादनन्तफला ॥ १५१ ॥ जातेऽथ शरत्काले, कन्दादिकृते वनं ययुर्मुनयः । ब्रह्मसुतोऽपि समं तैर्ययौ निषिद्धोऽपि कुलपतिना ॥ १५२ ॥ तत्र च फलकुसुमभरैनमितानमितान् स भूरुहः पश्यन् । वनगजमेकमपश्य द्युवराजमिवाद्रिराजस्य ॥ १५३ ॥ तस्यानुपदमयासी न्निवार्यमाणोऽपि तापसैर्नृपभूः ॥ तेनाहूतः सद्यो, ववले व्यालोपि रोषान्धः ॥ १५४ ॥ तटिनीपुरमिव द्रुतमायान्तं तं च वञ्चयितुं मनसा ॥ प्रक्षिप्तमुत्तरीयं, क्रीडारसिकेन भूपभुवा ॥ १५५ ॥ तत्तु करेण गृहीत्वा प्राक्षिपदन्तर्नभः क्रुधा कुम्भी ॥ निपतच्च ततो नृपभू- स्तदाददे वञ्चितद्विरदः । १५६ ॥ क्रीडाभिरिति क्रीडति, तस्मिन् करिणा समं कृताटोपः ॥ जलधाराभिर्जलदः, शरैरिवोपाद्रवत्तमिभम् ॥ १५७॥ तस्मिंस्ततः प्रणष्टे, द्विपे कुमारोऽपि जातदिग्मोहः ॥ भ्राम्यन्नितस्ततः शैल-निम्नगामुत्ततारैकाम् ॥ १५८ ॥ तस्याश्च तटे नगरं पुराणमुद्वसमुदीक्ष्य पतितगृहम् ॥ तत्र प्रविशन्नकं, वंशकुडंगं ददर्श घनम् ॥१५९॥ तत्पार्श्वे फलकासी, दृष्ट्वा शस्त्रप्रियोऽगृहीनृपभूः ॥ तं वंशकुडंगं चा सिनाच्छिनत्तत्परीक्षायै ॥ १६० ॥ तस्माद्विनिर्गतमथ, स्फुरदधरपुटं स्फुटं समीक्ष्य शिरः ॥ सम्भ्रान्त
UTR-2
अध्य. १३
॥ १४८ ॥
Page #151
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ।। १४९ ।।
ब्रह्मसुतः सम्यगवालोकयद्यावत् ॥१६१ ॥ उद्बद्धांघ्रेर्धूमं पिबतः कस्यापि तावदतिपीनम् ॥ दृष्ट्वा कबन्धमुच्चै-रवापदनुतापसन्तापम् ॥ १६२॥ निर्मन्तुरपि हतोऽयं, हा ! विद्यासाधको मया कश्चित् ॥ तन्मां क्रीडारसिकं, धिगिति निनिन्दायमात्मानम् ॥१६३॥ पुरतो गच्छंश्चैकं प्रासादं सप्तभूमिकमपश्यत् ॥ अतिनन्दनेन परितः परीतमुद्यानवलयेन ॥१६४॥ साक्षाद्दिवीव तस्मि - | नारूढो निर्जरीमिव सुरूपाम् ॥ कुवलयदलविपुलाक्षी-मद्राक्षीत्कन्यकामेकाम् ॥१६५॥ सोऽथ शुभे ! कासि त्वं, तिष्ठसि वा कथमिहेत्यपृच्छत्ताम् ? ॥ धृतसाध्वसा ततः सा ऽप्यदोऽवदद्गद्गदैर्वचनैः ॥ १६६ ॥ वृत्तान्तोऽस्ति महान्मे, तद्वद कोऽसि त्वमिह किमायासीः ? ॥ इति तद्गिरा स मुदितो, वचनेनायोजयद्वदनम् ॥१६७॥ पाञ्चालपतेर्ब्रह्म-प्रभोः सुतो ब्रह्मदत्तनामाहम् ॥ इति सोऽवादीद्यावमुदिता सा तावदुत्तस्थौ ॥ १६८ ॥ नयनाञ्जलितो गलितैः सा प्रमदा प्रमदबाष्पसलिलभरैः ॥ रचयन्ती पाद्यमिव, न्यपतच्च तदङ्घ्रिनलिनयुगे ।। १६९॥ अत्राणयात्र मयका, दिष्ट्या शरणं शरण्य ! लब्धस्त्वम् ॥ इति च वदन्ती रुदन्ती, सुदती साश्वासी भूपभुवा ॥ १७० ॥ पृष्टा च का त्वमिति सा प्रोचेऽहं पुष्पचूलभूजानेः ॥ त्वन्मातुलस्य तनया, तुभ्यं दत्तास्मि पुष्पवती ॥ १७१ ॥ परिणयदिनोत्सुकां रम- माणामारामदीर्घिकापुलिने ॥ हृत्वाऽन्येद्युर्विद्या धराधमो मामिहानैषीत् ! ॥ १७२ ॥ कालमियन्तं बन्धुजन - विरहदावाग्नितप्तगात्राहम् ।। त्वद्दृष्ट्या मृतवृष्ट्या, क्लिन्ना निर्वापिताद्य विभो ! ॥ १७३ ॥ क्व गतोऽस्ति स मे रिपुरिति, पृष्टा सा नृपसुतेन पुनरवदत् ॥ तेन किल पठितसिद्धा ऽर्पितास्ति मे शाङ्करी विद्या ॥ १७४॥ सा हि स्मृता विधत्ते, परिच्छदीभूय कृत्यमखिलमपि ॥ विनयत्युपद्रवं मे पृष्टा चाख्याति तद्द्वार्त्ताम् ॥ १७५ ॥ तां पृष्ट्वेदं वच्मीत्युक्त्वा स्मृता च तां पुनः
UTR-2
अध्य. १३
॥ १४९ ॥
Page #152
--------------------------------------------------------------------------
________________
अध्य.१३
उत्तराध्ययनसूत्रम् ।।१५०॥
साख्यत् ॥ येनाहतास्मि नाट्यो - न्मत्तः स हि खेचरो नाम्ना ॥ १७६॥ मम तेजोऽसहमानो, मुक्त्वा विद्याकृतेऽत्र धामनि माम् ॥ विद्या साधयितुमगा - द्वंशकुडंगे स्वयं गहने ॥१७७।। तस्योर्ध्वपदो धूम, पिबतो विद्याद्य सेत्स्यति स्वामिन् ! ॥ विद्या - बलोजितबलः, परिणेष्यति मा ततः स कुधीः ॥१७८॥ अथ तद्वधव्यतिकरे, तेनोक्ते साधु कृतमिति ब्रुवती ॥ मुमुदे भृशं कनी सा, प्रियलाभादप्रियोच्छेदात् ॥१७९॥ अथ तामुदुह्य कन्यां, गान्धर्वविवाहरचनया नृपभूः ॥ रमयन् विविधैः सुरतै - स्तां क्षणदां क्षणमिवाक्षपयत् ॥१८०॥ प्रातश्च खेचरीणां, ध्वनिमवनिधवाङ्गजोऽम्बरे श्रुत्वा ॥ वियति भवति कस्यायं, ध्वनिरिति पप्रच्छ पुष्पवतीम् ! ॥१८१॥ सा प्रोचे प्रिय! नाट्यो-न्मत्ताह्वत्वद्रिपोरिमे जामी ॥ भ्रातुः कृते विवाहो - पस्करमादाय सकलमपि ॥१८२॥ 'खण्डा' 'विशाखिका' ऽऽख्ये, खेचरकन्ये मुधा समायातः ॥ कार्य ध्यातमितरथा, दैवेन ह्यन्यथा घटितम्! ॥१८३॥ (युग्मम् ) तत्तावदपसर त्वं, यावत्सङ्कीर्त्य तव गुणान् प्रगुणान् ॥ जानाम्यनयोर्भावं , त्वयि रागविरागयोः स्वामिन् ! ॥१८४॥ रागे चलयिष्यामि, ध्वजमरुणं वीक्ष्य तं त्वमागच्छेः ॥ रागाभावे तु सितं, तञ्च प्रेक्ष्यान्यतो गच्छेः ॥१८५॥ अभयोऽपि ततो नृपभू - स्तस्थौ गत्वान्यतस्तदनुवृत्त्या ॥ अथ पुष्पवती श्वेतं, चलयामास क्षणात् केतुम् ॥१८६॥ तं च प्रेक्ष्य कुमारः, शनैः शनैः प्रस्थितोऽन्यतो गन्तुम् ॥ उल्लंघ्य वनं दुर्गम- मेकमविन्दत सर: सायम् ॥ १८७॥ तत्र स्नात्वा सलिलं, निपीय पीयूषसरसमथ सरसः ॥ निर्गत्य ब्रह्मसुत - स्तटमुत्तरपश्चिमं भेजे ॥ १८८॥ तत्र च कन्यां काञ्चि -त्समीक्ष्य जलदेवतामिवाध्यक्षाम् ॥ सफलं जन्म ममाभू -दद्येति नृपाङ्गजो दध्यौ ॥१८९॥ तद्दर्शनामृतरसं, पायं पायं व्यपायविकलं सः ॥ ग्रीष्मे पयः पिबन्मरु- पान्थ इव * विघ्नहितम् ।
UTR-2
॥१५०॥
Page #153
--------------------------------------------------------------------------
________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥१५१ ॥
प्राप नो तृप्तिम् ॥१९०।। सापि च तं पश्यन्ती, कटाक्षविक्षेपदक्षचक्षुाम् ॥ दास्या समं च किञ्चि- द्वदन्त्यगादन्यतः कन्या ॥१९१॥ तन्मार्गदत्तदृष्टिः, प्रास्थित यावत्ततोऽन्यतो नृपभूः ॥ सा दास्याऽऽगात्तावत्, पटयुगताम्बुलकुसुमधरा ॥१९२ ॥ तच्च प्रदाय तस्मै, जगौ त्वया या सरस्तटे दृष्टा ॥ निजचित्तमिव तयेदं, प्रेषितमस्ति प्रभो ! तुभ्यम् ।। १९३॥ प्रोक्त च तया यदसौ, सुभगः पितृमन्त्रिमन्दिरे नेयः ॥ स हि वेत्ति सकलमुचितं, तत्रागच्छ प्रभो ! तत्त्वम् ॥१९४॥ सोऽथागमत्सह तया, सदनं सचिवस्य नागदत्तस्य ॥ अभ्युत्तस्थौ सोऽपि , तमतिथिं चिरमिलितमिष्टमिव ॥१९५॥ प्रहितोऽस्ति वो गृहेऽसौ, सुभगः श्रीकान्तया नृपतिपुत्र्या ॥ प्रोच्येति ययौ दासी, भेजे सचिवोऽपि तं प्रभुवत् ॥१९६॥ दोषात्यये च निन्ये, राजकु ले धीसखः कुमारं तम् ।। भूपोऽपि तमर्यादिभि - रुपतस्थे तरणिमिव बालम् ॥१९७॥ आतिथ्यमिदं क्रियते, तवातिथेरिति वदन्नथ क्षमापः ॥ तस्मै ददौ सुतां ता - मुदुवाह मुदा कुमारोऽपि ॥१९८॥ अज्ञातकुलस्यैकाकिनोऽपि दत्तासि मे कथं पित्रा ? ॥ इत्यन्यदा रहसि तां, रमयन् पप्रच्छ नृपतिसुतः ॥ १९९॥ सावादीज्जनको मे, वसन्तपुरराजशबरसेनसुतः ॥ उन्मीलितः स्वराज्या-द्गोत्रिभिरागादिमां पल्लीम् ॥२००॥ भिल्लान् विधाय वशगानवत्यान् सबलवाहनस्तिष्ठन् ॥ ग्रामादिलुण्टनैः स्वं पुष्णाति परिच्छदं तातः ॥ २०१॥ तनयचतुष्कस्योपरि, पितुरिह वसतः सुतास्म्यहं जाता ॥ देव्यां श्रीमत्यां सुर-वल्लीव सुमेरुवसुधायाम् ॥ २०२ ॥ मां प्राप्तयौवनां चावदत् पिता मम नृपा द्विषो निखिलाः, ॥ तदिहस्था वीक्ष्य वरं, निवेदये, मनोऽभीष्टम् ॥२०३॥ पश्याम्यखिलान् पान्थांस्ततोऽन्वहमिह स्थिता सरस्तीरे ॥ त्वां च प्रापं सुरतरु-मिव दुष्प्रापं प्रचुरपुण्यैः ।। २०४ ॥ इति किंचिदनापृच्छ्या-ऽपितास्म्यहं
UTR-2
॥१५॥
Page #154
--------------------------------------------------------------------------
________________
अध्य. १३
उत्तराध्य
Is तुभ्यमीश! तातेन ॥ उदितस्तयेति मुदित - श्चिक्रीड तया समं नृपभूः ॥२०५॥ पल्लीशः सोऽन्येधु - ग्रामं हन्तुं जगाम सैन्ययुतः ॥ यनसूत्रम्
तेन सह भूपभूरपि गत्वाब्जसरस्तटे तस्थौ ॥२०६॥ ग्रामेऽथ लुण्ट्यमाने, पपात वरधनुरुपेत्य तत्क्रमयोः ॥ आलम्ब्य च तत्कण्ठं, ।। १५२ ॥
| विमुक्तकण्ठं रुरोदोच्चैः ॥२०७॥ ब्रह्मात्मजेन वचनै - रमृतद्रवसोदरैरथाश्वास्य ॥ पृष्टो वरधनुरूचे, स्ववृत्तमिति गद्गदैर्वचनैः
॥२०८॥ मुक्त्वा तदा वटाध - स्त्वामम्भोऽर्थं गतोऽहमब्जसरः ॥ किञ्चिदपश्यं तज्जल- मब्जदलपुटेन जगृहे च ॥ २०९॥ वलितश्च दीर्घपुरुषै - रुदायुधैर्हतहतेति जल्पद्भिः ॥ सन्नद्धै रुद्धोऽहं, हंसः काकैरिव कठोरैः ॥२१०॥ क्व? ब्रह्मदत्त इति तैः पृष्टश्चाब्रवमहं न वेद्यीति ॥ गाढमथ ताडितस्तै -रखदं व्याघ्रण जग्ध इति ॥२११॥ दर्शय तं देशमथे -त्युक्तो भ्राम्यन्नितस्ततो दम्भात् ॥ त्वदर्शनपथमेत्य, व्यधां पलायनकृते संज्ञाम् ॥२१२॥ स्वमुखे तु परिव्राजक- दत्तां गुटिकां ततोऽक्षिपं क्षिप्रम् ॥ तस्याः प्रभावतो | गत - चेष्टस्त्यक्तोऽस्मि मृत इति तैः ॥२१३॥ तेषु च गतेषु दूर, कृष्ट्वा गुटिकां मुखात्त्वदर्थमटन् ॥ ग्रामं कमपि गतोऽहं, कञ्चिदपश्यं परिवाजम् ॥ २१४॥ सोऽप्यवददवनतं मां, वसुभागाह्वोऽस्मि तव पितुर्मित्रम् ॥ तब्रूहि वरधनो ! त्वं, कुत्रास्ति ब्रह्मदत्त इति? ॥२१५॥ विश्वस्य तस्य विश्वां, त्वद्वार्ता सूनृतामहमवोचम् ॥ दुःखाविष्टः स ततः पाश्चात्यं वृत्तमित्यूचे ॥२१६॥ दग्धे तदा जतुगृहे, दीर्घः प्रातर्ददर्श शबमेकम् ॥ तां सत्रगां सुरंगां तुरगपदानि च पुरस्तस्याः ॥२१७॥ नष्टौ युवां धनुधिया, ज्ञात्वा कुपितस्ततो नृपस्तस्मै । प्रत्याशमश्ववारान्, युष्मन्निग्रहकृते प्रेषीत् ।।२१८॥ नष्टो धनुरिति जननी, तवाक्षिपत् श्वपचपाटके दीर्घः ॥ सा नरकावास इवा -नुभवति तत्र व्यथाः प्रचुराः ॥२१९॥ तेनोदन्तेनोच्चै- र्दुःखोपरिजायमानदुःखार्तः।।
UTR-2
॥१५२॥
Page #155
--------------------------------------------------------------------------
________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥ १५३॥
उद्धर्तुं व्यसनाब्धे - जननी काम्पील्यनगरमगाम् ॥२२०॥ तत्र च कपालिरूपं, कृत्वाटं वपचपाटके कपटात् ॥ तस्मिन् 'भ्रमणनिदानं, लोकैः पृष्टोऽब्रवं चैवम् ॥ २२१॥ मातङ्गीविद्यायाः, साधनविधिरयमिति भ्रमाम्यत्र ॥ तत्रैवमटन् मैत्रीमकार्षमारक्षकेण समम् ॥२२२॥ कुरुतेऽभिवादनमसौ, कौण्डीन्यमहाव्रतीसुतसुहत्ते ॥ इत्यन्यदा च जननी- मवोचमारक्षकमुखेन ॥२२३॥ गुटिकायुतमपरदिने, मातुरदां मातुलिङ्गमभिगम्य ॥ तद्भक्षणेन साजनि, निश्चेष्टा काष्ठमूर्तिरिव ॥२२४॥ आरक्षकोऽथ राज्ञे, गत्वोचे तां मृतां ततो नृपतिः ॥ तां संस्कर्तुं प्रैषी - भृत्यानथ तेऽपि तत्रागुः ॥२२५।। सम्प्रति संस्कारेऽस्याः कृते महान् भाव्युपद्रवो भवताम् ॥ नृपतेश्चेत्युदितास्ते, मया यथागतमगुर्भीताः ॥ २२६।। आरक्षकं चावोचं, साहाय्यं चेत्करोषि तदमुष्याः ॥ कुणपेन लक्षणवता, मन्त्रमहं साधयाम्येकम् ॥२२७॥ तत्प्रतिपन्नेन समं, तेन समादाय सायमहमम्बाम् ॥ गत्वा दूरं पितृवनं, गुरुमण्डलमालिखं दम्भात् ॥२२८॥ शून्यं विधिं च कञ्चि- द्विधाय दातुं बलि पुरसुरीणाम् ॥ प्रेष्यारक्षं गुटिका - मार्पयमपरामहं मातुः ॥२२९॥ अथ तत्क्षणमुत्तस्था- वपगतनिद्रेव लब्धसंज्ञा सा ।। आवेद्य स्वं तामथ , निवार्य रुदती ततोऽचलयम् ॥२३०॥ मुक्त्वा कच्छग्रामे, तातसुहृद्देवशर्मवेश्मनि ताम् ॥ त्वामन्वेष्टुं भ्राम्य - निहागमं भाग्ययोगेन ॥ २३१॥ नाथ ! त्वयानुभूतं, सुखदुःखं यत्ततः परं वद तत् ॥ तेनेत्युक्तोऽवादी- त्स्वं वृत्तं ब्रह्मदत्तोऽपि ॥२३२॥ अथ कोऽप्यागत्योचे, ताविति भो ! दीर्घनृपभटा ग्रामे ॥ युष्मत्समरूपाकित - पटयुगदर्शनपरा ब्रुवते ॥२३३॥ ईदृशरूपौ पुरुषौ, दृष्टौ क्वापीति तन्निशम्याहम् ॥ कथयामि वामथ युवां, यथोचितं तनुतमात्महितम् ॥२३४॥ प्रोच्येति गते तस्मि -त्रश्यन्तौ तावरण्यमध्येन ॥ क्रमयोगात्कौशाम्बी - पुर्या उपवनमुपागाताम् ॥२३५॥
UTR-2
॥१५॥
Page #156
--------------------------------------------------------------------------
________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥१५४॥
तत्र पणीकृतलक्षं,चरणायुधरणमपश्यतां धनिनोः ॥ बुद्धिल-सागरदत्ता-भिधयोः शस्त्रायितांघ्रिनखम् ॥२३६॥ तत्र च बुद्धिलचरणा-युधेन जात्येऽपि कुक्कुटेऽन्यस्मिन् ॥ भग्ने वरधनुरसम- असाऽसहः सागरमदोऽवक् ।।२३७॥ जात्योऽपि कुक्कुटोऽसौ, भग्नस्तव सागरामुनापि कथम् ॥ तद्यदि वदसि तदाहं, विलोकयाम्येनमादाय ॥२३८॥ सोऽथ जगौ भ्रातस्त्वं, प्रसद्य मयि सद्य एव पश्येदम् ॥ मानापगमो व्यथयति, मामन्तर्न तु धनापगमः ॥२३९॥ वरधनुरथ तं पश्यन्, ददर्श तच्चरणयोरयःसुचीः॥ तच्च ज्ञात्वा तं द्रुत- मुपेत्य बुद्धिल इति प्रोचे ॥२४०॥ यदि मे छद्म न वक्ष्यसि, लक्षार्ट्स तव तदा प्रदास्येऽहम् ॥ तेनेत्युक्तो वरधनु - रूचे तद्रहसि भूपभुवे ॥२४१॥ सूची: कृष्ट्वा स तत - स्तं सागरकुक्कुटेन योजितवान् ॥ अपसूचिकं च बुद्धिल-कुक्कुट| मपरो द्रुतमजैषीत् ।।२४२॥ तुष्टोऽथ सागरस्ता- वारोप्य रथं स्वमन्दिरमनैषीत् ।। स्वगृह इव तद्गृहे ता - वपि तस्थतुरुचितलीलाभिः
॥२४३॥ बुद्धिलदासस्तत्रा-गतोऽन्यदा वरधनुं रहसि नीत्वा ॥ प्रोचे यत्तव कथितं, लक्षार्द्ध बुद्धिलेन तदा ॥२४४॥ तत्स्थाने तेनासौ, हारः प्रहितोऽस्ति चतुरयुतमूल्यः।। इत्थं प्रोच्य करण्डं, दत्वा च यथागतः सोऽगात् ॥ २४५॥ वरधनुरपि गत्वा तन्निवेद्य निखिलं करण्डमुद्घाट्य ॥ मौक्तिकरुचिजितसितरुचि-मदीदृशन्नृपभुवे हारम् ॥ २४६॥ हारे हारिणि तत्राव -लम्बितं लेखमात्मनामाङ्कम् ॥ दृष्ट्वा नृपभूः सुहृदं, कस्यासौ लेख इत्यूचे ॥२४७॥ को वेत्ति कस्यचिदयं, त्वत्समनाम्नस्तवाथवा भावी ॥ तेनेत्युदितो गाढो-त्सुकोऽभवद्भपभूर्जातुम् ॥२४८॥ लेखं तमथो वरधनु-रुन्मुद्रयति स्म नलिनमिव तरणिः ॥ आर्यामेकां लिखितां, तत्र ददऑलिपंक्तिमिव ॥२४९॥ सा चेयं - "यद्यपि जनोऽर्थ्यतेऽसौ, जनेन संयोगजनितयत्नेन ॥ त्वामेव हि रत्नवती, तथापि मानयि
UTR-2
॥१५४॥
* ४००००
Page #157
--------------------------------------------------------------------------
________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥१५५ ॥
तुमभिलषति ॥२५०॥" भावार्थोऽस्या ज्ञेयः, कथमित्यथ वरधनौ विचिन्तयति ॥ आगाद्वितीयदिवसे, तदन्तिके तापसी वत्सा ॥२५१॥ आशीर्वादं दत्वा, क्षिप्त्वा कुसुमाक्षतानि शिरसि तयोः ॥ नीत्वान्यतो वरधनु, निगद्य किञ्चिच्च सापि ययौ ॥२५२।। आगतमथ सुहृदं नृप- पुत्रः प्रोचेऽनया किमुक्तमिति ? सोऽवददयाचदेषा, प्रतिलेखं प्राच्यलेखस्य ॥२५३॥ श्रीब्रह्मदत्तनामाङ्कितो ह्यसौ लेख इति वद त्वं मे ॥ को ब्रह्मदत्त इति ? ॥ सा मयानुयुक्तेति पुनरवदत् ॥ २५४॥ अत्रास्ति श्रेष्ठिसुता, 'रत्नवती' नाम सुन्दरीरत्नम् ॥ आबाल्यादपि सा म - य्यनुरक्ता प्राप तारुण्यम् ॥२५५॥ तामन्यदा विमनसं, दृष्ट्वा गत्वा तदन्तिकमवोचम् ।। का ते चिन्तेति ? ततो, मामिति तत्परिजनोऽवादीत् ॥२५६॥ अस्या हि दौर्मनस्ये, भूयांसि दिनानि जज्ञिरे मात: ! ॥ अथ पृष्टा सा पुनरपि, जगौ न किमपि हिया यावत् ॥२५७॥ अवदत्तावत्तस्याः, प्रियङ्गुलतिकाह्वया प्रियवयस्या ।। न हि वक्ति लज्जयासौ, तदहं ते वच्मि मातरिदम् ॥२५८॥ भ्रातुर्बुद्धिलनाम्नः, सागरनाम्नश्च ताम्रचूडरणे ॥ इयमुपवनं गतैकं, कुमारमुत्तमतममपश्यत् ॥२५९॥ ईदृश्यभूत्ततोऽसौ, तयेति कथिते स्मरव्यथाक्रान्ताम् ॥ निश्चित्य तामवोचं, सद्भावं ब्रूहि मे वत्से ! ॥ २६०॥ अथ कथमपि साप्यूचे, मातर्यस्ते प्रियङ्गुलतयोक्तः ॥ स ब्रह्मदत्तनामा, पतिर्न चेन्मे तदा मरणम् ॥२६१॥ घटयिष्ये तव कामित-मित्यधृति मा कृथा वृथा वत्से ! ॥ तत इति मयोदिता सा, किंचित्स्वस्थेति पुनरूचे ॥२६२॥ भाव्यखिलमीहितं मे, मातर्देव्या इव प्रसादात्ते ॥ तस्मै ज्ञापयितुमद- स्तदपि क्रियतामुपायोऽयम् ॥२६३॥ क्षिप्त्वा करण्डमध्ये, हारममुं युतमनेन लेखेन । प्रेषय तस्मै क्षिप्रं, व्यपदेशाबुद्धिलभ्रातुः ॥२६४॥ तन्नाम्ना दत्तममुं, लास्यति सद्योऽन्यथा तु लाति न वा ॥ लक्षार्द्ध ह्युक्तमभू
UTR-2
॥१५५॥
Page #158
--------------------------------------------------------------------------
________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥ १५६ ॥
त्तत्सुहृदो बुद्धिलेन तदा ॥२६५॥ प्रोच्येति तया दत्तौ, हारो लेखश्च दासहस्तेन ॥ प्रहितौ मया गतेऽहनि, तत्प्रतिलेखोऽर्प्यतामधुना ॥२६६॥ उक्त्वेति तस्थुषी सा, त्वत्प्रतिलेखे मयार्पिते तु ययौ ॥ आर्या तत्र च लेखे, लिखितासौ वर्त्तते स्वामिन् ! ॥२६७॥ "उचितत्वाद्वरधनुना, सुहृदोक्तो ब्रह्मदत्तनामापि ॥ स्त्रीरत्नं रत्नवती- मिच्छति गोविन्द इव कमलाम् ॥२६८॥" श्रुत्वेति मित्रवचनं, तां द्रष्टुं भूपभूरभूदुत्कः ॥ अन्येधुराकुलतया, वरधनुरागत्य तं प्रोचे ॥ २६९॥ अत्रावामन्वेष्टुं प्रहिता दीर्पण सन्ति निजपुरुषाः ॥ तद्वचनादत्रत्यो, नृपोऽपि तदुपक्रमं कुरुते ॥२७०॥ तत्किं कर्तव्यमिति, ध्यायन्तौ सागरोऽनिगृहे तौ ॥ क्षिप्त्वा जुगोप निधिव- द्रविरप्यपराम्बुधावविशत् ॥२७१॥ निशि निर्गममिच्छन्तौ तौ, रथमारोप्य कमपि पन्थानम् ।। नीत्वा सागरदत्तो, ववले बाष्पायिताक्षियुगः ॥२७२॥ तावथ पुरः प्रयान्तौ, शस्त्राढ्यरथस्थितां वने वनिताम् ॥ ददृशतुरियती वेला, किं वां लग्नेति जल्पन्तीम् ॥२७३॥ कावावां वेत्सि च कथ-मिति पृष्टा नृपभुवाथ सावादीत् ॥ धनसञ्चयाधिनाथः,श्रेष्ठ्यासीदिह धनप्रवरः ॥२७४॥ अष्टानां तनयाना- मुपर्यहं तस्य नन्दनाभूवम् ॥ प्राप्ता च यौवनं ना - पश्यं कंचिद्वरं प्रवरम् ॥२७५॥ स्थितमस्मिन्नुद्याने, तदर्थमाराधयं ततो यक्षम् ॥ सोऽपि हि भक्त्या तुष्टः प्रत्यक्षीभूय मामवदत् ॥२७६॥ श्रीब्रह्मदत्तनामा, चक्री वत्से ! तव प्रियो भावी ॥ स्वामिन् ! स कथं ज्ञेयो, मयेति पृष्टः स पुनरूचे ॥२७७ ॥ यः सागर-बुद्धिलयो-रायास्यति कुक्कुटाहवे ससखा ॥ विश्वमनोहररूपः, श्रीवत्सी स त्वया ज्ञेयः ॥२७८।। स च मच्चैत्यसमीपे, प्रथमं ते मेलितोऽन्यतो गच्छन् ॥ इति यक्षगिरा स्वामिन्! जानामि त्वामहं नियतम् ॥२७९॥ तन्मे मन इव रथममु-मारोह विभो ! द्रुतं तयेत्युदितः।। रथमारुह्य समित्रः क्व ? गम्यमिति तां * भूमिगृहे।
UTR-2
॥१५६॥
Page #159
--------------------------------------------------------------------------
________________
उत्तराध्य
अध्य. १३
यनसूत्रम्
॥१५७॥
जगौ नृपभूः ॥२८०॥ साख्यन्मगधपुरे मम, वसति पितृव्यो धनावहः श्रेष्ठी ॥ स हि कर्ता प्रतिपत्तिं प्रचुरां तत्तत्र गम्यमितः ॥२८१॥ इति रत्नवतीवचना- त्सुहृदा सूतेन वाहयन् वाहान् ॥ प्रापाटवीं कुमारः, कौशांबीविषयमुलंघ्य ॥२८२॥ तत्र सुकण्टककण्टक - संज्ञौ चौराधिपौ प्रबलसैन्यौ ॥ तं रुरुधतुरपहर्तुं, रथादि विशिखान् प्रवर्षन्तौ ॥२८३॥ चापमुपादाय ततः, प्रहरन्नृपनन्दनः शरप्रकरैः ॥ तद्दस्युबलमनाशय- दहर्पतिस्तम इवांशुभरैः ॥२८४॥ तमथोचे सचिवसुतः, श्रान्तोऽसि रणेन तद्रथेऽत्रैव ॥ स्वपिहि क्षणं ततः सो-ऽप्यशेत सह रत्नवत्या द्राग् ॥२८५॥ प्रातश्चैकां तटिनी, प्राप्यातिष्ठन् हयाः स्वयं श्रान्ताः। तत्र च जागरितो ना - पश्यत्सुहृदं रथे नृपभूः ॥२८६॥ भावी जलाय गत इति, मुहुर्मुहुरशब्दयत्कुमारस्तम् ॥ न त्वाप प्रतिवचनं, सद्वचनं नीचवदन इव ॥२८७॥ व्याकुलचेताः स ततो, बाष्पजलाविलदृशा दिशः पश्यन् ॥ रक्ताभ्यक्तमपश्यत्, स्यन्दनवदनं नरेन्द्रसुतः ॥२८८॥ हाऽहं हत इति जल्पं -स्ततोऽपतन्मूर्च्छितो रथोत्सङ्गे ॥ अधिगतसंज्ञस्तु भृशं, व्यलपत्कुत्रासि ? मित्रेति ॥२८९॥ तमथाख्यद्रत्नवती, प्रभो! सखा ज्ञायते न हि मृतस्ते ॥ तत्तस्येदममंगल- मुचितं वाचापि नो कर्तुम् ॥२९०।। नूनमपृष्ट्वापि त्वां, त्वत्कार्यायैव स हि गतो भावी ॥ स्थाने गतास्तु शुद्धिं, तस्य नरैः कारयिष्यामः ॥२९१॥ परमिह गहने स्थातुं नो | चिरमुचितं यमोपवनकल्पे ॥ इति तगिरा स तुरगा-नुदन्नगादग्रतो व्यग्रः ॥२९२।। उल्लंघ्यानुल्लंघ्या-मपि तामटवीं ययौ स मगधानाम् ॥ सीमग्रामं भवतति-मतीत्य मोक्षं मुमुक्षुरिव ॥२९३॥ तत्र ग्रामसभास्थो, ग्रामपतिः प्रेक्ष्य तं रुचिररूपम् ॥ पुरुषोत्तमोऽयमिति हृदि, निरणैषीद्गृहमनैषीच्च ॥ २९४॥ किं भृशमुद्विग्न इवा- सीत्यथ तेनोदितो वदन्नृपभूः ॥ चौरैः सह कुर्वन् रण
UTR-2
॥१५७॥
Page #160
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ।। १५८ ।।
,
मगाद्वयस्यो मम क्वापि ॥ २९५ ॥ तस्य प्रवृत्तिमधुना, नेष्ये तन्मा कृथास्त्वमुद्वेगम् ॥ तत इत्युक्त्वा ग्रामाधिपोऽटवीं तामवजगाहे ॥२९६॥ आगत्य चैवमवद- द्वनेऽत्र मनुजो न कोऽप्यदर्शि मया । किन्तु शरोऽसौ प्राप्तः, प्रहारपतितो रुधिरलिप्तः ॥ २९७॥ श्रुत्वेति तो वरधनु वश्यमिति सोऽभवद्भृशं व्यग्रः ॥ रविरप्यस्ताद्रिमगा तद्दुःखं द्रष्टुमसह इव ॥ २९८ ॥ यामे तुर्येऽथ निशो, ग्रामे न्यपतन् मलिम्लुचो बहवः ॥ तांस्तु बभञ्ज कुमार - स्ततोऽस्तुवंस्तं जनास्तुष्टाः ॥ २९९ ॥ पृष्ट्वाथ ग्रामपतिं चलितः सोऽगात्क्रमेण राजगृहम् ॥ रत्नवतीं च व्यमुच त्तद्बाह्ये तापसावसथे ॥ ३००॥ प्रविशन् स्वयं च नगरं सदनगवाक्षस्थिते युवत्यौ द्वे ॥ नृपभूर्ददर्श ते अपि सविलासमवोचतामिति तम् ॥३०१ ॥ सस्नेहमपि जनं य त्यक्त्वागास्त्वं तदा तदुचितं किम् ? ॥ सोऽवादीत्कः स्निग्धो, जनः कदा चात्यजमहं तम् ? ॥ ३०२ ॥ एहि प्रसीद विष्टर माश्रय विश्राम्य विश्रमदृशा नः ॥ ताभ्यामथेति कथिते, विवेश तद्वेश्मनि कुमारः ॥ ३०३ ॥ स्नानाशनादिभक्तिं कृत्वा ते तस्य विष्टरगतस्य ॥ इत्यूचतुरिह भरते, वैताढ्याह्वोऽस्ति रजतगिरिः ॥३०४॥ शिवमन्दिरमिति नगरं विराजते तस्य दक्षिणश्रेण्याम् । तत्र नृपो ज्वलनशिखः, प्रिया च विद्युच्छिखा तस्य ॥ ३०५ ॥ नाट्योन्मत्ताख्यसुता नुजे तयोः प्राणवल्लभे पुत्र्यौ | अभवाव वल्लभावां, क्रमेण खण्डा- विशाखाख्ये ॥ ३०६ ॥ निजसौधकुट्टिमस्थः, सुहृदाग्निशिखेन सह सृजन् गोष्ठीम् ॥ व्रजतोऽष्टापदममरान् ददर्श गगनेऽन्यदा तातः ॥३०७॥ नन्तुं ततो जिनेन्द्रा नावां सुहृदं च तं सहादाय ॥ अष्टापदमौलिस्थं, चैत्यं सोऽगाद्विमानस्थः ॥ ३०८ ॥ तत्र च जैनीः प्रतिमाः, प्रदक्षिणीकृत्य विधिवदभ्यर्च्य || अनमाम मानवर्णा न्विता वयं मणिमयाः सर्वाः ॥ ३०९ ॥ चैत्याच्च निर्गता द्वौ चा★ हे वल्लभ ! आवामिति छेदः ।
-
UTR-2
अध्य. १३
॥ १५८ ॥
Page #161
--------------------------------------------------------------------------
________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥१५९॥
रणशमिनावशोकवृक्षाधः ॥ प्रेक्ष्य प्रणम्य शुश्रुम, धर्मकथां वयममृतकल्पाम् ।। ३१०॥ अथ पप्रच्छाग्निशिखः, को ह्यनयोः कन्ययो: प्रियो भावी? ॥ तौ ज्ञानिनाववदतां, सोदरममुयोर्हनिष्यति यः ॥३११॥ वचनेन तेन तातो, म्लानिमगाद्दुर्दिनेन दिनकरवत् ॥ आवामपि वैराग्या- त्तदैवमवदाव निजतातम् ॥३१२॥ अधुनैव देशनायां, संसारासारता श्रुताऽस्माभिः ॥ तद्विषयसुखेनैवं-विधेन पर्याप्तमस्माकम् ॥ ३१३ ॥ प्रावर्तावहि सोदर-रक्षायै तत्प्रभृत्यनिशमावाम् ॥ स त्वन्यदक्षताटन्, पुष्पवतीं पुष्पचूलसुताम् ॥३१४॥ तद्रूपापहृतमना-स्ततः स द्रुतमपाहरज्जडधी:! ॥ तत्तेजोऽसहमानो, विद्या साधयितुमगमच्च ॥ ३१५॥ यदभूत्ततः परं त-यूयं स्वयमेव वित्थ सकलमपि ॥ अथ चाख्यत्पुष्पवती, तदावयोः सोदरविनाशम् ॥३१६॥ शोकं च व्यपनिन्ये -ऽस्माकं धर्मानुगैर्मधुरवाक्यैः । शङ्करविद्याशक्त्या, ज्ञात्वास्मद्वृत्तमिति च जगौ ॥३१७॥ स्मरतं युवां गुरुगिरा- मिहागतं ब्रह्मदत्तमथ वृणुतम् ॥ न हि जातुचिद्विघटते , ज्ञानिवचो ग्रावरेखेव ॥ ३१८॥ तत्स्वीकृतमावाभ्यां , राभस्यवशेन सा तु सितकेतुम् ॥ प्राचीलत्ततस्त्वं, हित्वा वामन्यतो गतवान् ॥ ३१९॥ नागास्त्वं तत्र यदा, त्वामन्वेष्टुं ततो वनानी ताम् ॥ चिरमावां सम्भ्रान्ते, भ्रान्ते न तु ललित ! मिलितस्त्वम् ॥ ३२०॥ तदनु दनुजमनुजामर-जेता नेता क्व नौ समेतासौ ? ॥ इति | पृष्टाया विद्या- देव्या वचनादिहैवावाम् ॥३२१॥ अस्मत्पुण्याकृष्टो, दृष्टस्त्वं चेह तद्विभो ! त्वरितम् ॥ पुष्पवतीवत्पाणौ- कृत्य | कृतार्थय जनुरिदं नौ ॥३२२॥ गान्धर्वविवाहेनो- दुवाह ते अपि ततो नरेन्द्रसुतः ॥ रममाणः सह ताभ्यां, निमेषमिव तां निशां व्यनयत् ॥३२३॥ स्थातव्यं पुष्पवती - पार्वे तावत्सुखं खलु युवाभ्याम् ॥ यावन्मे राज्याप्तिः स्यादित्युक्त्वा च ते व्यसृजत् * - वचनात् इह ऐव आवामितिच्छेदः ।
UTR-2
॥१५९॥
Page #162
--------------------------------------------------------------------------
________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥ १६० ॥
॥३२४॥ ओमित्युक्त्वा गतयो- स्तयोस्तिरोऽभूदगृहादि तत्सकलम् ॥ रत्नवतीमन्वेष्टुं, ततो ययावाश्रमे नृपभूः ॥३२५॥ तत्र च तां सोऽपश्यन्, नरमेकमपृच्छदिति शुभाकारम् ॥ दृष्टा कापीह वशा, त्वया गतदिनेऽद्य वा प्रवरा ॥३२६।। तेन च किं रत्नवती- कान्तस्त्वमसीति सादरं पृष्टः ? ॥ ओमित्यवदन्नृपभू- स्ततः स मुदितः पुनः प्रोचे ॥३२७॥ सा रुदती ह्यो दृष्टा, का त्वं किं रोदिषीति च मयोक्ता ॥ किंचिदवोचत याव-त्तावद् ज्ञाता स्वदौहित्री ॥ ३२८।। गत्वा च पितृव्याया-ऽज्ञपयं तस्यास्ततः स मुदितस्ताम् ॥ स्वगृहेऽनयद्भवन्तं, त्वविन्दतान्वेषयन्नपि नो ॥३२९॥ अद्यापि शुभमभूद्य- मिलितस्त्वमिति ब्रुवन्नृपसुतं सः । निन्ये धनावहगृहे, तं दृष्ट्वा सोऽपि बहु मुमुदे ॥३३०।। सोत्सवमथ रत्नवती, व्यवाहयन्नृपभुवा सह श्रेष्ठी ॥ मृतकार्यमन्यदा वरधनोरुपाक्रस्त नृपतिसुतः ॥३३१॥ लुब्धत्वावेशवशा- द्विजेषु कुर्वत्सु भोजनमतृप्त्या । तत्रागत्यावादी- द्वरधनुरिति विप्रवेषधरः ॥३३२॥ यदि मे दत्तादनमिह, साक्षाद्वरधनोर्भवति नूनम् ॥ तच्चाकर्ण्य कुमार- स्ससम्भ्रममगाबहिर्गेहात् ॥३३३॥ तं च प्रविलोक्य दृढं, परिरभ्यानन्दबाष्पजलपुरैः ॥ स्नपयन्निव गेहान्तर्नीत्वा पप्रच्छ तद्वार्ताम् ॥३३४॥ सोऽवादीत्त्वयि सुप्ते, दुमान्तरस्थेन तस्करेण तदा ॥ इषुणा हतोऽहमपतं, भुव्यन्तरधां च गहनान्तः ॥३३५॥ तेषु च गतेषु दस्युषु, मीन इवान्तर्जलं तरुगणान्तः॥ अन्तर्हितश्चरन्नह- मापं ग्रामं तमतिकृच्छ्रात् ॥३३६॥ ग्रामपतेस्त्वद्वार्ता, ज्ञात्वा चागममिह क्रमेणाहम् ॥ त्वां चाद्राक्षं दिष्ट्या, सुस्वजमिवेहितार्थकरम् ॥३३७॥ अथ भूपसुतोऽवादी-द्विना पुरुषकारमेवमावाभ्याम् ॥ स्थातव्यं नश्यद्भ्यां, दस्युभ्यामिव कियत्कालम्! ॥३३८॥ प्रादुर्भवनोपाय, चिन्तयतोरिति तयोरथान्येयुः ॥ रममाणाखिललोको, मधूत्सवः प्रववृते त्वत्र ॥३३९॥ द्विरदस्तदा च
UTR-2
॥१६०॥
Page #163
--------------------------------------------------------------------------
________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥१६१ ॥
| मत्तः, स्तम्भं भक्त्वापशृंखलो नृपतेः। निरगात्रासितलोक-स्ततश्च भूयानभूत्तुमुलः ॥३४०॥ व्यालस्तु कनी काचि-नितम्बवक्षोजभारमन्दगतिम् ॥ भयवेपमानवपुषं, वीक्ष्याधावत्ग्रहीतुं द्राक् ॥३४१॥ धीरः कोऽपि धरायां, यद्यस्ति तदा स पातु मां सद्यः॥ मृत्योरिव मत्तेभा- दस्मादिति सा तदाक्रन्दत् ॥ ३४२॥ तस्यां शरणार्थिन्यां, विलपत्यामितकि दीनवदनायाम् ॥ हाहारवं प्रकुर्वति, जने च तत्परिजने च भृशम् ॥३४३॥ तत्क्षणमेत्य ब्रह्मा-ङ्गजो गजं हक्कयाम्बभूवोच्चैः ॥ सोऽपि ततस्तां त्यक्त्वा, दधाव तं प्रति रुषा परुषः ॥३४४।। ( युग्मम् ) प्राक्षिपदथोत्तरीयं, तस्य पुरो ब्रह्मनन्दनस्तं च ॥ तत्र प्रहर्तुमवनत- मारोहद्दन्तदत्तांघ्रिः ॥३४५॥ वचनक्रमाङ्कुशकरै-स्तं च वशीकृत्य हस्तिनं सद्यः ॥ स्तम्भे बबन्ध नीत्वा, कृतस्तुतिर्जयजयेति जनैः ॥३४६॥ तत्रागतोऽथ भूपस्तं तत्तेजश्च वीक्ष्य विस्मितवान् ॥ कोऽयं छन्नो रविरुत हरिः शशी वेति चापृच्छत् ? ॥ ३४७॥ तवृत्तेऽथ पितृव्येन, रत्नवत्या निवेदिते नृपतिः ॥ सोत्सवमष्टौ स्वसुता, दिक्श्रिय इव दत्तांस्तस्मै ॥३४८॥ ता: परिणीय मुहूर्ते, शुभेऽवसत्तत्र भूपभूः ससुखम् ॥ तं चान्येधुर्जरती, समेत्य काचिज्जगादैवम् ॥३४९॥ वैश्रवणाख्यो वैश्रवण- देश्यसंपत्पुरेऽत्र वसतीभ्यः ॥ वाढेः श्रीरिव तस्य, श्रीमत्याह्वास्ति वरतनया ॥३५०॥ सा च यदा मत्तेभा-दमोचि भवता तदा समीक्ष्य त्वाम् ॥ चित्रलिखितेव दृष- दुल्लिखितेवाभूत्त्वदेकमनाः ॥३५१॥ कथमपि च परिजनेना- नीता सद्मनि न भोजनं कुरुते ॥ न स्वपिति न च क्रीडति, पश्यति च त्वन्मयं विश्वम् ।।३५२।। पृष्टाथ मया धात्र्या सा, प्रोचे येन रक्षितास्मि गजात् ॥ स हि नरमणिर्न रमणो, यदि मे स्यात्स्यात्तदा मरणम् ॥३५३॥ तद् ज्ञापितोऽथ तस्या - स्तातो मां प्राहिणोत्तव समीपे । तदरक्षि यथा व्याला - द्रक्ष तथा मन्मथादपि ताम् ।।३५४॥
UTR-2
॥१६॥
Page #164
--------------------------------------------------------------------------
________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥१६२ ॥
तामपि ततः कुमारः, परिणिन्ये सोत्सवं शुभे दिवसे । वरधनुरपि नन्दाह्वा -मुदुवाह सुबुद्धिसचिवसुताम् ॥ ३५५॥ अथ तौ तत्र वसन्तौ, प्रथितौ पृथ्व्यां गुणैरजायेताम् ॥ वाणारसी प्रति ततः, सोत्साहौ प्रास्थिषातां च ॥३५६॥ आयान्तं ब्रह्मसुतं, ज्ञात्वा वाणारसीपतिः कटकः ॥ अभ्येत्य सोत्सवं निज- गृहमनयद्ब्रह्मराजमिव ॥३४७॥ निजतनयां कटकवतीं, चतुरंगं कटकमुत्कटं कटकः॥ प्रकटं विसङ्कटमदा- द्धनं च तस्मै मुदितचेताः ॥३५८॥ अथ तदूताहूता, धनुसचिवकणेरुदत्तचम्पेशाः॥ भगदत्तचन्द्रसिंहा - दयः परेऽप्याययुर्भूपाः ॥३५९॥ वरधनुमथ सेनान्यं, कृत्वा तैः परिवृतो नृपैर्नृपभूः ॥ प्रति काम्पील्यं प्रास्थित, दीर्घ दीर्घायने नेतुम् ॥३६०॥ दीर्घप्रहितो दूतो- ऽथागत्यैवं जगाद कटकादीन् । दीर्पण समं सख्यं, त्यक्तुं युक्तं न वः प्राच्यम् ॥३६१॥ ते प्रोचुर्ब्रह्मयुताः, पञ्च वयस्याः पुरा भवाम वयम् । ब्रह्मणि तु गते स्वर्ग, मैत्री प्राग् दीर्घ एव जहौ ॥३६२॥ यद्ब्रह्मणोऽपि पुत्रे, राज्ये च त्रातुमर्पिते दीर्घः॥ चिरमकृत कर्म वैशस- मनुतिष्ठति नान्त्यजोऽपि हि तत् ॥३६३॥ तद्गत्वा वद दीर्घ , यदेत्यसौ ब्रह्मसूस्ततो नश्य ॥ यदि वा भवाजिसज्जो, दूतं प्रोच्येति ते व्यसृजन् ॥३६४॥ काम्पील्यमथ प्राप्य, बह्मसुतोऽनवरतप्रयाणैाग् ॥ सैन्यै रुरोध परितो, नीरैर्नीरधिरिव द्वीपम् ।। ३६५।। चुलनी तदा विरक्ता, गत्वा पूर्णाप्रवर्तिनीपार्श्वे ।। प्रव्रज्य तपस्तीव्र, विधाय निर्वृत्तिमगाक्रमतः ॥३६६॥ दीर्घोऽपि पुरान्निरगा-द्रणार्थमवलम्ब्य साहसं सबलः ॥ युद्धं ततः प्रववृते, परस्परं सैन्ययोरुभयोः ॥३६७॥ भग्नमथ ब्रह्मभुवो, बलेन निजबलमुदीक्ष्य दीर्घनृपः ॥ योद्ध
UTR-2
॥१६२॥
Page #165
--------------------------------------------------------------------------
________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥१६३ ॥
मढौकत गर्जन्, घन इव मुञ्चन् शरासारम् ॥३६८॥ तं च प्रेक्ष्य कुमारः, स्वयमागाद् योद्धमुद्धषितरोषः,॥ प्राज्यबलौ तौ च मिथः, शस्त्रैः शस्त्राणि चिच्छिदतुः ॥३६९॥ ब्रह्मसुतस्याथ करे, तदाययौ चक्रमर्क इव नभसः। स तु तेन द्रुमफलमिव, दीर्घशिरोऽपातयत् पृथिव्याम् ॥३७०॥ जयतादयमुदयदयो, द्वादशचक्रीति वादिनो देवाः ॥ तच्छिरसि कुसुमवृष्टि, तदा व्यधुः समवसरण इव ॥३७१॥ पौरैः पितेव दृष्टो, बन्दिभिरिव जयजयेति वचनपरैः ॥ सोत्सवमविशच्चक्री, काम्पील्यं त्रिदिवमिव मघवा ॥३७२।। नृपतिः प्राक् परिणीताः, पत्नीरानाययत्ततः सकलाः। भरतक्षेत्रं चाखिल- मसाधयत्प्रबलबलकलितः ॥३७३॥ तस्याथ नृपैनिखिलै- रभिषेको द्वादशाब्दिको विदधे ॥ सोथऽगमयत्समयं, समयमिव समं सुखं विलसन् ॥३७४॥ अन्येधुर्वरगीतं, सगीतं तस्य पश्यतः शस्यम् ॥ कृतचित्रपुष्पचित्रं, ददौ कुसुमकन्दुकं दासी ॥३७५।। तं प्रेक्ष्य चक्रवर्ती, दृष्टः क्वापीदृशो मयेत्यन्तः । कुर्वन्नूहं स्मृत्वा, पञ्चभवान्मूर्च्छितो न्यपतत् ॥३७६॥ सम्भ्रान्तैः सामन्तैः, सिक्तश्चन्दनरसैर्गतः स्वास्थ्यम्॥ सौधर्मेऽद्राक्षमहं, कन्दुकमीदृशमिति स बुबुधे ॥३७७॥ पूर्वभवभ्राता मे, कथमथ मिलतीति चिन्तयंश्चक्री ॥ तं ज्ञातुम, चक्रे, सार्धश्लोकं शुचिश्लोकः ॥३७८॥ तथाहि- (“दासा दसण्णे आसी, मिआ कालिंजरे नगे ॥ हंसा मयंगतीराए, सोवागा कासिभूमीए ॥१॥ देवा य देवलोगंमि, आसि अम्हे महिड्ढिआ") पूरयति यो द्वितीयं, श्लोकं तस्मै ददामि राज्यार्धम् ॥ इति चाघोषयदुच्चैः, पुरेऽखिले प्रतिदिनं चक्री ॥३७९॥ राज्यार्थी चक्रे तं, श्लोकं साधु जनोऽखिलः कण्ठे ॥ पूरितवान्न तु कश्चिद्विपश्चिदपि पश्चिमश्लोकम् ॥३८०॥ इतश्च- जीवश्चित्रस्य महेभ्य - नन्दनः पुरिमतालसंज्ञपुरे । जातिस्मरणाद् ज्ञात्वा, पूर्वभवा*- पूरितवान्न तु कश्चि - पश्चिममर्द्ध द्वितीयस्य ॥ इति “घ" संज्ञकपुस्तके ॥
UTR-2
॥१६३॥
Page #166
--------------------------------------------------------------------------
________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥१६४॥
नाददे दीक्षाम् ॥३८१॥ ग्रामादिषु विहरंस्तं, सदलं श्लोकं निशम्य लोकेभ्यः ॥ प्राग्भवबान्धवबोधन - कृते स काम्पील्यनगरमगात् ॥३८२॥ तत्रारामे नाम्ना, मनोरमे संस्थितः स साधुस्तम् ॥ सार्धं श्लोकं श्रुत्वा- रघट्टिकमुखाददोऽवादीत् ॥३८३॥ ("इमा णो छट्ठिआ जाई, अन्नमन्नेण जा विणा") इति तेनोक्तमधीत्या - रघट्टिकः श्लोकपश्चिमदलं तत् ॥ गत्वा सपदि नृपाग्रे, श्लोकयुगलमब्रवीत् सकलम् ॥३८४॥ स्नेहावेशान्मूर्छा, गतस्ततोऽपतदिलापतिरिलायाम् ॥ तच्च प्रेक्ष्यानभ्रा- ऽशनिपातमिवाक्षुभत् परिषत् ॥३८५॥ जातेदृशी दशा नः, प्रभोगिरास्येति परिजनः कोपात् । तमथारघट्टिकं मुहु- रताडयत् पार्णािघाताद्यैः ॥३८६॥ न मयायमपूरि ततो, मा मां ताडयत यूयमिति विलपन् ॥ मुक्तः स कोऽस्य पूरक, इति पृष्टश्चाब्रवीदेवम् ॥३८७॥ श्लोकमपूरयदपरं, मुनिर्मदरघट्टनिकटभूमिष्ठः ॥ प्रापमहं तु व्यसनं, मुधैव राज्यस्पृहाग्रहिलः! ॥ ३८८॥ अथ चन्दनरसपूरैः, संसिक्तो व्यक्तचेतनश्चक्री ॥ विज्ञातमुनिवरागम - वृत्तः स्नेहोल्लसच्चित्तः ॥३८९॥ दत्वारघट्टिकाय, द्युम्नं बहु पारितोषिकं सद्यः ॥ सान्त:पुरपरिवारः, सोत्कण्ठोऽगात्तदुद्यानम् ॥३९० ॥(युग्मम् ) नत्वा च तं मुनिवरं, बाष्यजलाप्लुतविलोचनश्चक्री ॥ निषसाद यथास्थानं, प्राच्यस्नेहाधिकस्नेहः।। ३९१ ।। ( इह ब्रह्मदत्तहिण्डिमाश्रित्य श्रीउत्तराध्ययनसूत्रनिर्युक्तौ कश्चिद्विशेषो दृश्यते, स तु तत एवावधार्यः) इत्युक्तश्चित्र-सम्भूतयोः पूर्ववृत्तान्ताख्यानेन सूत्रत्रयभावार्थः ॥३॥तयोमिथः सम्भाषणं तु सूत्रसिद्धमित्यधुनाऽवशिष्यमाणं तदेव व्याख्यायते । तत्र चक्री यदूचे तत्सम्बन्धपुरस्सरं सूत्रचतुष्केनाहमूलम्- चक्कवट्टी महिड्डीओ, बंभदत्तो महायसो । भायरं बहुमाणेणं, इमं वयणमब्बवी ॥४॥
UTR-2
॥१६४॥
Page #167
--------------------------------------------------------------------------
________________
अध्य. १३
उत्तराध्ययनसूत्रम्
॥१६५॥
व्याख्या - चक्रवर्ती महर्द्धिको ब्रह्मदत्तो महायशाः भ्रातरं पूर्वभवसोदरं बहुमानेन मानसप्रतिबन्धेन इदं वक्ष्यमाणवचनमब्रवीत् ॥ ४ ॥ तद्यथामूलम्-आसिमो भायरा दोवि, अन्नमन्नवसाणुगा । अन्नमन्नमणुरत्ता, अन्नमन्नहिएसिणो ॥५॥
व्याख्या - आसिमोत्ति अभूवाऽऽवां भ्रातरौ द्वावपि अन्योन्यं- परस्परं 'वसाणुगत्ति' वशं-आयत्ततां अनुगच्छतो यौ तावन्योन्यवशानुगौ अन्योन्यवशवर्तिनावित्यर्थः । तथा अन्योन्यमनुरक्तौ अतीव स्नेहवन्तौ, अन्योन्यं हितेषिणौ मिथः शुभाभिलाषिणौ, पुनः पुनरन्योन्यग्रहणं तु तुल्यचित्ततातिशयख्यापनार्थ, मकारश्च सर्वत्रालाक्षणिकः ॥५॥ केषु पुनर्भवेष्वित्थमावामभूवेत्याह - मूलम् - दासा दसपणे आसि, मिआ कालिंजरे नगे । हंसा मयंगतौराए, सोवागा कासिभूमिए ॥६॥ - व्याख्या - दासौ दशाणे दशार्णदेशे 'आसित्ति' अभूव, मृगौ कालिंजरे कालिंजरनाम्नि नगे, हंसौ मृतगङ्गातीरे, श्वपाको चाण्डालौ काशीभूमौ काश्यभिधाने जनपदे ॥६॥ मूलम्-देवा य देवलोगम्मि, आसि अम्हे महिड्ढिया । इमा णो छट्टिआ जाई, अन्नमन्नेण जा विणा ॥७॥
व्याख्या- देवौ च देवलोके सौधर्मा। 'आसित्ति' अभूव 'अम्हेत्ति' आवां महर्द्धिकौ, न र किल्बिषकत्वादिना निन्द्यौ 'इमा णोत्ति' इयं आवयोः षष्टिका जातिः, कीदृशी येत्याह - 'अन्नमन्नेणत्ति' अन्योन्येन पारण या विना, या परस्परसाहित्यरहितेति भाव इति सूत्रचतुष्कार्थः ॥ ७ ॥ इत्थं चक्रिणोक्ते मुनिराहमूलम् - कम्मा निआणप्पगडा, तुमे राय! विचितिआ । तेसिं फलविवागेणं, विध्यओगमवागया ॥८॥
व्याख्या-कर्माणि ज्ञानावरणादीनि निदानं साभिष्वङ्गप्रार्थनारूपं तेन प्रकृतानि प्रकर्षेण रचितानि निदानप्रकृतानि निदा
UTR-2
॥१६५॥
Page #168
--------------------------------------------------------------------------
________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥१६६ ॥
नवशनिबद्धानीत्यर्थः, त्वया राजन्! विचिन्तितानि, तद्धेतुभूतार्तध्यानाभिध्यानेन कर्माण्यपि तथोच्यन्ते । तेषां कर्मणां फलं चासौ विपाकश्च शुभाशुभजनकत्वलक्षणः फलविपाकस्तेन विप्रयोगं विरहमुपागतौ प्राप्तौ । अयं भावः - यत्तदा त्वया मन्निषिद्धेनापि निदानं कृतं, तस्य फलमेतद्यदावयोस्तथाभूतयोरपि वियोग इति सूत्रार्थः ॥ ८ ॥ एवं वियोगहेतुं ज्ञात्वा चक्री पुनः प्रश्नयितुमाहमूलम् - सच्चसोअप्पगडा, कम्मा मए पुरा कडा । ते अज्ज परिभुंजामो, किं नु चित्तोवि से तहा ॥९॥
व्याख्या- सत्यं मृषाभाषात्यागरूपं, शौचं च निर्मायमनुष्ठानं, ताभ्यां प्रकटानि ख्यातानि सत्यशौचप्रकटानि कर्माणि प्रक्रमाच्छुभानुष्ठानानि मया पुराकृतानि यानीति शेषः, तान्यद्य अस्मिन्दिने शेषतद्भवकालोपलक्षणञ्चैतत् 'परिभुञ्जामोत्ति' परिभुजे तद्विपाकोपनतस्त्रीरत्नादिभोगद्वारेण वेदये यथाहमिति गम्यते, किमिति प्रश्ने, नु इति वितर्के, चित्रोऽपि चित्रनामापि? कोऽर्थो ? भवानपि 'से' इति तानि तथा परिभुंक्ते ? अपि तु न परिभुङ्क्ते, भिक्षुकत्वाद्भवतः । तथा च किं तव तानि मया सहोपार्जितानि शुभकमाििण विफलानि जातानीत्याशय इति सूत्रार्थः ॥९॥ इत्थं चक्रिणोक्ते स्वस्वरूपं मुनिराह--
मूलम् - सव्वं सुचिण्णं सफलं नराणं , कडाण कम्माण न मुक्खु अस्थि ।
अत्थेहि कामेहि अ उत्तमेहिं, आया ममं पुण्णफलोववेए ॥१०॥ व्याख्या- सर्वं सुचीर्णं शोभनमनुष्ठितं तपःप्रभृतीति गम्यते, सफलं नराणामुपलक्षणत्वात् शेषप्राणिनां च, किमिति यतः कृतेभ्योऽर्थादवश्यवेद्यतया रचितेभ्यः कर्मभ्यो न मोक्षो मुक्तिरस्ति, ददति हि तानि निजं फलमवश्यमिति भावः । प्राकृतत्वा
UTR-2
॥१६६॥
Page #169
--------------------------------------------------------------------------
________________
त्ययः, न च वात्ति ' अत्र उप
अध्य. १३
उत्तराध्ययनसूत्रम् ॥ १६७॥
तेनोपपेतो.
च्चेह विभक्तिव्यत्ययः, न च वाच्यं त्वयैवात्र व्यभिचार इत्याह-अर्थैर्द्रव्यैः कामैश्च शब्दादिभिः उत्तमैः प्रधानरुपलक्षितः सन्नात्मा "ममंति" ममापि 'पुण्णफलोववेएत्ति' अत्र 'उप' 'अप' 'इत' इतिशब्दत्रयस्थापने पृषोदरादित्वादपशब्दस्याकारलोपे 'उपपेत' इति द्रष्टव्यं, ततश्च पुण्यस्य - शुभकर्मणः फलं पुण्यफलं तेनोपपेतो-युक्तः पुण्यफलोपपेतोऽभूदिति शेषः ॥ १०॥ ततश्च
मूलम्--जाणासि संभूअ महाणुभाग, महिडिअं पुण्णफलोववेअं।
चित्तंपि जाणाहि तहेव रायं, इड्डी जुई तस्सवि अप्पभूआ॥११॥ व्याख्या-जानासि अवबुध्यसे यथा त्वमात्मानमिति शेषः, हे सम्भूत ! पूर्वभवे सम्भूताभिधानमहानुभागं बृहन्माहात्म्यं महर्धिकं चक्रवर्तिपदावाप्त्या सातिशयसम्पद्युक्तं, अत एव पुण्यफलोपपेतं चित्रमपि जानीहि, तथैव तादृशमेव हे राजन् ! किमित्येवमतआह - ऋद्धिः सम्पत्, द्युतिर्दीप्तिस्तस्यापि जन्मान्तरनाम्ना चित्राभिधानस्य ममापीति भावः, चशब्दो यस्मादर्थे , ततो यस्मात् प्रभूता बह्वी बभूवेति शेषः, गृहस्थभावे ममाप्येवंविधत्वादेवेति भावः ॥११॥यदि तवाप्येवंविधा सम्पदभूत्तदा कथं प्रव्रजितः ? इत्याह
मूलम् - महत्थरूवा वयणप्पभूआ, गाहाणुगीआ नरसंगमज्झे।
जं भिक्खुणो सीलगुणोववेआ, इहज्जयंते समणो म्हि जाओ ॥१२॥ व्याख्या - महार्थरूपा अनन्तद्रव्यपर्यायात्मकतया बह्वर्थस्वरूपा, वचनेनाप्रभूता वचनाप्रभूता स्वल्पाक्षरेत्यर्थः। कासौ ? गीयते इति गाथा, सा चेहार्थाद्धर्माभिधायिनी सूत्रपद्धतिः, अनुलोमं श्रोतुरनुकूलं गीता कथिता अनुगीता । अनेन श्रोत्रनुकूलैव देशना कार्येति ख्यापितं भवति । क्वेत्याह- नरसङ्घमध्ये, न तु कोणके प्रविश्येति भावः, यां गाथां श्रुत्वेति शेषः, ' भि
UTR-2
॥१६७॥
Page #170
--------------------------------------------------------------------------
________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥१६८॥
क्षवो मुनयः शीलं चारित्रं, गुणो ज्ञानं, ताभ्यामुपपेताः शीलगुणोपपेता इह जिनप्रवचने यतन्ते यत्नवन्तो भवन्ति, सोपस्कारत्वात्सूत्रस्य, सा मयापि श्रुता, ततः श्रमणोऽस्मि अहं जातो न तु दुःखदग्धत्वादिति भाव इति सूत्रत्रयार्थः ॥ १२ ॥ एवं मुनिनोक्ते चक्री स्वसम्पदा निमन्त्रयितुमाह
मूलम् - उच्चोदए मह कक्के अ बंभे, पवेइआ आवसहा य रम्मा ।
इमं गिहं चित्तधणप्पभूअं, पसाहि पंचालगुणोववेअं ॥ १३ ॥ व्याख्या- उच्चोदयो मधुः कर्कः चशब्दान्म ध्यो ब्रह्मा चेति पञ्च प्रधानाः प्रासादाः प्रवेदिता मम वर्द्धकिपुरःसरैरुपनीता इत्यर्थः, आवसथाश्च शेषा भवनप्रकारा रम्या रमणीयाः, एते तु यत्रैव चक्रिणे रोचते तत्र भवन्तीति वृद्धाः! किञ्च 'इदं' प्रत्यक्षं, गृहमवस्थितिप्रासादरूपं प्रभूतं बहु, चित्रं विविधमाश्चर्यकारि वा, धनमस्मिन्निति प्रभूतचित्रधनं प्राकृतत्वात्पूर्वापरनिपातः, प्रशाधि पालय उप क्ष्वेति भावः! पाञ्चालो नाम देशस्तस्मिन् गुणा इन्द्रियोपकारिणो रूपादयस्तैरुपपेतमन्वितं पाञ्चालगुणोपपेतं, अयं भाव:- पाञ्चालेषु यानि श्रेष्ठवस्तुनि तानि सर्वाण्यस्मिन् गृहे सन्ति, पाञ्चालानां तदातिसमृद्धत्वात्पाञ्चालग्रहणं, अन्यथाहि भरतेऽपि यद्विशिष्टं वस्तु तत्तदा तद्गृह एव आसीत् ॥१३॥ किञ्च -
मूलम् - नट्टेहिं गीएहि अ वाइएहिं, नारीजणाई परिवारयंतो ।
भुंजाहि भोगाई इमाई भिक्खू, मम रोअइ पव्वज्जा हु दुक्खं ॥ १४ ॥ व्याख्या-'नट्रेहिं ति' नृत्यैर्गीतैश्चस्य भिन्नक्रमत्वाद्वादित्रैश्च नारीजनान् परिवारयन् परिवारिकुर्वन् भुंक्ष्व भोगानिमान् प्रत्यक्षान् सूत्रत्वात्सर्वत्र लिङ्गव्यत्ययः, हे भिक्षो ! इह च यद्गजतुरगादीन् विहाय स्त्रीणामेवाभिधानं तत् स्त्रीलोलुपत्वात्तस्य, तासामेव चात्यन्ताक्षेपकत्वज्ञापनार्थं,
UTR-2
॥१६८॥
Page #171
--------------------------------------------------------------------------
________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥१६९ ॥
किमित्येवमत आह-मह्यं रोचते प्रतिभाति प्रव्रज्या हुरवधारणे भिन्नक्रमश्च ततो दुःखमेव, न मनागपि सुखमिति भाव इति सूत्रद्वयार्थः ॥१४॥ एवं चक्रिणोक्ते मुनिः किं व्यधादित्याहमूलम् - तं पुवनेहेण कयाणुरागं, नराहिवं कामगुणेसु गिद्धं ।
धम्मस्सिओ तस्स हिआणुपेहि, चित्तो इमं वयणमुदाहरित्था ॥१५॥ व्याख्या-तं ब्रह्मदत्तं पूर्वस्नेहेन कृतानुरागं नराधिपं कामगुणेषु विषयेषु गृद्धं, धर्माश्रितो धर्मस्थितस्तस्येति चक्रिणो हितानुप्रेक्षी हिताकांक्षी चित्रश्चित्रजीवमुनिरिदं वचनं वाक्यमुदाहृतवानिति सूत्रार्थः ॥१५॥ तदेव दर्शयतिमूलम् - सव्वं विलविअंगीअं, सव्वं नट्टै विडंबिअं । सव्वे आहरणा भारा, सव्वे कामा दुहावहा ॥१६॥
व्याख्या- सर्वं विलपितं विलपितकल्पं निरर्थकतया रुदितयोनितया च गीतं ! मत्तबालादिगीतवत् , सर्वं नृत्यं विडम्बितं | विडम्बनाप्रायं ! यक्षाविष्टपीतोन्मत्ताद्यङ्गविक्षेपवत्, सर्वाण्याभरणानि भारास्तत्त्वतो भाररूपत्वात्तेषाम् ।
तथा हि कस्यचित् श्रेष्ठि-सुतस्य श्रेष्ठिसम्पदः ॥ वर्यसौन्दर्घचातुर्या, प्रिया प्राणप्रियाभवत् ॥१॥ हे स्नुषे ! सौधमध्यात्त्वं, शिलापुत्रकमानय ॥ तामित्यूचेऽन्यदा श्वश्रूः, स्वयं कृत्यपरायणा ॥२॥ महाभारमहं मात- स्तमुद्वोढुं न हीश्वरी ॥ इति सा स्माह तच्छृत्वा, विममर्शेति तत्पतिः ॥३॥ देहरक्षापराऽलीको -त्तरमेषा ददौ शठा ॥ तत्तथा शिक्षयाम्येना, नैवं कुर्याद्यथा पुनः ॥४॥
UTR-2
॥१६९॥
Page #172
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ।। १७० ।।
ध्यात्वेति तं दृषद्गोलं, स्वर्णेनावेष्ट्य सर्वतः ॥ तत्स्वरूपमजानत्यास्तस्याः सोऽन्येद्युरार्पयत् ॥५॥ सापी तुष्टा तमादाय, विदधे कण्ठभूषणम् ॥ विमुह्यन्ति स्वरूपेण, बाह्येनैवाल्पमेधसः || ६ || ततोऽन्यदा तत्पतिस्ता मित्यप्राक्षीदयि प्रिये ! ॥ इदं भूषणमुद्वोढुं भवत्या शक्यते न वा ? ॥ ७ ॥ साऽवादीत्किमियन्मात्र-मियतोऽपि चतुर्गुणान् ॥ सुखं सुवर्णालङ्कारा - नुद्वहेऽहं प्रदत्त चेत् ! ॥ ८ ॥ स्मित्वा स्माह ततः कान्तो, यं शिलापुत्रकं तदा । न त्वमुद्वोढुमीशाभूः करेण क्षणमप्यरे ! ॥ ९ ॥ स्वर्णावृतः स एवासौ, कण्ठेन ध्रियते सुखम् ॥ स्वपुत्र इव वात्सल्या- ज्जातु नोत्तार्यत्ते हृदः ||१०|| स्वल्पस्यापि सुवर्णस्य तदहो महिमा महान् ॥ गिरिवद्गुरुरप्येष येनासीत्तूलवल्लघुः ॥ ११ ॥ तेनेत्युक्ता शठत्वं मे भर्त्रा ज्ञातमिति हिया ॥ वीक्षामास विलक्षा सा, क्षमां प्रत्युत्तराक्षमा ॥१२॥ स भाररूपोऽपि चिरं यथाऽश्मा, मोहात्तयालोठ्यत कण्ठपीठे || भूषास्तथान्या अपि भारभूता, वहन्ति लोका विगलद्विवेकाः ||१३|| इति श्रेष्ठिसुतवधूकथा ॥ तथा सर्वे कामा दुःखावहा मृगादीनामिवायतौ दुःखदायित्वान्नरकहेतु| त्वाच्चेति ॥ १६ ॥ तथा
मूलम् -बालाभिरामेसु दुहावहेसु, न तं सुहं कामगुणेसु रावं ! |
वित्तकामाण तवोधणाणं, जं भिक्खुणं सीलगुणे रयाणं ॥१७॥
व्याख्या - बालानां मूढानां अभिरामा मनोहरा बालाभिरामास्तेषु दुःखावहेषु दुःखप्रापकेषु न तत्सुखं कामंगुणेषु मनोज्ञशब्दादिषु सेव्यमानेष्वपि हे राजन् ! किं तदित्याह यत्सुखं 'विरत्तकामाणं ति' कामविरक्तानां तपोधनानां भिक्षूणां शीलगुणे रतानां स्यादिति शेष इति सूत्रद्वयार्थः ||१७|| अथ धर्मफलोपदर्शनेनोपदेष्टुमाह
--
मूलम् - नरिंद जाई अहमा नराणं, सोवागजाई दुहओ गयाणं ।
जहिं वयं सव्वजणस्स वेसा, वसीअ सोवागनिवेसणेसु ॥१८॥
UTR-2
अध्य. १३
॥ १७० ॥
Page #173
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
।। १७१ ।।
व्याख्या-हे नरेन्द्र! चक्रवर्त्तिन् ! जातिरधमा निकृष्टा नराणां मध्येऽभूदिति शेषः, श्वपाकजाति 'दुहओ त्ति' द्वयोरप्यावयोर्गतयोः अयं भावः यदाऽऽवां श्वपाकजातावुत्पन्नौ तदावयो: सर्वजनगर्हिता जातिरासीत्, कदाचित्तां प्राप्यापि अन्यत्रोषितौ स्यातामित्याह यस्यां वयमित्यावां, प्राकृतत्वाद्बहुवचनं, सर्वजनस्य द्वेष्यावप्रीतिकरौ वसीअ त्ति' अवसाव उषिताविति यावत्, श्वपाकनिवेशनेषु चाण्डालगृहेषु ॥ १८ ॥ कदाचित्तत्रापि कलाविशेषादिना अहीलनीयौ स्यातामित्याहतीसे अजाईइ उपाविआए, वुच्छा मु सोवागनिवेसणेसु । सव्वस्स लोगस्स दुर्गुछणिज्जा, इहं तु कम्माई पुरेकडाई ॥ १९ ॥
मूलम्
व्याख्या- तस्यां च जातौ श्वपचसम्बन्धिन्यां तुर्विशेषणे, ततश्च शेषजातिभ्यः कुत्सितत्वं विशिनष्टि, पापैव पापिका - कुत्सिता तस्यां वुच्छत्ति' उषितौ 'मु' इत्यावां श्वपाकनिवेशनेषु सर्वस्य लोकस्य जुगुप्सनीयौ हीलनीयौ ' इहं ति' अस्मिन् जन्मनि, तुः पुनरर्थः तत इह पुनः कर्माणि शुभानुष्ठानानि 'पुरेकडाई ति' पुराकृतानि शुभजात्यादेर्निबन्धनमिति शेषः, ततो जातप्रत्ययैः पुनरपि तदर्जनायैव यत्नः कार्यो न तु विषयाभिष्वङ्गव्याकुलैरेव स्थेयमित्याशयः ॥ १९ ॥ एतदेव दर्शयति -
मूलम् - सो दाणिसिं राय महाणुभागो, महिडिओ पुण्णफलोववेओ । चइत्तु भोगाई असासयाई, आयाणहेऊ अभिनिक्खमाहि ॥ २० ॥ व्याख्या 'स' इति यः सम्भूतमुनिः पूर्वमासीत् स त्वं ' दाणिसिं ति' इदानीं राजा महानुभागो महर्द्धिकः पुण्यफैलोपपेतश्च सन् दृष्टफलत्वेनाभिनिष्क्रामेति सम्बन्धः किं कृत्वा इत्याह त्यक्त्वा भोगानशाश्वतान्, आदीयते - गृह्यते सद्विवेकैरित्यादानश्चारित्रधर्मस्तद्धेतोरभिनिष्क्राम आभिमुख्येन प्रव्रज, न हि गृहस्थतायां सर्वचारित्रसम्भव इति सूत्रत्रयार्थः ॥ २० ॥ इत्थमकरणे को दोष: ? इत्याह-
UTR-2
अध्य. १३
॥ १७१ ॥
Page #174
--------------------------------------------------------------------------
________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥ १७२ ।।
मूलम् - इह जीवीए राय असासयंमि, धणिअंतु पुण्णाई अकुव्वमाणो।
से सोअई मच्चुमुहोवणीए, धम्मं अकाऊण परम्मि लोए ॥२१॥ व्याख्या- इह जीविते मनुष्यसम्बन्धिन्यायुषि राजन्नशाश्वते अस्थिरे 'धणिअंतु त्ति' अतिशयेनैव न तु केतुप्रान्तवच्चचलतामात्रेण, पुण्यानि शुभानुष्ठानान्यकुर्वाणः ‘से त्ति' स पुण्यानुपार्जको जन्तुः शोचति पश्चात्तापं विधत्ते, मृत्युमुखं मरणा| वसरमुपनीतस्तथाविधकर्मभिरुपढौकितो मृत्युमुखोपनीतः सन् धर्ममकृत्वा 'परम्मि त्ति' चस्य गम्यत्वात् परस्मिंश्च लोके जन्मान्तररूपे गत इति शेषः, नरकादौ हि असह्यासातवेदनार्दितः शशिनृपवत् किं मया तदैव पुण्यं न कृतमिति खिद्यत एवाधर्मकारीति सूत्रार्थः ॥ २१॥ न च मृत्युमुखोपनीतस्य परत्र वा दुःखादितस्य स्वजनादयस्त्राणाय भाविन इत्याह-- मूलम् -- जहेह सीहो व मिअंगहाय, मच्चु नरं नेइ हु अंतकाले।
न तस्स माया व पिआ व भाया, कालंमि तम्मिंसहरा भवंति ॥२२॥ व्याख्या-यथेत्यौपम्ये इहलोके सिंहो मृगारिर्वेति पूरणे मृगं हरिणं गृहीत्वा प्रक्रमात्परलोकं नयतीति सम्बन्धः, एवं मृत्युर्यमो नरं मानवं 'नेइ हु त्ति' नयत्येव, अन्तकाले आयुःक्षयावसरे, न च तस्य मृत्युना नीयमानस्य माता वा पिता वा भ्राता वा काले तस्मिन् जीवितान्तरूपे, अंशं प्रक्रमाज्जीवितस्य भागं धारयन्ति, मृत्युना नीयमानं रक्षन्तीत्यंशधरा भवन्ति, यथा हि नृपादौ स्वजनसर्वस्वं हरति स्वधनदानात्स्वजनैस्तद्रक्ष्यते, नैवं स्वजीवितांशदानेन तज्जीवितं धार्यते इति भावः ॥२२॥
UTR-2
॥१७२॥
Page #175
--------------------------------------------------------------------------
________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥ १७३ ॥
न च जीवितारक्षणेऽपि दुःखांशहारिणो भाविन इत्यपि ध्येयमित्याह -
मूलम् - न तस्स दुक्खं विभयंति नाइओ, न मित्तवग्गा न सुआ न बंधवा।
इक्को सर्य पच्चणु होइ दुक्खं, कत्तारमेवं अणुजाइ कम्मं ॥ २३॥ व्याख्या - न तस्य मृत्युना नीयमानस्य दुःख शारीरं मानसं वा विभजन्ते विभागीकुर्वन्ति जातयो दूरवर्तिनः स्वजनाः, न मित्रवर्गाः सुहृत्समूहाः, न सुताः पुत्राः, न बान्धवा निकटवर्तिनः स्वजनाः, किन्तु एकः स्वयं प्रत्यनुभवति वेदयते दुःखं, किमिति ? यतः कर्तारमेव अनुयाति कर्म ॥२३॥ इत्थमशरणभावनामुक्त्वा एकत्वभावनामाह --...
मूलम्- चिच्चा दुपयं च चउप्पयं च, खित्तं गिहंधण्ण धन्नं च सव्वं ।।
'सकम्मप्पबीओ अवसो पयाइ, परं भवं संदर पावगं वा ॥२४॥ व्याख्या- त्यक्त्वा द्विपदं च भार्यादि, चतुष्पदं च हस्त्यादि, क्षेत्रमिक्षुक्षेत्रादि, गृहं धवलगृहादि, धनं कनकादि, धान्यं च शाल्यादि सर्व, स्वकर्मैवात्मनो द्वितीयं यस्य स स्वकर्मात्मद्वितीयः, अवशोऽस्वतंत्रः प्रयाति परमन्यं भवं जन्म सुन्दरं स्वर्गादिकं, पापकं वा नरकादिकं स्वकृतकर्मानुरूपमिति भावः ॥२४॥ अथ जीवत्यक्तशरीरस्य का वार्तेत्याह -
मूलम् - तं इक्कगं तुच्छसरीरगं से, चिईगयं दहिअ उ पावगेणं ।
* भज्जा य पुत्तोवि अ नायओ वा, दायारमन्नं अणुसंकमंति ॥२५॥ ___ व्याख्या- तदिति यत्तेन त्यक्तं एककं अद्वितीयं तुच्छमसारं शरीरकं तुच्छशरीरकं से तस्य सम्बन्धि चितिगतं, चिताप्राप्तं दग्ध्वा तुः पूरणे पावकेनाग्निना, भार्या च पुत्रोऽपि च ज्ञातयश्च दातारमन्यं अनुसंक्रामन्ति उपसर्पन्ति, ते हि गृहमनेनापावनमिति तबहिनिष्काश्य, ज्वलनादिना च भस्मसात्कृत्वा, कृत्वा च लौकिककृत्यानि, आक्रन्द्य च कतिचिद्दिनानि पुनः स्वार्थ-सिद्ध्यै अन्यमनुवर्त्तन्ते, न तु तद्वार्तामपि पृच्छतीत्याशय इति सूत्रचतुष्कार्थः ॥ २५ ॥ किञ्च
UTR-2
॥१७३॥
Page #176
--------------------------------------------------------------------------
________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥१७४ ॥
मूलम्-- उवनिज्जइ जीविअमप्पमायं, वण्णं जरा हरइ नरस्स रायं ।
पंचालराया वयणं सुणाहि, मा कासि कम्माइं महालयाई ॥२६॥ व्याख्या--उपनीयते ढौक्यते प्रक्रमान्मृत्यवे तथाविधकर्मभिर्जीवितं अप्रमादं प्रमादं विनैव अवीचिमरणेनेतिभावः, वर्ण सुस्निग्धच्छायात्मकं जरा हरति नरस्य हे राजन् ! यतश्चैवमतः पाञ्चालराज! वचनं शृणु, किन्तदित्याह-मा कार्षीः कर्माणि महालयानि अतिशयमहान्ति पञ्चेन्द्रियवधादीनीति सूत्रार्थः ॥२६॥ एवं मुनिनोक्ते चक्री स्माह --
मूलम्--अहंपि जाणामि जहेह साहू जं मे तुमं साहसि वक्कमेअं।
भोगा इमे संगकरा हवंति, जे दुच्चया अज्जो! अम्हारिसेहिं ॥२७॥ व्याख्या--अहमपि जानामि तथेति शेषः, यथा येन प्रकारेण इह जगति साधो! यन्मे मम त्वं साधयसि कथयसि | वाक्यमुपदेशरूपं वचः एतदनन्तरोक्तं, तत्किं भोगान्न जहासीत्याह-भोगा इमे प्रत्यक्षाः सङ्गकराः प्रतिबन्धोत्पादका भवन्ति, ये दुस्त्यजा आर्य! अस्मादृशैर्गुरुकर्मभिरिति सूत्रार्थः ।। २७ ॥ किञ्च -- मूलम् -- हत्थिणपुरंमि चित्ता, दठूणं नरवई महिड्डिअं । कामभोगेसु गिद्धेणं, निआणमसुहं कडं ॥२८॥ तस्स मे अप्पडिकंतस्स, इमं एआरिसं फलं । जाणमाणे वि जं धम्मं, कामभोगेसु मुच्छिओ ॥२९॥ (जुयलं)
UTR-2
॥१७४॥
Page #177
--------------------------------------------------------------------------
________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥ १७५ ॥
व्याख्या-हस्तिनापुरे हे चित्र! प्राग्भवे चित्राह्वमुने! दृष्ट्वा नरपतिं सनत्कुमारसंज्ञं तुर्यचक्रिणं महद्धिक कामभोगेषु गृद्धेन मयेति शेषः, निदानमशुभमशुभानुबन्धि कृतम् ॥२८॥ 'तस्स त्ति' सुव्यत्ययात्तस्मात् निदानान्मे ममाप्रतिक्रान्तस्याऽप्रतिनिवृत्तस्य तदा हि त्वया बहूक्तेपि न मन्मनसो निवृत्तिरभूदितीदं एतादृशं अनन्तरवक्ष्यमाणरूपं फलं कार्यं जातमिति शेषः, यत्कीदृशमित्याह - जानन्नपि यदहं धर्मं श्रुतधर्मादिकं कामभोगेषु मूर्छितो गृद्धः तदेतत्कामभोगेषु मूर्च्छनं मम निदानस्य फलमिति सूत्रद्वयार्थः ॥ २९ ॥ पुनर्निदानफलमेवोदाहरणेन दर्शयितुमाह--
मूलम् - नागो जहा पंकजलावसण्णो, दळु थलं नाभिसमेइ तीरं ।
__ एवं वयं कामगुणेसु गिद्धा, न भिक्खुणो मग्गमणुव्वयामो ॥३०॥ व्याख्या- नागो हस्ती यथेत्यौपम्ये, पङ्कप्रधानं जलं पङ्कजलं तत्रावसन्नानिमग्नः सन् दृष्ट्वा स्थलं न नैवाभिसमेति प्राप्नोति तीरं पारं, अपेर्गम्यत्वात्तीरमपि आस्तां स्थलमिति भावः । एवं वयं कामगुणेषु गृद्धा न भिक्षोः साधोर्मार्ग सदाचाररूपं अनुव्रजामोऽनुसराम इति सूत्रार्थः ॥ ३०॥ पुनरनित्यता दर्शयितुं मुनिराह-- मूलम् - अच्चेड़ कालो त्तति राईओ, न यावि भोगा परिसाण निच्चा ।
उविच्च भोगा पुरिसं चयंति, दुमं जहा खीणफलं व पक्खी ॥३१॥ व्याख्या- अत्येति अतिक्रामति कालो यथायुष्ककालः, किमिति ? यतस्त्वरन्ते शीघ्रं गच्छन्ति रात्रयो रजन्यो
UTR-2
॥१७५॥
Page #178
--------------------------------------------------------------------------
________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥१७६ ॥
दिनोपलक्षणञ्चैतत्ततोऽनेनायुषाऽस्थिरत्वमुक्तं, उक्तञ्च -"क्षण-याम-दिवस-मास-च्छलेन गच्छन्ति जीवितदलानि ॥ इति विद्वानपि कथमिह, गच्छसि निद्रावशं रात्रौ ॥१॥" न च भोगा अपि अपेरत्र सम्बन्धात् पुरुषाणां नित्याः शाश्वताः, यत उपेत्य स्वप्रवृत्त्या न तु पुरुषाभिप्रायेण भोगाः पुरुषं त्यजन्ति, कमिव क इवेत्याह द्रुमं यथा क्षीणफलं, वेत्यौपम्ये भिन्नक्रमश्च, ततः पक्षिण इव विहगा इव, फलोपमानि हि पुण्यानि, ततस्तदपगमे क्षीणफलं वृक्षमिव पुरुषं पक्षिण इव भोगा मुञ्चन्तीति सूत्रार्थः | ॥३१॥ यत एवमतःमूलम् - जइ तंसि भोगे चइउं असत्तो, अज्जाई कम्माई करेहि रायं ।
धम्मठिओ सव्वपयाणुकंपी, तो होहिसि देवो इओ विउव्वी ॥३२॥ व्याख्या- यदि त्वमसि भोगांस्त्यक्तुमशक्तः ततः किमित्याह- आर्याणि शिष्टजनोचितानि कर्माणि कार्याणि कुरु हे राजन्! धर्मे प्रक्रमाद्गृहस्थधर्मे सम्यग्दृष्ट्याद्याचारलक्षणे स्थितः सन् सर्वप्रजानुकम्पी समस्तप्राणीदयापरः, ततः किं फलमित्याह - तत आर्यकर्मकरणाद्भविष्यसि देवो वैमानिक इतोऽस्मान्मनुष्यभवादनन्तरं 'विउवि त्ति' वैक्रियशरीरवानिति सूत्रार्थः ॥३२॥ एवमुक्तोऽपि यदासौ न किञ्चित्प्रत्यपद्यत तदा मुनि: स्माह-- मूलम् - न तुज्झ भोगे चइऊण बुद्धी, गिद्धोसि आरंभपरिग्गहेस।
मोहं कओ इत्तिओ विप्पलावो, गच्छामि रायं आमंतिओसि ॥३३॥
UTR-2
॥१७६॥
Page #179
--------------------------------------------------------------------------
________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥ १७७ ॥
व्याख्या-न नैव तव भोगानुपलक्षणत्वादनार्यकर्माणि च त्यक्तुं बुद्धिः, गृद्धः प्रसक्तोऽसि वर्त्तसे आरम्भपरिग्रहेषु सावधव्यापारेषु सचित्ताचित्तादिवस्तुस्वीकारेषु च, मोघं निष्फलं यथा भवति तथा कृत एतावान् विप्रलापो विविधव्यर्थवचनविन्यासलक्षणः, सम्प्रति तु गच्छामि राजन्! आमन्त्रितोऽसि धातूनामनेकार्थत्वात् पृष्टोऽसि गन्तुमिति शेषः। तव हि जीवितानित्यतादर्शनादिभिर्बहुभिः प्रकारैरनुशिष्यमाणस्यापि न मनागपि वैराग्यमभूदित्यविनेयत्वादुपेक्षैव वरीयसीति भाव इति सूत्रार्थः ॥३३॥ इत्थमुक्त्वा गते मुनौ ब्रह्मदत्तस्य यदभूत्तदाह
मूलम् -- पंचालराया वि अ बंभदत्तो, साहुस्स तस्स वयणं अकाउं।
अणुत्तरे भुंजिअ कामभोगे, अणुत्तरे सो नरए पविट्ठो ॥३४॥ व्याख्या - 'पंचालरायाविअ त्ति' अपिः पुनरर्थे चः पूरणे, ततः पाञ्चालराजः पुनर्ब्रह्मदत्तः साधोस्तस्य वचनमकृत्वा गुरुकर्मतया वजतन्दुलवदत्यन्तदुर्भेदत्वात्, अनुत्तरान् सर्वोत्तमान् भुक्त्वा कामभोगान्, अनुत्तरे सकलनरकज्येष्ठे अप्रतिष्ठाने इत्यर्थः, स ब्रह्मदत्तो नरके प्रविष्टः । तदनेन निदानस्य नरकान्तं फलमुपदर्शितं भवतीति सूत्रार्थः॥ ३४ ॥ यथा चायं नरके प्रविष्टस्तथा तत्कथावशिष्टा इहोच्यते । तथाहि --
तमबोध्यतमं हित्वा, सद्वैद्य इवापटुं निकटमरणम् ॥ विजहार यतिर्भूमी -पतिरपि राज्यं चिरं बुभुजे ॥३९२॥ तं चान्यदा द्विजः पूर्व-संस्तुतोऽभ्येत्य कोऽप्यदोऽवादीत् ।। भुंक्षे यदात्मना त - त्प्रदेहि मे भोजनं चक्रिन्! ॥३९३।। ऊचे नृपो मदन्नं, दुर्जर
UTR-2
॥१७७॥
Page #180
--------------------------------------------------------------------------
________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥ १७८ ॥
मन्यस्य सृजति चोन्मादम् ॥ विप्रो जगाद धिक् त्वां, कदर्यमन्नप्रदानेऽपि ॥३९४॥ सकुटुम्बमथ नरेन्द्र-स्तं निजभोजनमभोजयकोपात् ॥ अथ तस्याविरभून्निशि,मदनोन्मादो भृशं तस्मात् ॥ ३९५॥ अनपेक्षितनिजजननी- जामिजनीव्यतिकरस्ततो विप्रः॥ ससुतोऽपि प्रावर्त्तत, रते सुरामत्त इव विकलः ॥ ३९६ ॥ प्रातस्तु लज्जया स, द्विजो गृहजनश्च तस्य नान्योन्यम् ॥ दर्शयितुमास्यमशकन्, मशकपटलमलिनमवसादात् ॥ ३९७ ॥ अनिमित्ताऽरातिर्मा, सकुटुम्बमहीलयन्महीशोऽसौ ॥ इति चिन्तयन्नमर्षा-नगरानिरगात्ततो विप्रः ॥३९८॥ तेन भ्रमताथ बहिः, पशुपालोऽदर्शि दर्शिताश्चर्यः ॥ कर्करिकाभिः पिप्पल-दलपटलं छिद्रयन् दूरात् ॥ ३९९ ॥ मत्कार्यं कर्तुमसौ, क्षम इति निश्चित्य वाडवः स ततः ॥ इत्यूचे तं सन्मान-दानवचनैर्वशीकृत्य ॥४००॥ राजपथे यो द्विरदे, स्थितः सितछत्रचामरो व्रजति ॥ प्रक्षिप्य गोलिके त्वं, तस्य दृशौ स्फोटयेः क्षिप्रम् ॥४०१॥ तत्प्रतिपद्य जडत्वात् स्थित्वा कुड्यान्तरे दृशौ नृपतेः ॥ सह मुक्तगोलिकाभ्यां, सोऽपि समं स्फोटयामास ॥४०२॥ पशुवत्पशुपालः सोऽथ, हन्यमानोऽङ्गरक्षकैधृत्वा ॥ राज्ञेऽपकारिणं तं, द्विजमाख्यत्कुमतिदानरिपुम् ॥ ४०३॥ तदवेत्य नृपः कुपित - स्तं विप्रं पुत्रमित्रबन्धुयुतम् ॥ व्यापादितवान् सद्यः, कोपो महतां हि नो विफलः ॥४०४॥ अपरान् पुरोहितादी-नपि निखिलान्नगरवासिनो विप्रान् । सोऽघातयद्गुषा क्व नु, रोषान्धानां विवेकमतिः ? ॥४०५॥ सचिवं चैवमवोचत, भृत्वा स्थालं द्विजन्मनां नयनैः ॥ स्थापय मम पुरतोन्वह - महं यथा तानि मृद्नामि ! ॥ ४०६ ।। राज्ञस्तस्य तमाशय- मवेत्य सचिवोऽपि शुभमतिः क्रूरम् ॥आपूर्य श्लेष्मातक-फलैः पुरोऽस्थापय
UTR-2
॥१७८॥
Page #181
--------------------------------------------------------------------------
________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥१७९ ॥
स्थालम् ॥ ४०७ ॥ तदथ स्थालं नृपतिः, पस्पर्श मुहुर्मुहुः स्वपाणिभ्याम् ॥ रमणीरत्नस्पर्शा-दपि तत्स्पर्शेऽधिकं मुमुदे ॥ ४०८॥ द्विजनेत्रधिया तानि च, फलानि निर्दयममर्दयन्मुदितः ॥ न च तत्स्थालं पुरतो - ऽपासारयदनिशमपलज्जः ॥ ४०९ ॥ इत्थं प्रवर्द्धमाना-ऽशुभपरिणामो दिनं दिनं प्रति सः ॥ अतिगमयति स्म षोडश, वर्षाण्यविरतविषयतर्षः ॥४१०॥ सर्वायुषाथ नृपतिः शरदां शतानि, सप्ततिवाह्य विषयामिषलोलुपात्मा ॥ उत्कृष्टजीवितमुपायं तमस्तमायां, रौद्राशयादजनि नैरयिकः क्षमायाम् ॥४११॥ इत्युक्तो ब्रह्मदत्तकथावशिष्टांशः, सम्प्रति प्रसङ्गतश्चित्रवक्तव्यतामाह --
मूलम् - चित्तोवि कामेहिं विरत्तकामो, उदत्तचारित्ततवो महेसी।
अणुत्तरं संजम पालइत्ता, अणुत्तरं सिद्धिगई गयत्ति बेमि ॥३५॥ व्याख्या - चित्रोऽपि चित्रः पुनः कामेभ्यो विरक्तकामो निवृत्ताभिलाषः उदात्तं प्रधानं चारित्रं सर्वविरतिरूपं तपश्चद्वादशविधं यस्य स तथा, महर्षिः अनुत्तरं संयमं सप्तदशभेदं पालयित्वा अनुत्तरां सर्वलोकाकाशोपरिवर्तिनी सिद्धिं गतिं गतः प्राप्त इति सूत्रार्थः ।। ३५ ॥ इति ब्रवीमीति प्राग्वत् ॥१३॥
UTR-2
॥१७९॥
इतिश्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिशिष्यमहोपाध्यायश्रीमनिविमलगणिशिष्यभूजिष्योपाध्याय
श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ त्रयोदशमध्ययनं सम्पूर्णम् ॥१३॥
Page #182
--------------------------------------------------------------------------
________________
अध्य. १४
उत्तराध्ययनसूत्रम् ॥ १८०॥
॥अथ चतुर्दशमध्ययनम् ॥ ॥ ऐं नमः ।। व्याख्यातं त्रयोदशमध्ययनं, अधुनेषुकारीयाख्यं चतुर्दशमारभ्यते । अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने मुख्यतया निदानदोष उक्तः, प्रसङ्गान्निर्निदानतागुणश्च, अत्र पुनर्मुख्यतया स एवोच्यते, इत्यनेन सम्बन्धेनायातस्यास्येदमादौ सूत्रत्रयम् --
मूलम् - देवा भवित्ताण पुरे भवंमि, केइ चुआ एगविमाणवासी।
पुरे पुराणे उसुआरनामे, खाए समिद्धे सुरलोअरम्मे ॥ १॥ सकम्मसेसेण पुराकएणं, कुलेसुदग्गेसु अ ते पसूआ । निविण्णसंसारभया जहाय, जिणिंदमग्गं सरणं पवण्णा ॥ २॥ पुमत्तमागम्मकुमार दोवि, पुरोहिओ तस्स जसा य पत्ती ।।
विसालकित्ती अ तहेसुआरो, राईत्थ देवी कमलावई अ॥३॥ व्याख्या-देवा भूत्वा पूर्वभवे केचिदनिर्दिष्टनामानश्च्युताः स्वर्गादिति शेषः, एकस्मिन्-पद्मगुल्मनाम्नि विमाने वस - न्तीत्येवंशीला एकविमानवासिनः, पुरे नगरे पुराणे चिरन्तने 'इषुकारनाम्नि ख्याते प्रसिद्ध समृद्धे सुरलोकरम्ये ॥ १ ॥ स्वमात्मीयं कर्म पुण्यप्रकृतिरूपं तस्य शेष उद्धरितं स्वकर्मशेषस्तेन पुराकृतेन कुलेषु उदग्रेषु उच्चेषु, चः पूरणे, ते इति ये देवा भूत्वा च्यु
UTR-2
॥१८०॥
Page #183
--------------------------------------------------------------------------
________________
अध्य.१४
उत्तराध्ययनसूत्रम् ॥ १८१ ॥
तास्ते प्रसूता उत्पन्नाः! 'निविण त्ति' आर्षत्वान्निर्विण्णा उद्विग्नाः संसारभयात् 'जहाय त्ति' त्यक्त्वा भोगादीति शेषः, जिनेन्द्रमार्ग तीर्थङ्करोक्तं मुक्तिपथं शरणं अपायरक्षाक्षम आश्रयं प्रपन्नाः अभ्युपगताः ॥ २ ॥ तेषु कः किंरूपो जिनेन्द्रमार्ग प्रपन्न: इत्याह - पुंस्त्वं पुरुषत्वमागम्य 'कुमार त्ति' कुमारौ अकृतपाणिग्रहणौ द्वौ, अपिः पूरणे, सुलभबोधिकतयाऽन्येषां च बोधिलाभहेतुतया प्राधान्यख्यापनार्थमनयोः पूर्वमुपादानं । पुरोहितो 'भृगु'नामा तृतीयः, तस्य 'यशा' च नाम्ना पत्नी चतुर्थः, विशालकीर्तिश्च विस्तीर्णयशाश्च तथा 'इषुकारो' नाम राजा पंचमः 'इत्थ त्ति' अत्रैव भवे देवीति प्रधानभार्या, प्रक्रमात्तस्यैव राज्ञः 'कमलावती' च नाम्ना षष्ठ इति सूत्रत्रयार्थः ॥४-३॥ अथैतेषु कुमारयोर्यथा जैनमार्गावाप्तिर्जाता तथा दर्शयितुमाह --
मूलम् - जाईजरामच्चुभयाभिभूआ, बहिविहाराभिणिविट्ठचित्ता।
संसारचक्कस्स विमोक्खणट्ठा, दट्टण ते कामगुणे विरत्ता ॥ ४॥ पिअपुत्तगा दोण्णि वि माहणस्स, सकम्मसीलस्स पुरोहिअस्स ।
सरित्तु पोराणिअ तत्थ जाई, तहा सुचिण्णं तवसंजमं च ॥५॥ व्याख्या - जातिजरामृत्युभयाभिभूतौ बहिः संसाराद्विहार: स्थानं बहिर्विहारः स चार्थान्मोक्ष एव, तस्मिन्नभिनिविष्टं बद्धाग्रहं चित्तं ययोस्तौ तथा, संसारश्चक्रमिव संसारचक्रं, तस्य विमोक्षणार्थं त्यागार्थं दृष्ट्वा साधूनिति शेषः। तावनन्तरोक्तौ कामगुणे कामगुणविषये विरक्तौ ॥ ४ ॥'पिअपुत्तग त्ति' प्रियौ वल्लभौ पुत्रावेव पुत्रको, प्रियौ च तौ पुत्रकौ च प्रियपुत्रको द्वावपि माहनस्य द्वि
UTR-2
॥१८१॥
Page #184
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ।। १८२ ॥
जस्य स्वकर्मशीलस्य यजनाद्यनुष्ठानरतस्य पुरोहितस्य शान्तिकर्तुः 'सरित्तु त्ति' स्मृत्वा पौराणिकीं चिरन्तनीं तत्रेति सन्निवेशे जातिं जन्म जातिस्मरणं प्राप्येत्यर्थः । तथा सुचीर्णं निदानादिनानुपहतत्वेन सम्यक् सेवितं तपः संयमं च स्मृत्वा कामगुणे विरक्ताविति योग इति सूत्रद्वयार्थः ॥ ५ ॥ ततस्तौ यदका तदाह-
मूलम् - ते कामभोगेसु असज्जमाणा, माणुस्सएसुं जे आवि दिव्वा । मोक्खाभिकंखी अभिजायसड्डा, तायं उवागम्म इमे उदाहु ॥ ६ ॥
व्याख्या - तौ पुरोहितसुतौ कामभोगेषु 'असज्जमाण त्ति' असजन्तौ सङ्गमकुर्वन्तौ मानुष्यकेषु मनुष्यसम्बन्धिषु ये चापि दिव्या देवसम्बन्धिनस्तेषु चेति प्रक्रमः, मोक्षाभिकांक्षिणौ अभिजातश्रद्धौ उत्पन्नतत्त्वरुची तातं पितरमुपागम्येदं वक्ष्यमाणं "उदाहुत्ति" उदाहरतां उक्तवन्ताविति सूत्राक्षरार्थः ॥ ६ ॥ भावार्थत्वेषां सूत्राणां कथानकादवसेयस्तत्सम्प्रदायश्चायं तथाहि-
,
चित्रसम्भूतयोः पूर्वभवेयौ सुहृदावुभौ ॥ अभूतां 'वल्लवौ साधु- सेवाध्वस्तविपल्लवौ ॥१॥ तावपि व्रतमाराध्या भवतां भासुरौ सुरौ ॥ व्रतं हि चेन्न मोक्षाय, तर्हि स्वर्गाय जायते ॥ २ ॥ क्षितिप्रतिष्ठितपुरे, तावभूतां ततश्चयुतौ । सोदराविभ्यतनयौ, सुन्दरावाश्विनाविव ॥ ३ ॥ इभ्यपुत्रास्तयोस्तत्र चत्वारोऽन्यमहर्द्धिकाः ॥ जज्ञिरे सुहृदः पुण्य- शालिनां सुलभा हि ते ॥ ४ ॥ उपभुज्य चिरं भोगांस्ते षडप्यन्यदा मुदा ॥ श्रुत्वा धर्मं गुरूपान्ते, प्राव्रजन् विजितेन्द्रियाः ॥ ५ ॥ पालयित्वा चिरं दीक्षामधीत्य विविधं श्रुतम् ॥ विधायानशनं प्रान्ते ते विपद्य महर्षयः ॥ ६ ॥ विमाने पद्मगुल्माहवे, प्रथमत्रिदिवस्थिते ॥ जज्ञिरे १- गोपी।
UTR-2
अध्य. १४
॥१८२॥
Page #185
--------------------------------------------------------------------------
________________
अध्य. १४
उत्तराध्ययनसूत्रम् ॥१८३॥
त्रिदशश्रेष्ठा - चतुःपल्योपमायुषः ॥ (युग्मम् ) तत्रापि विविधैर्भोगै-रतिवाह्यायुरात्मनः॥ गोपजीवामरौ मुक्त्वा-ऽच्यवन्त प्राक्सुराः परे ॥ ८ ॥ तेष्वेकः कुरुदेशोर्वी-ललनामौलिभूषणे ॥ इषुकारपुरे भूमा -निषुकाराभिधोऽभवत् ॥ ९॥ अन्यस्तु तस्य राज्ञोऽभून्महिषी कमलावती ॥ सर्वाङ्गसुभगा भूमी-गतेव जयवाहिनी ॥१०॥ तस्यैवासीत्तृतीयस्तु, पुरोधा भृगुसंज्ञकः ॥ पुरोधसोऽभवद्भार्या, तुरीयस्तु यशाभिधा ॥११॥ पुरोहितस्य तस्याभू - त्कालेऽपि न यदाङ्गजः ॥ तदा तच्चिन्तयात्यन्त - मन्तः स व्याकुलोऽभवत् ॥१२॥ दध्यौ चेत्यनिशं चित्ता-नन्दनान्नन्दनान् विना ॥ सौधं शून्यमिवाभाति, विना वृक्षान् वनं यथा ॥१३॥ दैवज्ञपृच्छां देवोप-याचितानि च सोऽन्वहम् ॥ व्यधात् पुत्रार्थमातॊ हि, देवादीन् बहु सेवते ॥१४॥ इतश्च तौ गोपजीवदेवाववधिनान्यदा ॥ भृगोः पुत्रौ भविष्याव इति ज्ञात्वा महाशयौ ॥ १५ ॥ निर्ग्रन्थरूपं निर्माय, भृगो: सौधे समेयतुः ॥ तौ प्रेक्ष्य मुदितः सोऽपि प्राणमद्रमणीयुतः ॥ १६ ॥ (युग्मम् ) श्रुत्वा तद्देशनां श्राद्ध - धर्मं च प्रतिपद्य सः ॥ इति पप्रच्छ हे पूज्यौ!, पुत्रा मे भाविनो न वा ॥१७॥ तावुचतुः सुतौ द्वौ ते, भाविनौ तौ च सन्मती ॥ शिशुत्व एव प्रव्रज्यां, विश्वपूज्यां ग्रहीष्यतः ॥ १८ ॥ नान्तरायस्तदा कार्यः, प्रव्रज्यां गृह्णतस्तयोः ॥ तौ हि प्रव्रजितौ लोकं, प्रभूतं बोधयिष्यतः ॥ १९॥ इत्युक्त्वा तौ गतौ देवा-वन्यदा च ततश्चयुतौ ॥ गर्भे पुरोधसः पल्या, यशाया अवतेरतुः ॥२०॥ ततः सभार्यो गत्वाऽस्थाद् ग्रामे क्वापि पुरोहितः ॥ आजन्मापि मुनीन्मा स्म पश्यतां मत्सुताविति ॥२१॥ अथ क्रमाद्यशाऽसूत, सुतयुग्मं मनोरमम् ॥ ववृधाते च तौ बालौ, तत्र पद्माविव हदे ॥२२॥ दैवादिहागतान्साधु-मा स्म सङ्गच्छतां सुतौ ॥ तत्सङ्गमे हि चारित्रं, द्रुतमेतौ ग्रहीष्यतः ॥२३॥
१ इन्द्राणी ।
UTR-2
॥१८३॥
Page #186
--------------------------------------------------------------------------
________________
अध्य. १४
उत्तराध्ययनसूत्रम् ॥ १८४ ॥
ध्यात्वेति मोहतिमिरा-पास्तविज्ञानलोचनौ । इत्यशिक्षयतां पुत्रौ, यशा-भृगुपुरोहितौ ॥२४॥ "हे पुत्रौ! ये हि यतयो, मुण्डा दण्डादिधारिणः ॥ शनैनींचैर्देशो दम्भा-द्विचरन्ति बका इव ॥२५॥ गृहीत्वा डिम्भरूपाणि ते विनिघ्नन्ति सत्वरम् ॥ राक्षसा इव तन्मांसं, भक्षयन्ति च निर्दयाः ॥२६॥ तद्युवाभ्यां न गन्तव्यं, तेषां पार्श्वे कदाचन ॥ विस्रम्भश्च न कर्तव्य -स्तेषां विस्रब्धघातिनाम् ॥२७॥" पितृभ्यां मोहमूढाभ्यां, शावौ ताविति शिक्षितौ ॥ क्रीडन्तौ जग्मतुः स्वैरं, बहिर्गामात्ततोऽन्यदा ॥२८॥ समीक्ष्यागच्छतो मार्ग-प्रतिपन्नान्मुनींश्च तौ ॥ वटमारोहतां नंष्ट्वा, वित्रस्तौ विहगाविव ॥ २९॥ दैवावटस्य तस्याधः, साधवोऽपि समागताः । उपचक्रमिरे भोक्तुं, पूर्वोपात्ताशनादिकम् ॥३०॥ तच्च स्वाभाविकंवीक्ष्य, वटस्थौ तौ कुमारकौ ॥ दध्यतुर्भक्तमेवामी, भुञ्जते न पुनः पलम् ॥ ३१॥ तत्पित्रोर्वचनं तस्मा-देषु सङ्गच्छते कथम् ? ॥ दोषश्चायमसंस्ताभ्या-मुक्तोऽमीषां किमावयोः? ॥३२॥ किञ्चावामीदृशान् क्वापि, श्रमणान् दृष्टपूर्विणौ ॥ ध्यायन्ताविति तौ प्राच्यां, जातिं सस्मरतुर्निजाम् ॥३३॥ श्रामण्यं प्राकृतं स्मृत्वा, सम्बुद्धौ दध्यतुश्च तौ ॥ पितृभ्यां वञ्चितावावा- महो मोहान्मृषोक्तिभिः ॥३४॥ ध्यायन्तौ तावेवमुत्तीर्य तस्माद् न्यग्रोधद्रोस्तान्मुनीन्द्रांश्च नत्वा ॥ गत्वा स्वीयं सौधमभ्येत्य ताता - ऽभ्यर्णं चञ्चद्वर्णमित्यभ्यधत्ताम् ॥३५॥ इत्युक्तः सम्प्रदायः, सम्प्रदायशेषं तु सूत्रसिद्धमिति तदेवाथ व्याख्यायते । तत्र यथा तौ तातमूचतुस्तथाह --
मूलम् - असासयं दठुमिमं विहारं, बहअंतरायं न य दीहमाउं ।
तम्हा गिहंसी न रई लभामो, आमंतयामो चरिसामु मोणं ॥ ७ ॥
UTR-2
॥१८४॥
Page #187
--------------------------------------------------------------------------
________________
अध्य. १४
उत्तराध्ययनसूत्रम् ॥१८५॥
व्याख्या - अशाश्वतमनित्यं दृष्ट्वा इमं प्रत्यक्षं विहारं मनुष्यत्वेनावस्थानं, बहवः अन्तराया रोगादयो यत्र तद्बह्वन्तरायं, न च नैव दीर्घमायुर्जीवितं सम्प्रति पल्योपमाद्यायुषोऽभावात्, यत एवं तस्माद्गृहे न रति लभावहे, अत एवामत्रयावः पृच्छाव आवां चरिष्यावो मौनं संयममिति सूत्रार्थः ।।७॥ एवं ताभ्यामुक्तेमूलम्- अह तायओ तत्थ मुणीण तेसिं, तवस्स वाघायकर वयासि।
इमं वयं वेदविदो वयंति जहा न होई असुआण लोगो ॥८॥ व्याख्या - अथानन्तरं तात एव तातकः तत्र तस्मिन्नवसरे मुन्योर्भावतः प्रतिपन्नमुनिभावयोस्तयोः कुमारयोः तपस उपलक्षणत्वादशेषधर्मानुष्ठानस्य च व्याघातकरं वचनमिति शेषः 'वयासि त्ति' अवादीद् , तदेव दर्शयति ! इमां वाचं वेदविदो वदन्ति, यथा न भवति असुतानामपुत्राणां लोकः परलोकः, तं विना पिण्डदानाद्यभावे गत्याद्यभावात् । तथा च वेदवच:"अनपत्यस्य लोका न सन्तीति" । अन्यैरप्युक्तं - "पुत्रेण जायते लोक, इत्येषा वैदिकी श्रुतिः ॥ अथ पुत्रस्य पुत्रेण, स्वर्गलोके महीयते ॥१॥" इति ॥ ८ ॥ यत एवं तस्मात् - मूलम् - अहिज्ज वेए परिविस्स विप्पे, पत्ते परिट्रप्प गिहंसि जाया।
भुच्चाण भोए सह इत्थिआहि, आरणगा होह मणी पसत्था ॥९॥ व्याख्या - अधीत्य वेदान्, परिवेष्य भोजयित्वा विप्रान्, पुत्रान् परिष्ठाप्य निवेश्य गृहे, हे जातौ पुत्रौ ! तथा भुक्त्वा 'ण' इति | वाक्यालङ्कारे, भोगान् सह स्त्रीभिः, आरण्यको अरण्यवासितापसव्रतधारिणौ 'होह त्ति' भवतं युवां मुनी प्रशस्ताविति सूत्रद्वयार्थः ॥९॥ इत्थं तेनोक्ते कुमारौ यदकार्टा तदाह--
UTR-2
॥१८५॥
Page #188
--------------------------------------------------------------------------
________________
अध्य. १४
उत्तराध्ययनसूत्रम् ॥१८६॥
मूलम् - सोअग्गिणा आयगुणिंधणेणं, मोहानिला पज्जलणाहिएणं ।
संतत्तभावं परितप्पमाणं, लालप्पमाणं बहुहा बहु च ॥ १०॥ मूलम् - पुरोहिअंतं कमसोऽणुणितं, निमंतयंतं च सुए धणेणं । जहक्कम कामगुणेहिं चेव, कुमारगा ते पसमिक्ख वक्कं ॥११॥
व्याख्या - शोकाग्निना पुत्रविरहसम्भावनोद्भवशोकवह्निना, किंभूतेन ? आत्मनो गुणा आत्मगुणा अनादिकालसहचरितत्वाद्रागादयस्ते इन्धनमुद्दीपकतया यस्य स तथा तेन, मोहानिलादज्ञानवायोः ‘पज्जलणाहिएणं ति' सूत्रत्वादधिकं प्रज्वलनं यस्य स तथा तेन, सन्तप्तः भावः अन्त:करणमस्येति सन्तप्तभावस्तं, अत एव परितप्यमानं समन्ताद्दह्यमानं, 'लालप्यमानं' पुनः पुनर्दीनवचांसि लपन्तं, बहुधाऽनेकप्रकारं बहु च प्रभूतं यथा स्यात्तथा ॥१०॥ पुरोहितं तमिति प्रक्रान्तं 'कमसो त्ति' क्रमेणानुनयन्तं स्वाभिप्रायेण प्रज्ञापयन्तं निमन्त्रयन्तं च, सुतौ धनेन यथाक्रम कामगुणैश्चैव मनोज्ञशब्दाद्यैः कुमारको तौ प्रसमीक्ष्य प्रकर्षेण मोहाच्छादितमतिमालोक्य वाक्यं वक्ष्यमाणं उक्तवन्ताविति शेषः ॥११॥ किं तदित्याह -
मूलम् - वेआ अहीआ न हवंति ताणं, भुत्ता दिआ निंति तमंतमेणं।
जाया य पुत्ता न हवंति ताणं, को नाम ते अणुमन्निज्ज एअं॥१२॥ व्याख्या -वेदा अधीता न भवन्ति त्राणं शरणम्, तत्पठनमात्रादुर्गतिपातरक्षणासिद्धेः । उक्तं हि-"अकारणमधीयानो,ब्राह्मणस्तु युधिष्ठिर ! ॥दुष्कुलेनाप्यधीयन्ते, शीलं तु मम रोचते ॥१॥ शिल्पमध्ययनं नाम, वृत्तं ब्राह्मणलक्षणम् ।। वृत्तस्थं ब्राह्मणं प्राहु - नेंतरान्
UTR-2
॥१८६॥
Page #189
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ।। १८७ ॥
वेदजीवकान् ॥२॥ तथा' भुत्त त्ति' अन्तर्भूतणिगर्थत्वाद्भोजिता द्विजा नयन्ति तमसोऽपि यत्तमस्तमस्तमस्तस्मिन् अतिरौद्रे रौरवादिके नरके इत्यर्थः, णमिति वाक्यालङ्कारे, ते हि भोजिता कुमार्गप्ररूपणपशुवधादावेव प्रवर्त्तन्ते, ततः पात्रबुद्ध्या तेषां भोजनं नरकहेतुरेवेति कुतस्तेषां निस्तारकत्वं ? । तथा जाताश्च पुत्रा न भवन्ति त्राणं नरकादौ पततामिति शेषः । उक्तं च वेदानुगैरपि - "यदि पुत्राद्भवेत्स्वर्गो, दानधर्मो न विद्यते ॥ मुषितस्तत्र लोकोऽयं, दानधर्मो निरर्थकः ॥ ९ ॥ बहुपुत्रा दुली गोधा, ताम्रचूडस्तथैव च ॥ तेषां प्रथमं स्वर्गः, पश्चाल्लोको गमिष्यति ॥२॥ " यतश्चैवं ततः को नाम ? न कोऽपीत्यर्थः, ते तव अनुमन्येत अनुजानीयात्सविवेक इति गम्यते एतत्पूर्वोक्तं वेदाध्ययनादीति ॥ १२ ॥ तथा
मूलम् खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अनिगामसुक्खा ।
संसारमोक्खस्स विपक्खभूआ, खाणी अणत्थाण उ कामभोगा ॥ १३ ॥
-
व्याख्या-क्षणमात्रसौख्या बहुकालं दुःखं नरकादिविषयं येभ्यस्ते बहुकालदुःखाः, प्रकामदुःखा अतिशयितदुःखाः अनिकामसौख्या अप्रकृष्टसुखाः, संसारमोक्षस्य विपक्षभूताः, खानिराकरो ऽनर्थानां तुरेवकारार्थो भिन्नक्रमश्च ततः खानिरेव कामभोगाः ॥ १३॥ अनर्थखानित्वमेव स्पष्टयितुमाह
मूलम् - परिव्वयंते अनिअत्तकामे, अहो अ राओ परितप्पमाणे । अन्नप्पमत्ते धणमेसमाणे, पप्पोति मच्चुं पुरिसे जरं च ॥१४॥
व्याख्या-परिव्रजन् विषयसुखलाभार्थमितस्ततो भ्राम्यन् अनिवृत्तकामोऽनुपरताभिलाषः सन् 'अहो अ राओत्ति' आर्षत्वाच्चस्य
UTR-2
अध्य. १४
॥ १८७॥
Page #190
--------------------------------------------------------------------------
________________
अध्य. १४
उत्तराध्ययनसूत्रम् ॥१८८॥
| च भिन्नक्रमत्त्वादह्नि रात्रौ च परितप्यमानस्तत्प्राप्त्यै समन्ताच्चिन्ताग्निना दह्यमानः, अन्ये स्वजनास्तदर्थ प्रमत्तस्तत्कृत्यासक्तचेता अन्यप्रमत्तो धनं एषयन् विविधोपायैर्गवेषयमाण: 'पप्पोति त्ति' प्राप्नोति मृत्युं पुरुषो जरां च ॥१४॥ तथा
मूलम - इमं च मे अस्थि इमं च नत्थि, इमं च मे किच्चमिमं अकिच्चं ।
तं एवमेवं लालप्पमाणं, हरा हरंतित्ति कहं पमाओ? ॥१५॥ व्याख्या-इमं च मे अस्ति धान्यादि, इदं च नास्ति रूप्यादि, इदं च मे कृत्यं गृहवरण्डिकादि, इदमकृत्यं प्रारब्धमपि वाणिज्यादि न कर्तुमुचितं , तं पुरुषं एवमेव वृथैव लालप्यमानं अत्यर्थं वदन्तं हरन्त्यायुरिति हराः, दिनरजन्यादयो हरन्ति भवान्तरं नयन्ति इत्यतो हेतोः कथं प्रमादो धर्मे कर्तुं युक्त इति सूत्रषट्कार्थः ॥ १५ ॥ अथ तौ धनादिना लोभयितुं पुरोधाः प्राह--
मूलम् - धणं पभूअं सह इत्थिआहिं, सयणा तहा कामगुणा पगामा ।
तवं कए तप्पति जस्स लोओ, तं सव्वसाहीणमिहेव तुब्भं ॥१६॥ व्याख्या-धनं प्रभूतं सह स्त्रीभिः, स्वजनाः पितृपितृव्यादयः, तथा कामगुणाः शब्दादयः प्रकामा अतिशायिनो वर्त्तन्त इति गम्यं , तपः कष्टानुष्ठानं कृते निमित्तं तप्यते ऽनुतिष्ठति यस्य धनादेर्लोकः तत्सर्वं स्वाधीनमिहैवास्मिन्नेव गृहे 'तुब्भं ति' युवयोरिति सूत्रार्थः ॥१६॥ तावाहतुः
मूलम्- धणेण किं धम्मधुराहिगारे सयणेण वा कामगुणेहिं चेव ।
समणा भविस्सामु गुणोहधारी, बहिविहारा अभिगम्म भिक्खं ॥१७॥ व्याख्या - धनेन किं ? न किंचिदित्यर्थः, धर्म एव सात्त्विकधुरन्धरैमह्यमानतया धूरिख धर्मधुरा तदधिकारे तत्प्रस्तावे स्वज
UTR-2
॥१८८॥
Page #191
--------------------------------------------------------------------------
________________
अध्य. १४
उत्तराध्ययनसूत्रम् ॥ १८९ ॥
नेन वा कामगुणैश्चैव, ततः श्रमणौ भविष्यावो गुणौघधारिणौ क्षमादिगुणसमूहधारको, बहिर्गामादिभ्यो विहारो ययोस्तौ बहिर्विहारौ अप्रतिबद्धविहारावित्यर्थः, अभिगम्याश्रित्य भिक्षामिति सूत्रार्थः ॥१७॥ आत्मास्तित्वमूलत्वाद्धर्मानुष्ठानस्य तन्निराकर्तुं भृगुराह
मूलम् - जहा य अग्गी अरणी असंतो, खीरे घयं तिल्लमहा तिलेस् ।
एमेव जाया सरिरंमि सत्ता, संमुच्छई नासइ नावचिट्ठे ॥१८॥ व्याख्या- यथैव चकारस्यैवकारार्थत्वात् अग्निः 'अरणि त्ति' अरणितोग्निर्मन्थनकाष्ठादसन् अविद्यमान एव सम्मूछंति, तथा क्षीरे घृतं, तैलमथ तिलेषु, एवमेव हे जातौ ! शरीरे सत्त्वाः 'संमुच्छई त्ति' सम्मूर्च्छन्ति, पूर्वमसन्त एवोत्पद्यन्ते । तथा 'नासइ त्ति' नश्यन्ति, अभ्रपटलवद्विलयमुपयान्ति । 'नावचिठे त्ति' न पुनरवतिष्ठन्ते , शरीरनाशे सति तन्नाशादिति सूत्रार्थः ॥ १८॥ कुमारावाहतुः
मूलम् - नो इंदिअगिज्झो अमुत्तभावा, अमुत्तभावाविअ होइ निच्चो।
अज्झत्थहेउं निअओऽस्स बंधो, संसारहेउं च वयंति बंधं ॥१९॥ व्याख्या - नो इंद्रियग्राह्यः सत्त्व इति प्रक्रमः, अमूर्तभावादिन्द्रियग्राह्यरूपाद्यभावात् । तथा अमूर्त्तभावादपि च भवति | नित्यस्तथा हि-यद्रव्यत्वे सत्यमूर्तं तन्नित्यं, आकाशवत् । न चैवममूर्त्तत्वादेव बन्धासम्भव इति वाच्यं? यतः 'अज्झत्थहेउं ति' | इहाध्यात्मशब्देनात्मस्था: मिथ्यात्वादय उच्यन्ते, ततस्तद्धेतुस्तन्निमित्तो नियतो निश्चितोऽस्य जन्तोर्बन्धः कर्मभिः संश्लेषः,
UTR-2
॥१८९॥
Page #192
--------------------------------------------------------------------------
________________
अध्य. १४
उत्तराध्ययनसूत्रम् ॥१९०॥
यथाऽमूर्तस्यापि नभसो मूतैरपि घटादिभिः सम्बन्धः एवमस्यापि मूतैरपि कर्मभिर्न विरुध्यते । तथा संसारहेतुं च वदन्ति बन्धमिति, ततश्चास्त्येवात्मा चेतनाश्रयः, तदभावे हि प्रतिदेहिनमुपलभ्यमानस्य चैतन्यस्य निरास्पदत्वप्रसङ्गात् । न च वाच्यं पृथिव्यादिभूतानि
चैतन्यस्याश्रय इति न तस्य निरास्पदत्वमिति? पृथस्थितेषु तिलेषु स्नेहस्येव पृथग्भूतेषु भूतेषु चैतन्यांशस्याप्यनुपलब्धेः,यच्च येषु पार्थक्यावस्थायां स्वल्पमपि नास्ति न तत्तेषु संहितेष्वपि भवितुमर्हति रेणुकणेषु तैलमिव । स्यादेतन्मद्याङ्गेषु मदशक्तिः पूर्वमनुपलभ्यमानापि संहितेषु तेषु दृश्यत इति चेन्मैवं, तेषु पूर्वमपि मदशक्तेः किञ्चिदुपलभ्यमानत्वात् दृश्यते हि धातकीपुष्पेषु मनाग् वैकल्यजनकत्वं, गुडे बलवर्धकत्वं चेति, एवमन्येष्वपि तदङ्गेषु द्रष्टव्यम्, न चैवं पार्थक्यावस्थायां पृथ्व्यादिषु किञ्चिदस्पष्टमपि चैतन्यमुपलभ्यते, तत एभ्योऽतिरिक्त एव तस्याश्रय एष्टव्यः, स चात्मैवेति स्थितं । स च नित्यो भवान्तरयायी, तस्य च मिथ्यात्वादिभि| बन्धो बन्धादेव च संसार इति सूत्रार्थः ॥१९॥ ततश्च --
मूलम् - जहा वयं धम्ममयाणमाणा, पावं पुरा कम्ममकासि मोहा ।
उरब्भमाणा परिरक्खिअंता,तं नेव भज्जोवि समायरामो ॥ २०॥ व्याख्या - यथा वयं इत्यावां धर्मं सम्यग्दर्शनादिकं अजानन्तौ पापं पापहेतुः पूरा पूर्वं कर्मानुष्ठानं 'अकासि त्ति' अकार्च , मोहात्तत्त्वाज्ञानात् अपरुद्ध्यमाना गृहानिर्गममलभमानाः परिरक्ष्यमाणा अनुजीविभिरनुपाल्यमानास्तत्पापकर्म नैव भूयोऽपि पुनरपि समाचरामो यथावद्विदितवस्तुस्वरूपत्वादिति सूत्रार्थः ॥२०॥ अन्यच्च
UTR-2
॥१९०॥
Page #193
--------------------------------------------------------------------------
________________
अध्य. १४
उत्तराध्ययनसूत्रम् ॥१९१ ॥
मूलम् -- अब्भाहयंमि लोगंमि, सव्वओ परिवारिए । अमोहाहिं पडंतीहि, गिहंसि न रडं लभे ॥२१॥
व्याख्या - अभ्याहते पीडिते लोके सर्वतः सर्वासु दिक्षु परिवारिते परिवेष्टिते अमोघाभिरवन्ध्यप्रहरणोपमाभिः पतन्तीभिः गृहे गृहवासे न रतिं लभावहे, यथा वागुरावेष्टितो मृगो अमोघैश्च प्रहरणैाधेनाऽभ्याहतो न रतिं लभते एवमावामपीति सूत्रार्थः ॥२१॥ भृगुराह - मूलम् - केण अब्धाहओ लोओ, केण वा परिवारितो । का वा अमोहा वुत्ता, जाया चिंतापरो हुमि ॥२२॥
व्याख्या- केन व्याधकल्पेनाभ्याहतो लोकः ? केन वा वागुरारूपेण परिवारितः? का वा अमोघा अमोघप्रहरणोपमा उक्ताः? हे जातौ ! चिन्तापर: 'हुमि त्ति' भवामि, ततो ममावेद्यतामयमर्थ इति सूत्रार्थः ॥ २२ ॥ तावाहतुःमूलम् - मच्चुणाब्भाहओ लोओ, जराए परिवारिओ । अमोहा रयणीवुत्ता, एवं ताय विआणह ॥२३॥
व्याख्या- मृत्युनाभ्याहतो लोकस्तस्य सर्वत्राप्रतिहतप्रसरत्वात्,जरया परिवारितस्तस्या एव मरणाभिघातयोग्यतापादने प्रवणत्वात्, अमोघा रजन्य उक्ता: दिनाविनाभावित्वात्तासां दिनाश्च, तत्पतने ह्यवश्यम्भावी जनाभिघातः, एवं तात ! विजानीतेति सूत्रार्थः ॥२३॥ किञ्च - मूलम् - जा जा वच्चइ रयणी, न सा पडिनिअत्तई । अहम्मं कुणमाणस्स, अहला जंति राइओ ॥२४॥
व्याख्या - या या व्रजति रजनी उपलक्षणत्वाद्दिनं च न सा प्रतिनिवर्त्तते पुनरागच्छति, ताश्चाधर्म कुर्वतो जन्तोरिति शेषः, अफला यान्ति रात्रयः, अधर्मनिबन्धनं गाहस्थमिति तत्त्याग एव श्रेयान् ॥ २४ ॥ तथा -
UTR-2
॥१९॥
Page #194
--------------------------------------------------------------------------
________________
उत्तराध्य
अध्य. १४
यनसूत्रम्
॥१९२ ॥
मूलम्- जा जा वच्चइ रयणी, न सा पडिनिअत्तइ । धम्मं च कणमाणस्स, सहला जंति राइओ ॥ २५ ॥
व्याख्या - प्राग्वन्नवरं 'धम्मं चत्ति' धर्मं पुनः कुर्वाणस्य सफला धर्मफलत्वाज्जन्मनो न च व्रतं विना धर्म इत्यतस्तदेव प्रतिपत्स्यावहे इति सूत्रद्वयार्थः ॥ २५ ॥ अथ तद्वचनेन प्रतिबुद्धो भृगुराह - - मूलम्- एगओ संवसित्ता णं, दुहओ सम्मत्तसंजुआ । पच्छा जाया गमिस्सामो भिक्खमाणा कुले कुले ॥२६॥
व्याख्या - एकत एकस्मिन् स्थाने समुष्य सहैव उषित्वा 'दुहओ त्ति' द्वयं च द्वयं च द्वये आवां युवां च सम्यक्त्वसंयुता उपलक्षणत्वाद्देशविरत्या च संयुताः पश्चाद् यौवनोत्तरकालं हे जातौ ! गमिष्यामो वयं प्रव्रज्य मासकल्पादिक्रमेणेति शेषः, भिक्षमाणाः कुले कुले गृहे गृहे अज्ञातोञ्छवृत्त्येति सूत्रार्थः ॥२६॥ कुमारावाहतुःमूलम् - जस्सत्थि मच्चुणा सक्खं , जस्स वऽस्थि पलायणं । ।
जो जाणे न मरिस्सामि, सो हुकंक्खे सुएसिआ ॥ २७ ॥ व्याख्या-यस्यास्ति मृत्युना सह सख्यं मैत्री, यस्य वास्ति पलायनं नशनं मृत्योरिति प्रक्रमः, तथा यो जानाति यथाहं न मरिष्यामि, 'सो हुत्ति' स एव कांक्षति वाञ्छति, श्व आगामिदिने स्यादिदं कार्यमिति शेषः ॥२७॥ ततश्च -
UTR-2
॥१९२॥
Page #195
--------------------------------------------------------------------------
________________
उत्तराध्य
अध्य. १४
यनसूत्रम्
॥ १९३ ॥
मूलम् - अज्जेव धम्म पडिवज्जयामो, जहिं पवण्णा न पुणब्भवामो ।
अणागयं नेव य अस्थि किंचि, सद्धा खमंणे विणइत्तु रागं ॥२८॥ व्याख्या - अद्यैव धर्म प्रतिपद्यामहे 'जहिति' आर्षत्वाद्यं धर्मं प्रपन्ना आश्रिता न पुनः 'भवामोत्ति' भविष्यामः, न | पुनर्जन्मजरामरणाद्यनुभविष्यामस्तदभावहेतुत्वाद्धर्मस्य । किञ्च अनागतमप्राप्तं नैव नास्ति किञ्चित्सुन्दरमपि वस्तु विषयसौख्यादि, सर्वभावानामनन्तशः प्राप्तत्वात्, अतः श्रद्धा अभिलाषः, क्षमं युक्तो धर्मानुष्ठानं कर्तुमिति शेषः, ‘णेत्ति' नोऽस्माकं 'विणइत्तुत्ति' व्यपनीय रागं स्वजनाभिष्वङ्गलक्षणमिति सूत्रद्वयार्थः ॥ २८ ॥ इदञ्चाकर्ण्य जातव्रताशयो भृगुाह्मणी धर्मविघ्नकरी मत्वेदमाह -
मूलम् - पहीणपुत्तस्स हु नत्थि वासो, वासिट्ठि भिक्खायरिआइ कालो।
साहाहिं रुक्खो लहई समाहिं , छिन्नाहिं साहाहिं तमेव खाणुं ॥ २९ ॥ व्याख्या - 'पहीणपुत्तस्स त्ति' पुत्राभ्यां प्रहीणस्त्यक्तः पुत्रप्रहीणस्तस्य प्राकृतत्वात् पूर्वापरनिपातः, हुः पूरणे नास्ति वासोऽवस्थानं मम गृह इति शेषः, हे वाशिष्ठि ! वशिष्ठगोत्रोद्भवे! भिक्षाचर्याया व्रतस्य कालः प्रस्तावो वर्त्तते इति गम्यं। किमित्येवमत आह-शाखाभिर्वृक्षो लभते समाधि स्वास्थ्यं, छिन्नाभिः शाखाभिस्तमेव वृक्षं स्थाणुं जनो वदतीति शेषः, यथा हि शाखा द्रुमस्य शोभा संरक्षणादिना समाधिहेतव एवं ममाप्येतौ सुतौ तद्रहितश्चाहमपि स्थाणुकल्प एवेति भावः ॥ २९ ॥ किञ्च
UTR-2
॥१९३॥
Page #196
--------------------------------------------------------------------------
________________
अध्य. १४
उत्तराध्ययनसूत्रम् ॥ १९४॥
मूलम् - पंक्खाविहूणो व्व जहेह पक्खी, भिच्चव्विहूणो व्व रणे नरिंदो ।
विवन्नसारो वणिओ व्व पोए, पहीणपत्तोहिम तहा अहं पि ॥३०॥ . व्याख्या-पक्षविहीनो वा दृष्टान्तान्तरसमुच्चये, यथेहलोके पक्षी, भृत्यविहीनो वा रणे नरेन्द्रो, विपन्नसारो विनष्टहिरण्यादिद्रव्यो वणिगिव पोते प्रवहणे भिन्ने इति शेषः, एते यथा व्यसनभागितया विषीदन्ति पुत्रप्रहीणस्तथाहमप्यस्मीति सूत्रद्वयार्थः॥३०॥वाशिष्ठ्याहमूलम् - सुसंभिआ कामगुणा इमे ते, संपिडिआ अग्गरसप्पभूआ।
भुंजामु ता कामगुणे पगामं पच्छा गमिस्सामि पहाणमग्गं ॥ ३१॥ व्याख्या-सुसम्भृताः सुष्ठ संस्कृताः कामगुणा इमे स्वगृहवर्तिनस्ते तव, तथा सम्पिण्डिताः पुञ्जीकृताः 'अग्गरस त्ति' चस्य गम्यत्वादग्र्याः प्रधानास्ते च ते रसाश्च मधुरादयो अग्यरसाः प्रभूताः, कामगुणान्तर्गतत्वेऽपि रसानां पृथगुपादानमतिगृद्धहेतुत्वात् भुञ्जीवहि तत् तस्मात्कामगुणान् प्रकाममत्यर्थं पश्चाद् वृद्धावस्थायां गमिष्याव: प्रधानमार्ग प्रव्रज्यारूपं मुक्तिमार्गमिति सूत्रार्थः ॥ ३१॥ भृगु प्राह
मूलम्- भुत्ता रसा भोइ ! जहाइ णे वओ, न जीविअट्ठाए जहामि भोए।
लाभं अलाभं च सुहं च दुक्खं, संविक्खमाणो चरिस्सामि मोणं ॥ ३२॥ व्याख्या-भुक्ताः सेविता रसा उपलक्षणत्वाच्छेषकामगुणाश्च 'भोइ त्ति' हे भवति ! ब्राह्मण्या आमन्त्रणमेतत्, जहाति त्यजति नोऽस्मान् वयः, प्रक्रमादिष्टक्रियाकरणक्षम, उपलक्षणत्वाज्जीवितं च, ततो यावत्तन्न त्यजति तावत्प्रव्रजाम इति भावः। दीक्षां हि भवान्तरभाविभोगार्थं गृह्णासि ते चाधुनापि सन्त्येव तत्किं तयेति प्रेरणायामाह - न जीवितार्थमसंयमजीवितहेतोः प्रजहामि
UTR-2
॥१९४॥
Page #197
--------------------------------------------------------------------------
________________
अध्य. १४
उत्तराध्ययनसूत्रम् । १९५ ॥
भोगान् किन्तु लाभमलाभं, सुखं चस्य भिन्नक्रमाद् दुःखं च 'संविक्खमाणो त्ति' समतया ईक्षमाणः, लाभालाभसुखदुःखजीवितमरणादिषु समतामेव भावयन्निति भावः, चरिष्यामि मौनं मुनिभावं, ततो मुक्त्यर्थमेव मे दीक्षाप्रतिपत्तिरिति सूत्रार्थः ॥ ३२॥ यशा प्राह
मूलम्- मा हु तुमं सोअरिआण संभरे, जुण्णो व्व हंसो पडिसोअगामी।
भुंजाहि भोगाई मए समाणं, दुक्खं ख भिक्खायरिआ विहारो ॥३३॥ व्याख्या-मा निषेधे, हुर्वाक्यालङ्कारे, त्वं सौदर्याणां भ्रातृणामुपलक्षणत्वाच्छेषस्वजनानां भोगानां च 'संभरे त्ति' स्मार्षीः 'जुण्णोव्व हंसो त्ति' जीर्णो हंस इव प्रतिश्रोतोगामी सन्, अयं भाव:- यथासौ नदीस्रोतसि प्रतिकूलगमनमतिकष्टमारभ्यापि तत्राशक्तः पुनरनुस्रोत एव धावति, तथा त्वमपि व्रतभारं वोढुमक्षमः स्वजनान् भोगांश्च स्मरिष्यसि, ततो भुंक्ष्व भोगान् मया समानं | सार्द्ध । 'दुक्खं खुत्ति' दुःखमेव भिक्षाचर्या भिक्षाटनं, विहारो ग्रामादिष्वप्रतिबद्धविहारः, उपलक्षणञ्चैतच्छिरोलोचादीनामिति सूत्रार्थः ॥३३॥ भृगुः प्राह-- मूलम् - जहा य भोइ ! तणुअंभुअंगमो, निम्मोअणि हेच्च पलेड मत्तो।
एमए जाया पयहंति भोए, तेऽहं कहं नाणुगमिस्समिक्को ॥३४॥ व्याख्या - यथा चः पूर्ती 'भोइत्ति' हे भवति ! तनुजां देहोद्भवां भुजङ्गमो निर्मोचनी कञ्चलिकां हित्वा पर्येति समन्ताद्गच्छति मुक्तो निरपेक्षः, 'एमएत्ति' एवमेतौ जातौ प्रजहीतस्त्यजतो भोगान् तौ जातौ अहं कथं नाऽनुगमिष्यामि ? प्रव्रज्याग्रहणेनानुसरिष्यामि ? एकोऽद्वितीयः, किं ? ममासहायस्य गृहवासेनेति भावः ॥३४॥ तथा -
UTR-2
॥१९५॥
Page #198
--------------------------------------------------------------------------
________________
अध्य. १४
उत्तराध्ययनसूत्रम् ॥१९६ ॥
मूलम्-छिदित्तु जालं अबलं व रोहिआ, मच्छा जहा कामगुणे पहाय।
धोरेज्जसीला तवसा उदारा, धीरा हु भिक्खायरिअंचरंति ॥३५॥ व्याख्या- छित्वा जालमबलमिव दुर्बलमिव बलियोऽपीति शेषः, रोहिता रोहितजातीया मत्स्याश्चरन्तीति सम्बन्धः, यथेति दृष्टान्तोपन्यासे, तथेति गम्यते, ततश्च तथा जालरूपान् कामगुणान् प्रहाय त्यक्त्वा धुरि वहन्ति धौरेयास्तेषामिव शीलमुत्क्षिप्तभारनिर्वाहलक्षणं येषां ते तथा, तपसाऽनशनादिनोदाराः प्रधानाः, धीराः सात्त्विकाः 'हु रिति' यस्माद्भिक्षाचर्या व्रतं चरन्त्यतोऽहमपीत्थं व्रतमेव ग्रहीष्यामीति सूत्रद्वयार्थः॥ ३५ ॥ इत्थं प्रतिबोधिता ब्राह्मण्याह -- मूलम् - नभे व कोंचा समइक्कमंता, तताणि जालाणि दलित्त हंसा।
पलिंति पुत्ता य पई अमज्झं, तेऽहं कहं नाणुगमिस्समिक्का ॥३६॥ व्याख्या -- नभसीव क्रोञ्चाः समतिक्रामन्तस्तान् तानुद्देशानुल्लङ्घयन्तः, ततानि दीर्घाणि जालानि बन्धनानि दलित्वा र भित्त्वा 'हंस त्ति' चस्य गम्यत्वात् हंसाश्च 'पलिंति त्ति' परियन्ति समन्ताद्गच्छन्ति, एवं पुत्रौ च पतिश्च मझं ति' मम सम्ब
न्धिनो ये ततजालोपमं विषयाभिष्वङ्गं हित्वा नभ:कल्पे निरुपलेपे संयमाध्वनि तानि तानि संयमस्थानान्यतिक्रामन्तो यान्ति तानहं कथं नानुगमिष्याम्येका सतीति सूत्रार्थः ॥३६॥ इत्थं चतुर्णामपि व्रतप्रतिपत्तौ यदभूत्तद्वादशभिः सूत्रैराह ---
UTR-2
॥१९६॥
Page #199
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
॥ १९७ ॥
मूलम् - पुरोहिअं तं ससुअं सदारं, सुच्चाऽभिणिक्खम्म पहाय भोए । कुटुंबसारं विलुत्तमं तं रायं अभिक्खं समुवाय देवी ॥ ३७ ॥
व्याख्या पुरोहतं तं ससुतं सदारं श्रुत्वाऽभिनिष्क्रम्य गृहान्निर्गत्य प्रहाय भोगान् प्रव्रजितमिति शेषः, कुटुम्बसारं धनधान्यादि, विपुलं च तदुत्तमं च विपुलोत्तमं तत्पुरोहितत्यक्तं गृह्णन्तमिति शेषः, 'रायंति' राजानं, अभीक्ष्णं पुनः पुनः समुवाच सम्यगुक्तवती देवी कमलावती नाम्नी ॥ ३७ ॥ किं तदित्याह -
मूलम् - वंतासी पुरीसो रायं, न सो होइ पसंसिओ । माहणेण परिच्चत्तं, धणं आयाउमिच्छसि ॥ ३८ ॥
-
व्याख्या - वान्ताशी वान्तभोजी पुरुषो य इति शेषः, हे राजन् ! न स भवति प्रशंसितो धीधनैरिति शेषः, कथमहं वान्ताशीत्याह - यतो ब्राह्मणेन परित्यक्तं धनमादातुमिच्छसि ! त्यक्तधनं हि गृहीतोज्झितत्वेन वान्तकल्पं तच्चादित्सुर्भवानपि वान्ताश्येव, न चैतद्भवादृशामुचितमित्याशयः ॥ ३८ ॥ किञ्च -
UTR-2
अध्य. १४
॥१९७॥
Page #200
--------------------------------------------------------------------------
________________
अध्य. १४
उत्तराध्ययनसूत्रम् ॥१९८॥
मूलम् - सव्वं जगं जइ तुहं, सव्वं वाऽवि धणं भवे।
सव्वंपि ते अपज्जत्तं, नेव ताणाय तं तव ॥३९॥ व्याख्या-सर्वं जगद्यदि 'तुहंति' तव आयत्तमिति शेषः, सर्वं वापि धनं भवेत् सर्वमपि तत्ते तवापर्याप्तमशक्त| मिच्छां पूरयितुमिति शेषः, अपर्यवसितत्वात्तस्याः । तथा नैव त्राणाय जरामरणाद्यपनोदाय तदिति सर्वं जगद्धनं वा तवेति ॥३९॥ किञ्च -
मूलम् -मरिहिसि राय जया तया वा, मणोरमे कामगुणे पहाय ।
इक्को हु धम्मो नरदेवताणं, न विज्जइ अन्नमिहेह किंची ॥४०॥ व्याख्या - मरिष्यसि राजन् ! यदा तदा वा काले, जातस्य धुवं मृत्युर्यदुक्तं - "क्वचित्सखे ! त्वया दृष्टः, श्रुतः सम्भावितोऽथवा ॥ क्षितौ वा यदि वा स्वर्गे, यो जातो न मरिष्यति ? ॥१॥ " मनोरमान् कामभोगान् प्रजहाय त्यक्त्वा न तु किञ्चित्त्वया सहाऽऽयास्यतीति भावः । ततः ‘एगो हुत्ति' एक एव धर्मो नरदेवत्राणं शरणं, न विद्यते अन्यत् ‘इहेहत्ति' इहलो के इह च मरणे किञ्चित्त्राणमिति सम्बन्धः, ततो धर्म एव विधेयो विद्वद्भिरिति भावः ॥ ४० ॥ यतो धर्माद्विना न त्राणं ततः
___UTR-2
॥१९८॥
Page #201
--------------------------------------------------------------------------
________________
अध्य. १४
उत्तराध्ययनसूत्रम् ॥१९९ ॥
मूलम् - नाऽहं रमे पक्खिणि पंजरे वा , संताणछिन्ना चरिस्सामि मोणं ।
अकिंचणा उज्जुकडा निरामिसा, परिग्गहारंभनिअत्तदोसा ॥४१॥ व्याख्या - नाऽहं रमे रतिमवाप्नोमि पक्खिणि पंजरे वत्ति' पक्षिणीव पञ्जरे, अयं भावः- यथाऽसौ दुःखदायिनि | पञ्जरे रतिं न प्राप्नोति एवमहमपि जरामरणाद्युपद्रवविद्रुते भवपञ्जरे । अत एव 'संताणछिन्नत्ति' छिन्नसन्ताना प्रक्रमाद्विनाशितस्नेहसन्ततिः चरिष्यामि मौनं मुनिभावं, अकिञ्चना हिरण्यादिकिञ्चनरहिता, ऋजु मायारहितं कृतमनुष्ठानं यस्याः सा ऋजुकृता, निष्क्रान्ता आमिषाद्विषयादेनिरामिषा परिग्रहारम्भावेव जीवदूषणाद्दोषौ ताभ्यां निवृत्ता परिग्रहारम्भदोषनिवृत्ता, सूत्रे चैवमुपन्यासः प्राकृतत्वात् ॥ ४ ॥ तथामूलम् - दवग्गिणा जहारणे, डज्झमाणेसु जंतुसु । अन्ने सत्ता पमोअंति, रागद्दोसवसंगया ॥ ४२ ॥
व्याख्या - दवाग्निना यथाऽरण्ये दह्यमानेषु जन्तुषु अन्ये सत्त्वा अविवेकिनः प्रमोदन्ते रागद्वेषवशङ्गताः ॥ ४२॥ मूलम् - एवमेव वयं मूढा, कामभोगेसु मुच्छिआ । डज्झमाणं न बुज्झामो, रागदोसग्गिणा जगं ॥ ४३ ॥
व्याख्या - एवमेव वयं मूढा मोहवशगाः कामभोगेषु मूर्च्छिता: दह्यमानं न बुध्यामहे रागद्वेषाग्निना जगत् प्राणि
UTR-2
॥१९९॥
Page #202
--------------------------------------------------------------------------
________________
अध्य. १४
उत्तराध्ययनसूत्रम् ॥ २००॥
समूह, यो हि सविवेको रागादिरहितश्च स्यात् स दावाग्निना दह्यमानानन्यसत्त्वान् दृष्ट्वा स्वरक्षणोपायपर एव स्यान्न | तु मोदते, यस्तु मूर्खा रागादिमांश्च स आयतिमचिन्तयन्मोदते, ततो वयमपि भोगात्यागादज्ञानिन एवेति भावः ॥ ४३ ॥ ये त्वेवंविधा न स्युस्ते किं कुर्युरित्याह -- मूलम् - भोगे भुच्चा वमित्ता य, लहुभूयविहारिणो । आमोदमाणा गच्छंति, दिया कामकमा इव ॥ ४४ ॥
व्याख्या - भोगान् भुक्त्वा पुनरुत्तरकालं वान्त्वा च लघुर्वायुस्तद्भूताः सन्तो विहरन्तीत्येवं शीला लघुभूतविहारिणोऽप्रतिबद्धविहारिण इत्यर्थः, आमोदमानाः प्रमोदं यान्तस्तथाविधानुष्ठानेनेति शेषः, गच्छन्ति विवक्षितस्थानमिति शेषः, क इव ? भिन्नक्रमस्य इवशब्दस्येह योगात् द्विजा इव पक्षिण इव कामक्रमाः स्वेच्छाचारिणः, यथा हि द्विजा यत्र यत्र रोचते तत्र तत्र मोदमाना भ्राम्यन्ति, एवं मुनयोऽप्यभिष्वङ्गाभावाद्यत्र यत्र संयमनिर्वाहस्तत्र तत्र यान्तीति भावः ॥ ४४ ॥ पुनरर्थादिषु रागं निराकर्तुमाह - मूलम् - इमे अ बद्धा फंदंति, मम हत्थज्जमागया । वयं च सत्ता कामेसु, भविस्सामो जहा इमे ॥४५॥
व्याख्या - इमे प्रत्यक्षाः शब्दादयो विषयाश्चोऽप्यर्थे भिन्नक्रमश्च, ततो बद्धा अपि नियंत्रिता अपि बहूपायै रक्षिता अपीत्यर्थः, स्पन्दन्ते इव स्पन्दन्ते अस्थितिधर्मतया कम्पन्ते, ये कीदृशा इत्याह -मम उपलक्षणत्वात्तव च हस्तं हे | आर्य ! आगताः स्ववशा इत्यर्थः, 'वयं च' वयं पुनः सक्ताः कामेष्वेवंविधेष्वपि तदहो मोहविलसितमिति भावः ! यतः
UTR-2
॥२००॥
Page #203
--------------------------------------------------------------------------
________________
अध्य. १४
उत्तराध्ययनसूत्रम् ॥ २०१॥
एवं ततो भविष्यामो यथेमे पुरोहितादयः, अयं भाव:- यथामीभिश्चञ्चलत्वं वीक्ष्यामी त्यक्तास्तथा वयमपि त्यक्षाम: इति ॥ ४५ ॥ नन्वस्थिरा अपि कामाः, सुखहेतवस्तत्किं त्यज्यन्ते ? इत्याह - मूलम् - सामिसं कुललं दिस्स, बज्झमाणं निरामिसं। आमिसं सव्वमुज्झित्ता, विहरिस्सामो निरामिसा ॥ ४६॥
व्याख्या - सामिषं पिशितरूपामिषयुक्तं कुललं गृधं शकुनिकां वा दृष्ट्वा बाध्यमानं पीड्यमानं विहगान्तरैरिति गम्यते , निरामिषं च तमेव निर्भयं वीक्ष्येति शेषः, आमिषं धनधान्यादिसङ्गहेतुं सर्वमुज्झित्वा विहरिष्याम्यप्रतिबद्धविहारेण निरामिषा निःसङ्गा ॥ ४६॥ उक्तानुवादेनोपदेष्टुमाह - मूलम् - गिद्धोवमे उ नच्चा णं, कामे संसारवड्डणे । उरगो सुवण्णपासे वा, संकमाणो तणुं चरे ॥ ४७ ॥
व्याख्या - गृध्रोपमान् सामिषगृध्रसमान्, तुः पूर्ती, ज्ञात्वा, णं वाक्यालंकारे, कामयन्ते शब्दादीन् वाञ्छन्तीति कामा विषयाभिलाषिणस्तान् संसारवर्द्धनान्, 'उरगो सुवण्णपासेवत्ति' उरग इव सुपर्णपार्श्वे गरुडाभ्यणे शङ्कमानो भयत्रस्तस्तनु स्तोकं यतनयेत्यर्थः चरेः क्रियासु प्रवर्तेथाः, यथा गरुडोपमैविषयैर्न बाध्यसे तथा यतस्वेति भावः ॥ ४७ ॥ ततश्च - मूलम् - नागोव्व बंधणं छित्ता, अप्पणो वसई वए । एअं पत्थं महारायं, इसुआरेत्ति मे सुयं ॥ ४८ ॥
व्याख्या - नाग इव बन्धनं छित्त्वा आत्मनो वसतिं व्रज, अयं भाव:- यथा हस्ती बन्धनवरत्रां छित्त्वात्मनो वसति विन्ध्याटवीं व्रजत्येवं त्वमपि कर्मबन्धनं छित्वा आत्मनः शुद्धजीवस्य वसतिमाश्रयं मुक्तिं व्रजेः, अनेन दीक्षायाः
UTR-2
॥२०१॥
Page #204
--------------------------------------------------------------------------
________________
अध्य. १४
उत्तराध्ययनसूत्रम् ॥ २०२॥
फलमुक्तं, एवमुपदिश्योपसंहरति । एतद्यन्मयोक्तं पथ्यं हितं महाराज ! इषुकार ! इत्येतन्मया श्रुतं साधुभ्यो न तु स्वधियैवोच्यत इति सूत्रद्वादशकार्थः ॥४८॥ एवं च तद्राि प्रतिबुद्धो नृपस्ततो यत्तौ द्वावपि चक्रतुस्तदाहमूलम्-चइत्ता विउलं रज्जं, कामभोगे अ दुच्चए। निव्विसया निरामिसा, निन्नेहा निप्परिग्गहा ॥४९।।
व्याख्या-त्यक्त्वा विपुलं राज्यं कामभोगांश्च दुस्त्यजान् निर्विषयौ विषयरहितावत एव निरामिषौ अभिष्वङ्गहेतुरहितौ, निःस्नेही निःप्रतिबन्धौ, निःपरिग्रही मूर्छारहितौ ॥४९॥ मूलम्-सम्मं धम्मं विआणित्ता, चिच्चा कामगुणे वरे । तवं पगिज्झ जहक्खायं, घोरं घोरपरक्कमा ॥५०॥
व्याख्या-सम्यग्धर्मं श्रुतचारित्रात्मकं विज्ञाय त्यक्त्वा कामगुणान् वरान्, पुनः कामगुणत्यागाभिधानमतिशयख्यापकं , तपोऽनशनादि प्रगृह्याङ्गीकृत्य यथाख्यातं यथा येन प्रकारेण जिनैराख्यातं कथितं घोरमतिदुष्कर, घोरः पराक्रमः कारिजयं प्रति ययोस्तौ घोरपराक्रमौ प्रवव्रजतुरिति शेष इति सूत्रद्वयार्थः ॥५०॥ सम्प्रति समस्ताध्ययनार्थोपसंहारमाहमूलम्-एवं ते कमसो बुद्धा, सव्वे धम्मपरायणा । जम्ममच्चुभओव्विग्गा, दुक्खस्संतगवेसिणो ॥५१॥
व्याख्या-एवममुना प्रकारेण तानि पूर्वोक्तानि षडपि क्रमशो यथोक्तक्रमेण बुद्धानि सर्वाणि धर्मपरायणानि जन्ममृत्युभयोद्विग्नानि दुःखस्यान्तगवेषकानि ॥५१॥
UTR-2
॥२०२॥
Page #205
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम्
॥ २०३ ॥
मूलम् - सासणे विगयमोहाणं, पुव्विं भावणभाविआ । अचिरेणेव कालेणं, दुक्खस्संतमुवागया ॥ ५२ ॥ व्याख्या - शासने विगतमोहानामर्हतां पूर्वमन्यजन्मनि भावनया धर्माभ्यासरूपया भावितानि वासितानि भावनाभावितानि, अचिरेणैव कालेन स्वल्पकालेनैव दुःखस्यान्तं मोक्षमुपागतानि प्राप्तानि सर्वत्र प्राकृतत्वात् पुल्लिङ्गनिर्देशः ॥ ५२ ॥ मन्दमतिस्मरणाय पुनरध्ययनार्थमुपसंहरन्नाह -
मूलम् - राया य सह देवीए, माहणो अ पुरोहिओ । माहणी दारगा चेव, सव्वे ते परिनिव्वुडत्ति बेमि ॥ ५३ ॥ व्याख्या - राजा इषुकारः सह देव्या कमलावत्या, ब्राह्मणश्च पुरोहितो भृगुः, ब्राह्मणी यशा, दारकौ तत्पुत्रौ चैव पूर्त्ते, सर्वाणि तानि परिनिर्वृतानि मुक्तिं गतानीति सूत्रार्थः ॥ ५३ ॥ इति ब्रवीमीति प्राग्वत् ॥
➖➖➖➖➖➖‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒
इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिशिष्यमहोपाध्याय श्रीमुनिविमलगणिभुजिष्यो - पाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ चतुर्दशमध्ययनं सम्पूर्णम् ॥ १४ ॥
UTR-2
अध्य. १४
॥२०३॥
Page #206
--------------------------------------------------------------------------
________________
॥ अथ पञ्चदशमध्ययनम् ॥
अध्य. १५
उत्तराध्ययनसूत्रम् ॥ २०४॥
॥ अहम् ॥ व्याख्यातं चतुर्दशमध्ययनं सम्प्रति सभिक्षुनामकं पञ्चदशमारभ्यते, अस्य चायं सम्बन्धः, इहानन्तराध्ययने | निर्निदानतागुण उक्तः, स च मुख्यतया भिक्षोरेवेति तद्गुणा इहोच्यन्ते, इत्यनेन सम्बन्धेनायातस्यास्येदमादिसूत्रम् -
मूलम् - मोणं चरिस्सामि समेच्च धम्म, सहिए उज्जुकडे निआणच्छिन्ने ।
संथवं जहिज्ज अकामकामे, अण्णाएसी परिव्वए स भिक्खू ॥१॥ व्याख्या-मौनं श्रामण्यं चरिष्यामीत्यभिप्रायेणेति शेषः, समेत्य प्राप्य धर्म श्रुतचारित्रभेदं, सहितो युक्तोऽन्यसाधुभिरिति गम्यं, न त्वेकाकी, एकाकिभावस्यागमे निषिद्धत्वात्, यदुक्तं -'इक्कस्स कओ धम्मो, सच्छंदगई मइप्पयारस्स ॥ किं वा करेड़ इक्को, परिहरउ कहमकज्जं वा? ॥१॥ तथा ऋजुकृतोऽशठानुष्ठान: 'निआणछिन्ने त्ति' छिन्नमपनीतं निदानं विषयाद्यभिष्वङ्गरूपं येन स छिन्ननिदानः, व्यत्ययस्त्विहोत्तरत्र च प्राकृतत्वात्, संस्तवं मात्रादिभिः परिचयं जह्यात्त्यजेत्, अकामकामः न कामाभिलाषी, अज्ञातस्तपस्वितादिगुणैरेषयते ग्रासादिकमित्येवंशीलोऽज्ञातैषी, परिव्रजेदनियतविहारेण विहरेत् ‘स भिक्खु त्ति' य एवं| विधः स भिक्षुरनेन सिंहतया निष्क्रम्य सिंहतयैव विहरणं भिक्षुतानिमित्तमिति सूचितमिति सूत्रार्थः ॥१॥ सिंहतया विहारमेव विशेषत आह
UTR-2
॥२०४॥
Page #207
--------------------------------------------------------------------------
________________
अध्य. १५
उत्तराध्ययनसूत्रम् ॥ २०५ ॥
मूलम् - राओवरयं चरिज्ज लाढे, विरए वेअवि आयरक्खिए ।
पण्णे अभिभूय सव्वदंसी, जे कम्हिवि न मुच्छिए स भिक्खू ॥२॥ व्याख्या-'राओवरयं ति' उपरतरागं यथा स्यात्तथा चरेद् विहरेत् 'लाढे त्ति' सदनुष्ठानतया प्रधानः, विरतोऽसंयमान्निवृत्तो, वेदविदागमवेदी 'आयरक्खिए त्ति' आत्मा रक्षितो दुर्गतेर्येन स आत्मरक्षितः, यद्वा आया:-सम्यक्त्वादिलाभा रक्षिता येन स आयरक्षितः, प्राज्ञो हेयोपादेयबुद्धिमान् , अभिभूय परिषहोपसर्गानिति शेषः, सर्वं प्राणिवर्गमात्मवत्पश्यतीति सर्वदर्शी, य: कस्मिंश्चित्सचित्तादिवस्तुनि न मूर्च्छितः स भिक्षुरिति सूत्रार्थः ॥२॥ तथा --
मूलम् - अक्कोसवहं विइत्तु धीरे, मणी चरे लाढे निच्चमायगत्ते।
अव्वग्गमणे असंपहिले, जो कसिणं अहिआसए स भिक्खू ॥३॥ व्याख्या-आक्रोशश्च वधश्च आक्रोशवधं तद्विदित्वा स्वकृतकर्मफलमेतदिति मत्वा धीरोऽक्षोभ्यः मुनिश्चरेदप्रतिबद्धविहारेण 'लाढे त्ति' प्राग्वत्, नित्यं सदा आत्मा रक्षितोऽसंयमस्थानेभ्यो येन स तथा, अव्यग्रमसमञ्जसचिन्तोपरतं मनो यस्य स तथा, असम्प्रहष्टः आक्रोशदानादिषु न सम्प्रहर्षवान्, अमून्याक्रोशवाक्यानि कर्मक्षयहेतुतया ममानन्दाय जायन्ते परमयं वराको मुनीनाशात्य कथं भविष्यतीत्यादिकमप्यजल्पन्नित्यर्थः, यः कृत्स्नं समस्तमाक्रोशवधमध्यास्ते सहते स भिक्षुरिति सूत्रार्थः ॥ ३ ॥ किञ्च
मूलम्-पंतं सयणासणं भइत्ता, सीउण्हं विविहं च दंसमसगं ।
UTR-2
॥२०५॥
Page #208
--------------------------------------------------------------------------
________________
अध्य. १५
उत्तराध्ययनसूत्रम् ॥ २०६॥
अव्वग्गमणे असंपहिले, जो कसिणं अहिआसए स भिक्खू ॥४॥ व्याख्या-प्रान्तमवमं शयनासनं उपलक्षणत्वाद्भोजनाच्छादनादि च भक्त्वा सेवित्वा शीतोष्णं विविधं च दंशमशकं प्राप्येति शेषः, सर्वत्रापि समाहारद्वन्द्वः, शेषं प्राग्वदिति सूत्रार्थः ॥ ४ ॥ अन्यच्च
मूलम् - णो सक्किअमिच्छई न पूअं, नो विअ वंदणगं कओ पसंसं ।
से संजए सुव्वए तवस्सी, सहिए आयगवेसए स भिक्खू ॥ ५॥ व्याख्या - नो नैव सत्कृतं सत्कारमभ्युत्थानानुगमनादिकमिच्छति, न पूजां वस्त्रादिसपर्यां, नोऽपि च नैव च वन्दनकं द्वादशावर्तादिकं, कुत: प्रशंसां निजगुणोत्कीर्तनरूपां? नैवेच्छतीति भावः । स एवंविधः सम्यग् यतते सदनुष्ठानं प्रतीति संयतः, सुव्रतः शोभनव्रतस्तपस्वी प्रशस्यतपाः, सहितः सम्यग्ज्ञानक्रियाभ्यां, यद्वा सह हितेनायति पथ्येनानुष्ठानेन वर्त्तते इति सहितः, आत्मानं कर्ममलापगमाच्छुद्धं गवेषयतीत्यात्मगवेषको यः स भिक्षुरितिसूत्रार्थः ॥५॥ तथा -
मूलम् - जेण पुण जहाइ जीवि, मोहं वा कसिणं निअच्छड नरनारिं।
पजहे सया तवस्सी,न य कोऊहलं उवेइ स भिक्खू ॥६॥ ___ व्याख्या-येन हेतुभूतेन पुन:शब्दोऽस्य सर्वथा संयमघातित्वविशेषद्योतको जहाति त्यजति जीवितं संयमजीवितं, मोहं al वा मोहनीयं कषायनोकषायादिरूपं कृत्स्नं सकलं नियच्छति बध्नाति तदेवंविधं नरश्च नारी च नरनारि प्रजह्यात् त्यजेत्सदा, यस्त
UTR-2
॥२०६॥
Page #209
--------------------------------------------------------------------------
________________
अध्य. १५
उत्तराध्ययनसूत्रम् ॥ २०७॥
पस्वी, न च कुतूहलं अभुक्तभोगत्वे स्त्र्यादिविषयं, उपलक्षणत्वाद्भुक्तभोगत्वे स्मृति चोपैति स भिक्षुरिति सूत्रार्थः ॥ ६॥अथ पिण्डविशुद्धिद्वारेण भिक्षुत्वमाह -- मूलम् - छिन्नं सरं भोममंतलिक्खं, सुविणं लक्खणदंडवत्थुविज्जं ।
अंगविआरं सरस्स विजयं, जो विज्जाहिं न जीवई स भिक्खू॥ ७॥ व्याख्या - छेदनं छिन्नं वस्त्रदन्तकाष्ठादीनां तद्विषयशुभाशुभनिरूपिका विद्यापि छिन्नमित्युक्ता, एवं सर्वत्र । “देवेसु उत्तमो लाहो, माणुसेसु अ मज्झिमो ॥ आसुरेसु अ गेलन्नं, मरणं जाण रक्खसे ॥१॥" इत्यादि छिन्नं । 'सरं ति' स्वरस्वरूपाभिधानं "सज्जं रखइ मयूरो" इत्यादिकं । "सज्जेण लहइ वित्ति, कयं च न विणस्सइ ।। गावो पुत्ता य मित्ता य, नारीणं होति वल्लहो ॥१॥" इत्यादिकं च । तथा भूमौ भवं भौमं भूकम्पादिलक्षणं, "शब्देन महता भूमि -र्यदा रसति कम्पते ॥ सेनापतिरमात्यश्च , राजा राष्ट्रं च पीड्यते ॥ १॥" इत्यादि । अन्तरिक्षमाकाशं तत्र भवमान्तरिक्षं गन्धर्वनगरादिकं, यथा -"कपिलं सस्य घाताय, माञ्जिष्ठं हरणं गवाम् ॥अव्यक्तवर्णं कुरुते, बलक्षोभं न संशयः ॥१॥ गन्धर्वनगरं स्निग्धं, सप्राकारं सतोरणम् ॥ सौम्यादिशं समाश्रित्य, राज्ञस्तद्विजयङ्करम् ॥२॥" इत्यादि । स्वप्नं स्वप्नगतशुभाशुभकथनं, यथा "गायने रोदनं विद्या-नर्त्तने वधबन्धनम् ॥ हसने शोचनं
UTR-2
॥२०७॥
Page #210
--------------------------------------------------------------------------
________________
अध्य. १५
उत्तराध्ययनसूत्रम् ॥ २०८॥
ब्रूया-त्पठने कलहं तथा ॥१॥" इत्यादि । तथा लक्षणं स्त्रीपुरुषादीनां, यथा -" चक्खुसिणेहे सुभगो, दंतसिणेहे अ भोअणं मिटुं ॥ तयनेहेण य सोक्खं, नहनेहे होति परमधणं ॥१॥" इत्यादि । तथा दण्डो यष्टिस्तत्स्वरूपकथनम्, “एगपव्वं पसंसंति, दुपव्वा कलहकारिआ" इत्यादि । तथा वास्तुविद्यां प्रासादादिलक्षणाभिधायकं शास्त्रं, तथा अङ्गविकारः शिरःस्फुरणादिना शुभाशुभस्वरूपकथनम्, "सिरफुरणे किर रज्जं, पिअमेलो होइ बाहुफुरणंमि'' इत्यादि । स्वरस्य दुर्गाशिवादिरूतरूपस्य विजयः शुभाशुभनिरूपणाभ्यासः स्वरविजयः, "गतिस्तारा स्वरो वामो, दुर्गायाः शुभदः स्मृतः ॥ विपरीतः प्रवेशे तु, स एवाभीष्टदायकः ॥१॥" इत्यादि । ततो य एताभिविद्याभिर्न जीवति, नैता एव जीविकाः प्रकल्प्यप्राणान् धारयति स भिक्षुरिति सूत्रार्थः ॥ ७॥ तथा --
मूलम् - मंतं मूलं विविहं विज्जचिंतं, वमणविरेअणधूमनित्तसिणाणं ।
__ आउरे सरणं तिगिच्छत्तं च, तं परिणाय परिव्वए स भिक्खू॥ ८॥ व्याख्या - मंत्रं ॐ कारादिस्वाहापर्यन्तं, 'मूलं ति' सहदेव्यादिमूलिकाकल्पशास्त्रं विविधां नानाप्रकारां वैद्यचिन्तां वैद्यसम्बन्धिनी पथ्यौषधादिव्यापारात्मिकां चिन्तां "वर्जयेद् द्विदलं शूली, कुष्टी मांसं ज्वरी घृतम् ॥ नवमन्नमतीसारी नेत्ररोगी च मैथुनम् ॥ १॥" इत्यादिकां । वमनमुगिरणं, विरेचनं कोष्ठशुद्धिरूपं, धूमं मनःशिलादिसम्बन्धिनं "नेत्त त्ति" नेत्रशब्देनात्र नेत्रसंस्कारकं समीराञ्जनादि परिगृह्यते, स्नानमपत्याद्यर्थ मन्त्रौषधसंस्कृतजलैरभिषेकः, वमनादिनां स्नानान्तानां समाहारद्वन्द्वः, “आउरे
UTR-2
॥२०८॥
Page #211
--------------------------------------------------------------------------
________________
अध्य. १५
उत्तराध्ययनसूत्रम् ॥ २०९॥
सरणं ति" सुप्व्यत्ययादातुरस्य सतः स्मरणं, हा तात ! हा मातरित्यादिरूपं, चिकित्सितं चात्मनो रोगप्रतिकाररूपं, तदिति सर्वं पूर्वोक्तं "परिणाय त्ति" ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज़या च प्रत्याख्याय परिव्रजेत् संयमाध्वनि गच्छेद्यः स भिक्षुरिति सूत्रार्थः ॥८॥ तथा --
मूलम् - खत्तियगणउग्गरायपुत्ता, माहण भोइ अ विविहा य सिप्पिणो।
____नो तेसिं वयइ सलोगपूअं, तं परिणाय परिव्वए स भिक्खू ॥९॥ व्याख्या - क्षत्रिया राजानः, गणा मल्लादिसमूहाः, उग्रा आरक्षकादयः, राजपुत्रा नृपसुतादयः, एतेषां द्वन्द्वः । माहना ब्राह्मणाः, भोगिका विशिष्टनेपथ्यादिभोगवन्तो नृपामात्यादयः, उभयत्र सुपो लुक्, विविधाश्च शिल्पिन: स्थपत्यादयः, ये भवन्तीति शेषः, नो तेषां वदति श्लोकपूजे, तत्र श्लोको यथा- शोभना एते, पूजा यथैतान् पूजयतेति, उभयत्रापि पापानुमत्यादिदोषसम्भवात् । किन्तु तत् श्लोकपूजादिकं द्विविधयापि परिजया परिज्ञाय परिव्रजेद्यः स भिक्षुरिति सूत्रार्थः ॥९॥ किञ्च - मूलम् - गिहिणो जे पव्वइएण दिट्ठा, अपव्वइएण व संथुआ दविज्जा।
तेसिं इहलोइअफलट्ठा, जो संथवं न करेइ स भिक्खू ॥ १०॥ व्याख्या - गृहिणो ये प्रव्रजितेन दृष्टा उपलक्षणत्वात्परिचिताश्च, अप्रव्रजितेन वा गृहस्थावस्थेन वा सह संस्तुता: परिचिता भवेयुः 'तेसिं ति' सुब्व्यत्ययात्तैः सह ऐहलौकिकफलार्थं वस्त्रादिलाभनिमित्तं यः संस्तवं परिचयं न करोति स भिक्षुरिति सूत्रार्थः ॥१०॥ तथा -
UTR-2
॥२०९॥
Page #212
--------------------------------------------------------------------------
________________
अध्य. १५
उत्तराध्ययनसूत्रम् ॥ २१० ॥
मूलम् - सयणासणपाणभोअणं , विविहं खाइमसाइमं परेसिं ।
अदए पडिसेहिए निअंठे, जे तत्थ न पदूसई स भिक्खू ॥ ११ ॥ व्याख्या - शयनासनपानभोजनं विविधं खादिमस्वादिमं 'परेसिं ति' परैर्गृहस्थैः ‘अदए त्ति' अददद्भिः प्रतिषिद्धः क्वचि | त्कारणान्तरे याचमानोऽपि निराकृतो निर्ग्रन्थो बाह्याभ्यन्तरग्रन्थरहितो यस्तत्रादाने न प्रदुष्यति न प्रद्वेषं याति, त्वमेव मे घृतपूरान् दास्यसीति वाचकक्षपकवत् ! स भिक्षुरिति सूत्रार्थः ॥११॥
मूलम् - जं किंचि आहारपाणं, विविहं खाइमसाइमं परेसिं लद्धं ।
___जो तं तिविहेण नाणुकंपे, मणवयकायसुसंवुडे स भिक्खू ॥१२॥ व्याख्या - यत्किञ्चिदल्पमप्याहारपानं अशनपानीयं विविधं खादिमस्वादिमं 'परेसिं ति' परेभ्यो गृहस्थेभ्यो लब्ध्वा प्राप्य यः साधुः 'तं ति' सुप्व्यत्ययात्तेन आहारादिना त्रिविधेन मनोवाक्कायरूपप्रकारत्रयेण नानुकम्पते बालग्लानादीन्नोपकुरुते न स भिक्षुरिति शेषः। यस्तु सुसंवृतमनोवाक्कायः सन्, तेन बालादीननुकम्पते इति गम्यते, स भिक्षुरिति वृद्धव्याख्या ।
यथादृष्टसूत्रव्याख्याने त्वेवमप्यर्थः सम्भवति, यत्किञ्चिदाहारादिकं पूर्वोक्तं परेभ्यो गृहस्थेभ्यो लब्ध्वा यः 'तं ति' वचनव्यत्ययाभत्तान् दातॄन् त्रिविधेन नानुकम्पते, मुधाजीवित्वान्नोपकर्तुमिच्छति स मनोवाक्कायसुसंवृतो भिक्षुरिति सूत्रार्थः ॥ १२॥ तथा --
UTR-2
॥२१०॥
Page #213
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
।। २११ ॥
मूलम् - आयामगं चेव जवोदणं च, सीअं सोवीर जवोदगं च । नो हीलए पिंडं नीरसं तु, पंतकुलाणि परिव्वए स भिक्खू ॥ १३ ॥
व्याख्या- आयामकं अवश्रावणं, 'चेव त्ति' समुच्चये, यवौदनं च यवभक्तं, शीतं शीतलभक्तं, सौवीरं च काञ्जिकं यवोदकं च - यवधावनं सौवीरयवोदकं तच्च नो हीलयेत्, धिगिदं किमनेनानिष्टेनेति न निन्देत् पिण्डं आयामकादिकमेव नीरसमपि तुशब्दस्याप्यर्थत्वात् अत एव प्रान्तकुलानि तुच्छाशयकुलानि दरिद्रगृहाणि वा यः परिव्रजेत् स भिक्षुरिति सूत्रार्थः ॥ १३ ॥ किञ्च --
मूलम् - सद्दा विविहा भवंति लोए, दिव्वा माणुस्सा तहा तिरिच्छा ।
भीमा भयभेरवा उराला, जो सोच्चा न बिहिज्जइ स भिक्खू ॥ १४ ॥
व्याख्या - शब्दा विविधाः परिक्षाप्रद्वेषादिना क्रियमाणतयानेकप्रकारा भवन्ति लोके, दिव्या देवसम्बन्धिनो मानुष्यका मनुष्यसम्बन्धिनस्तथा तैरश्चा तिर्यक्सम्बन्धिनः, भीमा रौद्रा, भयेन भैरवा महाभयोत्पादका भयभैरवाः, उदारा महान्तः, यस्तान् शब्दान् श्रुत्वा न बिभेति धर्मध्यानान्न चलति स भिक्षुरिति सूत्रार्थः ॥ १४ ॥ इत्येतावता सिंहविहारिताया निमित्तमुक्तमथ सकलधर्ममूलं सम्यक्त्वस्थैर्यमाह ---
मूलम् - वायं विविहं समिच्च लोए, सहिए खेदाणुगए अ कोविअप्पा ।
पणे अभिभूअ सव्वदंसी, उवसंते अविहेडए स भिक्खू ।। १५ ।।
UTR-2
अध्य. १५
॥२११ ॥
Page #214
--------------------------------------------------------------------------
________________
अध्य. १५
उत्तराध्ययनसूत्रम् ॥ २१२॥
व्याख्या - वादं विविधं "मुण्डस्य भवति धर्म-स्तथा जटाभिः सवाससां धर्मः । गृहवासेऽपि च धर्मो, वनेऽपि च सतां भवति धर्मः ॥१॥" इत्यादिकुदर्शनान्तराभिप्रायरूपं समेत्य ज्ञात्वा लोके, सहितः 'प्राग्वत्, स्वस्मै हितः स्वहित इति वा, खेदयति कर्मानेनेति खेदः संयमस्तेनानुगतः खेदानुगतः, चः पूरणे, कोविदो लब्धसमयरहस्य आत्मा यस्य स कोविदात्मा ‘पण्णे अभिभूअ सव्वदंसीति' प्राग्वत् उपशान्तो निष्कषायः, अविहेठको न कस्यापि बाधको यः सभिक्षुरिति सूत्रार्थः ॥ १५ ॥ तथा --
मूलम् - असिप्पजीवि अगिहे अमित्ते, जिइंदिए सव्वओ विप्पमुक्के।
अणुक्कसाई लहुअप्पभक्खी ,चिच्चा गिहं एगचरे स भिक्खू ॥१६॥ त्ति बेमि ।। व्याख्या - अशिल्पजीवी चित्रादिविज्ञानजीविकारहितः, अगृहो गृहरहितः, अमित्ते त्ति' उपलक्षणत्वादमित्रशत्रुः, जितेन्द्रियस्तथा सर्वतो बाह्यादाभ्यन्तराच्च, ग्रन्थादिति गम्यते, विप्रमुक्तः । तथा अणवः स्वल्पाः कषाया अस्येति अणुकषायी, लघूनि निःसाराणि निष्पावादीनि अल्पानि च स्तोकानि भक्षितुं शीलमस्येति लघ्वल्पभक्षी । त्यक्त्वा गृहं द्रव्यभावभेदभिन्नं, एको रागद्वेषरहितश्चरतीत्येकचरो यः स भिक्षुः । इति ब्रवीमीति प्राग्वदिति सूत्रार्थः ॥ १६ ॥
१ सहितः ज्ञानक्रियाभ्याम्, यद्वा सह हितेन आयतिपथ्येन अनुष्ठानेन वर्त्तते इति सहितः । २ प्राज्ञो हेयोपादेयबुद्धिमान्, अभिभूय परीषहोपसर्गान्, सर्व प्राणिवर्ग आत्मवत् पश्यतीति सर्वदर्शी ॥
UTR-2
इति श्री तपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिशिष्यमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय
श्री भावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ पञ्चदशमध्ययनं सम्पूर्णम् ॥१५॥
॥२१२॥
Page #215
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
॥ २९३ ॥
॥ अथ षोडशमध्ययनम् ॥
॥ ॐ ॥ व्याख्यातं पञ्चदशमध्ययनमथ षोडशमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने भिक्षुगुणा उक्तास्ते च तत्त्वतो ब्रह्मचर्यस्थितस्य भवन्ति, तदपि ब्रह्मगुप्तिज्ञानेनेति ता इहाभिधीयन्ते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्येदमादिसूत्रम्मूलम् - सुअं मे आउसं तेणं भगवया एवमक्खायं, इह खलु थेरेहिं भगवंतेहिं दस बंभचेरसमाहि ट्ठाणा पण्णत्ता, जे भिक्खू सोच्चा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुतिदिए गुत्तबंभयारी सया अप्पमत्ते विहरिज्जा ॥१॥
व्याख्या- सुधर्मा स्वामी जम्बूनामानमाह श्रुतं मया हे आयुष्मन् ! तेन भगवता ज्ञातकुलजलधिचन्द्रेण श्रीवर्द्धमानजिनेन्द्रेण एवमाख्यातं कथितं कथमित्याह - सोपस्कारत्वात्सूत्रस्यात्र यथेति गम्यते, ततो यथेह प्रवचने खलु निश्चये स्थविरैर्गणधरादिभिर्भगवद्भिर्दश ब्रह्मचर्यसमाधिस्थानानि प्रज्ञप्तानि, अयं भावः- नैषां स्थविराणामियं स्वमनीषिका, किन्तु भगवता - प्येतदेवमेवाख्यातं मया श्रुतं, ततोऽत्र माऽनास्थां कृथाः ! ब्रह्मचर्यसमाधिस्थानान्येव विशिनष्टि - 'ये' इति यानि भिक्षुः श्रुत्वा ssकर्ण्य निशम्यार्थतोऽवधार्य 'संजमबहुले त्ति' प्राकृतत्वाद्बहुल: प्रचुर उत्तरोत्तरस्थानावाप्त्या संयमोऽस्येति बहुलसंयमः, बहुलः संवर आश्रवद्वारनिरोधरूपोऽस्येति बहुलसंवरः, अत एव बहुलसमाधिः तत्र समाधिर्मन: स्वास्थ्यं, गुप्तो मनोवाक्कायैस्तत
अध्य. १६
UTR-2
॥२१३॥
Page #216
--------------------------------------------------------------------------
________________
अध्य. १६
उत्तराध्ययनसूत्रम् ॥ २१४॥
एव च गुप्तेन्द्रियः, तत एव च गुप्तं नवगुप्तिसेवनाद्ब्रह्मेति ब्रह्मचर्यं चरितुं शीलमस्येति गुप्तब्रह्मचारी, सदा अप्रमत्तो विहरेदितिसूत्रार्थः॥१॥
मूलम् - कयरे खलु ते थेरेहिं भगवंतेहिं दस बंभचेरसमाहिट्ठाणा पण्णत्ता? जे भिक्खू सोच्चा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुतिदिए गुत्तबंभयारी सया अप्पमत्ते विहरिज्जा ॥२॥ इमे | खलु ते थेरेहिं भगवंतेहिं दस बंभचेरसमाहिट्ठाणा पण्णत्ता, जे भिक्खू सोच्चा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुत्तिदिए गुत्तबंभयारी सया अप्पमत्ते विहरिज्जा ॥३॥
व्याख्या - इमे प्रश्ननिर्वचनसूत्रे प्राग्वत्, तान्येवाह -
मूलम् -तं जहा । विवित्ताई सयणासणाई सेविज्जा से निग्गंथे, नो इत्थीपसुपंडगसंसत्ताई सयणासणाई AEI सेवित्ता हवड़ से निग्गंथे, तं कहमितिचे आयरिआह-निग्गंथस्स खलु इत्थीपसुपंडगसंसत्ताई सयणासणाई
सेवमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेअंवा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालिअंवा रोगायंकं हविज्जा, केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा नो इत्थिपसुपंडगसंसत्ताई सयणासणाई सेवित्ता हवइ से निग्गंथे ॥ ४॥
व्यारव्या - तद्यथेत्युपन्यासे , विविक्तानि स्त्रीपशुपण्डकैरनाकीर्णानि शयनासनानि उपलक्षणत्वात् स्थानानि च सेवेत यः स निर्गन्थो भवतीति शेषः । इत्थमन्वये नोक्त्वा अल्पमतिविने यानुग्रहार्थममुमेवार्थ व्यतिरेकत
UTR-2
॥२१४॥
Page #217
--------------------------------------------------------------------------
________________
अध्य. १६
उत्तराध्ययनसूत्रम् ॥२१५ ॥
आह-नैव स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेविता उपभोक्ता भवति, तदित्यनन्तरोक्तं कथं ? कुतो हेतोरिति चेदेवं यदि मन्यसे आचार्य आह - अत्रोच्यते, निर्ग्रन्थस्य खलु निश्चितं स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेवमानस्य 'बंभयारिस्स त्ति' अपेगम्यत्वाद्ब्रह्मचारिणोऽपि सतो ब्रह्मचर्ये शङ्का वा इहान्येषामिति गम्यते, ततश्च किमयमेवंविधशयनासनसेवी ब्रह्मचारी ? उत नेति शङ्काऽन्येषां स्यात् । अथवा ब्रह्मचारिण एव शङ्का स्त्र्यादिदर्शनादुत्पन्नगाढानुरागस्य विस्मृतसकलाप्तोपदेशस्य "सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं सारङ्गलोचना ! ॥१॥" इत्यादि रागातुरखचः परिभावयतो मिथ्यात्वोद| यात्कदाचित् तदासेवने यो दोषस्तीर्थकरैरुक्तः स नैव भवतीत्येवं संशय उत्पद्यते । कांक्षा वा स्त्र्यादिवाञ्छारूपा "प्रियाद -
र्शनमेवास्तु, किमन्यैर्दर्शनान्तरैः ॥ निर्वाणं प्राप्यते येन, सरागेणापि चेतसा ? ॥१॥ इत्यादिवादिदर्शनाभिलाषरूपा वा । विचिकित्सा किमेतावतः कष्टानुष्ठानस्य फलं भावि न वा ! तद्वरमेतदासेवनमेवास्तु! इत्येवंरूपा समुत्पद्येत । भेदं वा विनाशं चारित्रस्येति शेषः, लभेत । उन्मादं वा कामग्रहात्मकं प्राप्नुयात् , योषिद्विषयाभिलाषविशेषात्मनो विप्लवसम्भवात् । दीर्घकालिकं वा दीर्घकालभावि रोगश्च दाहज्वरादिः, आतङ्कश्चाशुघाती शूलादिः रोगातंकं भवेत् , सम्भवति हि रमणीयरमणीरमणाभिलाषातिरेकादरोचकित्वं, ततश्च दाहज्वरादीति । केवलिप्रज्ञप्ताद्वा धर्मात् श्रुतचारित्ररूपात्समस्ताद्धृश्येत् , कस्यचित् क्लिष्टकर्मोदयाद्धर्मभ्रंशस्यापि सम्भवात्, | यत एवं तस्मादित्यादि निगमनवाक्यं सुगममिति सूत्रार्थः ॥४॥१॥ उक्तं समाधिस्थानं प्रथम, द्वितीयमाहमूलम्-णो इत्थीणं कहं कहित्ता हवइ से निग्गंथे, तं कहमितिचे ? आयरियाह-निग्गंथस्स खल इत्थीणं
UTR-2
॥२१५॥
Page #218
--------------------------------------------------------------------------
________________
अध्य. १६
उत्तराध्ययनसूत्रम् ॥ २१६ ॥
कहं कहेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेअंवा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालिअंवा रोगायंकं हविज्जा, केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु निग्गंथे नो इत्थीणं कहं कहिज्जा ॥ ५ ॥
व्याख्या-नो नैव स्त्रीणां एकाकिनीनामिति गम्यते, कथां वाक्यप्रबन्धरूपां, यद्वा स्त्रीणां सम्बन्धिनी कथा रूपनेपथ्यचातुर्यादिविषया तां, कथयिता भवति यः स निर्ग्रन्थो नत्वन्य इति भावः। तत्कथमित्यादि प्राग्वदिति सूत्रार्थः ॥ २ ॥५-॥ तृतीयमाह - मूलम् - णो इत्थीहिं सद्धि सन्निसिज्जागए विहरित्ता हवइ से निग्गंथे, तं कहमितिचे ? आयरिआह| निग्गंथस्स खलु इत्थीहिं सद्धि सन्निसिज्जागयस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा
समुप्पज्जिज्जा,भेअंवा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायकं हविज्जा, केवलिपण्णत्ताओ * वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीहिं सद्धि सन्निसिज्जागए विहरिज्जा ॥६॥
व्याख्या-नो स्त्रीभिः सार्धं सन्निषद्या आसनं तद्गतः सन् विहर्ता अवस्थाता भवति, कोऽर्थः ? स्त्रीभिः सममेकासने नोपविशेत्, उत्थितास्वपि तासु मुहूर्तं यावत्तत्र नोपवेष्टव्यमिति सम्प्रदायो, य एवंविधः स निर्ग्रन्थः, शेषं प्राग्वदिति सूत्रार्थः ॥ ३॥ ६॥ चतुर्थमाह - मूलम् - णो इत्थीणं इंदिआइं मणोहराई मणोरमाइं आलोएत्ता निज्झाएत्ता भवति से निग्गंथे, तं कहमितिचे?
UTR-2
॥२१६॥
Page #219
--------------------------------------------------------------------------
________________
अध्य. १६
उत्तराध्ययनसूत्रम् ॥ २१७॥
आयरिआह - निग्गंथस्स खलु इत्थीणं इंदिआई मणोहराई मणोरमाई आलोएमाणस्स निज्झाएमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा जाव केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीणं इंदिआई जाव निज्झाएज्जा ॥ ७ ॥
व्याख्या - नो स्त्रीणामिन्द्रियाणि नयनादीनि, मनश्चित्तं हरन्ति-दृष्टमात्राणि आक्षिपन्तीति मनोहराणि, मनो रमयन्ति दर्शनानन्तरमनुचिन्त्यमानान्यालादयन्तीति मनोरमाणि, आलोकिता ईषदृष्टा, निर्ध्याता गाढं निरीक्षिता, यद्वा निध्याता दर्शनानन्तरमहो ! नेत्रयोः सलवणत्वं, नासायाः सरलत्वमित्यादि चिन्तयिता भवति यः स निर्ग्रन्थः, शेषं प्राग्वदिति सूत्रार्थः ॥४-७॥ पञ्चममाहमूलम् - नो निग्गंथे इत्थीणं कुड्डंतरंसि वा, दूसंतरंसि वा, भित्तितरंसि वा, कुइअसई वा, रुइअसई वा, गीअसदं वा, हसिअसई वा, थणिअसई वा, कंदिअसई वा विलविअसई वा, सुणित्ता हवइ से निग्गंथे । तं कहमितिचे? आयरिआह - निग्गंथस्स खलु इत्थीणं कुटुंतरंसि वा जाव विलविअसई वा सुणमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु | निग्गंथे नो इत्थीणं कुटुंतरंसि वा जाव सुणमाणो विहरेज्जा ॥ ८॥
व्याख्या - नो निर्ग्रन्थः स्त्रीणां कुड्यं लेष्टुकादिरचितं तेनान्तरं व्यवधानं कुड्यान्तरं तस्मिन्वा, दूष्यं वस्त्रं यवनिकादिरूपं तद
UTR-2
॥२१७॥
Page #220
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
।। २१८ ।।
न्तरे वा भित्ति: पक्वेष्टकादिरचिता तदन्तरे वा, स्थित्वेति शेषः । कूजितशब्दं वा रतसमये कोकिलादिपक्षिभाषारूपं, रुदितशब्द वा रतिकलहादिषु गीतशब्दं वा पञ्चमादिरूपं, हसितशब्दं वा कहक्कहादिकं, स्तनितशब्दं वा रतिसमयकृतं क्रन्दितशब्दं वा प्रोषितभर्तृकादिकृतानन्दरूपं, विलपितशब्दं वा विलापरूपं, श्रोता भवति यः स निर्ग्रन्थः, शेषं प्राग्वदिति सूत्रार्थः ॥ ५ ॥ ८ ॥
षष्ठमाह
मूलम् - नो निग्गंथे पुव्वरयं पुव्वकीलिअं अणुसरित्ता भवइ, तं कहमितिचे ? आयरिआह -निग्गंथस्स खलु इत्थीणं पुव्वरयं पुव्वकीलिअं अणुसरेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव धम्माओ सिज्जा, तम्हा खलु नो निग्गंथे इत्थीणं पुव्वरयं पुव्वकीलिअं अणुसरेज्जा ॥ ९ ॥
व्याख्या - नो निर्ग्रन्थः पूर्वरतं गृहस्थावस्थानुभूतसम्भोगं, पूर्वक्रीडितं पूर्वकालभावि स्त्रीभिः सह द्यूतादिक्रीडारूपं, अनुस्मर्त्ता अनुचिन्तयिता भवति, शेषं प्राग्वदिति सूत्रार्थः ॥ ६ ॥ ९ ॥ सप्तममाहमूलम् - णो पणिअं आहारमाहारित्ता हवड़ से निग्गंथे, तं कहमितिचे ? आयरिआह निग्गंथस्स खलु पणिअं आहारं आहारमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे पणीअं आहारमाहरेज्जा ॥ १० ॥
व्याख्या - नो प्रणीतं गलत्स्नेहबिन्दुकमुपलक्षणत्वादन्यमपि अत्यन्तधातूद्रेककारकमाहारमाहारयिता भवति यः स निर्ग्रन्थः, शेषं प्राग्वदिति सूत्रार्थः ॥ ७ ॥ १० ॥ अष्टममाह --
UTR-2
अध्य. १६
॥२१८॥
Page #221
--------------------------------------------------------------------------
________________
अध्य. १६
उत्तराध्ययनसूत्रम् ॥२१९ ॥
मूलम् - नो अइमायाए पाणभोअणं आहारइत्ता हवइ से निग्गंथे, तं कहमितिचे ? आयरिआह-निग्गंथस्स खलु अइमायाए पाणभोअणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा जाव धम्माओ वा भंसिज्जा, तम्हा खलु नो निग्गंथे अइमायाए पाणभोअणं भुंजिज्जा ॥ ११ ॥
व्याख्या - नो अतिमात्रया "बत्तीसं किर कवला, आहारो कुच्छिपूरओ भणिओ ॥ पुरिसस्स महिलिआए, अट्ठावीसं भवे कवला ॥१॥"इत्यागमोक्तमात्रातिक्रमेण पानभोजनमाहारयिता भवति यः स निर्ग्रन्थः, शेषं तथैवेति सूत्रार्थः ॥८-११ ॥ नवममाहमूलम् - नो विभूसाणुवाई हवइ से निग्गंथे, तं कहमितिचे ? आयरिआह - विभूसावत्तिए खलु विभूसियसरीरे इत्थिजणस्स अहिलसणिज्जे हवइ, तओ णं तस्स इस्थिजणेणं अभिलसिज्जमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे विभूसाणुवाई सिआ ॥१२॥
व्याख्या - नो विभुषानुपाती शरीरोपकरणसंस्कर्ता भवति यः स निर्ग्रन्थः, शेषं स्पष्टं, नवरं 'विभूसावत्तिए त्ति' विभूषां वर्तयितुं विधातुं शीलमस्येति विभूषावर्ती स एव विभूषावर्तिकोऽत एव विभूषितशरीरः स्नानाद्यलङ्कृततनुः स्त्रीजनस्याभिल| षणीयः, प्रार्थनीयो भवति, ततस्तस्येत्यादि प्राग्वदिति सूत्रार्थः ॥ ९ ॥१२ ॥ दशममाह--
UTR-2
॥२१९॥
Page #222
--------------------------------------------------------------------------
________________
अध्य. १६
उत्तराध्ययनसूत्रम् ॥ २२० ॥
मूलम् - नो सद्दरूवरसगंधफासाणुवाई हवइ से निग्गंथे, तं कहमितिचे ? आयरिआह - निग्गंथस्स खलु सहरूवरसगंधफासाणुवाइस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेअंवा लभेज्जा, उम्मादं वा पाउणिज्जा, दीहकालिअंवा रोगायंकं हविज्जा, केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, | तम्हा खलु नो निग्गंथे सद्दरूवरसगंधफासाणुवाई हवइ से निग्गंथे, दसमे बंभचेरसमाहिट्ठाणे हवइ ॥१३॥
__व्याख्या - नो नैव शब्दरूपरसगन्धस्पर्शानभिष्वङ्गहेतूननुपतति अनुयातीत्येवंशीलः शब्दरूपरसगन्धस्पर्शानुपाति भवति यः स निर्ग्रन्थः, तत्कथमितिचेदित्यादि प्राग्वत्, दशमं ब्रह्मचर्यसमाधिस्थानं भवतीति निगमनमिति सूत्रार्थः॥ १० ॥१३॥ मूलम् - भवंति इत्थ सिलोगा तंजहा ---
व्याख्या - भवन्ति विद्यन्ते अत्र पूर्वोक्तार्थे श्लोकाः पद्यरूपास्तद्यथा -- मूलम् - जं विवित्तमणाइण्णं, रहिअं थीजणेण य । बंभचेरस्स रक्खट्ठा, आलयं तु निसेवए ॥ १ ॥
व्याख्या - 'जंति' प्राकृतत्वात् यो विविक्तो रहस्यभूतस्तत्रैव वास्तव्यस्त्र्याद्यभावादनाकीर्णस्तत्तत्प्रयोजनागतस्त्र्या
UTR-2
॥२२०॥
Page #223
--------------------------------------------------------------------------
________________
अध्य. १६
उत्तराध्ययनसूत्रम् ॥२२१ ॥
द्यनाकुलः, रहितो अकालचारिणा वन्दनश्रवणादिनिमित्तागतेन स्त्रीजनेन चशब्दात्पण्डकादिभिश्च, कालाकालचारित्वविभागस्तु श्रमणीराश्रित्यायं - "अट्ठमी पक्खिए मोत्तुं, वायणाकालमेव य ॥सेसकालमयंतीओ, नेआओ अकालचारीओ॥१॥त्ति "ब्रह्मचर्यस्य रक्षार्थं रक्षणार्थ आलयं तमिति शेषः, तुः पूत्तौं, निषेवते ॥१॥ मूलम् - मणपल्हायजणणी, कामरागविवडूणी । बंभचेररओ भिक्खू, थीकहं तु विवज्जए ॥ २ ॥
व्याख्या - मनःप्रह्लादजननीं कामरागस्य विषयाभिष्वङ्गस्य विवर्द्धनीं कामरागविवर्द्धनी ब्रह्मचर्यरतो भिक्षुः स्त्रीकथां तु विवर्जयेत् ॥२॥ मूलम् - समं च संथवं थीहिं संकहं च अभिक्खणं । बंभचेररओ भिक्खू , निच्चसो परिवज्जए ॥ ३ ॥
व्याख्या - सम च सह संस्तवं परिचयं स्त्रीभिर्निषद्याप्रस्तावादेकासनभोगेनेति गम्यते, सङ्कथां च ताभिरेव सह सततभाषणरूपां, अभीक्ष्णं वारंवारं 'निच्चसोत्ति' नित्यं शेषं स्पष्टम् ।। ३ ।। मूलम् - अंगपच्चंगसंठाणं, चारुल्लविअपेहिअं । बंभचेररओ थीणं, चक्खुगिझं विवज्जए ॥ ४ ॥
____ व्याख्या - अङ्गानां शिरःप्रभृतीनां प्रत्यङ्गानां च कुचकक्षादीनां संस्थानमाकारं, चारु पेशलं उल्लपितं मन्मनभाषितादि, प्रेक्षितं | कटाक्षादि, ब्रह्मचर्यरतः स्त्रीणां सम्बन्धि चक्षुर्गाद्यं सद्विवर्जयेत् । अयं भावः- चक्षुषि सति रूपग्रहणमवश्यम्भावि परं
UTR-2
॥२२१॥
Page #224
--------------------------------------------------------------------------
________________
अध्य. १६
उत्तराध्ययनसूत्रम् ॥२२२ ॥
तदर्शने तत्त्याग एव कार्यो न तु रागवशात्पुनः पुनस्तदेव वीक्षितव्यं । यदुक्तं - "अशक्यं रूपमद्रष्टुं , चक्षुर्गोचरमागतम् ॥ रागद्वेषौ तु यौ तत्र, तौ बुधः परिवर्जयेत् ॥ १॥" इति ॥ ४ ॥ मूलम् - कुइअं रुइअंगी, हसिअंथणिअकंदिअं। बंभचेररओ थीणं, सोअगिज्झं विवज्जए ॥ ५॥
व्याख्या - कूजितादि प्राग् व्याख्यातं, कुड्यान्तरादौ जायमानं श्रोत्रग्राह्यं सत्तत्र मनसोऽकरणेन विवर्जयेत्, शेषं स्पष्टम् ॥५॥ मूलम् - हासं किडे रई दप्पं, सहसावत्तासिआणि अ । बंभचेररओ थीणं, नाणुचिंते कयाइवि ॥ ६॥
व्याख्या - हास्यं प्रतीतं, क्रीडां द्यूतरमणादिरूपां, रतिं कान्ताङ्गसङ्गजनितां प्रीति, दर्प मानिनीमानदलनोत्थं गर्व, सहसाऽपत्रासितानि च पराङ्मुखदयितादेः सपदि त्रासोत्पादकान्यक्षिस्थगनादीनि प्राक्कृतानीति शेषः, शेषं व्यक्तं ६ मूलम् - पणि भत्तपाणं च, खिप्पं मयविवडणं । बंभचेररओ भिक्खू, निच्चसो परिवज्जए ॥ ७॥
व्याख्या - स्पष्टं, नवरं- मदः कामोद्रेकः ॥७॥ * मूलम् - धम्मलद्धं मिअं काले, जत्तत्थं पणिहाणवं । नाइमत्तं तु भुंजिज्जा, बंभचेररओ सया ॥ ८॥
व्याख्या - धर्मेण हेतुना न तु कुटिलादिकरणेन लब्धं धर्मलब्धं, मितं " अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भाए । वाऊ परिआरणट्ठा छब्भागं ऊणगं कुज्जा ॥१॥" इत्यागमोक्तमानान्वितमाहारमिति शेषः, काले प्रस्तावे, यात्रार्थं संयमनिर्वाहार्थं न
UTR-2
॥२२२॥
Page #225
--------------------------------------------------------------------------
________________
अध्य. १६
उत्तराध्ययनसूत्रम् ॥२२३॥
तु रूपाद्यर्थ, प्रणिधानवान् मनःस्वास्थ्योपेतो न तु रागद्वेषवशगो भुञ्जीतेति योगः । तु शब्दस्योत्तरस्येह सम्बन्धान तु न पुनरतिमात्र मात्रातिक्रान्तं भुञ्जीत ब्रह्मचर्यरतः सदा, कदाचित्तु कारणादतिमात्राहारोऽप्यदुष्टः ॥ ८॥ मूलम् - विभूसं परिवज्जिज्जा, सरीरपरिमंडणं । बंभचेररओ भिक्खू, सिंगारत्थं न धारए ॥ ९॥
व्याख्या - विभूषामुपकरणगतां परिवर्जयेत्, शरीरपरिमण्डनं च केशश्मश्रूसमारचनादिकं, ब्रह्मचर्यरतो भिक्षुः शृङ्गारार्थं न धारयेन्न कुर्यात् ॥९॥ मूलम् - सद्दे रूवे अ गंधे अ, रसे फासे तहेव य । पंचविहे कामगुणे, निच्चसो परिवज्जए ॥ १०॥
व्याख्या - व्यक्तं, नवरं - कामस्य इच्छामदनरूपस्य गुणा उपकारकाः कामगुणास्तानिति सूत्रदशकार्थः॥ १०॥ अथ यत्पूर्वं प्रत्येकमुक्तं शङ्का वा स्यादित्यादि तदेव दृष्टान्तेन स्पष्टयितुमाह - मूलम् - आलओ थीजणाइण्णो, थीकहा य मणोरमा । संथवो चेव नारीणं, तासिं इंदिअदरिसणं ॥ ११॥
व्याख्या - सुगम, नवरं- 'संथवोत्ति' संस्तव एकासनभोगादिना परिचयः ॥ ११॥ मूलम् - कुइअं रुइअंगीअं, सहसा भुत्तासिआणि अ । पणिअं भत्तपाणं च, अइमायं पाणभोअणं ॥१२॥
UTR-2
२२३॥
Page #226
--------------------------------------------------------------------------
________________
अध्य. १६
उनराध्ययनसूत्रम् ।। २२४ ॥
व्याख्या - स्पष्टमेव, नवरं भुत्तासिआणित्ति' भुक्तासितानि च स्मृतानीति शेषः, तत्र भुक्तानि भोगरूपाणि, आसितानि | स्यादिभिरेव सहावस्थानानि, हास्यायुपलक्षणञ्चैतत् ॥ १२ ॥ मूलम् - गत्तभूसणमिटुं च, कामभोगा य दुज्जया । नरस्सत्तगवेसिस्स, विसं तालउडं जहा ॥ १३ ॥
व्याख्या - गात्रभूषणमिष्टं चेति चशब्दोऽप्यर्थः, तत इष्टमपि वाञ्छितमपि,आस्तां कृतं,कामो रूपशब्दौ, भोगाश्च गन्धाद्याः कामभोगाश्च दुर्जयाः, नरस्योपलक्षणत्वात् स्त्र्यादेच, आत्मगवेषिणो विषं तालपुटं यथा । यथा हि तालपुटविषं सद्योघातित्वेन दारुणविपाकं तथा मोक्षार्थिनां स्त्रीजनाकीर्णालयाद्यपि, शङ्काकांक्षादिदोषहेतुत्वेन तस्यापि संयमरूपभावजीवितापहारहेतुत्वादिति सूत्रत्रयार्थः ।। १३ ॥अथ निगमयितुमाह - मूलम् - दुज्जए कामभोगे अ, निच्चसो परिवज्जए । संकट्टाणाणि सव्वाणि, वज्जिज्जा पणिहाणवं ॥१४॥
व्याख्या - दुर्जयान् कामभोगान् नित्यं परिवर्जयेत्, प्राच्यचशब्दस्य भिन्नक्रमस्येह योगाच्छङ्कास्थानानि च सर्वाणि पूर्वोक्तानि दशापि वर्जयेत्, प्रणिधानवानेकाग्रमनाः ॥१४ ॥ एतद्वर्जकश्च किं कुर्यादित्याह - मूलम् - धम्माराम चरे भिक्खू, धितिमं धम्मसारही । धम्मारामरए दंते, बंभचेरसमाहिए ।। १५ ।।
व्याख्या - धर्म एव दुःखसन्तापतप्तानां निर्वृत्तिहेतुत्वादिष्टफलदानाच्च आराम इव धर्मारामस्तत्र चरेत् प्रवर्तेत भिक्षुर्मुनिः, धृतिर्मन:स्वास्थ्यं तद्वान्, धर्मसारथिरन्येषामपि धर्मे प्रवर्त्तयिता, धर्मे आरमन्ते इति धर्मारामाः सुसाधवस्तेषु रतो न त्वेकाकित्वे
UTR-2
॥२२४॥
Page #227
--------------------------------------------------------------------------
________________
अध्य. १६
उत्तराध्ययनसूत्रम् ॥ २२५ ॥
धर्मारामरतो दान्त उपशान्तः, ब्रह्मचर्ये समाहितः समाधानवान् ब्रह्मचर्यसमाहित इति सूत्रार्थः ॥१५॥ अथ ब्रह्मचर्यमाहात्म्यमाह - | मूलम् - देवदाणवगंधव्वा, जक्खरक्खसकिन्नरा । बंभयारिं नमसंति, दुक्करं जे करंति ते ॥ १६ ॥
व्याख्या - देवदानवगन्धर्वा यक्षराक्षसकिन्नराः, सकलदेवजात्युपलक्षणमेतत्, एते सर्वेऽपि ब्रह्मचारिणं मुनि नमस्यन्ति दुष्करं दुरनुचरं प्रक्रमाद्ब्रह्मचर्य 'जे करंति तेत्ति' सूत्रत्वाद्यः करोति पालयति तमिति सूत्रार्थः ॥१६॥ अध्ययनार्थोपसंहारमाह - - मूलम् - एस धम्मे धुवे निइतिए, सासए जिणदेसिए। ..
सिद्धा सिझंति चाणेणं, सिज्झिस्संति तहावरेत्ति बेमि ॥१७॥ व्याख्या - एष पूर्वोक्तो धर्मो ब्रह्मचर्यरूपो ध्रुवः स्थिर: परवादिभिरप्रकम्प्यतया प्रमाणप्रतिष्ठित इत्यर्थः, नित्यस्त्रिकालभावित्वात्, शाश्वतोऽनवरतभवनात्, एकाथिकानि वा एतानि, जिनैर्देशितः प्रोक्तो जिनदेशितः, अस्य त्रैकालिकं फलमाह - सिद्धाः पूर्वमनन्ताः, सिध्यन्ति विदेहेषु अत्र वा तत्कालापेक्षया, चः समुच्चये, अनेन ब्रह्मचर्यरूपेण धर्मेण सेत्स्यन्ति तथाऽपरे अनन्तायामनागताद्धायामिति सूत्रार्थः, इति ब्रवीमीति प्राग्वत् ॥ १७ ॥
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिशिष्यमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय -
श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ षोडशमध्ययनं सम्पूर्णम् ॥१६॥
UTR-2
॥२२५॥
Page #228
--------------------------------------------------------------------------
________________
॥ अथ सप्तदशमध्ययनम् ।
अध्य, १७
उत्तराध्ययनसूत्रम् ॥ २२६ ॥
॥ ॐ ॥ व्याख्यातं षोडशमध्ययनं, अथ पापश्रमणीयाख्यं सप्तदशमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने ब्रह्मचर्यसमाधिस्थानान्युक्तानि तानि च पापश्रमणैः सेवितुं दुःशकानीति तत्स्वरूपमनेनोच्यते, इत्यनेन सम्बन्धेनायातस्यास्येदमादौ सूत्रद्वयम् -
मूलम् - जे केइ उ पव्वईए निअंठे, धम्मं सुणित्ता विणओववण्णे।
सुदुलहं लहिउं बोहिलाभं, विहरिज्ज पच्छा य जहासुहं तु ॥ १ ॥ व्याख्या-यः कश्चित्तुः पूरणे प्रव्रजितो निर्ग्रन्थः, कथं पुनः प्रव्रजितः ? इत्याह - धर्म शुभचारित्ररूपं श्रुत्वा विनयेन ज्ञानविनयादिना उपपन्नो युक्तो विनयोपपन्नः सन् सुदुर्लभमतिशयदुःप्रापं लब्ध्वा बोधिलाभं जिनधर्मावाप्तिरूपं, अनेन भावप्रतिपत्त्याऽसौ प्रव्रजित इत्युक्तं भवति । विहरेत्पश्चाद्दीक्षादानोत्तरकालं चः पुनरर्थे ततश्च प्रथमं सिंहतया प्रव्रज्य पश्चात्पुनः 'जहासुहं | तुत्ति' तुशब्दस्यैवकारार्थत्वात् यथासुखमेव निद्रादिप्रमादपरतया श्रृंगालवृत्त्यैव विहरेदित्यर्थः ॥ १ ॥ स च गुर्वादिनाऽध्येतुं | प्रेरितो यद्वक्ति तदाह -
UTR-2
॥२२६॥
Page #229
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ।। २२७ ।।
मूलम् - सिज्जा दढा पाउरणं मे अत्थि, उपज्जइ भोक्तुं तहेव पाउं ।
जाणामि जं वट्टइ आउसोत्ति, किं नाम काहामि सुएण भंते ॥ २ ॥
व्याख्या - शय्यावसतिर्दृढा वातातपजलाद्युपद्रवरहिता, तथा प्रावरणं वर्षाकल्पादि मे मम अस्ति, किञ्चोत्पद्यते भोक्तुं भोजनाय तथैव पातुं पानाय, यथाक्रममशनं पानञ्चेति शेषः । तथा जानामि यद्वर्त्तते यदिदानीमस्ति तदिति शेषः, आयुष्मन्निति प्रेरयितुमामंत्रणं, इति एतस्माद्धेतोः किं नाम न किंचिदित्यर्थः 'काहामित्ति' करिष्यामि ? श्रुतेनागमेनाधीतेनेति गम्यं, भदन्त ! इति पूज्यामंत्रणं, अयं हि तस्याशयः, ये हि भवन्तोऽधीयन्ते तेपि नातीतादि किंचिज्जानन्ति, किन्तु वर्त्तमानमेव तच्च वयमपि विद्यो वसतिवसनाशनपानादीनि च सुखं युष्मद्वद्वयमपि प्राप्नुमस्तत्किं ? हृद्गलतालुशोषकारिणाधीतेनेति यो वक्ति स पापश्रमण इतीहापि सिंहावलोकितन्यायेन सम्बध्यते इति सूत्रद्वयार्थः ॥ २॥ किञ्च -
मूलम् - जे केइ पव्वइए, निद्दासीले पगामसो । भोच्चा पेच्चा सुहं सुअइ, पावसमणेत्ति वुच्चइ ॥३॥ व्याख्या - यः कश्चित् प्रव्रजितो निद्राशीलः प्रकामशो भृशं भुक्त्वा दध्योदनादि, पीत्वा तक्रादि, सुखं यथा स्यात्तथा सकलक्रियानिरपेक्ष एव शेते स पापश्रमण इत्युच्यते इति ॥ ३ ॥
मूलम् - आयारिअउवज्झाएहिं, सुअं विणयं च गाहए। ते चेव खिसई बाले, पावसमणेत्ति वुच्चइ ॥ ४ ॥
UTR-2
अध्य. १७
॥२२७॥
Page #230
--------------------------------------------------------------------------
________________
अध्य. १७
उत्तराध्ययनसूत्रम् ॥ २२८ ॥
RECEPAL
व्याख्या - आचार्योपाध्यायैः श्रुतं विनयं च ग्राहितः शिक्षितो यैरिति शेषः, तानेवाचार्यादीन् खिसति निन्दति बालो विवेकविकलो यः स पापश्रमणः ॥ ४ ॥ मूलम् - आयरियउवज्झायाणं, सम्मं नो परितप्पई । अप्पडिपूअए थद्धे, पावसमणेत्ति वुच्चइ ॥ ५॥
व्याख्या - आचार्योपाध्यायानां सम्यग् अवैपरित्येन न परितप्यते न तत्तप्तिं विधत्ते तेषां वैयावृत्त्यादिचिन्तां न सम्यक्करोतीत्यर्थः, अप्रतिपूजको जिनादीनां यथोचितप्रतिपत्तिपराङ्मुखो, यद्वा केनचिन्मुनिनोपकृतोपि न प्रत्युपकारकारी, स्तब्धो गर्वाध्यातो यः स पापश्रमणः ॥ ५ ॥ इत्थमविनीतं पापश्रमणमुक्त्वा चरणविकलं तमेवाहमूलम् - संमद्दमाणे पाणाणि, बीआणि हरिआणि अ । असंजए संजयमन्नमाणे, पावसमणेत्ति वुच्चइ ॥६॥ *
व्याख्या - संमर्दयन् प्राणान् प्राणिनो द्वीन्द्रियादीन्, बीजानि शाल्यादीनि, हरितानि च दूर्वादीनि, सर्वैकेन्द्रियोपलक्षणमेतत्, अत एवासंयतः 'संजयमन्नमाणेत्ति' संयतमात्मानं मन्यमानोऽनेन च संविग्नपाक्षिकत्वमपि तस्य नास्तीत्युक्तं, शेषं प्राग्वत् ॥ ६ ॥ मूलम् - संथारं फलगं पीठं, निसिज्जं पायकंबलं । अपमज्जिअ आरुहइ, पावसमणेत्ति वुच्चइ ॥ ७ ॥
व्याख्या - संस्तारकं कम्बलादिकं, फलकं दारुमयं, पीठमासनं, निषद्यां स्वाध्यायभूमि, पादकम्बलं पादपुञ्छनं, अप्रमृज्य रजोहरणादिना उपलक्षणत्वादप्रत्युपेक्ष्य च आरोहति यः स पापश्रमणः ॥ ७ ॥
UTR-2
॥२२८॥
Page #231
--------------------------------------------------------------------------
________________
अध्य. १७
उत्तराध्ययनसूत्रम् ॥ २२९ ॥
मूलम् - दवदवस्स चरई, पमत्ते अ अभिक्खणं । उल्लंघणे अ चंडे अ, पावसमणेत्ति वुच्चइ ॥ ८ ॥
व्याख्या - 'दवदवस्सत्ति' द्रुतं द्रुतं तथाविधालम्बनं विनापि सत्वरं चरति भिक्षाचर्यादौ पर्यटति, प्रमत्तश्च अभीक्ष्णं पुनः पुनर्भवतीति शेषः, उल्लङ्घनश्च वत्सडिम्बादीनामध:कर्ता, चण्डः क्रोधनश्चारभटवृत्तिश्रयणाद्वा शेषं प्राग्वत् ॥ ८ ॥ | मूलम् - पडिलेहेइ पमत्ते, अवउज्झइ पायकंबलं । पडिलेहणा अणाउत्ते, पावसमणेत्ति वुच्चइ ॥ ९॥
व्याख्या - प्रतिलेखयति प्रमत्तः सन्, अपोज्झति यत्र तत्र निक्षिपति पादकम्बलं पादपुञ्छनं, समस्तोपधेरूपलक्षणमेतत्, स एवं प्रतिलेखनायामनायुक्तोऽनुपयुक्तः प्रतिलेखनाऽनायुक्तः ॥९॥ मूलम् - पडिलेहेइ पमत्ते, जं किंचि हु णिसामिआ । गुरुपरिभावए निच्चं, पावसमणेत्ति वुच्चइ ॥ १०॥
___ व्याख्या - प्रतिलेखयति प्रमत्तः सन्, यत्किञ्चिद्विकथादि निशम्य श्रुत्वा तदाक्षिप्तचित्ततयेति भावः, गुरून् परिभवतीति गुरुपरिभावको नित्यं, अयं भावः- प्रतिलेखनादौ वितथं कुर्वन् गुरुभिर्नोदितस्तानेव वक्ति यथा स्वयमेवेदं कुरुत युष्माभिरेव वा वयमेवं शिक्षिताः ततो युष्माकमेवासौ दोष इत्यादि ॥ १० ॥ मूलम् - बहुमायी पमुहरी, थद्धे लुद्धे अणिग्गहे। अविभागी अचिअत्ते, पावसमणेत्ति वुच्चड़ ॥११॥
व्याख्या - बहुमायी प्रभूतवञ्चनाप्रयोगवान्, प्रमुखरः प्रकर्षण मुखरोऽसम्बद्धः, स्तब्धो लुब्धः, अनिग्रहः अवि
UTR-2
॥२२९॥
Page #232
--------------------------------------------------------------------------
________________
अध्य. १७
उत्तराध्ययनसूत्रम् ॥ २३०॥
द्यमानेन्द्रियमनोनिग्रहः, असंविभागी कुक्षिम्भरित्वेन गुरुग्लानादीनां योग्यमशनादि न यच्छति, 'अचिअत्तेत्ति' गुर्वादिष्वपि अप्रीतिमान् ॥ ११ ॥ मूलम् - विवायं च उदीरेइ, अधम्मे अत्तपण्णहा । वुग्गहे कलहे रत्ते, पावसमणेत्ति वुच्चइ ॥ १२ ॥
व्याख्या - विवादं वाक्कलह, चः पूरणे, उदीरयति उपशान्तमपि मर्मभाषणादिना वर्द्धयति, अधर्मो निर्धर्मः, आप्तां सद्बोधरूपतया इहपरलोकयोहितां प्रज्ञामात्मनोऽन्येषाञ्च सुबुद्धिं कुतर्कव्याकुलीकरणेन हन्ति यः स आप्तप्रज्ञाहा, व्युद्ग्रहे दण्डादिघातजनिते विरोधे, कलहे वाचिके विरोधे, रक्तः सक्तः ॥ १२ ॥ मूलम् - अथिरासणे कुक्कुइए, जत्थतत्थ निसीअइ । आसणंमि अणाउत्ते, पावसमणेत्ति वुच्चइ ॥ १३ ॥
व्याख्या - अस्थिरासनः, कुक्कुचो हास्यविकथादिचापल्यवान्, यत्र तत्र संसक्तसरजस्कादावपीत्यर्थः, निषीदति पीठादौ, अत एवाऽऽसनेऽनायुक्तोऽनुपयुक्तः ॥ १३ ॥ मूलम् - ससरक्खपाओ सुअइ, सिज्जं न पडिलेहइ । संथारए अणाउत्ते, पावसमणेत्ति वुच्चइ ॥ १४ ॥
__ व्याख्या - सरजस्कपादः स्वपिति, कोऽर्थः ? संयमविराधनाभीरुताया अभावात् पादावप्रमृज्यैव शेते, शय्यां वसतिं न प्रतिलेखयति न प्रमार्जयति, संस्तारके कम्बलादौ सुप्त इति शेषः, अनायुक्तः 'कुकुडिपायपसारण' इत्याद्यागमार्थानुपयुक्तः ॥१४॥ अथ तपोविषयं पापश्रमणमाह -
UTR-2
॥२३०॥
Page #233
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥ २३१ ॥
मूलम् दुद्धदही विगईओ, आहारेइ अभिक्खणं । अरए अ तवो कम्मे, पावसमणेत्ति वुच्चइ ॥ १५ ॥ व्याख्या- 'दुद्धदहित्ति' दधिदुग्धे विकृतिहेतुत्वाद्विकृती, उपलक्षणञ्चैतद् घृताद्यशेषविकृतीनां, आहारयति अभीक्ष्णं वारं वारं तथाविधकारणं विनापीति भाव:, अत एवारतश्च तपः कर्मणि अनशनादौ ॥ १५॥
मूलम् - अत्यंतंमि अ सूरंमि, आहारेइ अभिक्खणं । चोइओ पडिचोएइ, पावसमणेत्ति वुच्चइ ॥ १६ ॥
व्याख्या - अस्तमयति चः पूरणे सूर्ये आहारयत्यभीक्ष्णं प्रतिदिनमित्यर्थः, यदि चायं केनचिद्गीतार्थेन प्रेर्यते यथाऽऽयुष्मन् ? किमेवमाहारतत्पर एव तिष्ठसि ? दुर्लभा खल्वियं धर्मसामग्री ! ताञ्च प्राप्य तपस्युद्यन्तुमुचितमिति, ततः किमित्याह - चोदितः प्रेरितः प्रतिचोदयति, यथा दक्षस्त्वमुपदेशं दातुं न तु स्वयं विधातुं ! नो चेदेवं विदन्नपि किं न विकृष्टं तपोऽनुतिष्ठसीति ॥ १६ ॥ मूलम् - आयरिअ परिच्चाई, परपासंडसेवए । गाणंगणिए दुब्भूए, पावसमणेत्ति वुच्च ॥ १७ ॥
-
व्याख्या आचार्यपरित्यागी, ते हि तपः कारयन्ति आनीतमपि चान्नादि ग्लानादिभ्यो दापयन्त्यतोऽत्यन्तमा - हारलौल्यात्तत्परित्यागशीलः, परपाषण्डान् "भृद्वी शय्या प्रातरुत्थाय पेया" इत्याद्युपदिशतः सौगतादीन् अत्यन्ताहारप्रसक्तान् सेव परपाषण्डसेवकः, तथा स्वच्छन्दतया गणाद्गणं षण्मासाभ्यन्तर एव संक्रामतीति गाणंगणिकोऽत एव दुष्ठु भूतो जातो दुर्भू दुराचारतया निन्द्यत्वं प्राप्त इत्यर्थः ॥ १७ ॥
UTR-2
अध्य. १७
॥२३१॥
Page #234
--------------------------------------------------------------------------
________________
अध्य. १७
उत्तराध्ययनसूत्रम् ॥२३२ ॥
| मूलम् - सयं गेहं परिच्चज्ज, परगेहंसि वावरे । निमित्तेण य ववहरड़, पावसमणेत्ति वुच्चइ ॥ १८ ॥
व्याख्या - स्वकं गेहं निजगृहं परित्यज्य परगेहे 'वावरेत्ति' व्याप्रियते पिण्डादिलोभात्स्वयं तत्कृत्यानि विधत्ते, निमित्तेन च शुभाशुभकथनादिना व्यवहरति द्रव्याद्यर्जयति ॥ १८ ॥ मूलम् - सण्णाइपिंडं जेमेइ, नेच्छड़ सामुदाणिअं । गिहिनिसिज्जं च वाहेइ, पावसमणेत्ति वुच्चइ १९
___ व्याख्या - स्वजातिभिर्निजबन्धुभिर्यः स्नेहाद्दीयते पिण्डः स्वजातिपिण्डस्तं जेमति भुंक्ते , नेच्छति सामुदानिकं भैक्ष्यं, गृहिनिषद्यां पर्यङ्किकादिकां वाहयति सुखशीलतया रोहति यः स पापश्रमण उच्यते इति सूत्रसप्तदशकार्थः ॥ १९ ॥ अथाध्ययनार्थमुपसंहरनुक्तदोषासेवनत्यागयोः फलमाह - मूलम् - एआरिसे पंचकुसीलसंवुडे, रूवंधरे मुणिपवराण हिट्ठिमे।
अयंसि लोए विसमेव गरहिए, न से इहं नेव परत्थलोए ॥ २० ॥ व्याख्या - एतादृशो यादृश उक्तः, पञ्चकुशीला: पार्श्वस्थादयस्तद्वदसंवृतः पञ्चकुशीलासंवृतः रूपधरो रजोहरणादिवेषधरः, बिन्दुश्चेह प्राकृतत्वात्, मुनिप्रवराणां प्रवरयतीनां 'हेडिमेत्ति' अधोवर्ती अतिजघन्यसंयमस्थानवर्तितया निकृष्टः 'अयंसित्ति' अस्मिन् लोके विषमिव गर्हितो भ्रष्टप्रतिज्ञतया प्राकृतजनैरपि निन्दितोऽत एव न स 'इहंति' इहलोके नैव नापि परलोके अर्ध्यत इति शेषः ॥ २०॥
UTR-2
॥२३२॥
Page #235
--------------------------------------------------------------------------
________________
अध्य, १७
उत्तराध्ययनसूत्रम् ॥ २३३ ॥
मूलम् - जो वज्जए एए सया उ दोसे से सुव्वए होइ मुणीण मज्झे ।
अयंसि लोए अमयंव पूईए, आराहए लोगमिणं तहा परंत्ति बेमि ॥ २१ ॥ व्याख्या - यो वर्जयत्येतान् उक्तरूपान् 'सया उत्ति' सदैव दोषान् स सुव्रतः प्रशस्यव्रतो भवति मुनीनां मध्ये भावमुनित्वेनासौ तन्मध्ये गण्यत इत्यर्थः, तथा चास्मिन् लोके अमृतमिव पृजित आराधयति लोकमिमं तथा परंति' परलोकमिति सूत्रद्वयार्थः, इति ब्रवीमीति प्राग्वत् ॥ २१ ॥
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिशिष्यमहोपाध्याय-श्रीमुनिविमलगणिशिष्योपाध्या
यश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ सप्तदशमध्ययनं सम्पूर्णम् ॥ १७ ॥
UTR-2
॥२३३॥
Page #236
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२३४॥
अष्टादशमध्ययनम् गा.१-३
॥ अथ अष्टादशमध्ययनम् ॥ ॥ अर्हम् ॥ उक्तं सप्तदशमध्ययनमथाष्टादशं संयतीयाख्यमारभ्यते, अस्य चायं सम्बन्धः, इहानन्तराध्ययने पाप| स्थानवर्जनमुक्तं, तच्च भोगर्द्धित्यागेन संजयनृपवद्विधेयमिति सम्बन्धस्यास्येदमादिसूत्रम् - मूलम् - कंपिल्ले नयरे राया, उदिण्णबलवाहणे । नामेणं संजए नाम, मिगव्वं उवनिग्गए ॥ १ ॥
व्याख्या - काम्पील्ये काम्पील्यनाम्नि नगरे राजा उदीर्णमुदयप्राप्तं बलं चतुरङ्गं वाहनं च शिबिकादिरूपं यस्य | स तथा, स च नाम्ना संजयो 'नामेति' प्राकाश्ये, ततः संजय इति प्रसिद्धो मृगव्यां मृगयां प्रतीति शेषः, उपनिर्गतो निर्यातः पुरादिति गम्यते, इति सूत्रार्थः ॥१॥ स च कथं निर्गतः ? किं चकारेत्याह - मूलम् - हयाणीए गयाणीए, रहाणीए तहेव य । पायत्ताणीए महया, सव्वओ परिवारिए ॥२॥
व्याख्या - सर्वत्र सुब्व्यत्ययात् हयानीकेन गजानीकेन रथानीकेन तथैव च पदातीनां समूह: पादातं तदनीकेन च महता सर्वतः परिवारितः ॥२॥ मूलम् - मिए छुभित्ता हयगओ, कंपिल्लुजाणकेसरे । भीए संते मिए तत्थ, वहेइ रसमुच्छिए ॥३॥
व्याख्या - मृगान् क्षिप्त्वा प्रेर्य हयगतोऽश्वारूढः काम्पील्यस्य सम्बन्धिनि केसरनाम्नि उद्याने भीतान् त्रस्तान्
UTR-2
॥२३४॥
Page #237
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२३५॥
अणदशम ध्ययनमा
श्रान्तानितस्ततः प्रेरणेन खिन्नान् मितान् परिमितान् तत्र तेषु मृगेषु मध्ये 'वहेइत्ति हन्ति, रसमूर्छितस्तन्मांमारवा दलब्ध इति सूत्रद्वयार्थः ॥३॥ तदा च यदभृत्तदाह - मूलम् - अह केसरंमि उज्जाणे, अणगारे तवोधणे । सज्झायज्झाणसंजुत्ते, धम्मज्झाणं झियायइ ॥४॥
व्याख्या - अथानन्तर कसरोद्याने अनगारस्तपोधनः स्वाध्यायध्यानसंयुक्तो यथावसरं तदासेवनात् अत एव धर्मध्यानं ध्यायति ॥४॥ | मूलम् - अफोवमंडसि, झायइ झविआसवे । तस्सागए मिए पासं, वहेइ से नराहिवे ॥५॥
व्याख्या - 'अफोव' इति वृक्षाद्याकीर्णः स चासौ मण्डपश्च नागवल्यादिसम्बन्धी अफोवमण्डपस्तस्मिन ध्यान धर्मध्यानमिति शेषः, पुनरम्याभिधानमतिशयद्योतकं, 'झविअत्ति' क्षपिता आश्रवा हिंसादयो येन स तथा, तस्य मुनेगगतान् मृगान् पार्श्व समीपं 'वहेइत्ति' हन्ति स नगधिपः इति सूत्रद्रयार्थः ॥ ५ ॥ | मूलम्-अह आसगओ राया, खिप्पमागम्म सो तहिं । हए मिए उ पासित्ता, अणगारं तत्थ पासई ॥६॥
व्याख्या - अथानन्तरमश्वगतो राजा क्षिप्रमागम्य स तस्मिन् मण्डपे हतान् ‘मिा उत्नि' मृगानेव न पनर्मनि| मित्यर्थः , दृष्टवा अनगारं तत्र पश्यति इति सूत्रार्थः ॥ ६ ॥ ततोऽसौ किं चकारेत्याह - मूलम - अह गया तत्थ संभंतो, अणगारो मणाहओ । मए उ मंदपुण्णेणं, रसगिद्धेण घण्णणा ॥७॥
UTR-2
Page #238
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२३६॥
अष्टादशम
ध्ययनम् गा.८-१०
व्याख्या - अथ राजा तत्र मुनिदर्शने जाते सति सम्भ्रान्तो भीतो यथाऽनगारो मनाक् स्तोकेनैवाऽहतो न मारितः तदासन्नमृगहननादिति भावः, मया 'तुः' पूर्ती, मन्दपुण्येन रसगृद्धेन 'घण्णुणत्ति' घातुकेन हननशीलेन ॥ ७ ॥ मूलम् - आसं विसज्जइत्ता णं, अणगारस्स सो निवो । विणएणं वंदए पाए, भगवं एत्थ मे खमे ॥८॥
व्याख्या - अश्वं विसृज्य विमुच्य अनगारस्य स नृपः विनयेन वन्दते पादौ, वक्ति च यथा भगवन् ! अत्र मृगवधे मे ममापराधमिति शेषः, क्षमस्व ॥ ८ ॥ मूलम्-अह मोणेण सो भयवं, अणगारो झाणमस्सिओ । रायाणं न पडिमंतेइ, तओ राया भयद्दुओ ॥९॥
व्याख्या - अथ मौनेन स भगवान् अनगारो ध्यानमाश्रितः राजानं न प्रतिमंत्रयति न प्रतिवक्ति यथाऽहं क्षमिष्ये न वेति, ततो हेतो राजा भयद्तो भयत्रस्तोऽभूत्, यथा न ज्ञायते किमयं क्रुद्धः करिष्यतीति ॥९॥ | प्रोचे च यथा - मूलम्-संजओ अहमस्सीति, भयवं वाहराहि मे । कुद्धो तेएण अणगारे, दहिज्ज नरकोडिओ ॥१०॥
व्याख्या - संजयनामा राजाहमस्मि न तु नीच इति भावः, इत्येतस्माद्धेतोहे भगवन् ! व्याहर सम्भाषय 'मे' इति मां, किमेवं भवान् भयद्रुत इत्याह - क्रुद्धस्तेजसाऽनगारो दहेनरकोटीरास्तां शतं सहसं चेत्यतो भयगृतोऽहमिति सूत्रचतुष्कार्थः ॥ १० ॥ इत्थं तेनोक्ते मुनिराह -
UTR-2
॥२३६॥
Page #239
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥२३७॥
१५
१८
२१
२४
मूलम् - अभओ पत्थिवा तुब्भं, अभयदाया भवाहि अ । अणिच्चे जीवलोगंमि, किं हिंसाए पसज्जसि ? ॥११॥ व्याख्या - अभयं पार्थिव ! तव न तु कोऽपि त्वां दहतीति भावः, इत्थं समाश्वास्योपदिशति, अभयदाता च प्राणिनां प्राणत्राणकर्ता 'भवाहिअत्ति' भव, यथा तव मृत्युभयं तथाऽन्येषामपीति भावः, अनित्ये जीवलोके किं हिंसायां प्रसज्जसि ? नरकहेतुरियं कर्त्तुं नोचितेति भावः ॥ ११ ॥ किञ्च -
मूलम् - जया सव्वं परिच्चज्ज, गंतव्वमवसस्स ते । अनिच्चे जीवलोगंमि, किं रज्जमि पसज्जसि ॥१२॥ व्याख्या यदा सर्व कोशान्तः पुरादि परित्यज्य गन्तव्यं भवान्तरमिति शेषः, अवशस्य अस्वतंत्रस्य ते तव ततोऽनित्ये जीवलोके किं राज्ये प्रसज्जसि ? ॥ १२ ॥ अनित्यतामेव भावयति -
मूलम् - जीविअं चेव रूवं च, विज्जुसंपायचंचलं । जत्थ तं मुज्झसी रायं, पेच्चत्थं नावबुज्झसे ॥१३॥ व्याख्या जीवितं चैव रूपं च, विद्युत्सम्पातो विद्युच्चलनं तद्वच्चञ्चलं विद्युत्सम्पातचञ्चलं यत्र जीविते रूपे च त्वं मुह्यसि हे राजन् ! प्रेत्यार्थं परलोककार्यं नावबुध्यसे ॥ १३ ॥ तथा -
मूलम् - दाराणि अ सुआ चेव, मित्ता य तह बंधवा । जीवंतमणुजीवंति, मयं नाणुव्वयंति अ ॥१४॥
व्याख्या - दाराश्च सुताश्चैव मित्राणि च तथा बान्धवाः जीवन्तमनुजीवन्ति तदर्जितवित्ताद्युपभोगेन, मृतं नानुव्रजन्त्यपि चशब्दस्याऽप्यर्थत्वात् कथं पुनः सहायाः स्युरित्यतः कृतघ्नेषु तेषु नास्था कार्येति भावः ॥ १४ ॥
अष्टादशमध्ययनम् (१८)
गा. ११-१४
UTR-2
॥२३७॥
Page #240
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२३८॥
अष्टादशम
ध्ययनम् गा. १५-१८
| मूलम् - निहरंति मयं पुत्ता, पिअरं परमदुक्खिआ । पिअरोऽवि तहा पुत्ते, बंधू रायं तवं चरे ॥१५॥
व्याख्या - 'निहरंति' निस्सारयन्ति मृतं पुत्राः पितरं परमदुःखिता अपि, पितरोऽपि तथा पुत्रान् 'बंधूत्ति' बन्धवश्च बन्धूनिति शेषः, ततो राजस्तपश्चरेरासेवेथाः ॥१५॥ मूलम् - तओ तेणऽज्जिए दव्वे, दारे अ परिरक्खिए । कीलंतन्ने नरा रायं, हट्टतुट्ठा अलंकिआ ॥१६॥
व्याख्या - ततो निस्सारणानन्तरं तेन पित्रादिनाऽजिते द्रव्ये सति दारेषु च परिरक्षितेषु क्रीडन्ति तेनैव वित्तेन तैर्दारैश्चेति गम्यं, अन्ये नरा राजन् ! हृष्टतुष्टा अलङ्कृतास्तत्र हृष्टा बहि: पुलकादिमन्तः, तुष्टा आन्तरप्रेमभाजः, अल
कृताः विभूषिताः, यतः ईदृशी भवस्थितिस्ततो राजंस्तपश्चरेरिति सम्बन्धः ॥१६॥ मृतस्य का वार्तेत्याहमूलम् - तेणावि जं कयं कम्मं, सुहं वा जइवाऽसुहं । कम्मुणा तेण संजुत्तो, गच्छइ उ परं भवं ॥१७॥
व्याख्या - तेनाऽपि यत्कृतं कर्म शुभं वा यदिवा अशुभं कर्मणा तेन 'उत्तरतुशब्दस्यैवकारार्थस्येह योगात्तेनैव' न तु धनादिना संयुक्तो गच्छति परमन्यं भवं, यत एवं शुभाशुभयोरेवानुयायित्वं ततः शुभहेतुं तप एव चरेरिति सूत्रसप्तकार्थः ॥ १७ ॥ ततश्च - मूलम् - सोऊण तस्स सो धम्मं, अणगारस्स अंतिए । महया संवेगनिव्वेअं, समावण्णो नराहिवो ॥१८॥
UTR-2
॥२३८॥
Page #241
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
अष्टादशमध्ययनम् (१८) गा. १९-२१
॥२३९॥
व्याख्या - स्पष्टं, नवरं 'महयत्ति' महत् संवेगनिर्वेद, तत्र संवेगो मोक्षाऽभिलाषः, निर्वेदः संसारोद्वेगः ॥१८॥ मूलम् - संजओ चइउं रज्जं, निक्खंतो जिणसासणे । गद्दभालिस्स भगवओ, अणगारस्स अंतिए ॥१९॥
व्याख्या - संजयस्त्यक्त्वा राज्यं निष्क्रान्तः प्रव्रजितो जिनशासने न त्वन्यत्र, गईभालेर्भगवतोऽनगारस्याऽन्तिके, स चैवं प्रव्रज्याधिगतश्रुतः सामाचारीरतोऽप्रतिबद्धतया विहरन् कञ्चित्सन्निवेशमगात्तत्र च यदभूत्तदाह ॥१९॥ मूलम् - चिच्चा टुं पव्वइए, खत्तिए परिभासई । जहा ते दीसइ रूवं, पसन्नं ते तहा मणो ॥२०॥
___ व्याख्या - त्यक्त्वा राष्ट्र देशं प्रव्रजितः क्षत्रियः क्षत्रियजातिरनिर्दिष्टनामा कोऽपि मुनिः परिभाषते संजयराजर्षि-15 | मिति शेषः, स हि पूर्वभवे वैमानिकोऽभूत्ततश्च्युतश्च क्षत्रियकुले राजा जातस्तत्र च कुतोऽपि निमित्ताज्जातजातिस्मृतिस्तत एवं विरक्तः प्रव्रज्य विहरन् संजयमुनि प्रेक्ष्य तत्परीक्षार्थमिदमाचख्यौ, यथा ते दृश्यते रूपं प्रसन्नं निर्विकारं ते तव तथा मनोऽपि प्रसन्नं वर्त्तते इति शेषः, अन्तः कालुष्ये हि सति बहिनैवं प्रसन्नता स्यादिति | भावः ॥ २० ॥ किञ्च - मूलम्-किं नामे किं गोत्ते, कस्सट्टाए व माहणे । कहं पडिअरसी बुद्धे, कहं विणीएत्ति वुच्चसी?॥२१॥
व्याख्या - किंनामा ? किं गोत्र: ? 'कस्सठाएवत्ति' कस्मै वा अर्थाय माहनः प्रव्रजितः ? कथं केन प्रकारेण प्रतिचरसि सेवसे बुद्धानाचार्यादीन् ? कथं विनीत इत्युच्यसे ? इति सूत्रचतुष्कार्थः ॥ २१ ॥ संजयमुनिराह -
UTR-2
॥२३९॥
Page #242
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥२४० ।। ३
१२
मूलम् - संजयो नाम नामेणं, तहा गोत्तेण गोअमो । गद्दभाली ममायरिआ, विज्जाचरणपारगा ॥२२॥ व्याख्या - संजयो नाम नाम्ना, तथा गोत्रेण गौतमोऽहमिति शेषः, शेषप्रश्नत्रयोत्तरमाह गर्छभालयो ममाऽचार्याः, विद्याचरणपारगाः श्रुतचारित्रपारगामिनः अयं भावः - गर्दभालिनामाचार्यैर्जीवघातान्निवर्त्तितोऽहं तन्निवृत्तौ च तैर्मुक्तिरूपं फलं दर्शितं ततस्तदर्थं माहनोऽस्मि, यथा तदुपदेशं गुरून् प्रतिचरामि तदुपदेशासेवनाच्च विनीतोऽहमिति सूत्रार्थः ॥ २२ ॥ ततस्तद्गुणाकृष्टचेता अपृष्टोऽपि क्षत्रिय इदमाह -
मूलम् - किरिअं अकिरिअं विणयं, अण्णाणं च महामुणी ।
एहिं चउहिं ठाणेहिं मेअण्णे किं पभासति ? ॥२३॥
व्याख्या - क्रिया अस्ति जीव इत्यादिरूपा, नपुंसकत्वं प्राकृतत्वात् एवमग्रेऽपि, अक्रिया तद्विपरीता, विनयो नमस्कारादिः, अज्ञानं तत्त्वाऽनवगमः चः समुच्चये, हे महामुने ! एतैः क्रियादिभिश्चतुर्भिः स्थानै: 'मेअण्णेत्ति' मेयं ज्ञेयं जीवादिवस्तु जानन्ति इति मेयज्ञाः, क्रियादिभिः स्वस्वाभिप्रायकल्पितैः वस्तुतत्त्वपरिच्छेदिन इत्यर्थः । किमिति कुत्सितं 'पभासतित्ति' प्रभाषन्ते विचारक्षमत्वात् तदुक्तीनां तथा हि- ये तावत् क्रियावादिनः ते अस्तिक्रियाविशिष्टमात्मानं मन्यमाना अपि विभुरविभुः कर्त्ता अकर्त्ता मूर्त्तोऽमूर्त्तोऽसावित्याद्येकान्तवादमभ्युपगताः, कुत्सितभाषणञ्चैतत् युक्तिबाधितत्वात् । इह हि विभुत्वं व्यापित्वं तच्चात्मनो न घटते, देह एव तल्लिङ्गभूतचैतन्योपलब्धेः । न च वाच्यं
अष्टादशमध्ययनम् गा. २२-२३
॥२४० ॥
Page #243
--------------------------------------------------------------------------
________________
अष्टादशम
उत्तराध्ययनसूत्रम्
ध्ययनम्
॥२४१॥
(१८) गा. २४
आत्मनो अव्यापित्वे तद्गुणयोर्धर्माधर्मयोरपि अव्यापित्वं, तथा च द्वीपान्तरगतदेवदत्तादृष्टाकृष्टमणिमुक्तादीनामिहागमनं न स्यादिति, भिन्नदेशस्थस्याप्ययस्कान्तादेर्लोहाद्याकर्षणशक्तिदर्शनाच्छरीरव्यापिनोरपि धर्माऽधर्मयोर्दूरस्थस्याऽपि वस्तुन आकर्षणमुपपद्यत एवेति न विभुत्वमात्मनो युज्यते । तथाऽविभुरप्यङ्गुष्टपर्वमात्राद्यधिष्ठानो यैरिष्यते तेषामपि शेषावयवेषु चैतन्याभावाच्छस्त्रादिना छेदने वेदनानुभवाभावः स्यान्न चैवं दृश्यते, एवं कर्तृत्वाद्येकान्तवादोऽपि स्वधियाऽपासनीयः। अक्रियावादिनस्तु अस्तिक्रियाविशिष्टमात्मानं नेच्छन्त्येव, तदप्यसङ्गततरं, अहं सुखीत्यादिप्रत्ययानामन्यथानुपपत्त्या मानसप्रत्यक्षादिप्रमाणगम्यत्वात् तस्य । विनयवादिनस्तु सुरनृपमुनिगजवाजिगोमृगकरभमहिषकुक्कुरछगलशृगालकाकमकरादिनमस्कारकरणादेव कर्मक्षयमभ्युपगताः, दुष्टञ्चैतत्, लोकसमयवेदेषु गुणाधिकस्यैवविनयार्हतया प्रतीतत्वात्, तदन्यविनयस्य चाशुभफलत्वात् । अज्ञानवादिनच ज्ञानस्य मोक्षं प्रत्यनुपयोगित्वात् केवलं कष्टमेव कार्य, न हि कष्टविनेष्टसिद्धिरिति प्रतिपन्नाः, इदमप्ययुक्तमेव, ज्ञानमन्तरेण हेयोपादेयनिवृत्तिप्रवृत्त्यभावात्, ज्ञानं विना च भूयोऽपि कष्टानुष्ठानं पशोरिव व्यर्थमेव स्यादिति सर्वेऽप्यमी कुत्सितमेव प्रभाषन्ते इति स्थितमिति सूत्रार्थः ॥ २३ ॥ न चैतत्स्वाभिप्रायेणैवोच्यते इत्याह -
मूलम् - इइ पाउकरे बुद्धे, नायए परिनिव्वुडे । विज्जाचरणसंपन्ने, सच्चे सच्चपरक्कमे ॥२४॥ व्याख्या - इति एते क्रियावाद्यादयः कुत्सितं प्रभाषन्ते इत्येवं रूपं 'पाउकरेत्ति' प्रादुरकार्षीत् प्रकटितवान् बुद्धो ज्ञाततत्त्वो,
UTR-2
॥२४॥
Page #244
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२४२॥ ३
अष्टादशम
ध्ययनम् गा. २५-२६
ज्ञात एव ज्ञातकः क्षत्रियः, स चात्र प्रस्तावात् महावीरः, परिनिर्वृतः कषायानलविध्यापनाच्छीतीभूतः, विद्याचरणाभ्यां क्षायिकज्ञानचारित्राभ्यां संपन्नो यः स तथा, अत एव सत्यः सत्यवाक्, सत्यपराक्रमः सत्यवीर्यः, इति सूत्रार्थः ॥ २४ ॥ तेषां फलमाह - | मूलम् - पडंति नरए घोरे, जे नरा पावकारिणो । दिव्वं च गई गच्छंति, चरित्ता धम्ममारिअं ॥२५॥
व्याख्या - पतन्ति नरके घोरे रौद्रे ये नरा उपलक्षणत्वादन्ये च जीवाः, पापमिह प्रस्तावादसत्प्ररूपणारूपं कर्तुं | शीलं येषां ते पापकारिणः, दिव्यां देवसम्बन्धिनी सर्वगतिप्रधानां वा सिद्धिरूपां गतिं गच्छन्ति चरित्वा आसेव्य | धर्ममिह सत्प्ररूपणारूपं आर्यमुत्तमं, ततोऽसत्प्ररूपणां हित्वा सत्प्ररूपणापरेणैव भवता भवितव्यमिति भावः, इति सूत्रार्थः ॥ २५ ॥ अथ कथममी पापकारिणः इत्याह - मूलम् - मायाबुइअमेअंतु, मुसाभासा निरस्थिआ । संजममाणोवि अहं, वसामि इरिआमि अ ॥२६॥
व्याख्या - मायया शाठ्येन 'बुइअंति' उक्तं मायोक्तम् एतदनन्तरोक्तं क्रियादिवादिभिरुक्तं, तुरेवकारार्थः स च मायोक्तमेवेत्यत्र योज्यः, अत एव तेषां मृषा भाषा, निरथिका सम्यगभिधेयशून्या, तत: 'संजममाणोवित्ति' अपिरेवकारार्थः, ततः संयच्छन्नेवोपरमन्नेव तदुक्तिश्रवणादेः, अहमित्यात्मनिर्देशो विशेषेण तं स्थिरीकर्तुं वसामि तिष्ठामि
UTR-2
॥२४२॥
Page #245
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२४३॥
अष्टादशमध्ययनम्
गा. २७-२८
उपाश्रय इति शेषः, 'इरिआमिअत्ति' ईर च गच्छामि च गोचरादाविति सूत्रार्थः ॥ २६ ॥ कुतस्त्वं तदुक्ताकर्णना दुपरमसि ? इत्याह - मूलम्-सव्वे ते विइआ मज्झं, मिच्छादिट्टी अणारिआ । विज्जमाणे परे लोए, सम्मं जाणामि अप्पयं ॥२७।।
व्याख्या - सर्वे ते क्रियादिवादिनो विदिता मम यथाऽमी मिथ्यादृष्टयः तत एवानार्याः पशुहिंसाद्यनार्यकर्मप्रवृत्ताः, कथमीदृशास्ते तव विदिताः? इत्याह - विद्यमाने परलोकेऽन्यजन्मनि सम्यग् जानाम्यात्मानं भवान्तरादागतं, ततः परलोकात्मनोः सम्यग् वेदनान्मम ते तादृशा विदितास्ततोऽहं तदुक्ताकर्णनादेः संयच्छामि इति सूत्रार्थः ॥ २७ ॥ कथमात्मानमन्यभवादागतं वेत्सीत्याह - मूलम्-अहमासि महापाणे, जुइमं वरिससओवमे । जा सा पाली महापाली, दिव्वा वरिससओवमा ॥२८॥
व्याख्या - 'अहमासित्ति' अहमभूवं महाप्राणे ब्रह्मलोकविमाने द्युतिमान् वर्षशतजीविना उपमा यस्याऽसौ वर्ष - शतोपमः, मध्यपदलोपीसमासः, अयमर्थो यथेह सम्प्रति वर्षशतजीवी पूर्णायुरुच्यते तथाऽहमपि तत्र पूर्णायुरभृवं, तथाहि - या सा पालिरिव पालिः जीवितजलधारणाद्भवस्थितिः, सा चोत्तरत्र महाशब्दोपादानादिह पल्योपमप्रमाणा, | महापाली सागरोपमप्रमाणा, तस्या एव महत्त्वात्, दिवि भवा दिव्या वर्षशतैः केशखण्डोद्धारहेतुभिरुपमा अर्थात्
२४
UTR-2
॥२४३॥
Page #246
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
अष्टादशम
ध्ययनम् गा. २९-३१
॥२४४॥
पल्यविषया यस्यां सा वर्षशतोपमा, तत्र मे महापालीदशकरूपा दिव्या भवस्थितिरासीदित्युपस्कारः, ततश्चाहं वर्षशतोपमायुरभूवमिति भावः ॥२८॥ मूलम्-से चुए बंभलोआओ, माणुस्सं भवमागओ । अप्पणो अपरेसिं च, आउं जाणे जहा तहा ॥२९॥
व्याख्या - से इति अथ स्थितिपालनानन्तरं च्युतो ब्रह्मलोकात् मानुष्यं भवमागत इत्थमात्मनो जातिस्मरणात्मकमतिशयमुक्त्वाऽतिशयान्तरमाह - आत्मनश्च परेषाञ्च आयुर्जानामि, यथा येन प्रकारेण स्यात्तथा तेनैव प्रकारेण न त्वन्यथेति भाव इति सूत्रद्वयार्थः ॥२९॥ इत्थं प्रसङ्गादपृष्टमपि स्ववृत्तान्तमाचख्योपदेष्टमाह - मूलम् - नाणारुइं च छंदं च, परिवज्जिज्ज संजए । अणट्ठा जे अ सव्वत्था, इइ विज्जामणुसंचरे ॥३०॥
व्याख्या - नानाऽनेकधा रुचिं च प्रक्रमात् क्रियावाद्यादिमतविषयां वाञ्छां, छन्दश्च स्वमतिकल्पितमाशयं, इहापि नानेति सम्बन्धादनेकविधं परिवर्जयेत् संयतः। तथाऽना निःप्रयोजना: ये च व्यापारा इति गम्यं, 'सव्वत्था' अत्राकारस्यालाक्षणिकत्वात्सर्वत्र | क्षेत्रादौ तानपि परिवर्जयेदिति सम्बन्ध इत्येवंरूपां विद्यां सम्यग्ज्ञानरूपां अनुलक्षीकृत्य सञ्चरेः सम्यक् संयमाध्वनि यायाः इति सूत्रार्थः ॥३०॥ तथामूलम्-पडिकमामि पसिणाणं, परमंतेहिं वा पुणो । अहो उठिए अहोरायं, इइ विज्जा तवं चरे ॥३१॥
व्याख्या- प्रतिक्रमामि प्रतिनिवर्ते 'पसिणाणंति - प्रश्नेभ्यः शुभाशुभसूचकेभ्योऽङ्गुष्ठप्रश्नादिभ्यः, तथा परे गृहस्था:
पचा
UTR-2
॥२४४॥
Page #247
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२४५॥
अष्टादशमध्ययनम् (१८) गा. ३२-३३
तेषां मंत्रास्तत्कार्यालोचनरूपास्तेभ्यो, वा समुच्चये, पुनर्विशेषणे, अतिसावद्यत्वं तेषां विशिनष्टि, सोपस्कारत्वात्सूत्रस्य यश्चैवं संयम प्रति उत्थानवान् स 'अहो'! इति विस्मये, उत्थितो धर्मम्प्रत्युद्यतः कश्चिदेव हि महात्मा एवंविध: स्यादित्याश्चर्यं,
अहोरात्रं अहर्निशं, इति एतदनन्तरोक्तं 'विज्जत्ति' विद्वान् जानन् 'तवंति' गम्यत्वादवधारणस्य तप एव, न तु प्रश्नादि, चरेरामेवेथा | इति सूत्रार्थः ॥ ३१॥ अथ संजययतिना कथमायुर्वेत्सीति पृष्टोऽसावाहमूलम् -जं च मे पुच्छसी काले, सम्मं सुद्धेण चेअसा । ताई पाउकरे बुद्धे, तं नाणं जिणसासणे ॥३२॥
व्याख्या- यच्च मे इति मां पृच्छसि काले कालविषयं सम्यक् शुद्धेन चेतसोपलक्षित: 'ताइंति' सूत्रत्वात् तत् प्रादुष्कृतवान् प्रकटितवान् बुद्धः सर्वज्ञोऽत एव तज्ज्ञानं जिनशासने सावधारणत्वाद् वाक्यस्य जिनशासने एव, न त्वन्यत्र सुगतादिशासनेऽतो
जिनशासने एव यत्नः कार्यों येन यथाऽहं जानामि तथा त्वमपि ज्ञास्यसि इति भावः, इति सूत्रार्थः ॥ ३२ ॥ पुनरुपदेष्टमाहKI मूलम् - किरिअं रोअए धीरो, अकिरिअं परिवज्जए । दिविए दिट्ठिसंपन्ने, धम्म चर सुदुच्चरं ॥ ३३ ।।
___ व्याख्या - क्रियाञ्चास्ति जीव इत्यादिरूपां सदनुष्ठानात्मिकां वा रोचयेद्धीरोऽक्षोभ्यः तथाऽक्रियां नास्त्यात्मा इत्यादिकां परिवर्जयेत्, ततश्च दृष्ट्या सम्यग्दर्शनरूपया उपलक्षिता या दृष्टिर्बुद्धिः, सा चेह प्रक्रमात् सम्यकज्ञाना
UTR-2
॥२४५॥
Page #248
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
अष्टादशमध्ययनम् गा. ३४
॥२४६॥
त्मिका, तया सम्पन्नो दृष्टिसम्पन्नः, एवं च सम्यग्दर्शनज्ञानान्वितः सन् धर्मं चर सेवस्व, सुदुश्चरं अत्यन्तकष्टानुष्ठेयमिति सूत्रार्थः ॥३३॥ पुनः क्षत्रियमुनिरेव संजयमुनि महापुरुषदृष्टान्तैः स्थिरीकर्तुमाहमूलम्-एअं पुण्णपयं सोच्चा, अत्थधम्मोवसोहिअं । भरहोवि भारहं वासं, चिच्चा कामाई पव्वए ॥३४॥
व्याख्या--एतत् पूर्वोक्तं पुण्यहेतुत्वात् पुण्यं, पद्यते गम्यतेऽर्थोऽनेनेति पदं, पुण्यं च तत् पदं च पुण्यपदं, क्रियावादादिलक्षणनानारुचिवर्जनादिज्ञापकं शब्दसंदर्भ श्रुत्वा अर्थोऽर्थ्यमानतया स्वर्गाऽपवर्गादिः, धर्मस्तदुपायभूतः श्रुतधर्मादिस्ताभ्यामुपशोभितं अर्थधर्मोपशोभितं, भरतः प्रथमचक्री, अपिशब्द उत्तरापेक्षया समुच्चये, भारतं वर्ष क्षेत्रं त्यक्त्वा 'कामाइंति' चस्य गम्यत्वात्, कामांश्च 'पव्वएत्ति' प्राव्राजीत्, तत्कथांशस्त्वेवम् । तथाहिअत्रैव भरते शक्राज्ञया श्रीदेन निर्मिता । अस्त्ययोध्या पुरी स्वर्ग-प्रतिस्पर्द्धिसमृद्धिका ॥१॥ प्रथमः प्रथितः पृथ्व्यां, पुत्रः श्रीवृषभप्रभोः । सार्वभौमोऽभवत्तत्र, भरतो भरतेश्वरः ॥२॥ चतुर्दशानां रत्नानां, विभुर्नवनिधिप्रभुः । द्वात्रिंशता सहसैर्भू-भुजां सेवितपत्कजः ॥३॥ लक्षैश्चतुरशीत्याऽश्व-रथेभानां समाश्रितः ॥ ग्रामाणां च पदातीनां, कोटिषण्णवतेः पतिः ॥४॥ लो कैात्रिंशत्सहस्र-देशानां धृतशासनः ॥ सत्पत्तनसहस्राणां, द्विश्चतुर्विशतेविभुः ॥ ५ ॥ द्वासप्ततेः श्रेष्ठपुर सहस्राणामधीश्वरः ॥ सहस्रोनं द्रोणमुख-लक्षं च परिरक्षयन् ॥६॥ गुह्यकानां
भरतचक्रिकथा १-६
deke xaksvoice
UTR-2
॥२४६॥
१ अत्यन्तकष्टानुष्ठेयमितिपाठ: 'घ' पुस्तके नास्ति ।
Page #249
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥२४७॥५५
१८
२१
२५
षोडशभिः सहस्रैः सेविताऽनिशम् ॥ षट्खण्डं भरतक्षेत्र - मखण्डाज्ञः प्रपालयन् ॥७॥ चतुषष्टिसहस्रान्तः पुरस्त्रीभिः सहान्वहम् ॥ क्रीडन् पूर्वोक्तपुण्यद्रु-पुष्पाभं सौख्यमाश्रयन् ॥८॥ ऋषभस्वामिनिर्वाणास्पदेऽष्टापदपर्वते ॥ चैत्ये स्वकारिते भक्त्या, जिनबिम्बानि पूजयन् ॥ ९ ॥ साधर्मिकाणां वात्सल्यं कुर्वन्नाश्रितवत्सलः ॥ पूर्वलक्षाणि षट् क्षोणी- हर्यश्वः सोऽत्यवाहयेत् ॥ १० ॥ [ अष्टभिः कुलकम् ] अन्यदा प्रातरभ्यक्तो द्वर्त्तितस्नपिताङ्गकः ।। आदर्शसदनं सोऽगात्सर्वालङ्कारभूषितः ॥ ११ ॥ तत्राऽऽत्मदर्शे महति पश्यंश्चक्री निजं वपुः ॥ भ्रष्टाङ्गुलीयकामेकां, ददर्श स्वकराङ्गुलीम् ॥१२॥ अशोभमानां तां प्रेक्ष्य, प्रेक्षावान् क्ष्माधवाग्रणीः ॥ सकलानप्यलङ्कारा- नेकैकमुदतारयत् ॥१३॥ तत उज्झितपाथोजं पद्माकरमिवाऽऽत्मनः । विलोक्य वपुरश्रीक-मिति दध्यौ धराधवः ॥ १४॥ अहो ! आगन्तुकैरेव द्रव्यैरङ्गं विराजते ॥ स्वाभाविकं तु सौन्दर्यं किमप्यस्य न दृश्यते ! ॥ १५ ॥ स्वरूपासारतां वक्ति, यस्य संस्कारसारता || मोहादेव तदप्यङ्गं जना जानन्ति मञ्जुलम्! ॥ १६ ॥ मनोज्ञमप्यन्नपान-पुष्पगन्धांशुकादिकम् ॥ विनश्यत्यस्य सङ्गेन, ब्रह्मचर्यमिव स्त्रियाः ! ॥ १७ ॥ तदहो निर्विवेकत्वं विदुषामपि बालवत् ॥ ये देहस्येदृशस्यापि कृते पापानि कुर्वते ! ॥ ९८ ॥ तन्मोक्षदायि मानुष्यं शरीरार्थेन पाप्मना ॥ द्युतेनेव घुसद्रत्नं युक्तं नाशयितुं न मे ॥ १९ ॥ ध्यायन्नित्यादि सम्प्राप्तः, संवेगमधिकाधिकम् ॥ आरूढः क्षपकश्रेणीं, निश्रेणीं शिवसद्मनः ॥ २० ॥ घनघातिक्षयं
१ क्षोणीहर्यश्वः भूमीन्द्रः ॥
अष्टादशमध्ययनम्
( १८ ) भरतचक्रि कथा ७-२०
UTR-2
॥२४७॥
Page #250
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२४८॥
अष्टादशमध्ययनम् भरतचक्रि
कथा २१-२७
कृत्वा, भावचारित्रमाश्रितः॥ अज्ञानतिमिरादित्यं, केवलज्ञानमाप सः ॥२१॥ [ युग्मम् ] कृत्वालोचं शक्रदत्तं, मुनिवेशं दधत्ततः ॥ निर्जगाम गृहाच्चक्रि-साधु नुरिवाम्बुदात् ॥२२॥ तमुपात्तव्रतं वीक्ष्य, क्षामसंसारवासनाः ॥ भूपा दश सहस्राणि, दीक्षामाददिरे मुदा ! ॥२३॥ ततः शक्रादयो देवा-स्तं नत्वा स्वाश्रयं ययुः॥ भुवि व्यहार्षीद् भगवानपि भव्यान् प्रबोधयन् ॥२४॥ सप्तसप्ततिलक्षाणि, पूर्वाणां भरतप्रभोः ॥ कौमारे मण्डलित्वे तु, सहसं शरदामभूत् ॥२५॥ चक्रित्वेऽष्टसहसोनाः, पूर्वलक्षा रसोन्मिताः ॥ पूर्वाणां लक्षमेकं तु, केवलित्वे व्रतेऽपि च ॥२६॥ सर्वायुषा चतुरशीतिमितानि पूर्व-लक्षाणि सम्यगतिगम्य महेन्द्रनम्यः ॥ कर्मक्षयेण भरतेश्वरसाधुराजो, भेजे महोदयरमामुदितोदितश्रीः ॥२७॥ इतिभरतचक्रिकथालेशः ॥२८॥ मूलम्-सगरोवि सागरंतं, भरहवासं नराहिवो । इस्सरिअं केवलं हिच्चा, दयाए परिनिव्वुए ॥३५॥ __व्याख्या-सगरोऽपि द्वितीयचक्री सागरान्तं पूर्वादिदिक्त्रये समुद्रपर्यन्तम् , उत्तरस्यां तु हिमवदन्तं भरतवर्षं नराधिपः, ऐश्वर्यञ्च के वलं परिपूर्ण हित्वा दयया संयमेन परिनिर्वृतो मुक्तः। तद्वत्तले शो यथा, तथाहिअयोध्यायां पुरि क्षमापो, जितशत्रुरभूज्जयी ॥ युवराजोऽनुजस्तस्य, सुमित्रविजयाह्वयः ॥१॥ तयोर्महिष्यौ विजया-यशोमत्यौ बभूवतुः ॥ शक्रेशानाभ्यां स्वकल्प-सारे देव्याविवार्पिते ! ॥२॥ तयोश्चतुर्दशस्वप्न-सूचितौ सद्गुणाञ्चितौ ॥ सुतावभूतामजित-सगरौ जिनचक्रिणौ ॥३॥ जितशत्रुसुमित्राभ्या-मेकदा स्वीकृते व्रते ॥ नृपोऽभूदजि
गाथा ३५
सगरचक्रि
कथा ६१-३
॥२४८॥
Page #251
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२४९।
अष्टादशमध्ययनम् (१८) सगरचक्रि
कथा ४-१८
तस्वामी, युवराट् सगरः पुनः ॥४॥ न्यस्यान्यदाऽनुजं राज्ये, प्रावाजीदजितप्रभुः ॥ ततो बभूव सगर-चक्रवर्ती महाभुजः ॥५॥ क्रमात्यष्टिसहस्राणि तनयास्तस्य जज्ञिरे ॥ तेषु ज्येष्ठोऽभवज्जौँः , सोऽन्यदाऽप्रीणयन्नृपम् ॥६॥ ततः पित्रा वरे दत्ते, सोऽवादीत्त्वत्प्रसादतः। दिदृक्षेऽहं महीं भ्रातृ-युक्तो दण्डादिरत्नवान् ॥७॥ राजाऽनुज्ञातोऽथ जनुः, ससैन्यः प्रस्थितस्ततः ॥ विहिताश्चर्यसन्दर्भा, रत्नगर्भा विलोकयन् ॥८॥ चतुर्योजनविस्तारं, योजनाष्टकमुन्नतम् ॥ प्राप्तोऽष्टापदमारोह-त्सह सर्वैः सहोदरैः ॥९॥ [ युग्मम् ] क्रोशद्वयपृथु क्रोश-त्रयोच्चं योजनायतम् ॥ चतुमुखं रत्नमयं, तत्र चैत्यं ददर्श सः ॥१०॥ ऋषभाद्यर्हतामाः , स्वस्वमानादिशोभिताः ॥ स्तूपांश्च भरतादीनां, शतं तत्र ननाम सः ॥११॥ सुषमा तस्य शैलस्य, चैत्यस्य च विलोकयन् ॥ पीतामृत इवात्यर्थं, जहर्ष सगराङ्गजः ॥१२॥ केनेदं कारितं चैत्य - मित्यमात्यं च पृष्टवान् ? ॥ सोप्यूचे भरताख्येन, चक्रिणा पूर्वजेन वः ॥१३॥ अथाख्यत्सेवकान् जह्व - रीदृशं भरतेऽपरम् ॥ पश्यतादि यथाऽस्माभिः, कार्यते चैत्यमीदृशम् ॥१४॥ तेऽपि गत्वाऽऽगता: प्रोचु- स्त्यन्योऽत्राद्रिरीदृशः ॥ ततो जगाद जह्वस्त-द्रक्षामस्यैव कुर्महे ॥ १५ ॥ कालानुभावतो लुब्धा, भाविनो भाविनो जनाः ॥ उपद्रोष्यन्ति ते ह्यत्र, तद्रक्षास्य महाफला ! ॥ १६ ॥ इत्युक्त्वा दण्डरत्नेन, जह्वस्तं परितो गिरिम् ॥ सहस्रयोजनोद्वेधां, विदधे परिखां क्षणात् ॥१७॥ तदा च दण्डरत्रेन, तेन दारयता महीम् ॥ क्रीडागेहानि नागानां, मृत्पात्राणीव पुस्फुटुः ॥१८॥ तं प्रेक्ष्योपद्रवं क्षुब्धा, भुजङ्गा ज्वलनप्रभम् ॥ उपेत्य स्वप्रभुं सौध-भगव्यति
UTR-2
"॥२४९॥
Page #252
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२५०॥
अष्टादशम
ध्ययनम् सगरचक्रि
कथा
करं जगुः ॥१९॥ सोऽपि ज्ञात्वाऽवधेः क्रुद्धो-ऽभेत्योचे सगराङ्गजान् ॥ भुवं भवद्भिर्भिन्दानै - भॊः ! किमेतत्कृतं जडैः ? ॥२०॥ उपद्रुता हि युष्माभि- गास्तद्गेहभेदनैः ॥ ते च क्रुद्धा हनिष्यन्ति, युष्मान् सिंहा इव द्विपान् ॥२१॥ तन्नूनं स्ववधायैव, प्रयत्नो भवतामयम् ॥ पतङ्गानां दीपपात-कृते पक्षबलं यथा ॥२२॥ जह्वर्जगौ तीर्थरक्षा-कृतेऽस्माभिरदः कृतम् ॥ तन्मन्तुमेनं भोगीन्द्र !, क्षमस्वाज्ञानसम्भवम् ॥२३॥ आगः सोढमिदं नैवं, पुनः कार्यमिति ब्रुवन् ॥ अहीन्द्रोऽगात्ततो जह्व-रिति दध्यौ सहानुजैः ॥ २४ ॥ परिखाऽसौ विना वारि, पांशुभिः पूरयिष्यते ॥ तदेनां पूरयामोऽथ, पुण्यैर्मन्दाकिनीजलैः ॥२५॥ तत्रार्थे सोदराः सर्वे, ज्यायांसमनुमेनिरे ॥ यादृशं भवितव्यं स्या-त्सहायाः खलु तादृशाः ! ॥ २६ ॥ ततः स दण्डेनाऽऽकृष्य, तत्र चिक्षेप जाह्नवीम् ॥ उपाद्रूयन्त भूयोऽपि, भोगिगेहास्तदम्भसा ॥ २७ ॥ नागलोकं पुनर्वीक्ष्य, क्षुभितं ज्वलनप्रभः ॥ कोपावेशाद्वभूवाशु, प्रज्वलज्ज्वलनप्रभः ॥२८॥ सोऽथ दृष्टिविषान् प्रैषी-तद्वधाय महोरगान् ॥ तैश्च निर्गत्य ते दृष्टा, दृष्टिभिर्विषवृष्टिभिः ॥२९॥ ततस्ते भस्मतां भेजुः, सर्वेऽपि सगरात्मजाः ॥ तं चोत्पातं प्रेक्ष्य चक्रि-चक्रं चक्रन्द तभृशम् ॥३०॥ ततः सैन्यानिति प्रोचे, सचिवः शोचितैरलम् ॥ नावश्यम्भाविनं भाव-मतिक्रामति कोऽपि हि ! ॥३१॥ तीर्थसेवातीर्थरक्षाकरणोपक्रियादिभिः ॥ कृतपुण्यार्जनाः शोच्या, न चामी स्वामीसूनवः ॥३२॥ तद्विमुच्य शुचं सर्वैः, क्षिप्रं प्रस्थीयतामितः ॥ स्थाने सोपवे स्थातुं, धीधनानां हि नोचितम् ॥३३॥ इति मंत्रिगिरा त्यक्ता-क्रन्दास्ते चलितास्ततः ॥
UTR-2
॥२५०॥
Page #253
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२५॥
अष्टादशमध्ययनम् (१८) सगरचक्रि
कथा ३४-४८
इत्ययोध्यामुपागत्य, सामन्ताद्या व्यचिन्तयन् ॥३४॥ दग्धा स्वामिसुताः सर्वे-ऽप्यागता वयमक्षताः ॥ लज्जाकरमिदं राज्ञो-ऽग्रे कथं कथयिष्यते? ॥३५॥ प्रविशामस्ततो वह्नि-मनन्यगतिका वयम् ॥ तानिति ध्यायतोऽभ्येत्य, विप्रः कोपीत्यभाषत ॥३६॥ कर्मणा शुभमन्यद्वा, नाङ्गिनां किं भवे भवेत् ? ॥ तैव्याकुला भवत मा, वक्ष्याम्येतदहं प्रभोः ॥३७॥ इत्युदित्वा द्विजः कश्चि-दनाथं शवमुद्वहन् ॥ गत्वा राजकुलद्वारे, व्यलापीदुच्चकैर्मुहुः ॥३८॥ तत् श्रुत्वा चक्रिणाऽऽहूय, पृष्टः किं रोदिषीति सः? ॥ प्रोचे ममैक एवासौ, सूनुर्दष्टो, महाहिना ॥३९॥ प्राप्तो निश्चेष्टतां देव!, तदेनं जीवयाऽधुना ॥ जाङ्गुलीकमथादिक्ष-त्तत्र कर्मणि भूधवः ॥४०॥ ज्ञातभूपापत्यमृत्यु-रित्यूचे सोऽपि कोऽपि हि ॥ मृतो न स्याद्यत्र तस्मा-द्भस्माऽऽनयत मन्दिरात् ॥४१॥ यथाऽहं जीवयाम्येन-मिति तेनोदितो नृपः ॥ तद्भस्मामार्गयद्धृत्यैः, पुर्यां सर्वेषु वेश्मसु ॥४२॥ तेऽप्यागत्यावदन्नाथ !, सकला वीक्षिता पुरी ॥ परं पुरा यत्र मृतो, न कश्चिन्नास्ति तद्गृहम् ॥४३॥ राजाऽप्यूचेऽस्माकमपि, भूयांसः पूर्वजाः मृताः॥ सर्वसाधारणे मृत्यौ, तत्कि कोविद! खिद्यसे ? ॥ ४४ ॥ किं शोचसि ? मृतं पुत्रं, किञ्चिदात्महितं कुरु ॥ सिंहेनेव मृगो यावन्मृत्युना त्वं न गृह्यसे! ॥४५॥ भूदेवोऽथावदद्देव, जानाम्येतदहं परम् ॥ अद्यैव जायते पुत्र-मन्तरा मे कुलक्षयः ॥ ४६ ॥ तबलाक्रान्तविक्रान्त-दीनानाथैकनाथ ! हे ॥ कथञ्चिज्जीवयित्वाऽमुं, पुत्रभिक्षा प्रदेहि मे ॥ ४७ ॥ भूयोऽभ्यधान्मंत्रतंत्र-शस्त्रादीनामगोचरे ॥ अदृष्टविद्विषि विधौ, कः पराक्रमते? कृतिन्! ॥४८॥ तन्मुञ्च शोकं
UTR-2
॥२५१॥
Page #254
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् । ॥२५२।।
अष्टादशम
ध्ययनम् सगरचक्रि
कथा ४९-६१
शोको हि, विपदि क्रियते जडैः ॥ आयैस्तु कार्यं तत्रापि, धर्मकर्मैव शर्मकृत् ! ॥४९॥ विप्रः प्रोचे प्रभो! षष्टि-सहसाणि सुतास्तव ॥ सममेव विपन्नास्त-च्छोकं त्वमपि मा कृथाः! ॥५०॥ आ:! किमेतदिति क्षमापस्ततो यावदचिन्तयत् ॥ सामन्तमुख्यास्ते पूर्वसङ्केतात्तावदाययुः ॥५१॥ यथावृत्तेऽथ तैः प्रोक्ते, वज्राहत इव क्षणात्। मूच्छितो न्यपतद्भूमौ, सार्वभौमः स विष्टरात् ॥५२॥ कथञ्चिलब्धसंज्ञस्तु, व्यलापीदिति भूपतिः ॥ हा! पुत्रा मां विमुच्यैकं, यूयं सर्वेऽपि किं गताः? ॥५३॥ अरे दुर्दैव ! तान् सर्वानपि संहरतः शिशून् ॥ न ते कृपा कृपाणाग्रक्रूरचित्तस्य काप्यभूत् ॥५४॥ सुतानपि मृतान् श्रुत्वा, शतधा यन्न भिद्यसे ॥ तत्त्वां हृदय! मन्येऽहं, निष्ठुरेभ्योऽपि निष्ठरम् ॥५५॥ अतृप्तान् सर्वसौख्यानां, परलोकपथं श्रितान् ॥ यत्सुतान्नान्वगच्छं तत्प्रेम कृत्रिममेव मे ॥५६।। विलपन्तमिति प्रोच्चैः, स विप्रः स्माह चक्रिणम् ॥ मां निषिध्याऽधुनैव त्वं, स्वामिन् ! रोदिषि किं स्वयम् ? ॥५७।। वियोग: प्रेयसां नाथ !, न स्यात्कस्याऽतिदुःसहः? ॥ सहते किन्तु तं धीरो, वडवाग्निमिवार्णवः ॥५९॥ शिक्षादानं परेषां हि, तेषामेव विराजते ॥ आत्मानमपि ये काले, शिक्षयन्ति विचक्षणा:! ॥५९॥ इति तद्वचनैर्मत्रि-वाक्यैश्च विविधैश्चिरात् ॥ आलम्ब्य धीरतां चक्री, चक्रे कालोचितक्रियाम् ॥६०॥ तदा चाष्टापदासन्न-ग्रामेभ्योऽभ्येत्य मानवाः ॥ राज्ञे व्यजिज्ञपन्नेवं, मुकुलीकृतपाणयः ॥१॥ श्रोतस्त्रिसोतसो देवा-ऽऽनिन्ये यद्भवतां सुतैः ॥ प्रपूर्य परिखां
UTR-2
॥२५२॥
१. गङ्गायाः ।
Page #255
--------------------------------------------------------------------------
________________
X
उत्तराध्ययनसूत्रम् ॥२५३॥
अष्टादशमध्ययनम् (१८) सगरचक्रि
कथा ६२-७५
ग्रामान्, प्लावयत्तन्निवार्यताम् ॥६२॥ राज्ञादिष्टस्ततः शिष्टः, पुत्रपुत्रो भगीरथः ॥ तत्र गत्वाऽष्टमं कृत्वा-ऽऽराधयज्ज्वलनप्रभम् ॥६३॥ प्रदत्तदर्शनं तं चेत्यूचे युष्मत्प्रसादतः ॥ गङ्गां नीत्वाम्बुधौ लोकान् करोमि निरुपद्रवान् ॥६४॥ वारयिष्यामि भुजगा-नहं भरतवासिनः ॥ तत्कुरुष्वाऽभयोऽभीष्ट-मित्युक्त्वाऽगात्ततोऽहिराट् ॥६५॥ नागपूजां ततः कृत्वा, दण्डरत्नेन जह्वजः ॥ नीत्वा सुपर्वसरितं, पूर्वाब्धावुदतारयत् ॥६६॥ भगीरथो भोगिपूजा, तत्रापि विधिवत् व्यधात् ॥ गङ्गासागरसङ्गाख्यं, तत्तीर्थं पप्रथे ततः ॥७॥ गङ्गापि जलनाऽऽनीते-त्युक्ता लोकेन जाह्नवी ॥ भगीरथेन नीताब्धा-विति भागिरथी तथा ॥६८॥ अथो भगीरथोऽयोध्या, गतस्तुष्टेन चक्रिणा ॥ सोत्सवं निदधे राज्ये, मूर्त्यन्तरमिवात्मनः ॥ ६९ ॥ स्वयं तु व्रतमादृत्य, सन्निधावजितप्रभोः ॥ सुदुस्तपं तपस्तेपे, सगरस्संत्यसङ्गरः ॥७०॥ क्रमाच्च केवलज्ञानं, ध्वस्ताज्ञानमवाप्य सः ॥ द्वासप्ततिं पूर्वलक्षाः, समाप्यायुः शिवं ययौ ॥ ७१ ॥ सर्वे समायुषो जह्व-मुख्या किं जज्ञिरे ? प्रभो ! ॥ ज्ञानी भगीरथेनेति, पृष्टोऽन्येधुरदोऽवदत् ॥७२॥ सङ्घः पुरा जिनानन्तुं, सम्मेताद्रिं व्रजन्महान् ॥ सम्प्राप्य गहनप्रान्तं, प्रान्तग्रामे क्वचिद्ययौ ॥७३॥ अनार्यैस्तद्गतैः षष्टिसहस्रप्रमितैर्जनैः ॥ एकेन कुम्भकारेण, वार्यमाणैरपि स्फुटम् ॥७४॥ स संघो मुषितो लुब्धैः, कथञ्चिदगमत् पुरः ॥ तैस्तु तत्प्रत्ययं सर्वैः, पापकर्म निकाचितम् ॥७५॥ [युग्मम् ] अन्यदा कोऽपि तत्रत्यो-ऽन्यत्र चौर्य व्यधात्
UTR-2
॥२५३॥
१ सत्यप्रतिज्ञः॥
Page #256
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२५४॥
पुरे ॥ पुरारक्षास्ततो ग्राम मीयुस्तं तत्पदानुगाः ॥ ७६ ॥ ग्रामद्वाराणि चावृत्या ऽज्वालयन् परितोऽनलम् ॥ स कुलालस्तु तत्राह्नि, ग्राममन्यं गतोऽभवत् ॥७७॥ तं विना ते ततः सर्वे, प्लुष्टा दुष्टा विपेदिरे । मात्रिवाहकजीवत्वेनाऽटव्यां चोपपेदिरे ॥७८॥ पिण्डीभूय स्थितास्तेऽथ तत्रायातस्य हस्तिनः ॥ पादेन मर्दिता मृत्वा चिरं भ्रमुः कुयोनिषु ॥ ७९ ॥ पुण्यं च प्राग्भवे किञ्चित्कृत्वा ते सङ्घदस्यवः । जज्ञिरे चक्रिणः षष्टि-सहस्राणि सुता इमे ॥८०॥ प्राग्भवैर्दुर्भवैस्तस्य, बहुभुक्तस्य कर्मणः ॥ शेषांशेन मृता एते, सममेव महीपते ! ॥ ८१ ॥ कुलालोऽप्यन्यदा मृत्वा, सोऽभूत् क्वापि पुरे धनी ॥ तत्रापि सुकृतं कृत्वा, विपद्य क्वाप्यभून्नृपः ॥८२॥ भूयोऽपि सोऽन्यदा दीक्षां, लात्वा मृत्वा सुरोऽभवत् ॥ ततश्चयुतश्च त्वं जह्रु-जातो जातोऽसि भूपते ! ॥८३॥ भगीरथक्षोणिधवोऽथ वाचं, वाचंयमस्येति निशम्य सम्यक् ॥ सुश्राद्धधर्मं प्रतिपद्य हृद्यं सद्योऽनवद्यः स्वपुरीं जगाम ॥८४॥ इति सगरचक्रवर्त्तिकथालेशः ॥ ३५ ॥ मूलम् - चइत्ता भारहं वासं, चक्कवट्टी महिड्डीओ । पव्वज्जमब्भुवगओ, मघवं नाम महायसो ॥३६॥
व्याख्या - सुगमं तत्कथालेशस्त्वेवं, तथा हि
अभूदिहैव भरते, महीमण्डलसत्पुरे ॥ वासुपूज्यप्रभोस्तीर्थे, नाम्ना नरपतिर्नृपः ॥ १ ॥ स्वप्रजावत् प्रजाः सम्यक्, पालयित्वा चिरं स राट् । संत्यज्य राज्यमन्येद्यु-विरक्तो व्रतमाददे ॥२॥ अप्रमत्तश्चिरं दीक्षां, पालयित्वा विपद्य च ॥ अहमिन्द्रः स गीर्वाणो, मध्यग्रैवेयकेऽभवत् ॥ ३॥ इतश्चात्रैव भरते, श्रावस्त्यां पुरि भूपतिः ॥ श्रिया समुद्र
अष्टादशम
ध्ययनम् सगरचक्रि
कथा ७६-७४
गाथा ३६
मघवचक्रि
कथा
5१-३
UTR-2
॥२५४॥
Page #257
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२५५॥
अष्टादशमध्ययनम् (१८) सगरचक्रि
कथा ४-९
विजयी, समुद्रविजयोऽभवत् ॥४॥ तस्य भार्याऽभवद्भद्रा, भद्राकारजितामरी ॥ सोऽथ देवोऽन्यदा च्युत्वा, तस्याः कुक्षाववातरत् ॥५॥ चतुर्दशमहास्वप्नां-स्तदा च प्रेक्ष्य सा मुदा ॥ राज्ञे जगाद चक्री ते, सुतो भावीती सोऽप्यवक् ॥ ६ ॥ क्रमाच्च सुषुवे पुत्रं, राज्ञी पूर्वेव भास्करम् ॥ महोत्सवैर्नृपस्तस्य, मघवेत्यऽभिधां व्यधात् ॥७॥ संप्राप्तः सोऽथ तारुण्यं, दत्तराज्यो महीभुजा ॥ उत्पन्नचक्रः षट्खण्डं, साधयामास भारतम् ॥८॥ भुक्त्वा चिरं चक्रिरमां विरक्तः, प्रान्ते परिव्रज्य स चक्रवर्ती ॥ पंचाब्दलक्षीमतिवाह्य सर्वा-ऽऽयुषो सुरोऽभूत्रिदिवे तृतीये ॥९॥ इति श्रीमघवचक्रिकथा ॥ ३६ ॥ मूलम् - सणंकुमारो मणुस्सिदो, चक्कवट्टी महिड्डीओ । पुत्तं रज्जे ठवित्ता णं, सोवि राया तवं चरे ॥३७॥
व्याख्या .. स्पष्टं-तच्चरितं चैवं, तथा हि___अस्तीह काञ्चनपुरं, समृद्धं काञ्चनर्द्धिभिः ॥ तत्रासीद्विक्रमयशा, विक्रमाक्रान्तभूर्नृपः ॥१॥ तस्य पंच शतान्या- | सन्, राज्ञो विश्वमनोहराः ॥ तत्र चाभूत् पुरे नाग-दत्तावः सार्थपो धनी ॥२॥ रूपलावण्यसौभाग्य-निर्जितामरसुन्दरी ॥ विष्णु श्रीरिति तस्यासी-त्कान्ता विष्णोरिवाब्धिजा ॥३॥ तां चान्यदा नृपोऽपश्य-मनसः पश्यतोहराम् ॥ दध्यौ चेमा विना जन्म, राज्यं चैतन्ममाऽफलम्! ॥ ४ ॥ चिक्षेप क्षितिपः क्षिप्र-मन्तरन्तःपुरं च ताम् ॥ प्राणिनो हि प्रियः प्रायो-ऽन्यायोऽपथ्यमिवाऽपटोः ॥५॥ विनाऽपि विप्रियं त्यक्त्वा, प्रियं क्वासि ? गता प्रिये ! ॥
गाथा
सनत्कुमार चक्रिकथा
UTR-2
॥२५५॥
Page #258
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ।।२५६॥
अष्टादशमध्ययनम् सनत्कुमारचक्रिकथा -
विलपन्निति सार्थेशो, बभ्रामोन्मत्तवत्ततः । ॥६॥ शुद्धान्तनारीसहितां, लज्जा लोकापवादजां ॥ विमुच्य रेमे भूपस्तु, नित्यं विष्णुश्रिया समम् ॥ ७ ॥ जातासूयास्ततो राज्यो-ऽकारयन् कार्मणं तथा ॥ मृगाक्षी क्षीयमाणा सा, व्यपद्यत यथा स्वयम् ॥८॥ ततस्तस्या वियोगेन, दुस्सहेन दवाग्निवत् ॥ नागदत्त इवोन्मत्तः, पृथ्वीनाथोऽभवद्भृशम् ॥ ९ ॥ नाग्नौ क्षेप्तुमदात्तस्याः, शवं स स्नेहमोहितः ॥ ऊचे च मत्प्रिया मौनं, धत्ते प्रणयकोपतः ! ॥१०॥ सचिवाः किञ्चिदालोच्य, वञ्चयित्वा च पार्थिवम् ॥ विपिने क्षेपयंस्तस्या, धेनोरिव शवं ततः ॥११॥ ताञ्चापश्यन्नश्रुनीर-धाराभिः स धराधरः ॥ धरां धाराधर इव, सिञ्चन्नाटीदितस्ततः ॥१२॥ कान्ते! कान्तस्त्वदेकान्त-स्वान्तो विरहविह्वलः ॥ हास्यानोपेक्षणार्हः स्यादिति चाक्रन्ददुच्चकैः ! ॥१३॥ इत्थं त्यक्तानपानस्य, गते राज्ञो दिनत्रये ॥ अमात्या म्रियतां माय-मिति तं काननेऽनयन् ॥१४॥ तत्र च प्रसरत् पूती-क्लिन्नं कृमिकुलाकुलम् ॥ गृध्रविक्षिप्तवक्षोजं, वायसाकृष्टलोचनम् ॥१५॥ आकृष्टांत्रं शृगालीभि-रावृत्तं मक्षिकागणैः ॥ विष्णुश्रियो वपुर्वीक्ष्या-ऽध्यासीदिति महीपतिः ॥१६॥ [युग्मम् ] अहो असारे संसारे, सारं किंचिन्न दृश्यते ॥ मया त्वसौ सारमिति-ध्याता मूढेन धिक् चिरम् ॥१७॥ कुलशीलयशोलज्जा-स्त्यक्ता यस्याः कृते त्वया ॥ रे जीव ! मत्त ! पश्याद्य, तस्या जातेदृशी दशा ! ॥ १८ ॥ प्रियेति यां पृथक्कर्तु-मभुवं न प्रभुः क्षणम् ॥ वीक्ष्य तामपि शीतात-मिव मे वेपते वपुः ! ॥१९॥ ततो धर्मक्रियानीरैः, पापपङ्कपरिप्लुतम् ॥ आत्मानं विमलीकर्तुं, साम्प्रतं मम साम्प्रतं ॥२०॥ विमृश्येति विरक्तात्मा,
UTR-2
॥२५६॥
Page #259
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम्
।। २५७॥
१५
१८
सुव्रताचार्यन्निधौ । राज्यं रज इवोत्सृज्य, प्रव्रज्यामाददे नृपः ॥ २१ ॥ तपोभिः विविधैः साकं, कर्मभिः शोषयन् वपुः ॥ चिरं विहृत्य व्यापन्न - स्तृतीयं स्वर्जगाम सः ॥२२॥ ततश्च्युतो रत्नपुरे, जिनधर्माऽभिधोऽभवत् ॥ श्रेष्ठपुत्रः श्राद्धधर्म, शुद्धं बाल्यादपि श्रितः ॥२३॥
इतश्च कान्ताविरहा-नागदत्तोऽतिदुःखितः ॥ मृत्वार्त्तध्यानतो भ्रामं भ्रामं तिर्यक्षु भूरिशः ॥२४॥ अग्निशर्माह्वयो विप्रः, पुरे सिंहपुरेऽभवत् ॥ पुण्याशया त्रिदण्डित्वं, स्वीचकार स चैकदा ॥२५॥ [ युग्मम् ] द्विमासादि तपः कुर्वन्, सोऽगाद्रत्नपुरेऽन्यदा ॥ त्रिदण्डिभक्तस्तत्राभू, द्भूपतिर्नरवाहनः ॥ २६ ॥ तेन राज्ञा तपस्वीति, भोक्तुं नीतो निजे गृहे ॥ सोऽपश्यज्जिनधर्मं तं दैवात्तत्रागतं तदा ॥२७॥ ततः प्राग्भववैरेण, कोपाटोपारुणेक्षणः ॥ नरवाहनभूमीश - मित्यूचे स त्रिदण्डिकः ॥२८॥ अस्याढ्यस्य न्यस्य पृष्ठे, पात्रमत्युष्णपायसम् ॥ चेद्विभो ! भोजयसि मां तदा भुञ्जे भवद्गृहे ॥ २९ ॥ स्थालमन्यस्य विन्यस्य, पृष्ठे त्वां भोजयाम्यहम् ॥ नृपेणेत्युदितो रुष्टो, दुष्टो भूयोऽवदद्व्रती ॥ ३० ॥ पृष्ठेऽस्यैव न्यस्य पात्रं, भुञ्जे गच्छामि वाऽन्यतः ॥ तद्भक्तः स ततो भूपः प्रत्यपद्यत तद्वचः ॥३१॥ नृपादेशात्ततः पृष्ठे, तेन दत्ते स तापसः । अत्युष्णपायसं स्थालं न्यस्य भोक्तुं प्रचक्रमे ॥ ३२ ॥ श्राद्धोऽपि स्थालतापं तं सोऽधिसेहे विशुद्धधीः ॥ स्वस्यैव कर्मणोऽयं हि विपाक इति चिन्तयन् ॥३३॥ भुक्ते भिक्षौ श्रेष्ठपृष्ठात्समं त्वग्मांसशोणितैः ॥ जनैः स्थालं तदुत्खातं, ततः श्रेष्ठी गृहं ययौ ॥ ३४ ॥ सत्कृत्य क्षमयित्वाऽथ, स्वजनान्
अष्टादशम
ध्ययनम् ( १८ ) सनत्कुमार चक्रिकथा
२१-३४
UTR-2
॥२५७॥
Page #260
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२५८॥
अष्टादशमध्ययनम् सनत्कुमारचक्रिकथा३५-४८
| पूर्जनांस्तथा ॥ जिनधर्मो गुरूपान्ते, प्रव्रज्य जिनधर्मवित् ॥३५॥ पुरान्निर्गत्य विहिता-ऽनशनोऽद्रिशिरस्थितः। | पक्षं पक्षं कृतोत्सर्गः, क्रमादस्थाच्चतुर्दिशम् ॥३६॥ [ युग्मम् ] गृध्रकाकादिभिर्भक्ष्य-माणपृष्ठोऽपि तत्र सः ॥ सह
मानो व्यथामुग्रां, स्मरन् पञ्चनमस्क्रियाः ॥ ३७ ॥ विपद्य प्रथमस्वर्गे, बभूव त्रिदशाधिपः ॥ आनुषङ्गि फलं ह्येतत्, जिनधर्मविधायिनाम् ॥३८॥ [ युग्मम् ] तापसोऽपि मृतस्तेना-ऽऽभियोग्येन कुकर्मणा ॥ ऐरावणाह्वयो हस्ती, जज्ञे तस्यैव वाहनम् ॥३९॥ ततश्च्युत्वा भवे भ्रान्त्वा, कृत्वा बालतपः क्वचित् ॥ यक्षोऽसिताक्षनामाभू-ज्जीवस्तस्य त्रिदण्डिनः ॥४०॥
इतश्चात्रैव भरते, विषये कुरुजङ्गले ॥ अस्ति स्वस्तिपदं श्रीम-नगरं हस्तिनापुरम् ॥४१॥ जैत्रसेनोऽश्वसेनाह्वस्तत्राभूद्भभुजां वरः ॥ सहदेवीति तस्यासी-द्देवी देवीव भूगता ॥४२॥ तस्याः कुक्षौ जिनधर्म-जीवः स्वर्गात्परिच्युतः ॥ चतुर्दश महास्वप्नान्, दर्शयन् समवातरत् ॥४३॥ पूर्णे कालेऽथ साऽसूत, सुतं लक्षणलक्षितम् ॥ जगज्जनमनोहारि, रूपं लक्ष्मीरिव स्मरम् ॥४४॥ सनत्कुमार इत्याख्या, चक्रे तस्योत्सवैर्नृपः ॥ सोऽथ क्रमेण ववृधे, कल्पद्रुम इवोद्गतः ॥४५॥ श्रीमान् महेन्द्रसिंहाख्यः, कालिन्दीसूरयोः सुतः ॥ सपांशुक्रीडितस्तस्य, वयस्यः शस्यधीरभूत् ॥४६॥ समं तेन वयस्येन, कलाचार्यस्य सन्निधौ ॥ सनत्कुमारः सकलाः, कलाः जग्राह लीलया ॥४७॥ अमंत्रयंत्रनिश्शेष-कामिनीजनकार्मणम् ॥ लावण्यपुण्यं तारुण्यं, कुमार प्राप स क्रमात् ॥४८॥ उद्यानं मकरन्दाख्यं, वसन्तस
UTR-2
॥२५८॥
Page #261
--------------------------------------------------------------------------
________________
ब
*
उत्तराध्ययनसूत्रम् ॥२५९॥
अष्टादशमध्ययनम् (१८) सनत्कुमारचक्रिकथा४-१८
मयेऽन्यदा ॥ समं महेन्द्रसिंहेन, क्रीडायै भूपभूर्ययौ ॥४९॥ नानाक्रीडाभिरक्रीड-त्सत्रा मित्रेण तत्र सः ॥ तदा | च राज्ञोऽश्वपति-वर्यान्वाहानढौकयत् ॥५०॥ हयं जलधिकल्लोला-ह्वयं भूपभुवोऽप्यधात् ॥ कुमारोऽपि तमारोह-त्तद्गतिं द्रष्टमुत्सुकः ॥५१॥ कशां चोरिक्षप्य तं यावत्, प्रेरयामास भूपभूः ॥ सोऽश्वस्तावद्दधावोच्चै-वायुं जेतुमना इव ॥५२॥ यथा यथाकृषद्वल्गां, रक्षितुं तं नृपाङ्गजः ॥ स वक्रशिक्षितो वाहो, बह्वधावत्तथा तथा ॥५३॥ राज्ञां राजकुमाराणां, सादिनां धावतामपि ॥ मध्यात्कुमारं हृत्वाऽश्वः, क्षणात्सोऽगाददृश्यताम् ॥५४॥ ततोऽश्वसेनभूशक्रो, ज्ञात्वाऽश्वापहृतं सुतम् ॥ प्रत्यानेतुं ससैन्योऽगा-द्यावद्वाजिपदानुगः ॥५५॥ तावद्भरिरजःपुञ्ज-दिग्मूढीकृतसैन्यया ॥ भग्नानि पादचिह्नानि, तस्य वाहस्य वात्यया ॥५६॥ निरुपाये ततोऽत्यर्थं, व्याकुले सकले बले ॥ महेन्द्रसिंहो भूमीन्द्र-सिंहमित्थं व्यजिज्ञपत् ॥५७॥ देव! देवादिदं सर्व-मजनिष्टासमञ्जसम् ॥ तथापि मित्रमन्विष्या-ऽऽनेष्यामि न चिरादहम् ॥५८॥ प्रभोः प्रभूतसैन्यस्य, कान्तारे दुष्करा भ्रमिः ॥ सुकरा सा खगस्येव, स्वल्पतंत्रस्य मे पुनः ॥५९॥ तत्तिष्ठतु प्रभुर्यामि, स्वामिन्! सुहृदमन्वहम् ॥ तेनेत्युक्तोऽवलिष्टोर्वी-पतिरश्रुजलाविल: ॥ ६० ॥ धीरो महेन्द्रसिंहस्तु, मितसारपरिच्छदः ॥ क्रीडावनी यमस्यैवा-ऽरण्यानीं प्रविवेश ताम् ॥६१॥ प्रौढपादैरुग्रदन्तैः, प्रक्षरन्मदनिझरैः ॥ करीन्द्रैश्च गिरीन्द्रश्च, क्वापि दुर्गमतां गताम् ॥६२॥ क्वापि प्रारब्धसमर-सैरिभोत्खातपादपाम् ॥ सङ्कीर्णा केशरीव्याघ्र-व्यालभल्लूकसूकरैः ॥६३॥ भानुभानुगणाभेद्य-निकुञ्जनिकरैः क्वचित् ॥
UTR-2
॥२५९॥
Page #262
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
॥२६० ॥
अन्तःपुरपुरन्ध्रीवदसूर्यम्पश्यजम्बुकाम् ||६४|| क्वचित्कण्ठीरवरव-त्रस्यन्मृगकुलाकुलाम् ॥ क्वापि दावाग्निसन्तापमुर्मुरीभूतभूतलाम् ॥६५॥ क्वचिच्छरभसंरम्भ - सम्भ्रान्तोदान्तकुञ्जराम् । शाखारूढैरजगरैः, क्वापि कुब्जीकृतद्रुमाम् ॥६६॥ तस्याटवीं तामटतो, भीषणेभ्योऽपि भीषणाम् ॥ शनैः शनैरगात्सर्वः खेदखर्वः परिच्छदः ॥६७॥ [ षभिः कुलकम् ] तत एकोऽपि कुञ्जेषु, कन्दरासु च भूभृताम् ॥ भिल्लेश इव सोऽभ्राम्यन्मित्रं द्रष्टुं धनुर्द्धरः ॥ ६८ ॥ निदाघवर्षाशीततून्, क्षुधातृष्णाश्रमांश्च सः ॥ मित्रैकतानो नाज्ञासी द्योगीव ध्यानतत्परः ॥६९॥ तस्यैवं भ्राम्यतोऽटव्यां व्यतीते वत्सरेऽन्यदा । कर्णातिथित्वमगमत्सरसः सारसध्वनिः ॥७०॥ घ्राणं चाप्रीणयद्वायुः, कमलामोदमेदुरः ॥ ततः पद्मसरः किञ्चि-दिहास्तीति विवेद सः ॥ ७१ ॥ सोऽथ पद्माकरमभि व्रजन् वीरव्रजाग्रणीः ॥ सद्गीतमिश्रमश्रौषी - द्वेणुवीणाकलक्वणम् ॥७२॥ ततः प्रमुदितः प्राज्ञ पुरोगस्स पुरो गतः । ददर्श दर्शनसुधा -ञ्जनं मित्रं वधूवृतम् ॥ ७३ ॥ किं मनोविभ्रमः किं वा सखाऽसौ मे सुखाकरः ? ॥ सोऽथ ध्यायन्निति तदेत्य श्रौषीद्बन्दिनो वचः ॥७४॥ कुरुवंशावतंस श्री अश्वसेननृपात्मज ! ॥ सनत्कुमार ! सौभाग्य- जितमार ! चिरं जय निशम्येति प्रमोदाश्रु वृष्टिमेघायितेक्षणः ॥ गत्वा स दृक्पथं सख्युर्न्यपतत् पादपद्मयोः ॥ ७६ ॥ अभ्युत्थाय कुमारोऽपि दोर्भ्यामादाय सादरम् ॥ तमालिलिङ्ग सर्वाङ्ग, हर्षाः स्नपयन्निव ॥७७॥ अथाचिन्त्यमिथः सङ्गात्तौ भृशं जातविस्मयौ ॥ हर्षोदञ्चद्रोमहर्षावासीनावासनद्वये ॥७८॥ वीक्षितौ खेचरगणैः स्मयमानै सविस्मयैः ॥ क्षणं
।।७५ ।।
अष्टादशमध्ययनम्
सनत्कुमारचक्रिकथा६४-७८
UTR-2
॥२६०॥
Page #263
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
॥२६१ ॥
१५
१८
२१
२४
बाष्पाम्बुपूर्णाक्षौ परस्परमपश्यताम् ॥७९॥ [ युग्मम् ] खेचरीनिकरे त्यक्त - गीतादितुमुले ततः ॥ कुमारः स्वदृशो - रश्रु, प्रमृज्य तमदोऽवदत् ॥ ८० ॥ त्वमत्रागाः किमेकाकी, कथं वा मामिहाऽविदः ? || अन्तरा मामियन्तं चा-गमयः समयं कथम् ? ॥ ८१ ॥ पित्रो का विद्यते हृद्य!, मद्वियोगवशाद्दशा ॥ पितृभ्यां प्रहितो हन्त, त्वमिहापि किमेककः ? ॥८२॥ तेनेति पृष्टः स्निग्धेषु प्रष्ठो गद्गदया गिरा ॥ महेन्द्रसिंहः सकलं, प्राच्यं वृत्तान्तमब्रवीत् ॥८३॥ ततः स्नेहं च धैर्यं च, सकर्णस्तस्य वर्णयन् ॥ कुमारोऽकारयत् स्नान-भोजनादि वधूजनैः ॥८४॥ महेन्द्रोऽथ कुमारेन्द्र - मित्युवाच कृताञ्जलिः ॥ आरभ्याश्वापहारात्स्वां, वार्त्ता ब्रूहि प्रसद्य मे ! ॥८५॥ तेनेत्युक्तः कुमारोऽन्तरिति दध्यौ विशुद्धधीः ॥ स्वनामेव स्वयं वक्तु-मयुक्ता स्वकथा सताम् ! ॥ ८६ ॥ स्वतुल्यस्य वयस्यस्य वाच्या चावश्यमस्य सा ।। कथयामि तदन्येन केनाप्येनां सविस्तराम् ॥८७॥ ध्यात्वेति कान्तां बकुल-मत्याह्वामिति सोऽवदत् ॥ प्रियेऽस्मै मत्कथां तथ्यां वद विज्ञाय विद्यया ॥ ८८॥ शुभाशये ! शयेऽहं तु निद्राघूर्णितलोचनः ॥ इत्युदित्वा रतिगृहं प्रविश्याशेत भूपभूः ॥८९॥ ततो महेन्द्रसिंहं सा ऽवदत्तव सुहृत्तदा ॥ निन्ये हयेन हृत्वाऽऽशु, कान्तारमतिभीषणम् ॥९०॥ द्वितीयेऽपि दिने तत्र व्रजन् वाजी जवेन सः ॥ तस्थौ मध्यंदिने कृष्ट्वा, रसनां क्षुत्तृषातुरः ॥ ९१ ॥ ततः स्तब्धक्रमाच्छासा - पूर्णकण्ठात् श्रमाकुलात् ॥ तस्मादुत्तीर्यार्यपुत्रः पर्याणमुदतारयत् ॥९२॥ घूर्णित्वाऽश्वस्ततोऽपप्तत् प्राणैश्च मुमुचे द्रुतम् ॥ तृषाकुलः सखा ते तु तदाटीत्परितोऽम्भसे ॥९३॥ तच्चाप
अष्टादशमध्ययनम्
(१८)
सनत्कुमारचक्रिकथा
७९-९३
UTR-2
॥२६१ ॥
Page #264
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२६२॥
अष्टादशमध्ययनम् सनत्कुमारचक्रिकथा ९४-१०८
क्वापि न ततः, तृषाक्रान्तः श्रमातुरः ॥ दवदग्धाटवीतापो-त्तप्तोऽसौ व्याकुलोऽभवत् ॥१४॥ वीक्ष्य सप्तच्छदं दूरे, गत्वा तस्य तले द्रुतम् ॥ निविष्टोऽयं क्षणात्क्षोणी, पपात भ्रमितेक्षणः ॥१५॥ पुण्येन प्रेरितो यक्ष-स्तदासप्तच्छदालयः ॥ सर्वाङ्गेषु सिषेचामुं, शीतलैविमलैर्जलैः ॥९६॥ प्राप्तसंज्ञस्ततस्तोयं, पीत्वासौ यक्षढौकितम् ॥ कस्त्वं कुतो जलं चैत-दानीतमिति पृष्टवान् ? ॥९७॥ सोऽवादीदस्मि यक्षोऽह-मिहत्यस्त्वत्कृते कृतिन् ! ॥ सरसः सरसं नीरमानयं मानसादिदम् ॥ ९८ ॥ सुहृत्तवोचे तापोऽयं, मानसे मज्जनं विना ॥ न मेऽपागन्ताविरह-इवेष्टप्राप्तिमन्तरा ॥१९॥ तवाभीष्टं करोमीति, प्रोच्याऽमुं यक्षराट् ततः ॥ कृत्वा पाणिपुटेऽनैषी-मानसं स्वच्छमानसः ॥१०॥ तत्राऽमुं विहितस्नान-मपनीतपरिश्रमम् ॥ यक्षोऽसिताक्षः प्राग्जन्म-विपक्षः क्षिप्रमैक्षत ॥१०१॥ क्रोधाध्मातः सोऽथ बाढं, विकुर्वन् गुह्यकबुवः ॥ आर्यपुत्राय चिक्षेप, वृक्षमुत्क्षिप्य तत्क्षणम् ॥१०२॥ तमायान्तं निहत्यायं, पाणिनाऽपानयत्तरुम् ॥ यक्षस्तमोमयं विश्वं, ततश्चक्रे रजोव्रजैः ॥१०३॥ भीमाट्टहासान् धूमाभ-भूघनान् विकृताकृतीन् ॥ पिशाचांश्च ज्वलज्ज्वाला-करालवदनान् व्यधात् ॥१०४॥ तैरप्यभीतं त्वन्मित्रं, नागपाशैर्बबन्ध सः ॥ तान्सद्योऽत्रोटयदयं, जीर्णरज्जुरिव द्विपः ॥१०५॥ ततो यक्षःकराघातै-घोरैरेतमताडयत् ॥ असौ तु तं न्यहन्मुष्ट्या, वजेणेव गिरिं हरिः ॥१०६॥ आर्यपुत्रमथो लोह-मुद्गरेण जघान सः ॥ विरमन्ति हि नाकृत्या-त्कथंचिदपि दुर्जनाः! ॥१०७॥ उन्मूलितेन सहसा, महता चन्दनगुणा ॥ तं वर्द्धिष्णुं निहत्योा , सखा तेऽपातयत्ततः ॥१०८॥ गिरि
१२
UTR-2
॥२६२॥
Page #265
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२६३॥
अष्टादशमध्ययनम् (१८) सनत्कुमारचक्रिकथा १०९-१२२
मुत्क्षिप्य यक्षोऽथा-ऽक्षिपदस्योपरि द्रुतम् ॥ क्षणं निश्चेतनो जज्ञे, बाधितस्तेन ते सुहृत् ॥१०९॥ लब्धसंज्ञस्तु तं शैल-मवधूयोत्थितो द्रुतम् ॥ आर्यपुत्रो नियुद्धेन, यो माह्वास्त गुह्यकम् ॥११०॥ ततोऽसौ बाहुदण्डेन, हत्वा तं खण्डशो व्यधात् ॥ अमरत्वात्तदा मृत्यु-माससाद न गुह्यकः ॥१११॥ ततो रसित्वा विरस-मसिताक्षः पलायत ॥ पुरो हि हस्तिमल्लस्य, महिषः स्यात्कियच्चिरम् ॥११२॥ वीक्षितुं समराश्चर्य-मागताः सुरखेचराः ॥ मौलौ त्वत्सुहृदः पुष्प-वृष्टिं तुष्टा वितेनिरे ! ॥११३॥ अपराह्ने पुरो गच्छं-स्ततोऽसौ नन्दने वने ॥ ददर्शाष्टौ कनीः शक्र-महिषीरिव सुन्दराः ॥११४॥ कटाक्षदक्षनयनै-र्ददृशे ताभिरप्ययम् ॥ अथोपेत्यार्यपुत्रस्ता-स्तद्भावं ज्ञातुमित्यवक् ॥११५॥ नयनानन्दना यूयं, कृतिनः कस्य नन्दनाः ॥ हेतुना केन युष्माभि-र्वनमेतदलङ्कृतम् ? ॥११६॥ ताः प्रोचुर्भानुवेगस्य, खेचरस्य सुता वयम् ॥ इतश्च नातिदूरेऽस्ति, तत्पुरी प्रियसङ्गमा ॥ ११७ ॥ तामलङ्कृत्य विश्राम्ये-त्युक्तस्ताभिः | सखा तव ॥ दर्शिताध्वा तदादिष्ट-किङ्करेण जगाम ताम् ॥ ११८ ॥ उपापरार्णवं भानु-स्तदानीयत सन्ध्यया ॥ उपतातं मुदानायि, सौविदैस्ताभिरप्यसौ ॥ ११९ ॥ अभ्युत्थानादिकं कृत्वो-चितं सोऽप्येनमित्यवक् ॥ उद्बह त्वं महाभाग!, ममाष्टौ नन्दना इमाः ॥ १२० ॥ एतासां स प्रियो भावी, योऽसिताक्षं विजेष्यते ॥ इत्यचिर्मालिमुनिना, प्रोचे तत्प्रार्थ्यसे मया ॥ १२१ ॥ तेनेत्युक्तस्तव सुहृत्, परिणिन्ये तदैव ताः ॥ ताभिः सहास्वपीद्वासा-वासे चाऽऽबद्धकङ्कणः ॥ १२२ ॥ तदोत्क्षिप्यासिताक्षोऽमुं, निद्राणं गहनेऽक्षिपत् ॥ तत्र प्रेक्ष्य विनिद्रः स्वं, दध्यौ किमिदमि
UTR-2
॥२६३॥
Page #266
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम्
॥२६४॥
अष्टादशम ध्ययनम् सनत्कुमारचक्रिकथा १२३-१३७
त्ययम् ॥१२३॥ आर्यपुत्रस्ततोऽटव्या-मेकाकी पूर्ववद् भ्रमन् ॥ सप्तभूमीकमद्राक्षीत्, प्रासादमधिभूधरम् ॥१२४॥ मायेयमपि कस्यापि, भाविनीत्येष भावयन् ॥ तत्समीपे गतोऽश्रौषी-त्कस्याश्चिदुदितं स्त्रियाः ॥१२५॥ ततस्तत्र प्रविश्याय-मारूढः सप्तमी भुवम् ॥ दिव्यां कनी ददर्शकां, वदन्तीमिति गद्गदम् ॥१२६॥ जगत्त्रयजनोत्कृष्ट, कुरु वंशनभोरवे! ॥ सनत्कुमार ! भर्ता त्वं, भूयाज्जन्मान्तरेऽपि मे ॥१२७॥ तदाकर्ण्य ममासौ का, भवतीति विचिन्तयन् ॥ पुरोभूयार्यपुत्रस्तां, न्यग्मुखीमेवमब्रवीत् ॥१२८॥ का त्वं सनत्कुमारेण, सम्बन्धस्तव कः पुनः ? || मुहुः स्मरन्ती तं चैवं, केन दुःखेन रोदिषि ? ॥१२९ ॥ पृष्टानेनेति साऽमुष्मै, प्रदायासनमुत्तमम् ।। सुस्मिता विस्मिता प्रोचे, सुधामधुरया गिरा ॥१३०॥ सुराष्ट्रराजः साकेत-पुरेशस्य सुतास्म्यहम् ॥ सुनन्दाह्वा चन्द्रयशो-देवीकुक्षिसमुद्भवा ॥१३१॥ कलयित्वा कलाः सर्वा, वयो मध्यममध्यगाम् ॥ धवोऽस्याः कोऽनुरूप: स्या-दिति दध्यौ तदा नृपः ? ॥१३२॥ आनाय्य भूपरूपाणि, ततो मेऽदर्शयन्मुहुः ॥ नारमत्तेषु मे दृष्टिः, किंशुकेषु शुकी यथा ! ॥१३३॥ दूतानीतपटन्यस्तं, पित्रा दर्शितमन्यदा ॥ रूपं सनत्कुमारस्य, वीक्ष्य व्यामुहमुच्चकैः! ॥१३४॥ ह्रियानुक्तोऽपि तातेन, रागोऽबुध्यत तत्र मे ॥ प्रच्छन्नोऽपि प्रकाशः स्या-तृणच्छन्नाग्निवत्स हि ! ॥१३५॥ ततः सनत्कुमाराय, पितृभ्यां कल्पितास्म्यहम् ॥ भर्ता तदिच्छामात्रेण, स मे न तु विवाहतः ॥१३६॥ [ इतश्च] खेचरः कोऽपि हृत्वा मामिहानैषीत्स्वकुट्टिमात् ॥ विद्याकृतेऽत्र गेहे मां, मुक्त्वा च क्वाप्यगात्कुधीः ॥१३७॥ स्मारं स्मारं कुमारं तं, ततो रोदिमि
UTR-2
॥२६४॥
Page #267
--------------------------------------------------------------------------
________________
Va
उत्तराध्ययनसूत्रम् ॥२६५॥
अष्टादशमध्ययनम् (१८) सनत्कुमारचक्रिकथा१३८-१५२
सुन्दर ! ॥ बालानामबलानां च, दुःखितानां ह्यदो बलम् ॥१३८ ॥ आख्यत्सखा ते मा रोदी-र्यस्मै दत्तासि सोऽस्म्यहम्॥ सानन्दाख्यत्सुनन्दाथ, दैवं जागति देव मे ॥१३९॥ तयोरालपतोरेव-मागात्तत्र कृधा ज्वलन् ॥ नन्दनोऽशनिवेगस्य, वज्रवेगः स खेचरः ॥१४०॥ त्वन्मित्रं च समुत्पाट्यो-दक्षिपद्वियति द्रुतम् ॥ रुदती सुदती भूमौ, मूर्छिता साऽपतत्ततः ॥१४१॥ मुष्टिघातेन दुष्टं तं ततो व्यापाद्य तत्क्षणम् ॥ अक्षताङ्गस्तामुपेत्या-श्वासयामास ते सखा ॥१४२॥ वार्ता प्रोच्यात्मनः सर्वा-मुदुवाह च तां मुदा ॥ अमुष्य मुख्यपत्नी सा, भाविनी भाविचक्रिणः ॥ १४३॥ स्वसाथ वज्रवेगस्य, नाम्ना सन्ध्यावली कनी ॥ तदा तत्राययौ भ्रातृ-वधं वीक्ष्य चुकोप च ॥१४४॥ भावी भती भ्रातृहन्ता, तवेति ज्ञानिनो गिरम् ॥ स्मृत्वा शान्ता पतीयन्ती, सार्यपुत्रमुपासरत् ॥१४५॥ अयं तामप्युपायंस्त, सुनन्दानुजया कृती ॥ स्वयमायान्ति पात्रं हि, स्त्रियोऽर्णवमिवापगाः! ॥१४६॥ अत्रान्तरे खेचरौ द्वावुपेत्यामुं प्रणम्य च ॥ प्राभृतीकृत्य कवचं, स्यन्दनं चैवमूचतुः ॥१४७॥ स्वपुत्रमरणोदन्तं, ज्ञात्वा विद्याधराधिपः॥ आयात्यशनिवेगोऽत्र, सैन्यैराच्छादयन्नभः ॥१४८॥ तत आवां हरिश्चन्द्र-चन्द्रवेगौ तवान्तिके ॥ प्रहितौ चन्द्रवेगेन भानुवेगेन चात्मजौ ॥१४९॥ आरोहार्करथाभं त-त्तत्प्रेषितममुं रथम् ॥ कवचं चामुमामुंच वज्रसन्नाहसंनिभम् ॥१५०॥ चन्द्रवेगभानुवेगौ, सोदरौ श्वसुरौ तव ॥ महाचमूवृतौ स्वामिन् ! विद्धि सेवार्थमागतौ ॥१५१॥ तयोरेवं प्रवदतोस्तत्र तावप्युपेयतुः ॥ खेचरेन्द्रौ चन्द्रवेग-भानुवेगौ महाबलौ ॥१५२॥ तदा सन्ध्यावली विद्या-मस्मै प्रज्ञप्तिकां
UTR-2
॥२६५॥
Page #268
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
॥२६६॥
ददौ ॥ ततोऽयमपि सन्नह्य, रथमारोहदाजये ॥ १५३ ॥ ततोऽमुं चन्द्रवेगाद्याः, खेचराः परिवव्रिरे ॥ तदा चाशनिवेगस्य, तत्राऽगात्प्रबलं बलम् ॥ १५४ ॥ तेन सार्धं चन्द्रवेग भानुवेगौ बलान्वितौ ॥ योद्धुं प्रवृत्तौ त्वन्मित्रं निषिध्यापि रणोद्यतम् ॥ १५५ ॥ योधं योधं भग्नयोश्च सैन्ययोरुभयोश्चिरात् ॥ आर्यपुत्राशनिवेगौ युयुधाते महौजसौ ॥ १५६ ॥ तयोश्च कुर्वतोर्युद्धं, जयश्रीसङ्गमोत्कयोः ॥ आशुगैराशु तिरयां चक्रिरे भानुभानवः ॥ १५७॥ मुमोचाशनिवेगोऽथ, नागास्त्रमतिभीषणम् ॥ तच्च गारुडशस्त्रेण न्यग्रहीद्भवतः सखा ॥ १५८॥ आग्नेयं वारुणेनैवं वायव्यं पार्वतेन च 11 वैरिशस्त्रं निजग्राह प्रतिशस्त्रेण ते सुहृत् ॥ १५९ ॥ ततः कार्मुकमादाय, नाराचं मुंचतो द्विषः ॥ अर्द्धेन्दुनाऽसौ चिच्छेद, मौर्वी सह जयाशया ॥ १६० ॥ अथो कृपाणमाकृष्य, धावतस्तस्य ते सखा ॥ बाहोरर्द्धं महाबाहु-र्मृणालच्छेदमच्छिनत् ॥ १६१ ॥ तथापि धावतो हन्तुं तस्य प्रज्वलतः कुधा ॥ विद्यादत्तेन चक्रेण, चक्रेऽसौ मस्तकं पृथक् ! ॥ १६२ ॥ राज्यलक्ष्मीस्ततः सर्वा तस्य खेचरचक्रिणः ॥ हराविव प्रतिहरेः सञ्चक्राम मम प्रिये ॥ १६३॥ सन्ध्यावलीसुनन्दाभ्यां सानन्दाभ्यां युतस्ततः ॥ वैताढ्याद्रौ जगामासौ चन्द्रवेगादिभिः समम् ॥१६४॥ तत्र चामुष्य संभूय, सकलैः खेचरैश्चरैः ॥ विद्याधरमहाराज्याभिषेको निर्ममे मुदा ॥ १६५ ॥ अथैनं शाश्वते चैत्ये, विहिताष्टाहिकोत्सवम् ॥ खेचरेन्द्रश्चन्द्रवेग इत्यूचे मत्पिताऽन्यदा ॥ १६६ ॥ ममार्चिर्मालिमुनिना, प्रोक्तं यत्तुर्यचक्रभृत् ॥ भावी सनत्कुमाराख्यः पतिः पुत्रीशतस्य ते ॥ १६७ ॥ स चायास्यति भासेन, मानसेऽत्र सरोवरे ॥
अष्टादशमध्ययनम्
सनत्कुमारचक्रिकथा
१५३-१६७
UTR-2
॥२६६ ॥
Page #269
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२६७॥
अष्टादशमध्ययनम् (१८) सनत्कुमारचक्रिकथा १६८-१८९
तत्रासिताक्षयक्षं च, पराजेता महाभुजः ॥१६८॥ ततो बकुलमत्यादि-सुताशतमिदं मम ॥ परिणीय प्रभो ! क्षिप्रं, प्रार्थनां मे कृतार्थय ॥१६९॥ विज्ञप्त इति मत्पित्रा, वयस्यस्ते महाशयः ॥ मदादिकाः शतं कन्याः, परिणिन्ये महा
महैः ॥१७०॥ ततो विविधलीलाभिः, क्रीडन् विद्याधरीवृतः ॥ निनायासौ सुखं कालं, खेचरेन्द्रनिषेवितः ॥१७१॥ | अद्य तु क्रीडयात्रागा-दैवाच्च मिलितो भवान् ॥ अनुकूले हि दैवे स्या-द्विनोपायमपीहितम् ॥१७२॥ एवं बकु
लमत्योक्ते, गृहान्निर्गत्य भूपभूः ॥ मित्रेण सह वैताढ्यं, जगाम सपरिच्छदः ॥१७३॥ प्राप्यावसरमन्येधु-महेन्द्रस्तं व्यजिज्ञपत् ॥ पितरौ त्वद्वियोगात्तौं, प्रभो ! भूरि विषीदतः ॥१७४॥ कदा कुमारं द्रक्ष्यामो, ध्यायन्तावित्यहर्निशम् ॥ स्वदर्शनेन पितरौ, प्रमोदयितुमर्हसि ॥१७५॥ श्रुत्वेति सोऽपि सोत्कण्ठः, सकलत्रस्वमित्रयुक् ॥ विमानैर्विविधैर्कोम्नि, दर्शयन् शतशो रवीन् ॥१७६॥ दिव्यवेषैर्कोमयायि-द्विपवाहादिवाहनैः ॥ ससैन्यैः खेचराधीशै-वृतः शक्र इवामरैः ॥१७७॥ वर्यतूयौघनिर्घोषै, रोदसी परिपूरयन् ॥ जगाम सम्पदां धाम, पुरं श्रीहस्तिनापुरम् ॥१७८॥ [त्रिभिविशेषकम् ] तत्र स्वदर्शनेनाशु, पितरौ नागरांश्च सः॥ प्रामुमुदच्चक्रवाको, पद्मानि च यथार्यमा ॥१७९॥ पश्यन्युत्रस्य तां लक्ष्मी-मश्वसेननरेश्वरः ॥ विस्मयं च प्रमोदं च, प्राप वाचामगोचरम् ॥१८०॥ तुष्टेन राज्ञा पृष्टोऽथ, कुमारस्यात्मनश्च तम् ॥ वृत्तान्तमखिलं प्रोचे, महेन्द्रो विस्मयावहम् ॥१८१॥ ततोऽश्वसेनभूपालः पुत्र राज्ये न्यवी
UTR-2
॥२६७॥
१ जयिष्यति महाभुजः । इति "घ" संज्ञकपुस्तके ॥
Page #270
--------------------------------------------------------------------------
________________
T
उत्तराध्ययनसूत्रम् ॥२६८॥
अष्टादशमध्ययनम् सनत्कुमार
चक्रिकथा |१८२-१९६
विशत् ॥ सुधीर्महेन्द्रसिंह च, तत्सेनाधिपति व्यधात् ॥१८२॥ स्वयं तु श्रीधर्मनाथ-तीर्थे स्थविरसन्निधौ ॥ विरक्तो व्रतमादाय, निजं जन्माकृतार्थयत् ॥१८३॥ अथो सनत्कुमारस्य, राज्यं पालयतोऽन्यदा ॥ चक्रादीनि महारत्नान्यजायन्त चतुर्दश ॥१८४॥ ततो वर्षसहस्रेण, साधयित्वा स भारतम् ॥ निधानानि नवासाद्य, पुनरागान्निजम् पुरम् ॥१८५॥ प्रविशन्तं पुरे तं चा-वधिना वीक्ष्य वासवः ॥ मत्तुल्योऽसौ प्राग्भवेऽभू -दिति स्नेहं ददौ भृशम् ॥१८६॥ श्रीदं चेत्यादिशच्चक्री, तुर्योऽसावस्ति मे सुहृत् ॥ राज्याभिषेकं तद्गत्वा, कुरुष्वाऽमुष्य धीनिधे ! ॥१८७॥ इत्युक्त्वा चामरे च्छवं, हारं मौलिं च कुण्डले ॥ सिंहासनं पादपीठं, देवदूष्ये च पादुके ॥१८८॥ दातुं सनत्कुमाराय, धनदस्य हरिददौ ॥ रम्भातिलोत्तमादींश्च गन्तुं तेन सहादिशत् ॥१८९॥ [ युग्मम् ] ततस्तदन्वितो गत्वा, कुबेरो हस्तिनापुरे ॥ सौधर्माधिपतेराज्ञां, चक्रिणे तां न्यवेदयत् ॥१९०॥ तेन चानुमतः श्रीदो, विचक्रे योजनायतम् ॥ माणिक्यपीठं तस्योर्ध्वं, मण्डपं च मणीमयम् ॥१९१॥ मणिपीठं च तन्मध्ये, कृत्वा सिंहासनाञ्चितम् ॥ आनाययद्वैश्रवणः, क्षीरोदादुदकं सुरैः ॥१९२॥ ततः सगौरवं श्रीद-श्चक्रिणं तत्र मण्डपे ॥ सिंहासने निवेश्येन्द्र-प्रहितं | प्राभृतं ददौ ॥१९३॥ चक्रे चक्रित्वाऽभिषेकं, तैर्जलैः सोऽथ चक्रिणः ॥ मङ्गलातोद्यनिर्घोषं, तदोच्चैश्चक्रिरे सुराः |
॥१९४॥ तदा मङ्गलगीतानि, जगुनिर्जरगायनाः ॥ रम्भातिलोत्तमाद्याश्च, नाटकं व्यधुरुत्तमम् ॥१९५॥ पूज| यित्वाथ तं वस्त्र-भूषामाल्यविलेपनैः ॥ श्रीदः प्राविविशद्गन्ध-हस्तिना हस्तिनापुरे ॥१९६॥ रत्नादिवृष्ट्या कृत्वा च,
UTR-2
॥२६८॥
Page #271
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२६९॥
अष्टादशमध्ययनम् (१८) सनत्कुमारचक्रिकथा १९७-२११
तत्पुरं स्वपुरीसमम् ॥ विसृष्टश्चक्रिणा स्वर्गं, ययौ यक्षपतिर्दृतम् ॥१९७॥ चक्रेऽथ पार्थिवैस्तस्या-ऽभिषेको द्वादशाब्दिकः ॥ कृपालुः सोऽथ भूपालो, न्यायेनापालयत्प्रजाः ॥१९८॥ भोगांश्चावामवामाक्षी-सम्भोगाभोगमञ्जुलान् ॥ भुञ्जानोऽगमयद्भूमान्, वासरानिव वत्सरान् ॥१९९॥ अन्यदा दिवि देवेन्द्रः, सुधर्मासदसि स्थितः ॥ नाटकं नाटयन्नासीद्रम्यं सौदामिनाभिधम् ॥२००॥ तदा तत्रेशानकल्पा-दाययौ सङ्गमाभिधः ॥ सुपर्वा रूपतेजोभ्यां, निर्जरान्निर्जयन् परान् ॥२०१॥ तस्मिन् गते सुराः शक्र-मपृच्छन्निति विस्मिताः ॥ कुतोऽस्य तेजो रूपं च, सर्वगीर्वाणगर्वहृत् ॥२०२॥ इन्द्रः प्रोचेऽमुनाचाम्ल-वर्धमानाभिधं तपः ॥ कृतं पूर्वभवे तेजो, रूपं चास्य तदीदृशम् ॥२०३॥ एवंविधोऽन्योऽपि कोऽपि, किमस्ति भुवनत्रये ॥ इति पृष्टः पुनर्देव-देवराजोऽब्रवीदिदम् ॥२०४॥ सनत्कुमारनामास्ति, नृहस्ती हस्तिनापुरे ॥ तस्य रूपं च तेजश्च, सुरेभ्योऽप्यतिरिच्यते ! ॥२०५॥ अश्रद्दधानौ तच्छक-वचनं त्रिदशावुभौ ॥ विजयो वैजयन्तश्च, विप्ररूपमुपाश्रितौ ॥२०६॥ आगत्य चक्रिप्रासाद-द्वारे तस्थतुरुत्सुकौ ॥ बभूव सार्वभौमस्तु, तदा प्रारब्धमज्जनः ॥२०७॥ [ युग्मम् ] प्रावीविशद्विशामीशो, द्वास्थेनोक्तौ तदापि तौ ॥ वैदेशिकान् दर्शनोत्कान्, विलम्बयति नो सुधीः ॥२०८॥ ततस्तौ वीक्ष्य तद्रूप-मधिकं शक्रवर्णितात् ॥ प्राप्तौ वचोतिगं चित्रं, शिरोऽधूनयतां चिरम् ॥२०९॥ दध्यतुश्चेत्यहो ! अस्य, तेजः प्राज्यं खेरिव ॥ पयोधिजलवन्माना-तिगं लावण्यमप्यहो ! ॥२१०॥ स्थाप्यते दृष्टिरस्याने, यत्र यत्र ततस्ततः ॥ कीलितेव निमग्नेव कृच्छ्रादेव निवर्त्तते ! ॥२११॥
UTR-2
॥२६९॥
Page #272
--------------------------------------------------------------------------
________________
Ma
उत्तराध्ययनसूत्रम् ॥२७०॥
अष्टादशम
ध्ययनम् सनत्कुमारचक्रिकथा २१२-२२५
रूपं तदस्य शक्रेण मिथ्या न खलु वर्णितम् ॥ अद्येय॑याप्यभूवावां कृतार्थावस्य दर्शनात् ॥२१२॥ शुभवन्तौ भवन्तौ भोः !, कुतो हेतोरिहागतौ ? ॥ अथेत्युक्तौ नृदेवेन, भूदेवावेवमूचतुः ॥२१३॥ रूपमप्रतिरूपं ते, वर्ण्यमानं जगज्जनैः ॥ निशम्यावामिहायातौ, तद्दर्शनकुतूहलात् ॥२१४॥ यादृशं च तवावाभ्यां, श्रुतं रूपं जनाननात् ॥ दृश्यते सविशेषं भू-विशेषक ! ततोऽप्यदः ॥२१५॥ ऊचे रूपमदाद्भूपो, युवाभ्यां भो द्विजोत्तमौ! ॥ किं मे मज्जनसज्जस्य, रूपमेतन्निरूपितम् ? ॥२१६ ॥ तत्कृत्वा मज्जनं सार-रत्नालङ्कारभासुरः ॥ शोभयामि सभां यावत्, क्षणं तावत् प्रतीक्ष्यताम् ॥२१७॥ रूपं तदा च मे सम्यक्, प्रेक्षणीयं मनोरमम् ॥ इत्युक्तौ देवभूदेवौ, राज्ञा तस्थतुरन्यतः ॥२१८॥ स्नात्वा भूपस्ततो भूरि-भूषाभूषितभूधनः ॥ सभां विभूष्य तौ विप्रौ, रूपं द्रष्टुं समादिशत् ॥२१९॥ अथेक्षमाणौ तौ वीक्ष्य, भूपरूपमनीदृशम् ॥ विषण्णौ दध्यतुरहो ! नृणां रूपादि चञ्चलम् ॥२२०॥ नृपः प्रोचेपुरा प्रेक्ष्य, मां युवां मुदितावपि ॥ विषादश्यामलास्यौ द्राक्, सञ्जातौ साम्प्रतं कुतः ? ॥२२१॥ तावूचतुः सुरावावां, दिवि देवेन्द्रवर्णितम् ॥ अश्रद्दधानौ त्वद्रूपं, परीक्षितुमिहागतौ ॥२२२॥ रूपं तव पुरा प्रेक्ष्य, श्रेष्ठमिन्द्रोदि-तादपि ॥ हृष्टावपि विषीदावो-ऽधुनाऽन्यादृग् निरीक्ष्य तत् ! ॥२२३॥ एतावताऽपि कालेनो-द्भूताः काये तवाऽऽ-मयाः ॥ राक्षसैरिव तैर्ग्रस्ता, रूपलावण्यकान्तयः ! ॥२२४॥ इत्युदित्वा तयोरन्तर्हितयोः स्ववपुर्नुपः ॥ पश्यन्नपश्यद्विच्छायं, रजश्छन्नमिवारुणम् ॥२२५॥ दध्यौ चैवमहो ! देहे, का नामास्था मनीषिणाम् ? ॥ विविधाः
UTR-2
॥२७०॥
Page #273
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम्
॥२७॥
अष्टादशमध्ययनम् (१८) सनत्कुमारचक्रिकथा२२६-२३९
| व्याधयो व्याधा, इवैणं बाधयन्ति यम् ॥२२६॥ भीता इवामयेभ्यो ये, नष्टा रूपादयो गुणाः ॥ भीरुभृत्यैरिवो
वीशः, कथं माद्यति तैः सुधी:? ॥२२७॥ सरोषा इव ये यान्ति, सेव्यमाना अपि क्षणात् ॥ भोगेषु तेषु को नाम, प्रतिबन्धः सुमेधसाम् ? ॥२२८॥ यतो गुणाः प्रणश्यन्ति वैराग्यविनयादयः ॥ परिग्रहे ग्रह इवा-ऽऽग्रहः कस्तत्र | धीमताम् ? ॥२२९॥ तन्ममत्वं शरीरादे-रद्य श्वो वा विनाशिनः॥ विहाय शाश्वतसुख-प्रदायि व्रतमाददे ॥२३०॥ ध्यात्वेति नन्दनं न्यस्य, राज्ये प्राज्यमतिर्नृपः ॥ विनयंधरसूरीणा-मन्तिके व्रतमग्रहीत् ॥२३१॥ ततः सर्वाणि रत्नानि, सर्वा राज्यो नृपाः समे ॥ निखिला निधयो यक्षाः, सैन्याः प्रकृतयस्तथा ॥ २३२ ॥ गाढानुरागात्तत्पृष्ठे, षण्मासी यावदभ्रमन् ॥ प्रभो! विनाऽपराधं नः, किं जहासीति वादिनः ॥२३३॥ [ युग्मम् ] सिंहावलोकितेनाऽपि, नापश्यत्संयतस्तु तान् ॥ ततो नत्वोनसत्त्वं तं, ययुस्ते स्वस्वमास्पदम् ॥२३४॥ मुनिस्तु षष्ठतपसः, पारणे गोचरं गतः ॥ चीनकान्नमजातक-युक्तं सम्प्राप्य भुक्तवान् ॥२३५॥ भूयो भूयोऽपि षष्ठान्ते, पारणं सोऽतनोत्तथा ॥ ततो ववृधिरे तस्य, रोगा नीरादिवाङ्कुराः ॥२३६॥ कंडू: कुक्षिदृशोः पीडे, कास-श्वास-ज्वराऽरुचीः ॥ इति सप्तामयान् सेहे, सप्त वर्षशतानि सः ॥२३८॥ तस्यैवं सहमानस्य, सर्वानपि परीषहान् ॥ प्रकुर्वतस्तपस्तीवं, वार्त्तवार्तामकुर्वतः ॥२३८॥ मलामर्शशकृन्मूत्र-सर्वोषध्यः कफौषधिः ॥ संभिन्नश्रोतोऽभिधा चे-त्यभूवन् सप्त लब्धयः ॥२३९॥ [ युग्मम् ]
UTR-2
॥२७॥
१ सुखवार्ताम् ॥
Page #274
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२७२॥
अष्टादशमध्ययनम् सनत्कुमारचक्रिकथा२४०-२५३
तथाप्यङ्गप्रतीकार-मकुर्वन्तं तमन्यदा ॥ पुरुहूतः पुरः स्वाहा-भुजामेवमवर्णयत् ॥२४०॥ अहो! सनत्कुमारोऽसौ, धैर्याधरितभूधरः ॥ त्यक्त्वा चक्रिश्रियं भार-मिवोगं तप्यते तपः! ॥२४१॥ रोगानलाब्दमालासु, लब्धास्वपि हि लब्धिषु ॥ चिकित्सति यतिः काय-निःस्पृहो नायमामयान् ! ॥२४२॥ अश्रद्दधानौ तद्वाक्यं, तावेव त्रिदशौ ततः॥ अभिरूपभिषग्रूपौ, मुनिरूपमुपेयतुः ॥२४३॥ तं चेत्यवोचतां साधो!, यदि त्वमनुमन्यसे ॥ धर्मवैद्यौ चिकित्साव-स्तदावां तेऽगदान्मुदा ॥२४४॥ भूयो भूयः पुरोभूय, ताभ्यामित्युदितो व्रती ॥ उवाच वाचां चित्तस्थं, तत्त्वामृतमिवोगिरन् ॥२४५॥ चिकित्सथो युवां कर्म-रोगान् किं वा वपुर्गदान् ? तावूचतुश्चिकित्साव, आवां कायामयान्मुने! ॥२४६॥ ततो लिप्त्वाङ्गुली पामा-शीर्णां निष्ठीवनेन सः ॥ स्वर्णवर्णसवर्णाभां, व्यधादेवमुवाच च ॥२४७॥ आतङ्कान्तं नयाम्येता-दृशांस्तु स्वयमप्यहम् ॥ चिकित्सा क्रियते कर्म-रुजां चेत्कार्यते तदा! ॥२४८॥ हन्तुं कर्मामयान् शक्ता, यूयमेवेतिवादिनौ ॥ विस्मितौ तौ ततश्चक्रि-मुनिं नत्वैवमूचतुः ॥२४९॥ लब्धलब्धिरपि व्याधि-व्यथा धीरस्तितिक्षते ॥ सनत्कुमारराजर्षि-रिति त्वां हरिरस्तवीत् ॥२५०॥ ततस्ते रूपवीक्षार्थं , यथावामागतौ पुरा ॥ तथा सत्त्वपरीक्षार्थ-मधुनापि समागतौ ॥२५२॥ दृष्टं च तदपि स्पष्टं, सुराचल इवाचलम् ॥ इत्युक्त्वा तं च नत्वा तौ, तिरोधत्तां सुधाशनौ ॥२५२॥ कौमारे मण्डलित्वे च, लक्षार्धं शरदामभूत् ॥ लक्षं च तस्य चक्रित्वे, श्रामण्येऽपि तदेव हि ॥२५३॥ वर्षलक्षत्रयीमान-मतिवाह्यायुरित्ययम् ॥ चकारानशनं प्रान्ते, सम्मे
UTR-2
॥२७२॥
Page #275
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२७३॥
ताचलमूर्द्धनि ॥२५४॥ आयुःक्षयेणाऽथ सनत्कुमारः, सनत्कुमारत्रिदिवे सुरोऽभूत् ॥ ततश्चयुतश्चायमवाप्य देहमन्त्यं विदेहे शिवगेहमेता ॥२५५॥ इति सनत्कुमारचक्रिकथा ॥३७॥ मूलम्-चइत्ता भारहं वासं, चक्कवट्टी महिड्डीओ । संती संतीकरो लोए, पत्तो गइमणुत्तरं ॥३८॥
व्याख्या - व्यक्तं, कथासम्प्रदायस्त्विहायम्, तथा हि
अत्रैव भरतक्षेत्रे, पुरे रत्नपुराभिधे ॥ भूपः श्रीषेणनामाभू-त्समग्रगुणसेवधिः ॥१॥ प्रिये अभूतां तस्याभिनन्दिताशिखिनन्दिते ॥ स्मरस्येव रतिप्रीती, परमप्रीतिभाजनम् ॥२॥ तत्राभिनन्दिताकुक्षि-प्रभवौ तस्य भूप्रभोः ॥ इन्दुषेणबिन्दुषेणा-वभूतां तनयावुभौ ॥३॥ सूरेविमलबोधाह्वात्, श्राद्धधर्मं स पार्थिवः ॥ प्राप लोक इवालोकं, कोकबन्धोस्तमोपहात् ॥४॥ तत्र चाभूदुपाध्यायः, सत्यकिर्नाम सत्यधीः ॥ जंबुकाढा प्रिया तस्य, सत्यभामा च नन्दना ॥५॥ [इतश्च ] मगधेष्वचलग्रामे, वेदवेदाङ्गपारगः॥ नाम्ना धरणिजटोऽभू-द्विप्रो धरणिविश्रुतः ॥६॥ तस्याभूतां यशोभद्रा-भिधभार्यासमुद्भवौ ॥ कुलीनौ द्वौ सुतौ नंदि-भूतिश्रीभूतिसंज्ञकौ ॥७॥ स च विप्रश्चिरं रेमे, दास्या कपिलया समं ॥ तत्कुक्षिजः ततस्तस्य, सुतोऽभूत्कपिलाभिधः ॥८॥ स दासेर: सुतौ कुल्यौ, पितुः पाठयतोऽन्तिकात् ॥ कर्णश्रुत्या श्रुती: सर्वा-स्तूष्णीकोऽप्यग्रहीत्सुधीः ॥९॥ ग्रामात्ततोऽथ निर्गत्यो-पवीतद्वयमुद्वहन् ॥ द्विजोत्तमोऽस्मीति वदन्, पर्यटन् पृथिवीतले ॥१०॥ पुरे रत्नपुरे सोऽगात्,
अष्टादशमध्ययनम् (१८) सनत्कुमारचक्रिकथा २५४-२५५
गा ३८ शान्तिनाथचरित्रम् १-१०
UTR-2
॥२७३॥
Page #276
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२७४॥
अष्टादशमध्ययनम् शान्तिनाथचरित्रम् १९-२३
Hel सत्यकिद्विजसन्निधौ ॥ कस्त्वमागाः कुतश्चेति, तत्पृष्टश्चैवमब्रवीत् ॥११॥ [ युग्मम् ] पुत्रोऽहं धरणिजट-द्विजस्य N] कपिलाभिधः ॥ इहागामचलग्रामात्, क्षोणीवीक्षणकौतुकी ॥१२॥ सत्यकिं पृच्छतां सोऽथ, छात्राणां निखिलानपि ॥
चिच्छेद वेदविषया-नन्तरापि हि संशयान् ॥१३॥ तुष्टोऽथ सत्यकिश्छात्र-पाठने तं न्ययोजयत् ॥ स्वपुत्री सत्यभामां च, मुदा तेनोदवाहयत् ॥१४॥ कपिलोऽपि सुखं सत्य-भामयाऽन्वहमन्वभूत् ॥ लोकप्रदत्तद्रविणैः, समृद्धशाचिरादभूत् ॥१५॥ नाट्यं वीक्ष्याऽन्यदा तस्मि-निवृत्ते प्रावृषो निशि ॥ सारं धाराधरो धारा-सारं मोक्तुं प्रचक्रमे ॥१६॥ तदा घनान्धकारत्वा-द्विजनत्वात्पथश्च सः ॥ क्षिप्त्वांशुकानि कक्षांत-नग्नीभूयाऽगमगृहम् ॥१७॥ द्वारे च परिधायान्त-र्गतं तं सत्यकिसुता ॥ क्लिन्नवस्त्रोऽयमित्यन्य-वस्त्रपाणिरुपागमत् ॥१८॥ नार्दीभूतानि मे वृष्टा-वपि वासांसि विद्यया ॥ अलं तदपरैर्वस्त्रै-रित्यूचे कपिलस्तु ताम् ॥१९॥ तस्याङ्क क्लिन्नमक्लिन्ना-न्यंशुकान्यथ वीक्ष्य सा ॥ दध्यौ यो विद्यया रक्षे-द्वस्त्राण्यङ्गं कथं न सः ? ॥२०॥ तन्नूनमागान्नग्नोऽय-मकुलीनश्च विद्यते ॥ भवेन्नैतादृशी बुद्धिः, कुलीनानां हि जातुचित् ! ॥२१॥ वेदानपि पपाठायं, कर्णश्रुत्यैव धीबलात् ॥ ध्यायन्तीति ततो मन्द-स्नेहा तस्मिन् बभूव सा ॥२२॥ अन्यदा धरणिजटो, दैवात्प्राप्तोऽतिदुःस्थताम् ॥ श्रीमन्तं कपिलं श्रुत्वा, तत्रागाद्धनलिप्सया ॥२३॥ चकार कपिलस्तस्य, भक्तिं स्नानाशनादिना ॥ अपरोऽप्यतिथिः पूज्यः, कोविदः किं पुनः |
१२
UTR-2
॥२७४॥
१ जलम् ।
Page #277
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२७५॥
अष्टादशम ध्ययनम् (१८) शान्तिनाथचरित्रम् २४-३८
पिता ! ॥२४॥ तयोः पितापुत्रयोश्च, वीक्ष्याचारेऽन्तरं महत् ॥ जाताशंका भृशं भामे-त्युवाच श्वशुरं रहः ॥२५॥ द्विजन्महत्याशपथं, दत्वा पृच्छामि वः प्रभो ! ॥ पुत्रोऽयं वः शुद्धपक्ष-द्वयोऽन्यो वेति कथ्यताम् ॥२६॥ ततोऽसौ शपथच्छेद-भीरुः सूनृतमब्रवीत् ॥ कपिलेन विसृष्टश्च, जगाम ग्राममात्मनः ॥२७॥ सत्याथ गत्वा श्रीषेण-नृपमेवं व्यजिज्ञपत् ॥ भर्ताभूदकुलीनो मे, देव ! दैवनियोगतः ॥२८॥ तस्मान्मोचय मां तेन, मुक्ता हि प्रव्रजाम्यहम् ॥ ततः कपिलमाहूय, प्रोवाचेति महीपतिः ॥२९॥ धर्मकर्मोद्यतां मुञ्च, विरक्तां ब्राह्मणीमिमाम् ॥ किमस्यां हि विरक्तायां, भावि भोगसुखं तव ! ॥३०॥ सोऽवादीद्देव नैवैनां, निजां त्यक्षामि कामिनीम् ॥ न क्षमोऽस्मि क्षणमपि, विनामुष्या हि जीवितुम् ॥३१॥ भामा प्रोचे यद्यसौ मां, न जहाति तदा म्रिये ॥ व्याजहार ततो राजा, मुधा मा नियतामियम् ॥३२॥ किन्तु तिष्ठत्वसौ कञ्चि-त्कालं कपिल ! मगृहे ॥ एवमस्त्विति सोऽप्यूचे, तां बलान्नेतुमक्षमः ॥३३॥ सत्या सत्याशया राज्ञा, पट्टराइयोस्ततोऽर्पिता ॥ तस्थौ स्वच्छमनस्तत्रा-चरन्ती दुश्चरं तपः ॥३४॥ अन्यदाऽनन्तमतिकां, वीक्ष्य वेश्यां मनोहराम् ॥ इन्दुषेणबिन्दुषेणा-वभूतामनुरागिणौ ॥३५॥ तां च कामयमानौ तौ, सुरभि वृषभाविव ॥ सोदरावपि सामर्षे, युध्येते स्म परस्परम् ! ॥३६॥ तद्वीक्षितुं निरोद्धं चा-प्रभूः श्रीषेणभूविभुः ॥ विपेदे पद्ममाघ्राय, विषमिश्रं त्रपातुरः ! ॥३७॥ व्यपद्येतां तथैवाभि-नंदिताशिखिनन्दिते ॥ शिश्राय कपिलाद् भीता, सत्यभामाऽपि तत्पथम् ! ॥३८॥ चत्वारोऽपि विपद्यैव-मतीवसरलाशयाः ॥ युग्मिनो जज्ञिरे जम्बू
UTR-2
॥२७५॥
Page #278
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२७६॥
अष्टादशमध्ययनम् शान्तिनाथचरित्रम् ३९-५२
द्वीपोत्तरकुरुष्वमी ॥३९॥ पुंस्त्रीरूपं युग्ममेकं, तत्र भूपाभिनन्दिते ॥ अभूत्तदन्यत्तु शिखिनंदिताकपिलप्रिये ॥४०॥ कोशत्रयोच्छ्यास्ते च, पल्यत्रितयजीविताः ॥ तुर्ये ऽहनि कृताहारा, व्यतीयुः समयं सुखम् ॥४१॥
इतश्च युध्यमानौ तौ, श्रीषेणनृपनंदनौ ॥ कोऽपि विद्याधरोऽभ्येत्य, विमानस्थोऽब्रवीदिति ॥४२॥ अज्ञानाज्जामिमप्येना, भो! युवां भोक्तुमुद्यतौ ॥ मा युध्येथां मुधा वाक्यं, हितेच्छोः श्रूयतां मम ॥४३॥ द्वीपेऽत्रैवास्ति विजयो, विदेहे पुष्कलावती ॥ तद्वैताढ्योत्तरश्रेण्या-मादित्याभपुरं वरम् ॥४४॥ नृपः सुकुण्डली तत्रा-ऽजितसेना च तत्प्रिया ॥ अहमस्मि तयोः सूनु- मतो मणिकुण्डली ॥४५॥ अन्यदाहं गतो व्योम्ना, नगरी पुण्डरीकिणीम् ॥ भूरिभक्त्याऽमितयशोनामानमनमं जिनम् ॥४६॥ खेचरोऽहं कुतोऽभूव-मित्यपृच्छं च तं प्रभुम् ॥ सर्वज्ञोऽपि ततः प्रोचे, सुधामधुरया गिरा ॥४७॥ पुष्करद्वीपपश्चार्धे , शीतोदापाच्यरोधसि ॥ विजये सलिलावत्यां, वीतशोकास्ति पूर्वरा ॥४८॥ चक्री रत्नध्वजस्तत्र, रूपमीनध्वजोऽभवत् ॥ तस्याभूतां प्रिये हेम-मालिनीकनकश्रियौ ॥४९॥ तत्राद्या सुषुवे पुत्री, पद्मां नामापरा पुनः ॥ पुत्रीद्वितयं कनक-लतापद्मलताभिधम् ॥५०॥ पद्मा पद्माद्वितीयश्री-र्द्वितीयेऽपि वयस्यहो ॥ जग्राहाजितसेनार्या-सन्निधौ दुर्द्धर व्रतम् ॥५१॥ चक्रे चतुर्थकं नाम, सा साध्वी दुस्तपं तपः ॥ वेश्यार्थं युध्यमानौ चा-ऽन्यदा पश्यन्नृपाङ्गजौ ॥५२॥ दध्यौ चैवमहो ! अस्याः, सौभाग्यं
___UTR-2
॥२७६॥
१ तुर्याहनि--इति 'घ'पुस्तके॥
Page #279
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२७७॥
अष्टादशमध्ययनम् (१८) शान्तिनाथचरित्रम् ५३-६७
भुवनाद्भुतम् ॥ यदर्थमेतौ युध्येते, कुमारौ मारसुन्दरौ ॥५३॥ महिम्नाऽमुष्य तपस-स्तन्ममाप्यन्यजन्मनि ॥ भूयात्सौभाग्यमीदृक्षं, निदानमिति सा व्यधात् ॥५४॥ प्रान्ते चानशनं कृत्वा, सौधर्मे चाभवत्सुरी ॥ विमाता या पुनस्तस्याः, कनकश्रीरभूत्तदा ॥५५॥ सा तु मृत्वा भवं भ्रान्त्वा, कृत्वा जन्मन्यनन्तरे ॥ दानादिपुण्यं त्वमभूः खेचरो मणिकुण्डली ॥५६॥ क्रमाद्विपद्य कनक-लतापद्मलते तु ते ॥ भवं भ्रांत्वा प्राग्भवे च, विधाय विविधं शुभम् ॥५७॥ द्वीपस्यास्यैव भरते, पुरे रत्नपुराह्वये ॥ इन्दुषेणबिन्दुषेणौ, जातौ श्रीषेणराट्सुतौ ॥५८॥ [युग्मम् ] पद्माजीवो दिवश्च्युत्वा, तत्रैव गणिकाऽभवत् ॥ इन्दुषेणबिन्दुषेणौ, युध्येते तत्कृतेऽधुना ! ५९॥ श्रुत्वेति प्राग्भवान् सोऽहं, युवां युद्धान्निषेधितुम् ॥ इहागां तद्विबुध्येथां, मा युध्येथां स्वसुः कृते ॥६०॥ माताहं युवयोः पूर्वभवे वेश्या त्वसौ स्वसा ॥ तद्धि मोहं विहायाशु, श्रयेथां शुद्धिकृव्रतम् ॥६१॥ ततस्तौ साधु साध्वावां, बोधिताविति वादिनौ ॥ सहसैर्भूमिनाथानां, चतुर्भिः परिवारितौ ॥६२॥ गुरोर्धर्मरुचेः पार्श्वे, दीक्षामादाय धीधनौ ॥ तप्त्वा चिरं तपो घोर-मगातां परमं पदम् ॥६३॥ [युग्मम् ] अथ श्रीषणजीवाद्या-श्चत्वारस्तेऽपि युग्मिनः ॥ आयुः प्रपूर्य सौधर्म-स्वर्गमीयुः सुखास्पदम् ॥६४॥ इतश्चात्रैव भरते-ऽभवद्वैताढ्यभूधरे ॥ श्रीरथनूपुरचक्र-वालाढे पुरमुत्तमम् ॥६५॥ तत्रार्ककीर्ति मासीत्, खेचरेन्द्रो महाबलः ॥ ज्योतिर्माला च तस्याऽभू-द्राज्ञीन्दोरिव रोहिणी ॥६६॥ स्वसा स्वयंप्रभा तस्या-ऽभवत्तां चादिमो हरिः ॥ त्रिपृष्ठः पोतनाधीशः, परिणिन्येऽचलानुजः ॥७॥
UTR-2
२७७॥
Page #280
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२७८॥
*
अष्टादशमध्ययनम् शान्तिनाथचरित्रम् ६८-८१
श्रीषेणनृपजीवोऽथ, प्रथमस्वर्गतश्च्युतः ॥ मुक्ता शुक्ताविव ज्योति-र्मालाकुक्षाववातरत् ॥६८॥ स्वप्ने तदा च सादित्यं, ददर्शामिततेजसम् ॥ क्रमाच्च सुषुवे पुत्रं, पवित्रं पुण्यलक्षणैः ॥६९॥ स्वप्नानुसारतस्तस्या-ऽमिततेजा इति स्फुटम् ॥ नामधेयं व्यधाद्राजा, तरुणारुणतेजसः ॥७०॥ भामाजीवश्च्युतः स्वर्गा-दर्ककीर्तिमहीपतेः ॥ सुताराह्वा | सुता ज्योति-र्मालागर्भोद्भवाभवत् ॥७१॥ च्युत्वाभिनन्दिताजीव-स्त्रिपृष्ठस्य हरेरभूत् ॥ स्वयंप्रभाकुक्षिजन्मा, सुतः श्रीविजयाह्वयः ॥७२॥ शिखिनंदिताजीवस्तु, च्युत्वा ज्योति:प्रभाभिधा ॥ स्वयंप्रभाकुक्षिभवा, त्रिपृष्ठस्य सुताऽभवत् ॥७३॥ कपिलः स तु संसारे, भ्रान्त्वा विद्याधराधिपः ॥ पुर्यां चमरचञ्चाया-मजन्यशनिघोषराट् ॥७४॥ सुतारामर्ककीर्तिः श्री-विजयेनोदवाहयत् ॥ ज्योतिःप्रभां त्रिपृष्ठोऽपि, सानन्दोऽमिततेजसा ॥७५॥ अथान्यदाभिनन्दन-जगन्नंदनसंज्ञयोः ॥ चारणवतिनोः श्रुत्वा, सुधाभां धर्मदेशनाम् ॥७६॥ अर्ककीर्तिः निजे राज्ये, निधायामिततेजसम् ॥ मुक्तेः सरलमध्वानं, प्रव्रज्यामाददे मुदा ७७॥ [युग्मम् ] ततो विद्याधराधीश-मौलिलालितशासनः ॥ राज्यं तत्पालयामासा-ऽमिततेजा महाभुजः ॥७॥
___ इतश्च मरणे विष्णो-स्त्रिपृष्ठस्य विरक्तधीः ॥ न्यस्य श्रीविजयं राज्ये, प्रावाजीदचलो बलः ॥७९॥ अथान्यदा सुताराश्रीविजयौ द्रष्टुमुत्सुकः ॥ जगाम पोतनपुरे-ऽमिततेजा महीपतिः ॥८॥ उत्तम्भितध्वजं तच्च, पुरमानन्दमेदुरम् ॥ विशेषाच्च नृपकुलं, वीक्ष्य हृष्टं विसिष्मिये ॥८१॥ व्योमोत्तीर्णं तं च वीक्ष्यो-दस्थात् श्रीविजयो मुदा ॥
UTR-2
॥२७८॥
Page #281
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२७९॥
अष्टादशमध्ययनम् (१८) शान्तिनाथचरित्रम् ८२-९६
| मिथो जामिपती तौ च, गाढमालिङ्गतां मिथः ॥४२॥ ततः सिंहासनासीनं, नृपं सिंहासनस्थितः ॥ पप्रच्छामिततेजास्तं, किंनिमित्तोऽयमुत्सवः ॥८३॥ ततः श्रीविजयोऽवादी-दितोऽतीतेऽष्टमे दिने ॥ कोऽपि नैमित्तिकोऽत्रागात्, प्रतिहारनिवेदितः ॥८४॥ किमर्थमागास्त्वमिति, मया पृष्टश्च सोऽब्रवीत् ॥ निमित्तं वक्तुमागां त-त्सावधानः शृणु | प्रभो ! ॥४५॥ सप्तमेऽह्नि दिनादस्मा-ज्जाते मध्यंदिने महान् ॥ पतिष्यति तडिद्दण्डः, पोतनाधीशमूर्द्धनि ॥८६॥ तत्कर्णकटुकं श्रुत्वा, कुपितोऽमात्यपुङ्गवः ॥ तदा पतिष्यति किमु, त्वयीति तमवोचत ॥८७॥ दैवज्ञोऽथावदन्मह्यं, यथादृष्टार्थवादिने ॥ प्रतीपशकुनायेव, धीसखाधीश ! मा कुपः ॥४८॥ तत्राह्नि मयि तु स्वर्ण-रत्नवृष्टिः पतिष्यति ॥ वदन्तमिति दैवज्ञ-मित्यपृच्छमहं ततः ॥८९॥ निमित्तमीदृग् दैवज्ञा-ऽधीतं ब्रूहि कुतस्त्वया ? ॥ सोऽवादीदचलस्वामी, प्रव्रज्यामाददे यदा ॥९०॥ तदा प्रव्रजता पित्रा, सहाहं प्राव्रजं शिशुः ॥ महानिमित्तमष्टांगं, तत्रेदं शिक्षितं मया ॥११॥ पुरं च पद्मिनीषंडं, यौवने विहरनगाम् ॥ हिरण्यलोमिकाह्वा मे, तत्र चास्ति पितृष्वसा ॥९२॥ तया स्वपुत्री दत्तासी-बाल्याच्चंद्रयशा मम ॥ अहं तु प्राव्रजमिति, पर्यणैषं न तां तदा ॥१३॥ तां च वीक्ष्याऽधुना प्राप्त-यौवनां व्यामुहं मुहुः ॥ तत्सोदरगिरा त्यक्त-व्रतः पर्यणयं च ताम् ॥१४॥ निमित्तेन ततः स्वार्थं, महानर्थममुं च ते ॥ विज्ञायाहमिहागां त-द्यथोचितमथो कुरु ॥१५॥ तेनेत्युक्तेऽबीवीदेको, मंत्री नाब्धौ पतेत्तडित् ॥ तत्र तिष्ठतु सप्ताहं, नावारूढो विभुस्ततः ॥१६॥ ऊचेऽन्यः केन तत्राऽपि, पतन्ती सा निरोत्स्यते ? ॥
UTR-2
॥२७९॥
PHEYA
Page #282
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥२८० ॥
१२
*
सप्ताहं वसतु स्वामी, तद्वैताढ्यगुहान्तरे! ॥९७॥ तृतीयो न्यगदन्नाय - मुपायः प्रतिभाति मे ॥ अवश्म्भावी भावो हि यत्रतत्रापि जायते ! ॥९८॥ तत्तपः क्रियतां सर्वैः, सर्वोपद्रववारकम् ॥ तपसा क्षीयते कर्म, निकाचितमपि द्रुतम् ॥९९॥ तुर्यः प्रोचे पोतनोर्वी-पतेरुपरि कथ्यते ॥ गणकेन तडित्पातो, न तु श्रीविजयप्रभोः ॥ १०० ॥ क्रियतामपरः कोऽपि सप्ताहमिह तन्नृपः पतिष्यति तडित्तस्मिन् स्वामी स्थास्यति चाक्षतः ॥ १०१ ॥ प्रतिपेदे मुदा दैव-ज्ञेनाऽमात्यैश्च तद्वचः ॥ अहो ! साधु मतिज्ञानं भवतामिति वादिभिः ॥ १०२ ॥ ततोऽहमब्रवं त्रातुं, स्वप्राणानपरं नरम् ॥ न घातयिष्ये स्वप्राणाः सर्वेषामपि हि प्रिया ! ॥ १०३ ॥ ऊचिरे सचिवा: स्वामिन् ! विचारोऽसौ विमुच्यताम् ॥ श्रीवैश्रवणयक्ष्यस्य मूर्ती राज्येऽभिषिच्यताम् ॥ १०४ ॥ उपद्रवो दिव्यशक्त्या, न चेद् भावी तदा शुभम् ॥ भावी चेज्जीवहिंसायाः पापं नाथ ! न भावि ते ॥ १०५ ॥ इदं हि युक्तमित्युक्त्वा ततोऽहं जिनसद्मनि ॥ गत्वास्थां पौषधं कृत्वा, दर्भसंस्तारकं श्रितः ! ॥ १०६ ॥ राज्येऽभिषिक्तं यक्षं चा ऽभजन्मामिव नागराः ॥ सप्तमे चाह्नि मध्याह्ने, गर्जन्नुदनमद् घनः ॥ १०७ ॥ उद्दण्डोऽथ तडिद्दण्डः, प्रचण्डो वडवाग्निवत् ॥ यक्षमूर्ती सनिर्घातः, पपात जलदात्ततः ॥ १०८ ॥ तदा च तुष्टा दैवज्ञे, रत्नानि ववृषुः प्रजाः ॥ चैत्याच्च निर्गतं राज्येऽभ्यषिञ्चन्मां पुनर्मुदा ॥१०९॥ मयापि पद्मिनीषंडं दत्वा पत्तनमुत्तमम् ॥ व्यसर्जि गणको भूरि, तेन ह्युपकृतं मम ! ॥११०॥ मूर्ति च धनदस्याहं, दिव्यां नव्यामकारयम् ॥ महं कुर्वन्ति पौराश्च विघ्नो मे शान्त इत्यमुम्
अष्टादशमध्ययनम् शान्तिनाथचरित्रम्
९७-११९
UTR-2
॥२८० ॥
Page #283
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२८॥
१५
अष्टादशमध्ययनम् (१८) शान्तिनाथचरित्रम् ११२-१२५
॥१११॥ तदाकर्ण्य प्रमुदितो, दिव्यैरंशुकभूषणैः ॥ जामिं सुतारामभ्या -ऽमिततेजा ययौ गृहम् ॥११२॥ अथान्यदा श्रीविजयः, समं देव्या सुतारया ॥ ययौ क्रीडितुमुद्यानं, मुदा ज्योतिर्वनाभिधम् ॥११३॥ तदा च | कपिलजीवः, खेचरोऽशनिघोषराट् ॥ सुतारां प्राग्भववधूं, तत्राद्राक्षीदिवि व्रजन् ॥११४॥ तस्यां प्राग्भवसंस्कारात्सोऽनुरागं दधौ भृशम् ॥ तां जिहीर्घमंगं हैमं, तदने विद्यया व्यधात् ॥११५॥ सुतारा कान्तमित्यूचे, तं च वीक्ष्यातिमञ्जुलम् ॥ आनीय मृगमेनं मे, देहि क्रीडाकृते प्रभो ! ॥११६॥ ततो ग्रहीतुं तं धावन्, यावदूरमगान्नृपः ॥ तावदेकाकिनी देवीं, जहाराऽशनिघोषराट् ॥११७॥ नृपं हन्तुं प्रयुक्ता च, तेन विद्या प्रतारणी ॥ प्रोच्चकैः पुच्चकारेति, सुतारारूपधारिणी ॥११८॥ दष्टां कुक्कुटसर्पण, प्रिय ! त्रायस्व मां द्रुतम् ॥ तदाकर्ण्य नृपो याव-त्तत्रागाद्गाढमाकुलः ॥११९॥ तावत्तां पतितां पृथ्व्यां, विपन्नां वीक्ष्य पार्थिवः ॥ मूर्च्छितो न्यपतद्भूमा-वनुकुर्वन्निव प्रियाम् ॥१२०॥ सिक्तोऽथ चन्दनरसैः, प्राप्तसंज्ञो धराधिपः ॥ व्यलापीदिति हा कान्ते!, किं ते जातेदृशी दशा? हिरण्यहरिणेनाद्य, मूढोऽहं वञ्चितोऽस्मि हा ! मयासन्ने हि शेषाहि-रपि त्वां दंष्ट्रमप्रभुः ॥ १२२॥ त्वां विना न क्षणमपि, जनोऽसौ जीवितुं क्षमः ! ॥ कदाऽपि किं जीवति हि, मीनः पानीयमन्तरा ? ॥१२३॥ तदुःखं त्वद्वियोगोत्थ-मसासहिरयं जनः ॥ अन्तयत्वनुगम्य त्वां, सत्वरं जीवितेश्वरि ! ॥१२४॥ इत्युदीर्य महीनाथः, समं दयितया तया ॥ विमोहमोहितोऽध्यास्त, नियुक्तै रचितां चिताम् ॥१२५॥ वह्नौ ज्वलितुमारब्धे, तत्रागातां च
UTR-2
॥२८१॥
Page #284
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
॥२८२ ॥
खेचरी ॥ तयोश्चैको मंत्रितेना ऽसिञ्चन्नीरेण तां चिताम् ॥ १२६ ॥ ततः प्रतारणी कृत्वाट्टहासान् द्राक् पलायत ॥ तद्वीक्ष्य दध्यौ राट् केयं, क मे कान्ता क्व चाऽनलः ! ॥१२७॥ ध्यायन्निति नृपोऽप्राक्षी - त्किमेतदिति तौ नरौ ॥ ततो राजानमानम्य, तावप्येवमवोचताम् ॥ १२८ ॥ आवां हि पत्ती अमित - तेजसो नन्तुमर्हतः ॥ निर्यातौ द्रागिहायातौ वाणीमशृणुवेदृशीम् ॥ १२९॥ हा सोदरामिततेजो ! हा श्रीविजय मत्प्रिय ! ॥ इमां सुतारामेतस्माद्विमोचयत खेचरात् ॥ १३० ॥ गिरं तामनुधावद्भ्यां दृष्टावाभ्यां तव प्रिया ॥ उपात्ताशनिघोषेण, सुताराऽस्मत्प्रभोः स्वसा ॥१३१॥ तां विमोचयितुं दुष्ट ! तिष्ठ तिष्ठेति वादिनौ ॥ योद्धुमुत्कौ समं तेन, सुताराऽऽवामदोऽवदत् ॥ १३२ ॥ युवां ज्योतिर्वनं यातं, तत्र श्रीविजयप्रभुम् ॥ प्रतारण्या विप्रतार्य, मार्यमाणं च रक्षतम् ॥१३३॥ ततोऽत्र द्रुतमेताभ्या- मावाभ्यां मंत्रितैर्जलैः ॥ चिताग्निः शमितो दुष्टा नाशिता च प्रतारणी ॥ १३४॥ हृतां सुतारां ज्ञात्वाऽथ विषन्नं तं नरेश्वरम् ॥ गाढाग्रहेण वैताढ्यं निन्यतुस्तौ नभश्चरौ ॥१३५॥ तं चाभ्युदस्थात्सहसा ऽमिततेजाः ससम्भ्रमः ॥ प्रतिपत्तिं च कृत्वोच्चैः पप्रच्छागमकारणम् ॥ १३६ ॥ ततः श्रीविजयेनोक्तौ तौ विद्याधरकुञ्जरौ ॥ तस्मै सर्वं सुताराया, हरणोदन्तमूचतुः ॥१३७॥ क्रुद्धोऽथामिततेजास्तं, प्रोचे हृत्वा तव प्रियाम् ॥ मज्जामिं च कियन्नामाऽशनिघोषः स जीविता ॥१३८॥ उक्त्वेति शस्त्रावरणीं, बन्धनीं मोचनीं तथा ॥ विद्याममिततेजाः श्री विजयाय ददौ मुदा ॥३९॥ वृतं सैन्यान्वितैः स्वीय-सुतानां पञ्चभिः शतैः ॥ प्रैषीत् श्रीविजयं सद्यः, सुतारानयनाय सः ॥ १४० ॥
अष्टादशमध्ययनम् शान्तिना
थचरित्रम्
१२६-१४०
_UTR-2
॥२८२ ॥
Page #285
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२८३॥
अष्टादशमध्ययनम् (१८) शान्तिनाथचरित्रम् १४१-१५३
ततो विद्याधरानीकै-श्छादयन् द्यां घनैरिव ॥ पुर्यां चमरचंचायां, क्षिप्रं श्रीविजयो ययौ ॥१४१॥ स्वयं त्वशनिघोषं तं, भूरिविद्याविदं विदन् ॥ सहस्ररश्मिना साकं, स्वपुत्रेणार्ककीर्तिसूः ॥१४२॥ महाज्वालां महाविद्यां, परविद्याबलापहाम् ॥ महासत्त्वः साधयितुं जगाम हिमवगिरिम् ॥१४३॥ [युग्मम् ] सहसरश्मिना रक्ष्य-माणो | मासोपवासकृत् ॥ विद्या साधयितुं तत्रा-ऽमिततेजाः प्रचक्रमे ॥१४४॥
इतश्चाशनिघोषाय, दूतं श्रीविजयो नृपः ॥ प्राहिणोत्सोऽपि गत्वा तं, प्रोवाचेति प्रगल्भवाक् ॥१४५॥ प्रतारण्या विप्रतार्य, श्रीश्रीविजयपार्थिवम् ॥ हरन् सुतारां किं वीरं-मन्यस्त्वं न हि लज्जितः ॥१४६॥ यद्वा पौरुषहीनानां, छलमेव बलं भवेत् ! ॥ किन्तु ध्वान्तमिवार्के श्री-विजये तत्कथं स्फुरेत् ? ॥१४७॥ सुतारां देहि तत्तस्मै, तूर्णं प्रणतिपूर्वकम् ॥ त्वत्प्राणैः सह तां नेता, नेता श्रीविजयोऽन्यथा! ॥१४८॥ शशंसाशनिघोषोऽथ, साधु धृष्टोऽसि दूत रे ! ॥ यदि श्रीविजयोऽत्रागा-मन्दधीस्तर्हि तेन किम् ? ॥१४९॥ शौर्यांशोऽपि न मे तेन, वराकेण सहिष्यते ! ॥ भानुप्रकाशलेशोऽपि, सह्यते कौशिकेन किम् ॥१५०॥ यथाऽऽयातस्तथा यातु, तदसाविह तु स्थितः ॥ सुतारां लप्स्यते नैव, लप्स्यते तु विगोपनाम् ॥१५१॥ इति तद्वचनं दूतो, गत्वा राज्ञे व्यजिज्ञपत् ॥ सोऽथ क्रुद्धो भृशं युद्ध-सज्जः सेनामसज्जयत् ॥१५२॥ विज्ञायाशनिघोषोऽपि, तस्य सैन्यं रणोद्यतम् ॥ सानीकानश्वघोपदीन, प्रजिघायाऽऽजयेऽङ्गजान् ॥१५३॥ पूर्णेऽथ रणतुर्याणां, निर्घोषैरभितोऽम्बरे ॥ तयोः प्रववृते
UTR-2
॥२८३॥
Page #286
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२८४॥
अष्टादशमध्ययनम् शान्तिनाथचरित्रम् १५४-१६७
घोरं, महानीकमनीकयोः ॥१५४॥ तदा च समरं द्रष्टुं, देवानां दिवि तस्थुषाम् ॥ वीराः केऽपि व्यधुर्विघ्नं, कुर्वन्तो मण्डपं शरैः ! ॥१५५॥ कुन्तप्रोन्तान् रिपून् केचि-दुद्दधुर्वटकानिव। केऽप्यद्रीमिवेभानां, दन्तान् दण्डैरखण्डयत् ॥१५६॥ | मुद्गरैर्ममृदुः केपि, घटानिव भटा स्थान् ॥ परिषैश्च परान् केचि-च्चुक्षुदुश्चणकानिव ॥१५७ ॥ कुष्माण्डानिव केचित्तु, | द्विषः खड्गैर्व्यदारयन् ॥ केप्यभिन्दन् द्विषन्मौलीन् , गदाभिर्नालिकेरवत् ॥ १५८॥ केप्युत्खातेभदन्तेन, प्रजहनि| ष्ठितायुधाः ॥ योद्धारः केप्ययुध्यन्त, नियुद्धेन महौजसः ॥ १५९॥ शस्त्रमंत्रास्त्रमायाभिः, सदैवं युध्यमानयोः ॥ किंचिदूनो मास एको, व्यत्यगात्सैन्ययोस्तयोः ॥१६०॥ भटैः श्रीविजयस्याथा-ऽभज्यन्ताशनिघोषजाः । ततो डुढौके युद्धाया-ऽशनिघोषनृपः स्वयम् ॥१६१॥ इथूनुक्षेव सोऽभांक्षीत्, सुतानमिततेजसः ॥ ततः श्रीविजयो राजा, जन्यायाऽढौकत स्वयम् ॥१६२॥ साश्चर्यैर्वीक्षितौ देवै-स्तौ मिथो घातवञ्चिनौ ॥ उभावपि महावीर्यो, चक्रतुः समरं चिरम् ॥ १६३ ॥ अथ श्रीविजयश्छित्वा-ऽसिना शत्रु द्विधा व्यधात् ॥ जातावशनिघोषौ द्वौ, ते तत्खण्डे उभे ततः ॥ १६४॥ चत्वारोऽशनयोऽभूवं-स्तयोश्च छिन्नयोः पुनः ॥ भूयोऽपि तेषु भिन्नेषु, तेनाष्टाशनयोऽभवन् ॥ १६५॥ प्रतिप्रहारमिति तै-वर्द्धमानैर्मुहुर्मुहुः ॥ किंकर्तव्यविमूढोऽभू-द्यावत् श्रीविजयो नृपः ॥ १६६॥ तावत्तत्रामिततेजाः, सिद्धविद्यः समाययौ ॥ करीव सिंहं तं वीक्ष्या-ऽशनिघोषः पलायत ॥१६७॥ तं चानेतुं
UTR-2
॥२८४॥
१ युद्धाय ।
Page #287
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२८५॥
अष्टादशमध्ययनम् (१८) शान्तिनाथचरित्रम् १५८-१८९
al महाज्वाला-मादिदेशार्ककीर्त्तिसूः ॥ ततस्तमन्वधाविष्ट, सा विद्या विश्वजित्वरी ॥१६८॥ तस्या नश्यन् क्वाप्य
पश्यन् , शरण्यं भृशमाकुलः ॥ विवेशाशनिघोषोऽपि, भरतार्द्धऽत्र दक्षिणे ॥१६९॥ तत्र भ्रमंश्च सीमाद्रौ, तत्कालोत्पन्नकेवलम् ॥ बलदेवर्षिमचलं , सोऽद्राक्षीदमरैर्वृतम् ॥१७०॥ तमेव शरणीचक्रे-ऽशनिघोषोऽपि सत्वरम् ॥ न्यव-| तत ततो मोघा, महाज्वाला विहाय तम् ॥१७१॥ गत्वा च वार्ता तां सर्वा-मुवाचामिततेजसे ॥ ततः स मुमुदे बाढं, नृपः श्रीविजयस्तथा ॥१७२॥ ततः सुतारामानेतुं, प्रेष्य मारीचिखेचरम् ॥ ससैन्यौ तौ विमानस्थौ, द्राक् सीमादौ समेयतुः ॥१७३॥ तत्र प्राणमतां भक्त्या-ऽचलकेवलिनं च तौ ॥ पुर्यां चमरचंचायां, मारीचिः खेचरोऽप्यगात् ॥१७४॥ अहं सुतारामानेतुं, प्रहितोऽमिततेजसा ॥ आगामिहेति च स्माहा-ऽशनिघोषस्य मातरम् ॥१७५॥ ततः सुतारामादाय, सीमाद्रौ सा ययौ द्रुतम् ॥ अर्पयामास तां च श्री-विजयामिततेजसोः ॥१७६॥ तदा च क्षमयामासा-ऽशनिघोषोऽपि तौ मुदा ॥ अथ तेषां पुरश्चक्रे , देशनामचलप्रभुः ॥१७७॥ देशनान्ते च रामर्षि-मित्यूचेऽशनिघोषराट् ॥ न मया दुष्टभावेन, सुताराऽपहृता प्रभो ! ॥१७८॥ किन्तु प्रतारणीविद्यां, साधयित्वा गृहं व्रजन् ॥ ज्योतिर्वनेऽपश्यमिमामुपश्रीविजयं स्थिताम् ॥१८१॥ हेतोः कुतोऽप्यभूदस्यां, मम प्रेम वचोऽतिगम् ॥ विहायैनां पुरो गन्तुं, ततोऽहं नाऽभवं प्रभुः ॥१८०॥ पार्श्वस्थिते श्रीविजये, नैनां हर्तुमहं क्षमे ॥ प्रतार्येति प्रतारण्या, नृपमेनामपाहरम् ॥१८१॥ अमूमपापां चामुंच-मातुरं मातुरन्तिके ॥ अस्यै चानुचितं किञ्चि-दवोचं
UTR-2
॥२८५॥
Page #288
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
॥२८६॥
वचसापि न ॥१८२॥ तद् ब्रूहि भगवन्नस्यां किं मम प्रेमकारणम् ॥ श्रीषेणादीनां ततस्तां कथामुक्त्वेत्यवग् मुनिः ॥१८३॥ श्रीषेणसत्यभामाभि- नंदिताशिखिनंदिताः ॥ विपद्य युग्मिनोऽभूवं स्ततो मृत्वाऽभवन् सुराः ॥ १८४॥ च्युत्वा ततोऽपि श्रीषेणो ऽमिततेजा अभूदसौ ॥ ज्योति: प्रभाहवा भार्यास्य, जज्ञे सा शिखिनंदिता ॥ १८५ ॥ जीवोऽभिनंदितायास्तु सोऽयं श्रीविजयोऽभवत् ॥ तस्य पत्नी सुतारेयं भामाजीवस्त्वजायत ॥ ९८६ ॥ कपिलस्तु ततो मृत्वा भ्रांत्वा तिर्यक्षु भूरिशः ॥ तापसस्य सुतो धर्म- रतोऽभूद्धर्मिलाभिधः ॥ १८७ ॥ स च बालतपस्तीव्रं कुर्वन्नारभ्य बाल्यतः ॥ खे यांतमन्यदाऽपश्यत् खेचरं परमर्द्धिकम् ॥१८८॥ अमुष्मात्तपसो भावि भवे भूयासमीदृशः ॥ निदानमिति सोऽकार्षीन्मृत्वा च त्वमभूस्ततः ॥ १८९॥ ततः प्राग्भवसंबन्धात् स्नेहोऽस्यां भवतोऽभवत् ॥ शतशोऽपि भवान् याति, संस्कार: स्नेहवैरयोः ॥ १९०॥ श्रुत्वेति विस्मितेष्वन्तः सकलेष्वर्ककीर्त्तिसूः ॥ भव्योऽस्मि यदि वा नास्मी त्यपृच्छत्तं मुनिप्रभुम् ॥१९१॥ साधुरूचे भवादस्मा - भावी त्वं नवमे भवे ॥ क्षेत्रेऽत्र पंचमश्चक्री, धर्मचक्री च षोडशः ॥ १९२॥ तस्मिन् भवे श्रीविजयो, ज्येष्ठपुत्रो गणी च ते ॥ भावीत्याकर्ण्य तौ श्राद्ध-धर्म स्वीचक्रतुर्नृपौ ॥१९३॥ अथेत्यूचेऽशनिः साधुं विना सन्मार्गदेशकम् ॥ मूढः पान्थ इवारण्ये, भवे सुचिरमभ्रमम् ॥ १९४॥ दिष्ट्या त्वमद्य दृष्टोऽसि, सिद्धिपूर्मार्गदर्शकः ॥ तत्प्रसद्य प्रभो ! सद्यः साधुधर्मं प्रदेहि मे ॥ १९५॥ अनुज्ञातोऽथ मुनिना - ऽशनिघोषो न्यधात्सुधीः ॥ स्वपुत्रमश्वघोषाख्य-मुत्संगेऽमिततेजसः ॥ १९६ ॥
अष्टादशम
ध्ययनम् शान्तिनाथचरित्रम् १८२-१९६
UTR-2
॥२८६ ॥
Page #289
--------------------------------------------------------------------------
________________
अष्टादशम
उत्तराध्ययनसूत्रम् ॥२८७॥
ध्ययनम्
(१८) शान्तिनाथचरित्रम् १९७-२०९
अस्मिन्नपि त्वया साधो ! वर्त्तितव्यं स्वपुत्रवत् ॥ तमित्युक्त्वाऽचलस्वामि-समीपे सोऽग्रहीव्रतम् ॥१९७॥ प्रणम्याथ बलर्षि श्री-विजयाऽमिततेजसौ ॥ अन्येऽपि च प्रमुदिताः, स्थानं निजं निजं ययुः ॥१९८॥ श्राद्धधर्मं पालयन्तौ, द्यौतयन्तौ च शासनम् ॥ कालं खेचरमा शौ, तौ प्राज्यमतिनिन्यतुः ॥१९९॥
अथाऽन्यदा श्रीविजयो-ऽमिततेजाश्च सङ्गतौ ॥ गतौ मेरुमवन्देता-मनश्वरजिनेश्वरान् ॥२००॥ तत्र चानमंतां स्वर्ण-शिलास्थौ चारणौ मुनी ॥ ध्यानस्थौ विपुलमति-महामत्याह्वयौ मुदा ॥ २०१ ॥ तयोश्च देशनां सर्व-भावानित्यत्वशंसिनीम् ॥ श्रुत्वा तौ कियदायुनौं, शेषमस्तीत्यपृच्छताम् ॥२०२॥ तावाख्यतां शेषमायुः षड्विंशतिरहानि वाम् ॥ ततस्तौ धर्मकृत्योत्कौ, स्वं स्वं धाम समेयतुः ॥१०३॥ अष्टाहिकोत्सवं कृत्वा, तत्र चाहतवेश्मसु ॥ दानं दत्वा च दीनादेः, पुत्रौ विन्यस्य राज्ययोः ॥२०४॥ प्रव्रज्य चाभिनन्दन-जगन्नंदनसन्निधौ ॥ तौ पादपोपगमनानशनं चक्रतुर्मुदा ॥२०५॥ [ युग्मम् ] स्वतो महर्द्धिकं तातं, तदा श्रीविजयोऽस्मरत् ॥ भूयासं पितृतुल्योऽहं, निदानमिति पाकरोत् ॥२०८॥ विपद्यऽमिततेजाः श्री-विजयश्च बभूवतुः ॥ गीर्वाणी प्राणतस्वर्गे, विंशत्यर्णवजीवितौ ॥२०७॥ ___इतश्च जंबुद्वीपप्राग्-विदेहावनिमण्डने ॥ विजये रमणीयावे, शुभाख्याऽभूत् पुरी शुभा ॥२०८॥ तत्राऽऽसीद्गुणरत्नाढ्यो, राजा स्तिमितसागरः ॥ वसुंधरानुद्धरावे, पल्यौ तस्य च बन्धुरे ॥२०९॥ प्रच्युत्य प्राणतस्वर्गा-ज्जीवोऽ
UTR-2
॥२८७॥
Page #290
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥२८८॥
१२
थामिततेजसः ॥ कुक्षौ वसुंधरादेव्याः, पुत्रत्वेनोदपद्यत ॥ २९०॥ वदने विशतो दंति - वृषेन्दुकमलाकरान् ॥ सुखसुप्ता तदापश्यत्स्वप्ने सा कमलानना ॥ २१९ ॥ तया स्वप्नफलं पृष्ट-चैवं स्माह महीपतिः ॥ स्वप्नैरेभिः शुभे ! भावी, बलदेवस्तवाङ्गजः ॥२२९॥ तदाकर्ण्य प्रमुदिता, राज्ञी गर्भं बभार सा ॥ क्रमाच्चाजीजनत्पुत्रं, श्वेतवर्णं सुलक्षणम् ॥२९३॥ चक्रेऽपराजित इति, तस्य नामोत्सवैर्नृपः ॥ मितम्पच इव द्रव्यं तं चालालयदन्वहम् ॥ २१४॥ जीवः श्रीविजयस्याऽपि च्युत्वा प्राणतकल्पतः ॥ उदरेऽनुद्धरादेव्याः, समवातरदन्यदा ॥ २१५ ॥ सिंहलक्ष्मी भानु कुम्भाम्भोधिरत्नोच्चयानलान् ॥ मुखे प्रविशतः स्वप्ने द्राक्षीद्राज्ञी तदा च सा ॥ २१६ ॥ स्वप्नार्थमथ भूनाथः, पृष्टो मुदितया तया ॥ सानन्दमवदत्पुत्रो, विष्णुर्भावी तवाऽनघे ! ॥ २१७॥ काले सूत सुतं सापि श्यामवर्णं मनोहरम् ॥ तस्योत्सवैर्नृपो नामा - ऽनन्तवीर्य इति व्यधात् ॥२१८॥ भ्रातरौ वर्द्धमानौ तौ रममाणौ मिथोऽनिशम् ॥ कलाकलापं सकलं गुरोर्जगृहतुर्द्वतम् ॥ २१९ ॥ वसन्तेनेव माकन्दौ, यौवनेन विभूषितौ ॥ भृङ्गीरिवाङ्गनादृष्टी-स्तावमोहयतां भृशम् ॥ २२० ॥ भूपोऽन्यदा वाहकेल्यां गतः स्तिमितसागरः ॥ स्वयम्प्रभाऽभिधं साधु- मुद्यानस्थमवन्दत ॥ २२१ ॥ देशनां च ततः श्रुत्वा, प्रतिबुद्धः स बुद्धिमान् ॥ राज्ये न्यस्यानन्तवीर्यं प्राव्राजीत्तस्य सन्निधौ ॥ २२२ ॥ स चारु चरितोऽप्यन्ते किञ्चिद्दीक्षां व्यराधयत् ॥ कालं कृत्वा च चमरा ऽभिधोऽभूदसुराधिपः ॥ २२३॥ साग्रजोऽनन्त
१ सभातानन्तवीर्यो ऽपि । इति 'घ' संज्ञक पुस्तके ॥
अष्टादशमध्ययनम् शान्तिनाथचरित्रम् २९०-२२३
UTR-2
॥२८८॥
Page #291
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
॥२८९ ॥
१८
२१
वीर्योऽपि वर्यवीर्यविराजितः ॥ आखण्डल इवाखण्ड - शासनो बुभुजे भुवम् ॥२२४॥ खेचरेणान्यदैकेन, समं सख्यमभूत्तयोः ॥ स च दत्वा तयोर्विद्याः सर्वा वैताढ्यमीयिवान् ॥२२५॥ 'किराती' 'बर्बरी' संज्ञे, चाभूतां चेटिके तयोः ॥ हरन्त्यौ जगतश्चित्तं गीतनाट्यादिकौशलात् ॥ २२७॥ पुरोऽन्यदा सोदरयो - रास्थानस्थितयोस्तयोः ॥ प्रारब्धे नाटके ताभ्यां तत्रोपेयाय नारदः ॥ २२७ ॥ संगीताक्षिप्तचित्ताभ्यां ताभ्यां चाकृतगौरवः ॥ अन्तः स कुपितोऽत्यन्त-मगाद्वैताढ्यपर्वतम् ॥ २२८ ॥ दमितारिः प्रतिहरि - स्तत्र विद्याधराधिपः । द्रागऽभ्युत्थाय तं सिंहविष्टरेण न्यमन्त्रयत् ॥२२९ ॥ दत्ताशिषं निविष्टं च, दमितारिस्तमित्यवक् ॥ त्वया हि भ्रमता स्वैरं ब्रूहि दृष्टं किमद्भुतम् ॥२३०॥ ततः प्रमुदितोऽवादी - नारदोऽद्यैव भूपते ! शुभापुर्यां गतोऽनन्त - वीर्यस्योर्वीपतेः पुरः ॥२३१॥ किरातीबर्बरीसंज्ञ - चेटिकारब्धनाटकम् ॥ अहमद्भुतमद्राक्षं दुरापं घुसदामपि ! ॥२३२॥ [ युग्मम् ] तद्विना राज्यमप्येतत् फल्गु भोज्यमिवाघृतम् ॥ उक्त्वेति गगनेनागा- न्नारदर्षिः कलिप्रियः ॥ २३३॥ दूतोऽथानन्तवीर्याय, प्रहितो दमितारिणा ॥ गत्वा शुभापुरीं नत्वा, साग्रजं तमदोऽवदत् ॥२३४॥ विजयार्द्धेऽत्र यत्सारं, दमितारेस्तदर्हति ॥ चेट्यौ नट्याविमे, राज्यसारे तस्मै प्रदेहि तत् ! ॥ २३५ ॥ उवाचानन्तवीर्योऽथ यातु दूताऽधुना भवान् ॥ त्वरितं प्रेषयिष्यामि किञ्चिदालोच्य चेटिके ॥ २३६ ॥ ततः प्रयाते दूते तौ भ्रातराविति दध्यतुः ॥ अयं हि विद्याशक्त्यैव, भूपोऽस्मासु प्रभूयते ॥ २३७॥ तत्साधयामो विद्यास्ता, यास्तेन सुहृदार्पिताः ॥ अविहस्तौ रहस्तौ द्वौ यावदव्यमृश
अष्टादशमध्ययनम् ( १८ ) शान्तिना
थचरित्रम् २२४-२३७
UTR-2
॥२८९ ॥
Page #292
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
॥२९०॥
अष्टादशमध्ययनम् शान्तिनाथचरित्रम् २३८-२५२
तामिति ॥२३८॥ प्रज्ञप्त्याद्यास्तावदेत्य, विद्यादेव्योऽवदन्नदः ॥ याः साधयितुमिष्टा वा-मायातास्ताः स्वयं वयम् ॥२३९॥ प्राग्भवे साधितत्वाद्धि नाऽधुना साधनेष्यते ॥ युवां तदनुजानीत-मस्मान् संक्रमितुं तनौ ॥२४०॥ ताभ्यां चानुमताः सर्वा, विविशुस्तास्तदङ्गयोः ॥ तासां वर्यां सपर्या च, मुदितौ तौ वितेनतुः ॥२४१॥ इतश्च प्रहितो दूतो, भूयोऽपि दमितारिणा ॥ क्षिप्रमागत्य तावेव-मवदद्वदतां वरः ॥२४२॥ दास्यौ दास्याव इत्युक्त्वा, युवाभ्यां प्रहिते न यत् ॥ युवयोस्तदसुभ्योऽपि, ते प्रिये इति दृश्यते ! ॥२४३॥ अथ चेद्वां प्रियाः प्राणाः, तत्ते प्रेषयतं द्रुतम् ॥ अमर्षणः स हि प्राणा-नन्यथा वां हरिष्यति ! ॥२२४॥ ततस्तावूचतुः स्वामी, स हि तोष्यो घनैर्घनैः॥ आभ्यां चेत् प्रियते तर्हि, ते लात्वा त्वं प्रगे व्रजेः ॥२४५॥ ताभ्यामित्युदितो दूत-स्तद्दत्ते न्यवसदहे ॥ न्ययुञ्जातां राज्यभारं, सुधियौ धीसखेषु तौ ॥२४६॥ प्रातश्च विद्यया चेटी-भूतौ दूतमुपेयतुः ॥ साग्रजोऽनन्तवीर्यो नौ, प्रैषीदित्यूचतुश्च तम् ॥२४७॥ तत आदाय ते दूतो, वैताढ्यं मुदितो ययौ ॥ दमितारेश्चोपनीय प्रोवाचेति कृताञ्जलिः ॥२४८॥ प्रभो ! ऽपराजितानन्त-वीर्यो त्वद्वशवर्त्तिनौ ॥ इमे ते चेटिके मह्य-मदात्तां प्राभृताय ते ॥२४९॥ ते नट्यौ नाटकं कर्तुं, दमितारिरथादिशत् ॥ अपूर्वदर्शनोत्को हि, विलम्बं नावलम्बते ! ॥२५०॥ ततस्ते चक्रतुर्नाट्यं, पूर्वरङ्गादिपूर्वकम् ॥ रसाशेषविशेषाढ्यं, विश्वविश्वककार्मणम् ॥२५१॥ प्रेक्षणीयं प्रेक्षणीयं, प्रेक्ष्य तत् क्ष्माधवः सुधीः ॥ भूर्भुवःस्वस्त्रयीसारं, मेने तच्चेटिकाद्वयम् ॥२५२॥ अथ नाट्यं शिक्षयितुं, स्वपुत्री कनक
UTR-2
॥२९०॥
Page #293
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२९॥
अष्टादशमध्ययनम् (१८) शान्तिनाथचरित्रम् २५३-२६६
श्रियम् ॥ दमितारिस्तयोविश्व-जैत्ररूपश्रियं ददौ ॥२५३॥ अनन्तवीर्य गायन्त्यौ, रूपाद्यैरद्भुतं गुणैः ॥ तामशिक्षयतां नाट्यं, ते मायाचेटिके ततः ॥२५४॥ युवाभ्यां गीयते भूयः कोऽयमित्यथ कन्यया ॥ पृष्टे तयाब्रवीदेवं, माया
चेट्यपराजितः ॥२५५॥ शुभापुरीप्रभू रूप-हृतदर्पकदर्पकः ॥ परापराजितो भ्राता-ऽपराजितविभोर्लघुः ॥२५६।। | गीयते जगतीगेयो-ऽनन्तवीर्याह्वयो ह्ययम् ॥ युवा युवत्या स यया, न दृष्टः तज्जनिर्मुधा! ॥२५७॥ [ युग्मम्] तन्निशम्योल्लसद्रोम-हर्षा हल्लेखमाश्रिता ॥ कथं द्रक्ष्यामि तं कान्त-मिति साऽचिन्तयच्चिरम् ॥२५८॥ इङ्गितज्ञस्ततोऽवादी-त्तामेवमपराजितः ॥ तं विश्वसुभगोत्तसं, किं मृगाक्षि ! दिदृक्षसे ? ॥२५१॥ कनकश्रीरथाचख्यौ, क्व नु मे तस्य दर्शनम् ॥ प्राणिनां मन्दभाग्यानां, दुरापो हि धुसन्मणिः ॥२६०॥ ऊचेऽपराजितो मुंच शुचं नलिनलोचने! ॥ विद्यया भ्रातृयुक्तं तं त्वत्कृतेऽहमिहानये ॥२६१॥ हर्षगद्गदगीरेवं, कनकश्रीरथावदत् ॥ कलावति!कुरुष्वाशु, वचः सफलमात्मनः ॥२६२॥ स्वं स्वं रूपं ततः प्रादु-श्चक्रतुस्तौ जितामरम् ॥ ऊचेऽपराजितस्तां चानन्तवीर्यो ह्यसौ शुभे ! ॥२६३॥ मदुक्तमस्य रूपादि, दृशा संवादय स्वयम् ॥ सापि प्रेक्षावती प्रेक्षा-मास तं निनिमेषदृक् ॥२६४॥ दमितारिसुता काम, कामेन दमिता ततः ॥ अपाकृत्य त्रपां मान-मपमान्येति तं जगौ ॥२६५॥ अद्ययावद्युवानोऽन्ये, बहवो वीक्षिताः परम् ॥ त्वां विना नारमत् क्वापि, मनोरम! मनो मम ॥२६६॥ तत्प्रसीद द्रुतं पाणी,
UTR-2
॥२९॥
१ उत्साहम् । तर्कं वा ॥
Page #294
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२९॥
३
अष्टादशमध्ययनम् शान्तिनाथचरित्रम् २६७-२८९
गृहाणानुगृहाण मां ॥ न हि जातु जनं रक्त-मुपेक्षन्ते भवादृशाः ! ॥२६७॥ बभाषेऽनन्तवीर्योऽथ, यद्येवं तर्हि सुन्दरि ! ॥ एहि यावः शुभापूर्णं, ततस्तं सा पुनर्जगौ ॥२६८॥ एष्याम्यहं कान्त! किन्तु कर्तानर्थं पिता मम।। प्रत्यूचे तां हरिस्मि-भैषीस्त्वं कातरे ! ततः ॥२६९॥ ततस्ताभ्यां सहारुह्य, विमानं साऽचलन्मुदा ॥ प्रोवाचाऽनन्तवीर्योऽथ, वाक्यमित्युच्चकैस्तदा ॥२७०॥ हराम्यनन्तवीर्योऽहं, दमितारिसुतामिमाम् ॥ शूरंमन्यस्ततो यः स्यात्स स्वौजो दर्शयत्वहो ! ॥२७१॥ तन्निशम्य नृपः प्रैषी-द्भटांस्तं हन्तुमुद्भटान् ॥ रत्नानि चक्रवर्जाणि, प्रादुरासंस्तदा तयोः ॥२७२॥ दमितारिभटांस्तांश्चा-मर्षणान् शस्त्रवर्षिणः ॥ सद्योऽनाशयतां सीरि-शाणिौ तौ महारथौ ॥२७३॥ दमितारिस्ततोऽचाली-त्सैन्यैराच्छादयन्नभः ॥ अनभं विद्युदुद्योतं, कुर्वन्नुत्तेजितायुधैः ॥२७४॥ तमायान्तं वीक्ष्य भीता-माश्वास्य कनकश्रियम् ॥ अवलिष्ट बलिष्ठो द्राग्, योद्धं विष्णुर्बलान्वितः ॥२७५॥ तत्सैन्यद्विगुणं सैन्यं, विद्यया विदधे च सः ॥ योद्धं प्रववृते तच्च, दामितारिभटैः समम् ॥२७६॥ निजसैन्येन तत्सैन्या-नभग्नान् वीक्ष्य केशवः ॥ पाञ्चजन्यं जन्यनाट्य-नांदीनादमवादयत् ॥२७७॥ ततो भीतेषु नष्टेषु, खेचरेष्वखिलेष्वपि ॥ दमितारिः सहानन्त-वीर्येण युयुधे चिरम् ॥२७८॥ दूर्जयं तं च विज्ञाय-ऽस्मरच्चक्रं स पार्थिवः ॥ पाणौ तस्य तदप्यागातेजसान्य इवाऽऽरुणः ॥२७९॥ मुमोचानन्तवीर्याय, तच्चक्रं दमितारिराट् ॥ सोऽपि तत्तुम्बघातेन, मूर्च्छितो | न्यपतत्क्षणम् ॥२८०॥ उत्थितस्तु क्षणाच्चक्रं, तदेवादाथ केशवः ॥ दमितारिं प्रत्यमुञ्च-त्तत्सङ्गात्सोऽपि जीवितम्
UTR-2
॥२९२।
Page #295
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥२९३॥
१५
॥२८१॥ तदा च भो ! विष्णुरयं, हलश्चायं निषेव्यताम् ॥ वदन्त इति तन्मौलौ, पुष्पवृष्टिं व्यधुः सुराः ॥२८२॥ ततो नतैः खेचरेन्द्रैर्वृतो विष्णुः सहाग्रजः ॥ गच्छन् स्वपूर्यां कनक-गिरिं पर्वतमैक्षत ॥२८३॥ इहाद्रौ सन्ति चैत्यानि तानि नत्वा व्रज प्रभो ! तदेति खेचरैरुक्त- स्तच्चैत्यानि ननाम सः ॥ २८४ ॥ तत्र कीर्त्तिधरं साधुं तदैवोत्पन्नकेवलम् ॥ वीक्ष्य नत्वा च सोऽश्रौषीद्देशनां सपरिच्छदः ॥ २८५ ॥ बंधूनां विरहस्तात घातश्चाभूत्कुतो मम ? ॥ अथेति पृष्टः कनक- श्रिया मुनिरदोऽवदत् ॥ २८६ ॥ धातकीषण्डभरते, शङ्खग्रामेऽभवद्वशा ॥ श्रीदत्ताह्वाऽतीवदुःस्था, परौकः कृत्यजीविका ॥२८७॥ श्रीपर्वते गता सत्य- यशसं मुनिमन्यदा ॥ वीक्ष्यावन्दत सा दत्ता - शिषं तं चैवमब्रवीत् ॥२८८॥ अहमत्यन्तदुःस्थास्मि, तत्किञ्चित्तादृशं वद ॥ अत्रामुत्र च येनाहं भवामि सुखिनी विभो ! ॥२८९॥ साधुस्तस्यै ततो धर्म चक्रवालं तपोऽवदत् ॥ प्रारेभे तत्तपः सापि तं प्रणम्य गृहं गता ॥ २९० ॥ तन्महिम्ना शुभं भोज्यं प्राप पारणकेषु सा ॥ स्वगेहभित्तिदेशाच्च, पतितात्काञ्चनादिकम् ॥ २९९ ॥ उद्यापनं तपः प्रान्ते, सा विधायोत्तमं ततः ॥ मासोपवासिनेऽन्नादि ददौ सुव्रतसाधवे ॥ २९२॥ कृताहारात्ततः साधोः, श्राद्धधर्मं च साददे ॥ दध्यौ चान्येद्युरित्यस्माद्धर्माद्भावि फलं न वा ? ॥ २९२ ॥ विचिकित्सामनालोच्य विपन्ना साऽन्यदा
१ ॥ अष्टमं १ एकान्तरं चतुर्थ ३७ प्रान्ते अष्टमं १ इति धर्मचक्रवालं तपः । अथवा प्रथमं षष्ठं १ तत एकान्तरोपवासाः ६० इति प्रकारद्वयेन धर्मचक्रवालं, तत्र प्रथमप्रकारे दिनसर्वाग्रं ८२ ! द्वितीयप्रकारे १२३ ॥
अष्टादशमध्ययनम्
( १८ ) शान्तिनाथचरित्रम् | २८२-२९३
UTR-2
॥२९३॥
Page #296
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥२९४॥
ततः दमितारेर्मत्सुतस्य तनया त्वमभूः शुभे! ॥ २९४ ॥ तस्यास्ते विचिकित्सायाः फलमेतदुपस्थितम् ॥ स्वल्पोऽपि खलु धर्मस्य, कलंको भूरिदुःखदः ॥ २९५ ॥ श्रुत्वेति जातवैराग्या, कनक श्रीर्जगौ हरिम् ॥ महाभागाऽनुजानीहि भवाद् भीतां व्रताय माम् ॥ २९६ ॥ ततः स विस्मितः स्माह, शुभामेहि शुभाशये ॥ स्वयम्प्रभजिनोपान्ते, प्रव्रजेस्तत्र चोत्सवैः ॥ २९७ ॥ इत्युक्त्वा तां सहादाय, सबलः सबलानुजः ॥ मुनिं प्रणम्य तं भक्त्या, जगाम नगरी निजाम् ॥२९८॥ तत्र पूर्वं प्रतिहरि - प्रहितैः खेचरेश्वरैः ॥ भ्रातुष्पुत्रं युद्ध्यमानं वीक्ष्याऽधावलो बली ॥ २९९ ॥ सीरं भ्रमयतस्तस्माद्भीताः सद्यो दिशोदिशम् ॥ दमितारिभटा नेशु र्गरुडादिव भोगिनः ॥ ३००॥ गृहं गतोऽर्द्धचक्रित्वेऽथाऽभ्यषिञ्च हरिर्नृपैः ॥ स्वयम्प्रभप्रभुस्तत्राऽन्यदा च समवासरत् ॥३०॥ च श्रुत्वाऽऽगतं गत्वा, दमितारिसुतायुतः ॥ साग्रजः प्राणमद्विष्णु-स्ततोऽश्रौषीच्च देशनाम् ॥ ३०२ ॥ ततो हरिमनुज्ञाप्य, कनक श्रीर्महोत्सवैः ॥ जिनान्तिके प्रवव्राज, क्रमान्मुक्तिमवाप च ॥ ३०३ ॥ सीरिशार्ङ्गधरौ तौ च पुष्पदन्ताविवापरौ ॥ चिरं राज्यमभुञ्जातां सम्यक्त्वोद्योतशालिनौ ॥ ३०४ ॥ पूर्वलक्षाणि चतुर - शीतिमायुरथो हरिः ॥ प्रपूर्य कर्मविवशः, प्रथमां पृथिवीं ययौ ॥ ३०५ ॥ द्विचत्वारिंशत्सहस्र वर्षायुष्कस्य तस्य च ॥ दुस्सहा जज्ञिरे तत्र वेदनाश्छेदनादिभिः ॥ ३०६ ॥ स्वकर्मणां फलमिति, क्षममाणस्य तस्य ताः । तत्रैत्य प्राग्भवपिताऽशमयच्चमराधिपः ॥ ३०७ ॥ राज्ये निवेश्य तनयं
१ शभां नगरीम ।
अष्टादशमध्ययनम् शान्तिनाथचरित्रम्
२९४-३०७
UTR-2
॥२९४॥
Page #297
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२९५॥
अष्टादशमध्ययनम् (१८) शान्तिनाथचरित्रम् ३०८-३२२
बलोऽपि भ्रातृशोकतः ॥ भूमीभुजां षोडशभिः, सहसैः परिवारितः ॥३०८॥ परिव्रज्यां जयधर-गणाधीशान्तिके - श्रयत् ॥ तपश्च तीव्र तप्त्वाऽऽयु:- प्रान्तेऽभूद् वासवोऽच्युते ॥३०९॥ [ युग्मम् ] जीवोऽथानन्तवीर्यस्य, निरयान्निर्गतस्ततः ॥ वैताढ्ये भरतस्यास्य, पुरे गगनवल्लभे ॥३१०॥ खेचराधिपतेर्मेघ-वाहनस्याङ्गजोऽभवत् ॥ मेघनादाभिधः प्राप्त-यौवनो राज्यमाप्य च ॥३११॥ साधयामास वैताढ्य-श्रेण्यौ द्वे अपि स क्रमात् ॥ विभज्य च ददौ देशानशेषानङ्गजन्मनाम् ॥३१२॥ नन्तुं शाश्वतचैत्यानि, गतं तं नन्दनेऽन्यदा ॥ तत्रायातोऽच्युताधीशः, प्रेक्ष्य प्राबुबुधन्मुदा ॥३१३॥ नाम्नामरगुरुस्तत्र, चारर्षिस्तदाऽऽययौ ॥ प्रावाजीत् खेचराधीश-स्ततोऽसौ तस्य सन्निधौ ॥३१४॥ स व्रतं पालयंस्तीवं, सहमानः परिषहान् ॥ विपद्यानशनेनान्ते-ऽच्युतसामानिकोऽभवत् ॥३१५॥ इतश्च जम्बूद्वीपेऽस्ति, प्रागग्विदेहविभूषणे ॥ विजये मङ्गलावत्यां, नगरी रत्नसञ्चया ॥३१६॥ तत्र क्षेमङ्कराह्वोऽभूद्विश्वक्षेमकरो नृपः ॥ रत्नमालेति तस्यासी-न्महिषी गुणमालिनी ॥३१७॥ द्वाविंशतिसमुद्रायुः, प्रपूर्य प्रच्युतोऽच्युतात् ॥ जीवोऽपराजितस्याथ, तस्याः कुक्षाववातरत् ॥३१८॥ तदा च सुखसुप्ता सा, महास्वप्नांश्चतुर्दश ॥ वज्रं पञ्चदशं प्रेक्ष्य, प्रबुद्धा भूभुजेऽभ्यधात् ॥३१९॥ सोऽपि स्माह सुतो भावी, चक्रवर्ती तव प्रिये! तन्निशम्य दधौ गर्भ, राज्ञी मुदितमानसा ॥३२०॥ क्रमाच्च सुषुवे पुत्र, जगत्रयमनोहरम् ॥ स्वप्नानुसारात्तं भूपो, व्यधाद्वज्रायुधाऽभि धम् ॥३२१॥ स क्रमाद्यौवनं प्राप्तः, प्रियमित्रं मनोभुवः॥ लक्ष्मीवतीं नृपसुता-मुदुवाह: महामहैः ॥३२२॥
UTR-2
॥२९५॥
Page #298
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
॥२९६॥
अष्टादशमध्ययनम् शान्तिना - थचरित्रम् ३२३-३३६
जीवोऽथानन्तवीर्यस्या-ऽच्युतस्वर्गात्परिच्युतः॥ कुक्षौ लक्ष्मीवतीदेव्याः, समवातरदन्यदा ॥३२३॥ समयेऽजीजनत्पुत्रं, साऽपि लक्षणलक्षितम् ॥ सहसायुध इत्याख्यां, चक्रे तस्योत्सवैः पिता ॥३२४॥ सोऽपि क्रमावर्द्धमानः स्वीकृत्य सकलाः कलाः ॥ प्रपेदे यौवनं लीला-वनं मदनभूभृतः ॥३२५॥ सुतयुक्तेऽन्यदा क्षेम-ङ्करराजे सभां श्रिते। वज्रायुधस्य सम्यक्त्व-मीशानेन्द्रोऽत्यवर्णयत् ॥३२६॥ अश्रद्दधानस्तच्चित्र-चूलो मिथ्यामतिः सुरः ॥ विवादं कर्तुमागात्तां, सभां नास्तिकतां श्रितः ॥३२७॥ पुण्यपापप्रेत्यभावा-त्मादि नास्तीति वादिनम् ॥ वज्रायुधोऽवधिज्ञानी निजगादेति तं मुदा ॥३२८॥ देव ! त्वमेवावधिना, पश्य प्राग्भवमात्मनः॥ धर्मकर्म च तत्रत्यं, सम्पदोऽस्या निबन्धनम् ॥३२९॥ पुण्ये प्राच्यभवे चैवं, सिद्धे जीवोऽपि विद्यते ॥ अभावः पुण्यपापादे-स्तत्कथं कथ्यते त्वया? ॥३३०॥ उक्तो वज्रायुधेनेति, चित्रचूलसुरोऽब्रवीत् ॥ दुर्बोधोऽपि त्वया साधु, सुबुद्धे बोधितोऽस्म्यहम् ॥३३१॥ प्रसीद बोधिरत्नं द्राग, देहि मिथ्यामतेर्मम ॥ न हीर्ण्ययाऽपि विहितं, दर्शनं विफलं सताम् ॥३३२॥ वज्रायुधस्ततस्तस्मै, सम्यक् सम्यक्त्वमादिशत् ॥ निःस्पृहाय ददौ दिव्या, भूषास्तस्मै सुरोऽपि सः ॥३३३॥ सभामीशाननाथस्य, गत्वा चैवमुवाच सः ॥ वज्रायुधस्य सम्यक्त्वं, स्थानेऽश्लाघि त्वया प्रभो ! ॥३३४॥ अथ लोकान्तिकैर्देवैरुक्तः क्षेमङ्करः प्रभुः ॥ अर्थिभ्यो वार्षिकं दानं, ददौ राज्यं च सूनवे ॥३३५॥ वज्रायुधेन देवैश्च, कृतनिष्क्रमणोत्सवः॥ प्रव्रज्य केवलज्ञानं, क्रमेण प्राप स प्रभुः ॥३३६॥ श्रुत्वा तद्देशनां वज्रा-युधस्य गृहमीयुषः ॥ उत्पत्ति
UTR-2
॥२९६॥
Page #299
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥२९७॥
अष्टादशमध्ययनम् (१८) शान्तिनाथचरित्रम् ३३७-३५९
चक्ररत्नस्या-ऽभ्यधादायुधरक्षकः ॥३३७॥ अन्यान्यपि हि रत्नानि, तदा तस्योपपेदिरे ॥ ततः स चक्रे चक्रस्य, चक्री पूजां महीयसीम् ॥३३८॥ चक्ररत्नानुगः सोऽथ, विजयं मङ्गलावतीम् ॥ साधयामास षट्खंड-मखंडाज्ञः शशास च ॥३३९॥ क्षेमङ्करजिनस्तत्र, समवासरदन्यदा ॥ चक्रिणेऽर्हन्तमायात-मूचुश्च वनपालकाः ॥३४०॥ सार्धद्वाद्वशदीनार-कोटीस्तेभ्यो वितीर्य सः ॥ गत्वा नत्वा च सर्वज्ञ-मश्रौषीद्धर्मदेशनाम् ॥३४१॥ ततो | वैराग्यमासाद्य, सद्यः सद्मगतो नृपः॥ निजे न्यवीविशद्राज्ये सहसायुधमादरात् ॥३४२॥ चतुर्भिर्निजराज्ञीनां सहसैर्भूभुजां तथा ॥ सप्तभिश्चात्मजशतैः, सहितो महितो जनैः ॥३४३॥ क्षेमङ्करप्रभोः पार्श्वे, गत्वा स व्रतमाददे ॥ तप्यमानस्तपस्तीवं, विजहार च भूतले ॥३४४॥ [युग्मम् ] सहस्रायुधराजोऽपि, राज्ये न्यस्यान्यदा सुतम् ॥ गणाधीशस्य पिहिता-श्रवस्यान्तेऽग्रहीव्रतम् ॥३४५॥ स क्रमात् श्रुतपारीणो, विहरन् पृथिवीतले ॥ समगस्तान्यदा वज्रा-युधराजर्षिणा समम् ॥३४६॥ ततश्च तौ पितापुत्रौ, स्वाध्यायध्यानतत्परौ ॥ सुचिरं रुचिरस्वान्तौ, सममेव विजह्रतुः ॥३४७॥ अधिरुह्याऽन्यदा शैल-मीषत्प्राग्भारसंज्ञकम् ॥ पादपोपगमं नामा-ऽनशनं तौ वितेनतुः | ॥३४८॥ पूर्णे च जीविते पंच-विंशत्यर्णवजीवितौ ॥ ग्रैवेयके तृतीये ता-वभूतां भासुरौ सुरौ ॥३४१॥ इतश्च जम्बूद्वीपे प्राग्-विदेहेषु महर्द्धिका ॥ विजये पुष्कलावत्या-मस्ति पू: पुण्डरीकिणी ॥३५०॥ प्रतीपभूपतेजोऽग्नि-शमनैकघनाघनः ॥ राजा घनरथस्तस्या-मभूदद्भुतविक्रमः ॥३५१॥ गङ्गागौर्याविवेशस्य, तस्याभूतामुभे प्रिये ॥
UTR-2
॥२९७॥
Page #300
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
॥२९८॥ ३
अष्टादशमध्ययनम् शान्तिनाथचरित्रम् ३५२-३६६
तत्रादिमा प्रीतिमती, द्वितीया तु मनोरमा ॥३५२॥ जीवो वज्रायुधस्याथ, च्युत्वा ग्रैवेयकात्ततः ॥ देव्याः प्रीतिमतीनाम्याः कुक्षौ समवतीर्णवान् ॥३५३॥ प्रविशन्तं तदा वक्त्रे, गर्जन्तं विद्युदञ्चितम् ॥ वर्षन्तममृतासारं, स्वप्ने मेघं ददर्श सा ॥३५४॥ प्रातः स्वप्नार्थमुर्तीश-स्तया पृष्टोऽब्रवीदिदम् ॥ सुतस्ते भविता मेघ, इव सन्तापहृद्भुवः ॥३५५॥ सहस्रायुधजीवोऽपि, ततो गैवेयकाच्च्युतः ॥ देव्या मनोरमाह्वाया, उदरे समवातरत् ॥३५६॥ सापि स्वप्ने रथं रम्यं, प्रेक्ष्य पत्ये न्यवेदयत् ॥ सोऽप्युवाच प्रिये ! भावी, सुतस्तव महारथः ॥३५७॥ पूर्णेऽथ समये ताभ्यां, प्रसूतावद्भुतौ सुतौ॥ इन्द्रोपेन्द्राविव क्रीडा-वशोपात्तभवान्तरौ ॥३५८॥ पुत्रं तत्रादिमं भूमा-नाम्ना मेघरथं जगौ ॥ परं पुनर्मूढरथं, राज्ञीस्वप्नानुसारतः ॥३५९॥ भूषयन्तौ तौ नरेन्द्र-कुलं मेरुमिवोन्नतम् ॥ बालौ क्रमादवढेतां, बालकल्पद्रुमाविव ॥३६०॥ रत्नेन काञ्चनमिव, वसन्तेनेव काननम् ॥ द्वितीयवयसा रूप-मभूष्यत तयोः क्रमात् ॥३६१॥ इतश्च निहतशत्रोः, सुमन्दिरपुरप्रभोः ॥ तिसोऽभूवन् सुता, विश्वत्रयश्रिय इवाहृताः ! ॥३६२॥ तास्वाद्या प्रियमित्राह्वा, द्वितीया तु मनोरमा ॥ तृतीया सुमतिर्नाम, जगत्त्रयमनोरमा ॥३६३॥ तत्र मेघरथायादा-नन्दने द्वे स पार्थिवः ॥ एकां पुनढूंढरथ-कुमाराय लघीयसीम् ॥३६४॥ कान्ताभिः सह ताभिस्तौ, देवीभिरिव नाकिनौ ॥ भुञ्जानौ विषयान् कालं, भूयांसमतिनिन्यतुः ॥३६५॥ बोधित: श्रीघनरथो-ऽन्यदा लोकान्तिकामरैः।। ददौ वार्षिकदानं स-द्वातैर्नुन्न इवाम्बुदः ॥३६६॥ राज्ये च यौवराज्ये च,
UTR-2
॥२९८॥
Page #301
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
॥२९९॥
ततो विन्यस्य तौ सुतौ ॥ प्रव्रज्य केवलं प्राप्य, सोऽर्हन् भव्यानबोधयत् ॥ ३६७॥ नम्रोर्व्वीशशिरः स्रस्त-माल्यपूजितपत्कजः ॥ अन्वशान्मेदिनीं मेघ- रथो द्यां मघवानिव ॥ ३६८ ॥ तस्याऽन्यदा पौषधिनः, पौषधौकसि तस्थुषः ॥ एत्य पारा - पतः कोऽपि, पपाताङ्के भयाकुलः ॥ ३६९ ॥ शरणं मार्गयन् सोऽथ, शंकुन्तो मर्त्यभाषया ॥ मा भैषीरिति राज्ञोक्त-स्तदङ्के स्थितवान् सुखम् ॥३७० ॥ मम भक्षमिदं देव ! विमुञ्चेत्युच्चकैर्वदन् ॥ तमन्वागादथ श्येनो, गरुत्मानिव भोगिनम् ॥३७१॥ नृपोऽथेत्यब्रवीदेनं, श्येन ! दास्ये न ते श्रितम् ॥ प्राणान्तेऽपि हि रक्षन्ति क्षत्रियाः शरणागतम् ॥ ३७२ ॥ अन्यच्च युज्यते नैव भवतोऽपि विवेकिनः ॥ अपहृत्य परप्राणा नेवं स्वप्राणपोषणम् ॥ ३७३ ॥ स्वजीवितं यथेष्टं ते तथान्यस्यापि तत्प्रियम् ॥ तद्रक्षसि यथात्मानं तथान्यमपि रक्ष भोः ! ॥ ३७४ ॥ भुक्तेनाप्यमुना भावि, सौहित्यं क्षणमेव ते ॥ सर्वस्याप्यायुषो नाशो, भविताऽस्य तु पक्षिणः || ३७५ || आहारेणापरेणापि, क्षुद्व्यथा क्षीयते क्षणात् प्राणिहिंसोत्थनरक-व्यथा तु न चिरादपि ॥ ३७६ ॥ तद्विमुञ्च प्राणिहिंसां, धर्ममाश्रय सन्मते ! ॥ अत्रामुत्र च येन त्वं, लभसे सुखमुत्तमम् ॥३७७॥ ततो नरेश्वरं श्येनः प्रोचे मनुजभाषया ॥ मत्तो भीतः कपोतोऽयं प्रभो ! त्वां शरणं श्रितः ॥ ३७८ ॥ क्षुत्पीडापीडितोऽहं तु ब्रूहि कं शरणं श्रये ? ॥ तदेनं रक्षसि यथा, तथा त्वं रक्ष मामपि ! ॥३७९॥ धर्माधर्मविचारोऽपि सति स्वास्थ्येऽङ्गिनां भवेत् ॥ बुभुक्षितो हि किं पापं न करोतीति न
श्रुतम् ?
१ पक्षी ॥ २ तृप्तिः ।
अष्टादशमध्ययनम्
( १८ ) शान्तिनाथचरित्रम्
३६७-३८०
UTR-2
॥२९९॥
Page #302
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३००॥
BYA
अष्टादशमध्ययनम् शान्तिनाथचरित्रम् ३८९-३९३
॥३८०॥ न चान्यैरपि भोज्यौ , तुष्टिर्भवति भूपते! ॥ सद्यो हतप्राणिपला-स्वादन करतो ह्यहम् ॥३८१॥ क्षुधया म्रियमाणस्य, तदेनं देव ! देहि मे ॥ सर्वेष्वपि महात्मानो, भवन्ति हि कृपालवः ॥३८२॥ राजाऽथ श्येनमित्यूचे, कपोतप्रमितं तव ॥ ददे स्वमांसमुत्कृत्य, मा मियेथा मुधा क्षुधा ॥३८३॥ ओमित्युक्ते तेन पारा-पतं नृपतिरेकतः तुलायां न्यास्थदुत्कृत्यो-त्कृत्य स्वामिषमन्यतः ॥३८४॥ चिक्षेप स्वपलं भूपः, छेदं छेदं यथा यथा ॥ कपोतपोतो ववृधे, वीवधेन तथा तथा ॥३८५॥ ततस्तुलामिलापालो-ऽध्यास्त शस्तमतिः स्वयम् ॥ तदा च मंत्रिमुख्यास्तं, सगद्गदमदोऽ वदत् ॥३८६॥ रक्षणीयाऽमुनाङ्गेन, महीश! निखिला मही ॥ पक्षिणो रक्षणायास्य, तद्विभो ! किं जहासि ? हा! ॥३८७॥ किञ्चेयान् वीवधो नैवा-ण्डजे सम्भवति क्वचित् ॥ किन्त्वयं कोऽपि मायावी, भावी देवोऽथवाऽसुरः! ॥३८८॥ इति तेषु वदत्स्वेव, दिव्यालङ्कारभासुरः ॥ प्रादुर्भूयाऽमरो भूप-मित्युवाच कृताञ्जलिः ॥३८९॥ धर्माच्चालयितुं मेघ-रथं नेशाः सुरा अपि ।। इति ते स्तुतिमीशान-शक्रेणोक्तामसासहिः ॥३९०॥ अधिष्ठाय खगौ वैरायुध्यमानाविमौ स्वयम् ॥ अकार्षं त्वत्परीक्षार्थ-महमेतन्महीपते! ॥३९१॥ [युग्मम् ] तन्महासत्त्व! धन्यस्त्वं यस्त्रातुं प्राणिनं परम् ॥ प्रियानपि निजप्राणां-स्तृणायापि न मन्यसे! ॥३९२॥ इत्युक्त्वा तं नृपं सज्जं, विधाय स्वर्ययौ सुरः ॥ मंत्र्यादयोऽपि तद्वीक्ष्य, विस्मयं दधुरुच्चकैः ॥३९३॥ देवः कोऽसौ पुरा किञ्च, पक्षिणो(रमेतयोः ?॥
UTR-2
॥३००॥
१भारेण
Page #303
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३०॥
अष्टादशम ध्ययनम् (१८) शान्तिनाथचरित्रम् ३९४-४०७
अथेति पृष्टस्तै पो-ऽवधिज्ञानी जगाविदम् ॥३९४॥ रामोऽपराजिताह्वोऽहं, प्राग्भवे पञ्चमेऽभवम् ॥ असौ दृढरथोऽनन्त-वीर्याख्योऽभूत्तदा हरिः ॥३९५॥ प्रतिविष्णुर्दमितारि-स्तदाऽऽवाभ्यां हतोऽभवत् ॥ भवे भ्रान्त्वा स | देवोऽसौ, बभूवाज्ञानकष्टतः ॥३९६॥ [अन्यच्च ] जम्बूद्वीपस्यैरवते, पद्मिनीषण्डपत्तने ॥ सागरदत्तेभ्यसुता-व
भूतां धननन्दनौ ॥३९७॥ वाणिज्याय गतौ तौ च, पुरे नागपुरेऽन्यदा ॥ गृध्राविव क्रव्यपिण्डं रत्नमेकमपश्यताम् ॥३९८॥ सोदरावप्ययुध्येतां, तस्य रत्नस्य लिप्सया ॥ एकद्रव्याभिलाषो हि, परमं वैरकारणम् ॥३९९॥ नदीतीरे युध्यमानौ, तन्नदे पतितौ च तौ ॥ मृत्वाऽभूतां महाटव्यां, श्येनपारापताविमौ ॥४००॥ तेन प्राग्भववैरेण युध्यमानाविहाप्यम् ॥ अधिष्ठाय स गीर्वाण-श्चक्रेऽस्माकं परीक्षणम् ॥४०१॥ तत्क्षोणीशवचः श्रुत्वा, पक्षिणावपि तौ क्षणात् ॥ जातिस्मरणमासाद्य, स्ववाचेत्यूचतुर्नुपम् ॥४०२॥ रत्नवन्नृत्वमप्यावां, तदा लोभेन हारितौ ॥ यथार्ह धर्ममादिश्या-ऽनुगृह्णात्वधुना भवान् ! ॥४०३॥ तद्विज्ञायावधिज्ञाना-द्राज्ञानशनमीरितम् ॥ प्रपद्य तौ विपद्याशु, जाती भवनपौ सुरौ ॥४०४॥ कृताष्टमं मेघरथं, प्रतिमास्थितमन्यदा ॥ तुभ्यं नमोऽस्त्विति वद-त्रीशानेन्द्रोऽनमन्मुदा ॥४०५॥ त्वयाऽपि विश्ववन्येन, कोऽसौ स्वामिन्नमस्कृतः ॥ महिषीभिस्तदा चैवं, पृष्टः स हरिरित्यवक् ॥४०६॥ नगर्यां पुण्डरीकिण्यां, श्रीमेघरथपार्थिवम् ॥ प्रतिमास्थं भाविजिनं, वीक्ष्य भक्त्याहमानमम् ॥४०७॥ ध्यानस्थितं
UTR-2
॥३०॥
१मांसपिण्डम् ।
Page #304
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३०२॥
अष्टादशमध्ययनम् शान्तिनाथचरित्रम् ४०८-४२०
महासत्त्व-ममुं मेरुमिव स्थिरम् ॥ शक्ताश्चालयितुं नैव, सेन्द्रा अपि सुरासुराः ॥ तन्महिष्यौ सुरूपाति-रूपे तां तस्य वर्णनाम् ॥ असहिष्णू तदा तत्रा-ऽऽगातां तत्क्षोभहेतवे ॥४०९॥ कामपादपकुल्याभाः, कामिनीस्ते विचक्रतुः अनुकूलोपसर्गास्ता, इति प्रारेभिरे ततः ॥४१०॥ कटाक्षविशिखैः काचि-दक्षा लक्षीचकार तम् ॥ काऽपि भूविभ्रमान् सुभुर्विदधे पिदधे त्रपाम् ॥४११॥ पीनस्तनी स्तनौ शात-कुम्भकुम्भाविवोन्नतौ ॥ कापि प्राकाशयकेश-पाशोबन्धनकैतवात् ॥४१२॥ त्रिवलीललितं मध्यं, सुमध्या काप्यदर्शयत् ॥ कापि वापीसनाभिं च, नाभि प्राकटयन्मुहुः ॥४१३॥ अस्मिन्नखपदे काञ्ची-दाम मां बहु बाधते ॥ माययेति महारोहा-रोहं कापि स्फुटं व्यधात् ॥४१४॥ हले! ऽलिना किं दष्टाह-मिहेति व्यपदेशतः ॥ उत्क्षिप्य कापि संव्यान-मूर्वोर्मूलमदीदृशत् ॥४१५॥ शृङ्गारशाखिपुष्पाभं, काचिदस्मेरयत् स्मितम् ॥ काचिज्जगौ च गीतानि, विकाराङ्कुरवारिदान् ॥ ४१६ ॥ कथामकथयत् कापि, प्रिययोगवियोगयोः॥ स्वानुभूता रतक्रीडा, वर्णिनी काप्यवर्णयत् ॥४१७॥ देहि प्रियं वचः सौम्यदृष्ट्या वीक्षस्व नः प्रभो! कण्ठे निधेहि च भुजौ, तमित्यूचुश्च काश्चन ॥४१८॥ क्षोभायेति कृतास्ताभिः कुचेष्टा निखिलां निशाम् ॥ प्रत्युतादीपयत् ध्यानं, तस्याऽऽप इव वाडवम् ॥४१९॥ मेरौ वात्या इवोर्वीशे, मोघास्ता विकृताः स्त्रियः ॥ ततः संहृत्य ते देव्यौ, नत्वा तं दिवमीयतुः ॥४२०॥ निशावृत्तेन तेनाथ, पृथ्वीनाथो विरक्तधीः॥
UTR-2
॥३०२॥
१शातकुम्भकुम्भौ स्वर्णघटौ ॥२ सुष्ठ मध्यं कटीभागं यस्याः सा सुमध्या स्त्रीत्यर्थः ।। ३ संव्यानं वस्त्रमुत्क्षिप्य ऊर्वोर्जयोर्मूलमदीदृशत् ।।
Page #305
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३०३॥
अष्टादशमध्ययनम् (१८) शान्तिनाथचरित्रम् ४२१-४३३
प्रतिमां पारयित्वागा-त्स्वधामाऽप्रतिमक्षमः ॥४२१॥ तत्राथ समवासार्षी-ज्जिनो घनरथोऽन्यदा ॥ तं चायातं निशम्यागा-त्सानुजो वन्दितुं नृपः ॥४२२॥ वैराग्यमातरं श्रुत्वा, देशनां स गृहं गतः ॥ राज्यमेतद् गृहाणेति राजाऽवरजमब्रवीत् ॥४२३॥ त्वामनुप्रव्रजिष्यामि, कृतं राज्येन तन्मम ॥ तेनेत्युक्तोऽथ पृथ्वीशो, राज्येऽस्थापयदात्मजम् ॥४२४॥ साकं दृढरथेनाथ, सुतानां सप्तभिः शतैः ॥ राज्ञां चतुःसहस्या च, गत्वा तीर्थङ्करान्तिकम् ॥४२५॥ स्वीचकार परिव्रज्यां, श्रीमेघरथपार्थिवः ॥ अधीत्यैकादशाङ्गानि, विजहार च भूतले ॥४२६॥ [ युग्मम् ] विंशत्या स्थानकैरर्ह-त्सिद्धसेवादिभिः शुभैः ॥ तीर्थकृन्नाम सत्कर्म, सोऽर्जयामास सार्ज़वः ॥४२७॥ सोऽथ कृत्वा साधुसिंहः, सिंहनिक्रीडितं तपः ॥ पूर्वलक्षं यावदुग्रं, पालयित्वा च संयमम् ॥४२८॥ आरुह्याम्बरतिलके, गिरावनशनं श्रितः ॥ आयुःक्षयेण सर्वार्थ-सिद्धे जज्ञे सुधाशनः ॥४२९॥ तद्बान्धवोऽपि समये, कियत्यपि गते सति ॥ प्रायं प्रपद्य तत्रैव, विमानेऽजनि निर्जरः ॥४३०॥
अथास्त्यत्रैव भरते, भरितं विपुलर्द्धिभिः ॥ पुरं पुरन्दरपुरो-पमं श्रीहस्तिनापुरम् ॥४३१॥ विश्वसेनो महासेनसेनाजित्वरसैनिकः ॥ तत्रासीद्भूमिसुत्रामा-ऽलकायाभि यक्षराट् ॥४३२॥ स्वाहा' स्वाहाप्रियस्यैवा-ऽचिरा तस्य | महिष्यभूत् ॥ रूपनिर्जितपौलोमी, शीलालङ्कारशालिनी ॥४३३॥ जीवो मेघरथस्याऽथ, च्युत्वा सर्वार्थसिद्धतः ॥
UTR-2
॥३०३॥
१ अनशनम् ॥२ इन्द्रः ॥३ अग्नेः ॥ ४ इन्द्राणी ॥
Page #306
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥३०४ ॥ ३
&
आगात् श्रीअचिरादेव्याः, कुक्षौ हंस इवाम्बुजे ॥ ४३४ ॥ चतुर्दश महास्वप्नान्, सुखसुप्ता तदा च सा ॥ मुखे प्रविशतोऽपश्यत्प्रशस्याकारधारिणः ॥४३५ ॥ तयाऽथ पृथिवीनाथः, पृष्टः स्वप्नार्थमित्यवक् ॥ सार्वो वा सार्वभौमो वा, भावी तव सुतः प्रिये ! ||४३६ ॥ प्राग्जातं शान्तिकाशान्तं, मारिरोगादिकं तदा ॥ प्रभुप्रभावादशिवं शशाम कुरुमण्डले ॥४३७॥ गर्भकालेऽथ सम्पूर्णे, निशीथसमये सुखम् ॥ सुषुवे सा सुतं राज्ञी, स्वर्णवर्णं मृगध्वजम् ॥४३८॥ त्रैलोक्येऽपि महोद्योतो, नारकाणां सुखं तथा ॥ क्षणं तदाभून्नित्यं हि जिनकल्याणकेष्वदः ! ॥ ४३९ ॥ ज्ञात्वाऽथासनकम्पेन, जिनजन्माऽऽगता द्रुतम् ॥ षट्पञ्चाशद्दिकुमार्यः, सूतिकर्माणि चक्रिरे ॥ ४४० ॥ अथासनास्थैर्यदत्ता - 5 - वधिज्ञानोपयोगतः ॥ ज्ञात्वाऽर्हज्जन्म शक्रोऽपि तत्रागात्सपरिच्छदः ॥४४१ ॥ नत्वा जिनं जिनाम्बां च ज्ञापयित्वाऽभिधां निजाम् ॥ दत्त्वाऽवस्वापिनीं देव्याः, प्रभो रूपान्तरं न्यधात् ॥ ४४२ ॥ पञ्चरूपाणि कृत्वाऽथ तेनैकेन जिनेश्वरम् ॥ द्वाभ्यां च चामरे ताभ्यामेकेन छत्रमुद्वहन् ॥ ४४३॥ एकेन च पुरो वज्र- मुत्क्षिपन् मघवा क्षणात् ॥ जगाम मेरुमौलिस्था - ऽतिपाण्डुकम्बलां शिलाम् ॥४४४॥ [ युग्मम् ] अङ्कन्यस्तजिनस्तत्रा - ऽध्यास्त सिंहासनं हरिः ॥ अन्येऽपि वासवाः सर्वे तत्रैयुश्चलितासनाः ॥ ४४५ ॥ ततस्तीर्थोदकैस्तीर्थकरं प्रागच्युताधिपः ॥ अभ्यषिञ्चत्तदनु च क्रमादन्येऽपि वासवाः ||४४६ ॥ अथेशानप्रभोरङ्के, जिनं विन्यस्य वज्रभृत् ॥ प्रभोश्चतुर्षु पार्श्वेषु विचक्रे
१ अर्हन् सर्वज्ञः तीर्थकर इति यावत् ॥ २ चक्री ॥ ३ शान्तिकेन शान्तिकरेणापि पूजादिविधानेन अशान्तमित्यर्थः ॥
अष्टादशमध्ययनम् शान्तिना
थचरित्रम् ४३४-४४६
UTR-2
॥३०४॥
Page #307
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम्
॥३०५॥
अष्टादशमध्ययनम् (१८) शान्तिनाथचरित्रम् ४४७-४६०
चतुरो वृषान् ॥ ४४७ ॥ तद्विषाणोद्गतैनीरैः, स्नपयामास स प्रभुम् ॥ गन्धमाल्यविभूषाभिः, पूजयित्वाऽस्तवीच्च तम् | ॥४४८॥ अथादाय जिनं शक्रो-ऽचिरादेव्यन्तिकेऽमुचत् ॥ द्रागवस्वापिनीमर्ह-त्प्रतिरूपं जहार च ॥ ४४९ ॥ विनोदाय विभोरूज़, न्यस्य श्रीदामगण्डकम् ॥ उच्छीर्षके न्यधाद्वजी क्षौम कुण्डलयामले ॥४५०॥ जिने जिनजनन्यां च, यो | दुर्ध्यास्यति, दुर्मतिः ॥ तन्मौलिः सप्तधा भावी, आर्जकस्येव मञ्जरी! ॥४५१॥ इत्युद्धोष्य सुरैरिन्द्रः, स्वर्णरत्नादिवर्षणम् ॥ श्रीदेन कारयित्वा च, द्वीपे नन्दीश्वरे ययौ ॥४५२॥ [ युग्मम् ] तत्र शाशनचैत्येषु, शक्रोऽन्येऽपि च | वासवाः ॥ अष्टाहिकोत्सवं कृत्वा, स्थानं निजनिजं ययुः ॥४५३॥ वर्धापितोऽथ दासीभि-भूपतिः पुत्रजन्मना ॥ ताभ्यो दत्त्वा भूरि दानं, प्राज्यं चक्रे महोत्सवम् ॥४५४॥ गर्भस्थेऽस्मिन् सुते शान्ति-रशिवानामभूद्भुवि ॥ इति क्षितिपतिः शान्ति-रिति तस्याभिधां व्यधात् ॥४५५॥ निहितं हरिणाङ्गुष्ठे, पिबन् पीयूषमन्वहम् ॥ अद्वैतरूपतेजःश्री-र्ववृधेऽथ जगत्पतिः ॥४५६॥ पश्यतोरालिङ्गतोश्च मौलावाजिघृतोश्च तम्॥ पित्रोः सुखमभूद्ब्रह्म-मग्नयोरिव निस्तुलम् ॥४५७॥ निशम्य मन्मनालापां-स्तस्येष्टान् धुसदामपि॥ पितरौ पीतपीयूषा-विवात्यर्थमतुष्यताम् ॥४५८॥ भूपगेहाङ्गणं स्वामी, क्रमचङ्क्रमणैः क्रमात् ॥ अलञ्चकार चटुलैः, कल्पद्रुरिव जङ्गमः ॥४५९॥ शिशुभूतैः समं देवै-चलचूलाञ्चलो विभुः ॥ पांशुलीलां व्यधाद्रम्या, शैशवे शोभते ह्यदः ॥४६०॥ क्रमाच्च स्वव
UTR-2
॥३०५॥
१ चलोऽस्थिर: चूलाया मस्तकमध्यशिखाया अञ्चल: प्रान्तभागो यस्य स तथा ।
Page #308
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३०६॥३
अष्टादशमध्ययनम् शान्तिनाथचरित्रम् ४६९-४७५
| पुर्योगा-द्यौवनं भूषयन्विभुः ॥ चत्वारिंशद्धनुस्तुंगो, विश्वं विश्वममोदयत्! ॥४६१॥ पित्रोराज्ञेत्युपायंस्त, जिनो राजाङ्गजास्ततः ॥ यशोमत्यादिका धन्यं-मन्यास्तादृग्धवाप्तितः ॥४६२॥ यातेष्वब्दसहसेषु, जन्मतः पञ्चविंशतौ ॥ राजा राज्ये न्यस्य शान्तिं, निजं कार्यमसाधयत् ॥४६३॥ जिनोऽपि बुभुजे भोगान्, पुरन्ध्रीभिः सहोत्तमान् ॥ कर्मभोगफलं ह्येव-मेवापैति निकाचितम् ॥४६४॥ जीवो दृढरथस्याथ, सर्वार्थादन्यदा च्युतः ॥ आगाद्यशोमतीकुक्षौ, स्वप्ने चक्रं प्रदर्शयन् ॥४६५॥ पृष्टस्तयाऽथ स्वप्नार्थं, जगादेति जगत्पतिः ॥ तव देवी सुतो भावी, जङ्गमं विश्वमण्डनम् ॥४६६॥ पूर्णे च समये पुत्रं, सुषुवे सा सुलक्षणम् ॥ स्वामिस्वप्नानुसारात्तं, चक्रे चक्रायुधाभिधम् ॥४६७॥ क्रमेण वर्द्धमानोऽथ, सोपि यौवनमासदत् ॥ बह्वीपतिपुत्रीश्च, पर्यणैषीत् स्वयंवराः ॥४६७॥ नृपत्वेऽपि सहसेषु, शरदां पञ्चविंशतौ ॥ गतेषु शस्त्रशालायां, चक्रं प्रादुरभूत् प्रभोः ॥४६९॥ चक्रपूजां कारयित्वा, ततस्तदनुगो विभुः ॥ लीलया साधयामास, षटखण्डमपि भारतम् ॥४७०॥ द्वात्रिंशता सहसैर्भू-भुजां सेवितपत्कजः ॥ कृतारिशान्तिः श्रीशान्ति-हस्तिनापुरमाययौ ॥४७१॥ ततो देवैर्नृदेवैश्च, स्वामिनो द्वादशाब्दिकः ॥ चक्रे चक्रित्वाभिषेको, मोदयन् जगतीजनम् ॥४७२॥ अथान्तःपुरकान्ताव-च्चक्रवर्त्तिश्रियं प्रभुः ॥ भुञ्जानो व्यत्यगादब्दसहसान्यञ्चविंशतिम् ॥४७३॥ तीर्थं प्रवर्त्तयेत्युक्तो, लोकान्तिकसुरैरथ ॥ निर्निदानं ददौ दान-माब्दिकं जगदीश्वरः ॥४७४॥ राज्ये चक्रायुधं न्यस्य, सर्वार्था शिबिकां श्रितः॥ सुरासुरनराधीश-कृतनिष्क्रमणोत्सवः ॥४७५॥
UTR-2
॥३०६॥
Page #309
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३०७॥ |*
अष्टादशमध्ययनम् (१८) शान्तिनाथचरित्रम् ४७६-४८८
गत्वा सहस्राम्रवणे, याप्ययानादवातरत् ॥ समं राज्ञां सहस्रेण, प्रावाजीच्च जिनेश्वरः ॥४७६॥ [ युग्मम् ] लेभे मनःपर्ययाहू, तुर्यज्ञानं प्रभुस्तदा ॥ विजहार च भूपीठे-ऽप्रतिबद्धः समीरवत् ॥४७७॥ वर्षान्ते च पुनः प्राप्तः, सहसाम्रवणं विभुः ॥ शुक्लध्यानं श्रितः प्राप, केवलज्ञानमुज्ज्वलम् ॥४७८॥ तत आसनकम्पेन, तत्राऽऽयाताः सुरासुराः ॥ चक्रुः समवसरणं प्राकारत्रयमञ्जुलम् ॥ ४७९ ॥ पूर्वद्वारेण तत्राथ, प्रविश्य भुवनप्रभुः ॥ धर्ममाख्यातुमारेभे, पूर्वसिंहासनस्थितः ॥४८०॥ तदा च व्यन्तरैः स्वामि-प्रतिमास्त्रिदिशं कृताः ॥ प्रभुप्रभावात्तदनु-रूपरूपत्वमासदन् ॥४८१॥ उद्यानपालकाः सद्य-स्ततो गत्वा न्यवेदयन् ॥ स्वामिनः केवलोत्पत्तिं, चक्रायुधमहीभुजे ॥४८२॥ ततस्तेभ्यः प्रीतिदानं, दत्वा सोत्यर्थमुत्सुकः ॥ गत्वा नत्वा जिनं स्तुत्वा-ऽश्रौषीद्धर्म समाहितः ॥४८३॥ देशनान्ते जिनं नत्वा, प्रोवाचेति महीपतिः॥ दिष्ट्या दृष्टोऽसि नाथ! त्वं, कारुण्यामृतसागरः ॥४८४॥ अस्माच्छलान्विषो भीत-भीतं मां भवराक्षसात् ॥ दीक्षारक्षाप्रदानेना-ऽनुगृहाण द्रुतं विभो! ॥४८५॥ स्वामिनाऽनुमतः सोऽथ, राज्यं न्यस्याङ्गजे निजे ॥ पंचत्रिंशन्नृपयुतः, प्राव्राजीन्जिनसन्निधौ ॥४८६॥ तांश्च षट्त्रिंशतं शान्ति-नाथो गणधरान् व्यधात् ॥ त्रिपद्या अनुसारेण, द्वादशाङ्गीविधायिनः ॥४८७॥ नरा नार्यश्च बहवो-ऽपरेऽपि प्राव्रजस्तदा ॥ श्राद्धाः केप्यभवंश्चेति, तीर्थं तीर्थङ्करोऽकरोत् ॥४८८॥ ध्वंसयन् दुर्मतध्वान्तं, भव्याब्जानि प्रबोधयन् ॥ व्योम्नि भास्वानिव
UTR-2
॥३०७॥
१ समवायाङ्गाभिप्रायेण श्रीशान्तिनाथस्य नवतिर्गणधरा दृश्यन्ते, षट्त्रिंशच्चावश्यकादिबहुग्रन्थाभिप्रायेण, तदत्र तत्त्वं केवलिनो विदन्तीति ध्येयम् ।
Page #310
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३०८॥३
अष्टादशमध्ययनम् शान्तिनाथचरित्रम् ४८९-४९६
स्वामी, विजहार चिरं भुवि ॥४८९॥ श्रमणानां सहस्राणि द्वाषष्टिरभवन् विभोः॥ एकषष्टिः सहस्राणि, साध्वीनां षट् शतानि च ॥४९०॥ लक्षद्वयं च नवति-सहस्राढ्यमुपासकाः॥ लक्षत्रयं त्रिनवति-सहस्रारमुपासिकाः ॥४९१॥ संघो गुणोदधिरिति, प्रभोज॑ज्ञे चतुर्विधः ॥ धर्म प्रभावयन्नुच्चै-चतुर्भेदं चतुर्दिशम् ॥४९३॥ दीक्षादिनात् प्रभृत्यब्द-सहस्रायंचविंशतिम् ॥ विहृत्य भुवि संमेत-पर्वतं भगवानगात् ॥४९३॥ तत्र चानशनं सार्द्ध साधूनां नवभिः शतैः ॥ प्रभुः प्रपद्य मासेन, सिद्धिसौधमभूषयत् ॥४९४॥ कौमारे मण्डलित्वे च, चक्रित्वे संयमेऽपि च ॥ लक्षतुर्यांश इत्यब्द-लक्षायुरभवद्विभोः ॥४९५॥ शान्तत्रिलोकवृजिनस्य जिनस्य शान्ते-श्चक्रे विमुक्तिमहिमाथ सुरासुरेशैः ॥ चक्रायुधोऽपि भगवान् वृतकेवलश्री-भेंजेऽन्यदा प्रियतमां शुभसिद्धिलक्ष्मीम् ॥४९६॥ इति शान्तिनाथ
चरितलेशः ॥३८॥ | मूलम्-- इक्खागरायवसभो, कुंथू नाम नराहिवो । विक्खायकित्ती भयवं, पत्तो गइमणुत्तरं ॥३९॥
व्याख्या-- स्पष्टं, कथालेशस्त्वेवम्
अत्रैव जम्बूद्वीपे प्राग्-विदेहेषु पुराऽभवत् ॥ आवर्तविजये खड्गि-पुर्यां सिंहावहो नृपः ॥१॥ सोऽन्यदा व्रतमादत्त, संवराचार्यसन्निधौ ॥ जिनसेवादिभिः स्थानैः, तीर्थकृत्कर्म चार्जयत् ॥२॥ चिरं पवित्रं चारित्रं, प्रपाल्यानशनं श्रितः ॥ आयुःक्षयेण सर्वार्थ-सिद्धे सोऽभूत्सुधाशनः ॥३॥ इतश्चात्रैव भरते, पुरे श्रीहस्तिनापुरे ॥ भूपो बभूव
गाथा ३९
कुंथुना
थचरित्रम् १३०८॥
Page #311
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३०९॥
अष्टादशमध्ययनम् (१८) कुंथुनाथचरित्रम् ४-१८
सूराह्वः, श्रीसंज्ञा तस्य च प्रिया ॥४॥ सिंहावहस्य जीवोऽथ, च्युत्वा सर्वार्थसिद्धतः ॥ कुक्षौ चतुर्दशस्वप्ना-ऽऽवेदितोऽवातरत् श्रियः ॥५॥ क्रमाच्च साऽसूत सुतं, छागाङ्कं काञ्चनच्छविम् ॥ दिक्कुमार्यो व्यधुस्तस्य, सूतिकर्म तदाऽऽगताः ॥६॥ जन्माभिषेकं मेरौ च, तस्येन्द्राः चक्रिरेऽखिलाः ॥ तुष्टोऽन्वतिष्ठद्भूपोऽपि, पुत्रजन्ममहामहः ॥७॥ गर्भस्थेऽस्मि कुंथुभावं, भेजिरे निखिला द्विषः ॥ स्वप्ने च जननी कुस्थं, रत्नस्तूपं ददर्श यत् ॥८॥ तत्कुंथुरिति तस्याख्या-मुत्सवैर्निर्ममे नृपः ॥ विश्वोत्तरगुणाधारः, क्रमात्स ववृधे विभुः ॥९॥ यौवने राजकन्या राट्, समं तेनोदवाहयत् ॥ तस्मै वितीर्य राज्यं चा-ऽन्यदा पर्यव्रजस्वयम् ॥१०॥ श्रीकुंथुस्वामिनः प्राज्यं, राज्यं पालयतस्ततः ॥ चक्रमायुधशालाया-मन्येधुरु दपद्यत ॥११॥ ततश्चक्रानुगः सर्वं, विजिग्ये भरतं प्रभुः ॥ चक्रिश्रियं च स्त्रीरत्न-मिवोपबुभुजे चिरम् ॥१२॥ अथ लौकान्तिकैर्देवैः, स्वयम्बुद्धः स बोधितः ॥ राज्यं पुत्राय दानं च, ददौ वार्षिकमर्थिनाम् ॥ १३ ॥ ततो नरेन्द्रैरिन्द्रैश्च, कृतनिष्क्रमणोत्सवः ॥ आरुह्य शिबिकां स्वामी, सहस्राम्रवणं गतः ॥ १४॥ महीपतिसहस्रेण, सह व्रतमुपाददे ॥ मनःपर्ययसंज्ञं च, तुर्यज्ञानं तदाऽऽसदत् ॥१५॥ [ युग्मम्] विभुर्भारु ण्डपक्षीवा-ऽप्रमत्तो विहरन् भुवि।। आगात् षोडशभिर्वर्षेः, सहस्रामवणं पुनः ॥१६॥ तत्र च स्वामिनाऽवाप्ते, केवले हरयोऽखिलाः ॥ आगत्य चक्रुः समव-सरणं शरणं श्रियाम् ॥ १७ ॥ पञ्चत्रिंशद्धनुस्तुङ्गः, पञ्चत्रिंशत्गुणाढ्यया ॥ गिरा दिदेश तत्रेशो, धर्म सिंहासने स्थितः ॥ १८ ॥ तं निशम्य प्रभोः पार्श्वे, प्राव्रजन् बहवो जनाः॥ तेषु चास्थापयत्पञ्च-त्रिंशतं
UTR-2
॥३०९॥
Page #312
--------------------------------------------------------------------------
________________
अष्टादशमध्ययनम् कुंथुनाथचरित्रम् १९-२३
उत्तराध्य
|| गणिनो जिनः ॥१९॥ षष्टिः सहस्रा वतिनां, साध्वीनां ते सषट्शताः ॥ एकोनाशीत्या सहस्र-र्युक्तं लक्षमुपासकाः यनसूत्रम्
॥२०॥ एकाशीतिसहस्राग्रं लक्षत्रयमुपासिकाः। एवं चतुर्विधस्संघ:, प्रभोविहरतोऽभवत् ॥२१॥ [ युग्मम् ] ॥३१०॥३|
कौमारराज्यचक्रित्व-चारित्रेषु समांशकम् ॥ जीवितं पञ्चनवति-सहस्राब्दान्यभूद्विभोः ॥ २२ ॥ समं सहस्रेण मुनीश्वराणां, संमेतशैलेऽनशनं प्रपन्नः ॥ मासेन सोऽर्हन् शिवमाससाद, सुरेश्वरैस्तन्महिमा च चक्रे ॥२३॥ इति श्रीकुंथुनाथकथा ॥ ३९ ॥ मूलम्--सागरंतं चइत्ता णं, भरहं नरवरीसरो । अरोवि अरयंपत्ती, पत्तो गइमणुत्तरं ॥४०॥
व्याख्या-- व्यक्तं नवरं 'अरयंपत्तोत्ति' रजसः कर्मणोऽभावोऽरजस्तत्प्राप्तः, प्राप्तो गतिमनुत्तराम् । तद्वत्तलेशस्त्वेवम्
जम्बूद्वीपप्राग्विदेहे; वत्साह्वविजयेऽभवत् ॥ निःसीमविक्रमः सीमा-पूर्यां धनपतिर्नृपः ॥१॥ संवराह्वमुनेः पार्श्वे, प्राव्रजत् सोऽन्यदा मुदा ॥ स्थानरर्हद्भक्तिमुख्यै-राजयज्जिननाम च ॥ २॥ चिरं तप्त्वा तपस्तीव्र, प्रपाल्य व्रतमुत्तमम् ॥ प्रायं प्रपद्य स सुरो, जज्ञे ग्रैवेयकेऽन्तिमे ॥३॥ इतश्च भरतेऽत्रैव, श्रीहास्तिनपुरेऽभवत् ॥ राजा सुद
र्शनो लोक-दर्शनानन्दिदर्शनः ॥४॥ देवीसंज्ञाऽभवद्देवी, तस्य देवीव सुन्दरा ॥ जीवो धनपतेश्च्युत्वा, तस्याः कुक्षा| ववातरत् ॥५॥ चतुर्दश महास्वप्नां-स्तदा राज्ञी ददर्श सा । ज्ञानत्रयधरस्तस्या, गर्भोऽपि ववृधे सुखम् ॥६॥
गाथा४०
अरनाथचरित्रम्
UTR-2
॥३१०॥
१ त्रिंशद्गणधरान् जिनः ।। इति 'घ' संज्ञकपुस्तके चतुर्थपादः ॥
Page #313
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३१॥
अष्टादशमध्ययनम् (१८) अरनाथचरित्रम् ७-२०
क्रमाच्च नन्दनं नन्द्या-वर्ताक्षं काञ्चनद्युतिम् ॥ असूत सा महादेवी, महासेनमिवाद्रिजा ॥७॥ सूतिकर्माणि तस्याथ, दिक्कुमार्यो वितेनिरे ॥ चक्रे जन्माऽभिषेकश्चा-ऽखिलैरिन्द्रैः सुराचले ८॥ स्वप्ने रत्नारकं माता-ऽपश्यदित्यस्य पार्थिवः ॥ अर इत्यभिधां चक्रे, कृत्वा जन्ममहोत्सवम् ॥९॥ क्रमाच्च कलयन् वृद्धि, त्रिंशच्चापोच्चभूघनः ॥ पित्राज्ञयाऽङ्गजा राज्ञां, पर्यणैषीत्स यौवने ॥१०॥ अन्येद्युः पितुरादेशात्, दधौ राज्यधुरं जिनः ॥ जातचक्रादिरत्नश्चाऽखिलं भरतमन्वशात् ॥११॥ चक्रिश्रियं चाऽनासक्तो-ऽभुङ्क्त योगीव भोजनम् ॥ लोकांतिकैर्बोधितश्चा-ऽन्यदाऽदाद्दानमाब्दिकम् ॥१२॥ राज्यं नियोज्य पुत्रे च, शिबिकासंस्थितो विभुः ॥ ययौ सहस्राम्रवणं, सुरासुरनरैर्वृतः ॥१३॥ सह राजसहस्रेण, प्रावाजीत्तत्र तीर्थकृत् ॥ तदा मनःपर्ययाआँ, तुर्यज्ञानमवाप च ॥१४॥ इभारातिरिवाभीतः, पृथिव्यां विहरन् विभुः ॥ भूयोऽप्यागात्सहस्राम्र-वणं संवत्सरैस्त्रिभिः ॥१५॥ तदा चाभ्युदिते भर्तुः, केवलज्ञानभास्करे ॥ समे समेत्य समव-सरणं वासवा व्यधुः ॥१६॥ वाण्या योजनगामिन्या, सर्वभाषानुयातया ॥ पूर्वसिंहासने तत्रा-ऽऽसित्वा धर्म जगौ जिनः ॥१७॥ तं चाकर्ण्य जिनाभ्यणे, नैके पर्यव्रजन् जनाः ॥ त्रयस्त्रिंशद्गणधराः, स्वामिना तेषु चक्रिरे ॥१८॥ श्रमणानां प्रभोः पंचा-शत्सहस्राणि जज्ञिरे ॥ श्रमणीनां पुनः षष्टि-सहस्राणि महात्मनाम् ॥१९॥ लक्षं चतुरशीत्या च, सहस्त्रैर्युक्तमास्तिकाः ॥ द्वासप्ततिसहस्रागं, लक्षत्रयमुपासिकाः
UTR-2
॥३११॥
१ कार्तिकेयम् । २ सिंहः । ३ सर्वे । ४ त्रयस्त्रिंशद्गणधरान्, तेषु चास्थापयत् प्रभुः ॥ इति 'घ' पुस्तके ।।
Page #314
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३१२॥
अष्टादशमध्ययनम् अरनाथचरित्रम् २१-२४ गाथा ४९
॥२०॥ अनुग्रहीतुं भविनो, भूमौ विहरतोऽर्हतः ॥ सङ्घश्चतुर्विध इति, जज्ञे गुणमणीनिधिः ॥२१॥ समभागं कुमारत्वा-दिके स्थानचतुष्टये ॥ आयुश्चतुरशीत्यब्द-सहस्राणि प्रभोरभूत् ॥२२॥ निर्वाणकालं ज्ञात्वाऽथ, गत्वा सम्मेतपर्वते ॥ सह साधुसहस्रेणा-ऽनशनं विदधेऽधिपः ॥२३॥ एकेन मासेन स सार्वसार्व-भौमो महानन्दपदं ततोऽगात् ॥ निर्वाणकाले च समेत्य तस्य, सवितेने महिमा सुरेशैः ॥ २४ ॥ इति श्रीअरनाथकथा ॥ ४०॥ मूलम्-- चइत्ता भारहं वासं, चक्कवट्टी महिड्डीओ । चइत्ता उत्तमे भोए, महापउमो तवं चरे ॥४१॥
व्याख्या-- सुगमं । तच्चरितं त्वेवम्--
अत्रैव भरतक्षेत्रे, श्रीहास्तिनपुरेऽभवत् ॥ इक्ष्वाकुवंशकासार-पद्मं पद्मोत्तरो नृपः ॥१॥ तस्य ज्वालाभिधा राज्ञी, बभूव परमार्हता ॥ तस्याश्चैकः सुतो विष्णुः, सिंहस्वप्नेन सूचितः ॥२॥ पद्मासद्ममहापद्म-नामान्यश्च सुतोऽजनि ॥ तस्याश्चतुर्दशस्वप्न-सूचितो निचितो गुणैः ॥३॥ कलाकलापं सकलं, कलाचार्यादधीत्य तौ ॥ द्वितीयमद्वितीयश्रीवयस्यं प्रापतुर्वयः ॥४॥ तत्र पद्मं जिगीषुत्वा-द्यौवराज्ये न्यधात्पिता ॥ विप्रेषु प्राज्ञवाजैत्रः, क्षत्रियेषु हि शस्यते ॥५॥ इतश्चोज्जयिनीपुस्, श्रीवासीन्महीपतिः ॥ मन्त्री तु तस्य नमुचि-वितण्डापण्डितोऽभवत् ॥६॥ तस्यां नगर्यामन्येद्यु-विहरन् समवासरत् ॥ मुनिसुव्रतनाथस्य, शिष्यः सुव्रतसूरिराट् ॥७॥ तं नन्तुं व्रजतो वीक्ष्य, पौरान् सौधोपरिस्थितः ॥ अमी जनाः क्व यान्तीति, नमुचिं पृष्टवान्नृपः ॥८॥ देवाद्योपवने केऽपि, श्रमणाः सन्त्युपागताः ॥
महापद्मचक्रिकथा
१-८
UTR-2
॥३१२॥
Page #315
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
॥३१३॥
१५
१८
२१
२४
तान्नन्तुं यान्ति तद्भक्ता, इत्यूचे सचिवस्ततः ॥ ९ ॥ तत्र यामो वयमपी-त्युक्ते राज्ञाऽथ सोऽब्रवीत् ॥ यद्येवं तर्हि तत्रेशैः, स्थेयं मध्यस्थवृत्तिभिः ॥ १० ॥ पाखण्डिनोऽखिलान्वादे, स्वामिन् ! जेष्यामि तानहम् ॥ ओमित्युक्त्वा ततो राजा, समंत्री तद्वनं ययौ ॥ ११ ॥ धर्मं चेद्वित्थ तद्ब्रूते-त्यूचे च नमुचिर्मुनीन् ॥ क्षुद्रोऽयमिति विज्ञाय, ते तु तूष्णीकतां दधुः ॥ १२ ॥ ततः स शासनं जैनं निन्दन्नुद्दिश्य सद्गुरून् ॥ गौरयं किमु वेत्तीति व्यब्रवीत्सचिब्रुवः ॥ १३ ॥ मुखं कण्डूयते ते चेत्, तत्किंचिद्ब्रूमहे वयम् ॥ अथेति गुरुभिः प्रोक्ते, तानेकः क्षुल्लको जगौ॥ १४ ॥ अनेन सह धृष्टेन वक्तुं युक्तं न वः स्वयम् ॥ विजेष्ये ह्यहमेवामुं, स्वपक्षं तद्वदत्वयम् ॥२५॥ क्रुद्धः सोऽथावदद्वेद- बाह्याः शौचविवर्जिताः ॥ देशे वासयितुं नार्हा, यूयं पक्षोऽयमस्तु मे ॥ १६ ॥ प्रत्यूचे क्षुल्लको वारि, कुम्भल्ली प्रमार्जनी ॥ कण्डणी पेषणीत्युक्ताः, पञ्च शूनाः श्रुतिष्वहो ! ॥ १७ ॥ ये हि शूना भजन्त्येता, वेदबाह्याः त एव हि । तद्वर्जितानामस्माकं तत्कथं वेदबाह्यता ? ॥१८॥ अशौचं तु रेतं तस्य सेवकश्चाशुचिर्मतः ॥ सुरताद्विरतास्तस्मात्कस्मादशुचयो वयम् ॥१९॥ निरुत्तरीकृत इति, क्षुल्लकेन स धीसखः ॥ वैरं महद्वहन् साधुष्वगाद् गेहं नृपान्वितः ॥ २० ॥ निशायां च मुनीन् हन्तुं क्रोधान्धः स वने गतः ॥ धावन्निहन्तुमस्तम्भि, देव्या निर्ग्रन्थभक्तया ॥२१॥ प्रातश्च तं तथा प्रेक्ष्य विस्मिता नागरा नराः ॥ नृपश्च धर्मं सूरिभ्यो, निशम्योपशमं ययुः
१ प्राणिवधस्थानानि । "पञ्च शूना गृहस्थस्य, चूल्ली पेषण्युपस्करः । कण्डनी चोदकुम्भश्च बध्यते यास्तु वाहयन् ॥'' [ मनुः ]
२ कामम् ॥
अष्टादशम
ध्ययनम्
(१८)
महापद्म
चक्रिकथा ९-२२
UTR-2
॥३१३ ॥
Page #316
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥३१४॥
॥२४॥
॥२२॥ निन्द्यमानो जनैः सर्वै विलक्षो नमुचिस्ततः ॥ देव्या मुक्तो ययौ लज्जा- विहस्तो हस्तिनापुरम् ॥२३॥ सोऽथ तत्र महापद्म- युवराजेन सङ्गतः || तदमात्यपदं प्राप, पापोऽपि प्राच्यपुण्यतः ! इतश्चासीत्प्रान्तवासी, दुर्गमं दुर्गमाश्रितः ॥ नृपः सिंहबलः सिंहः, इव प्रबलविक्रमः ॥ २५ ॥ स च प्रदायाव स्कन्दं, पद्मदेशे मुहुर्मुहुः ॥ स्वदुर्गं प्राविशत्तं च ग्रहीतुं कोऽपि नाशकत् ॥ २६ ॥ धर्तुं सिंहबलं जाना- स्युपायं कंचिदित्यथ ॥ पृष्टो रुष्टेन पद्मेन, वेद्यीति नमुचिर्जगौ ॥२७॥ ततो मुदा महापद्मे - नादिष्टः स गतो द्रुतम् ॥ भंक्त्वा दुर्गं सिंहबलं बलाद्बद्ध्वा समाययौ ॥२८॥ ततो वरं वृणीष्वेति प्रोक्तः पद्मेन संमदात् ॥ ऊचे नमुचिरादास्ये, काले वरममुं विभो ! ॥२९॥ तत्प्रपद्य चिरं पद्मो, यौवराज्यमपालयत् ॥ ज्वालादेव्याऽथ तन्मात्रा-5कारि जैनरथोऽन्यदा ॥३०॥ मिथ्यादृष्टिस्तत्सपत्नी, लक्ष्मीर्ब्रद्मरथं तदा ॥ विधाप्योचे नृपं ब्रह्म-रथः प्राग् भ्रम्यतां पुरे ॥ ३१ ॥ ततो ज्वाला लपद्भूपं न चेज्जैनरथोऽग्रतः ॥ पुरे भ्रमिष्यति तदा, करिष्येऽनशनं ध्रुवम् ॥३२॥ द्वयोरपि स्यन्दनयो-र्यात्रां राजाऽरुणत्ततः ॥ मातुर्दुःखेन तेनाथ, पद्मोऽभूद्भृशमातुरः ! ॥३३॥ दध्यौ चेति स्पृहा मातुः मादृशेऽपि सुते सति ॥ व्यलीयत मनस्येव कदर्य श्रीरिवाबनौ ! ॥३४॥ सुपुत्रत्वाभिमानं हि कथंकारं कसेपूरयति, न मातुः सन्मनोरथान् ! ॥ ३५ ॥ कृतः पित्रापि मन्मातु- विशेषः कोऽपि न मानं विनेहाऽवस्थितिः शुभा ! ||३६|| ध्यात्वेति सुप्ते लोके सः, निर्गत्य स्वपुरा
तु सः ? ॥ शक्तोऽपि यः ह्यो ! ॥ तन्मानिनो न मे
अष्टादशम
ध्ययनम्
महापद्मचक्रिकथा २३-३६
UTR-2
॥३१४ ॥
Page #317
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३१५॥
अष्टादशमध्ययनम् (१८) महापाचक्रिकथा ३७-४९
निशि ॥ भ्रमन् स्वैरमरण्यान्त-स्तापसाश्रममासदत् ॥३७॥ वल्लभाभ्यागतैस्तत्र, तापसैः कृतसत्कृतिः ॥ सुखं प्रववृते स्थातुं, महापद्मः स्वसद्मवत् ॥३८॥
इतश्चाजनि चम्पायां, भूजानिर्जनमेजयः ॥ स च कालेन राज्ञाऽऽजौ, पराभूतः पलायत ! ॥३९॥ ततः पुरे भज्यमाने, नेशुर्लोका दिशोदिशम् ॥ अन्तःपुरमहेलाश्चा-ऽन्तरा त्रातारमातुराः ! ॥४०॥ तदा चम्पापतेः पत्नी नष्टा नागवती द्रुतम् ॥ स्वपुत्र्या मदनावल्या, सममागात्तमाश्रमम् ॥४१॥ तदा च पद्ममदना-वल्योरन्योन्यदर्शनात् ॥ क्षणादाविरभूद्रागो, मन्दाक्षं मन्दतां नयन् ! ॥४२॥ तद्विज्ञाय जगौ नाग-वतीति मदनावलीम् ॥ पुरुषे यत्रतत्राऽपि, सुते ! किमनुरज्यसे ? ॥४३॥ भाविनी चक्रिणो मुख्य-पत्नीत्वमिति भाषितम् ॥ ज्ञानिनो विस्मृतं किं ते ? यद्भवस्येवमुत्सुका ! ॥४४॥ मिथोरक्ताविमौ कार्की, विप्लवं मेति चिन्तयन् ॥ स्थानं यथेष्टं याहीति, पद्मं कुलपति गौ ॥४५॥ तदाकर्ण्य ततः पद्मो, निर्ययौ विमना मनाक् ॥ अभीष्टानां वियोगो हि, महतामपि दुःसहः ! ॥४६॥ नूनमेषा ममैव स्त्री, भाविनी भाविचक्रिणः ॥ तत्साधयित्वा भरतं, परिणेष्याम्यमूं कदा ? ॥४७॥ विधाप्याहतचैत्यैश्च, मण्डितामखिलामिलाम् ॥ पूरयष्येि कदा मातू, रथयात्रामनोरथम् ? ॥४८॥ इत्थं मनोरथरथा-ऽधिरूढो भूपभूस्ततः ॥ श्रीसिन्धुनन्दनपुरो-पवनं प्राप पर्यटन् ॥४९॥ [ त्रिभिर्विशेषकम् ]
UTR-2
॥३१५॥
१ लज्जाम् । २ उपद्रवम् ।।
Page #318
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३१६॥
अष्टादशमध्ययनम् महापद्मचक्रिकथा ५०-६२
तत्र चोद्यानिकायात-क्रीडन्नागरयोषिताम् ॥ निशम्य तुमुलं हस्ती, महासेनमहीशितुः ॥५०॥ स्तम्भमुन्मूल्य मिण्ठौ च, व्यापाद्य व्यालतां गतः ॥ अनु ता नागरीरागा-द्रागाकुल इव क्षणात् ॥५१॥ [ युग्मम् ] ततोऽतिभीता नशितु-मनीशास्ताः स्त्रियोऽखिलाः ॥ पूच्चक्रुरिति यो ह्यत्र, वीरोऽस्मान्यातु पातु सः! ॥५२॥ ताश्च पूत्कुर्वती: प्रेक्ष्य, पद्मो व्यालं ततज तम् ॥ अवलिष्ट ततः सोऽपि, तम्प्रति प्रतिघाकुलः ॥५३॥ तमायान्तं स्खलयितुं, पटं पद्मोऽन्तराऽक्षिपत् ॥ मोऽयमिति तत्रापि, क्रोधान्धः प्राहरत्करी ! ॥५४॥ कोलाहलैस्तदा चोग्रैः, पौरलोकोऽखिलोऽमिलत् ॥ महासेनमहीशश्च, समं सामन्तमंत्रिभिः ॥५५॥ क्रुद्धात्कालादिव व्याला-दस्मादपसराशु भोः ! महापद्मं महासेन, इत्युबाहुस्तदाऽवदत् ॥५६॥ पद्मः स्माह महाराज ! पश्य स्वच्छमना क्षणम् ॥ मत्तं मतङ्गजम, वशीकुर्वे वशामिव ! ॥५७॥ इत्युक्त्वा ताडितो मुष्टया, तेन स न्यग्मुखो गजः ॥ यावन्मुक्त्वा पटीवेधं, तं ग्रहीतुं समुत्थितः ॥५८॥ तावत्स विद्युदुत्क्षिप्त-करणेनारुरोह तम् ॥ चिरं चाखेदयत्पाणि-पादाङ्गुष्ठवचोऽङ्कुशैः ॥५९॥ तं .च व्यालं कलभवत्, क्रीडयन्तं समीक्ष्य तम् ॥ विस्मयं भेजिरे पौरा, नृपतिश्च वचोऽतिगम् ॥६०॥ दत्त्वा हस्तिपकायाथ, हस्तिनं तं वशीकृतम् ॥ भूधरादिव पारिन्द्रः, पद्मस्तस्मादवातरत् ॥६॥ धाम्ना स्थाम्ना च तं श्रेष्ठ-कुलभूरिति भूपतिः ॥ निश्चिकाय निजं धाम, निनाय च सगौरवम् ॥६२॥ तस्मै कृतोपचाराय,
UTR-2
॥३१६॥
१ सिंहः ।।
Page #319
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥३१७॥
१५
d
ददौ कन्याशतं नृपः ॥ पुण्यैरगण्यैर्जामाता प्राप्यते खलु तादृशः ! ॥ ६३ ॥ क्रीडंस्ताभिः समं नायं, व्यस्मरन्मदनावलीम् ॥ भृङ्गो लवंगीभोगेऽपि किं विस्मरति पद्मिनीम् ? ॥६४॥ खेचर्या वेगवत्या स निशि सुप्तोऽन्यदा हृतः ॥ प्रबुद्धो बद्धमुष्टिस्तां, किं रे ! मां हरसीत्यवक् ॥ ६५ ॥ साप्यूचे शूर ! हरण - कारणं शृणु मा कुपः ! ॥ वैताढ्य - पर्वते सूरो-दयं नामास्ति सत्पुरम् ॥६६॥ तत्र चेन्द्रधनुःसंज्ञो विद्यते खेचरेश्वरः ॥ श्रीकान्ता तद्वधूः पुत्री, जयचन्द्रा तयोः शुभा ॥६७॥ पुरुषद्वेषिणी साभू-दप्राप्य प्रवरं वरम् ॥ दुःखाकरो हि दक्षाणां स्त्रीणां हीनः पतिर्भुशम् ॥६८॥ पटेषु भरतस्थानां, रूपाण्यालिख्य भूभुजाम् ॥ अदर्शयमहं तस्यै, न किमप्यरुचत्परम् ॥६९॥ पटे मयाऽन्यदा रूपं तवालिख्य प्रदर्शितम् ॥ तस्याश्चित्तमयस्कान्त- मणिर्लोहमिवाकृषत् ! ॥७०॥ चेदयं दयितो न स्यात्, तदाहमनलं श्रये ॥ इति प्रत्यशृणोत्साऽथ मत्वा त्वां खलु दुर्लभम् ! ॥ ७१ ॥ तस्यास्तस्यां प्रतिज्ञायां ज्ञापितायां मया रयात् ॥ त्वामानेतुं तत्पितृभ्यां हृष्टाभ्यां प्रहितास्म्यहम् ॥७२॥ तमानये न चेत्तर्हि, वह्नावह्नाय याम्यहम् ॥ तामाश्वासयितुं कन्या- मित्युक्त्वेहागमं ततः ॥ ७३ ॥ तां पद्मीनीं मोदयितुं, नये त्वां च प्रभाकरम् ॥ तस्या मम च जीवातु-स्त्वमेवासि प्रसीद तत् ! ॥७४॥ साऽथ तं तदनुज्ञाता, निन्ये सूरोदयं पुरम् ॥ विभाते भास्करमिव तं चेन्द्रधनुरार्च्चयत् ॥ ७५ ॥ विदधे येन धात्राऽसौ तस्य स्यामनृणा कथम् ? ॥ ध्यायन्तीमित्युपायंस्त जयचन्द्रां ततश्च सः ॥ ७६ ॥ तस्याश्च मातुलसुतौ गङ्गाधरमहीधरौ ॥ विद्याधरौ महाविद्यौ तद्वि
अष्टादशमध्ययनम् ( १८ ) महापद्म
चक्रिकथा ६३-७६
UTR-2
॥३१७॥
Page #320
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३१८॥
अष्टादशमध्ययनम् महापद्मचक्रिकथा ७७-५१
वाहाभिलाषिणौ ॥७७॥ पोन परिणीतां तां, निशम्य समरोद्यतौ ॥ सूरोदयपुरे सर्वा-ऽभिसारेण समीयतुः ॥७८॥ [युग्मम् ] पुरान्निर्गत्य पद्मोऽपि, विद्याधरचमूवृतः॥ तत्सैन्येन समं योद्धं, प्रावर्त्तत महाभुजः ॥७९॥ रथी सादी | निषादी वा, पदातिर्वा न कोऽपि हि ॥ पद्मस्य युद्धमानस्य, पुरः स्थातुमभूत्प्रभुः ! ॥४०॥ नैर्ऋतेनानिलेनाब्दमिव पझेन सर्वतः ॥ स्वसैन्यं वीक्ष्य विक्षिप्तं, खेचरौ तौ प्रणेशतुः ॥८१॥ तत उत्पन्नचक्रादि-रत्नो ज्वालाङ्गजो बली ॥ षट्खण्डं भरतक्षेत्रं, साधयामास लीलया ॥४२॥ स्त्रीरत्नवर्जा स प्राप, सकलां चक्रिसम्पदम् ॥ विना तु मदनावल्या, मेने तामपि नीरसाम् ॥८३॥ ततः स क्रीडयाऽन्येद्यु-र्गतस्तं तापसाश्रमम् ॥ सच्चक्रे तापसैश्चारु फलपुष्पादिदायिभिः ॥८४॥ जनमेजयराजोऽपि, भ्रमंस्तत्रागतस्तदा ॥ ददौ तस्मै निजां पुत्री, मुदितो मदनावलीम् ॥८५॥ ततश्चक्रिरमा पूर्णा, कलयन् स्वपुरं गतः ॥ भून्यस्तमौलिः पितरौ, हृष्टो हृष्टौ ननाम सः ॥८६॥ आकर्ण्य कर्णपीयूषं, सूनोवृत्तान्तमद्भुतम् ॥ लक्ष्मी च तादृशी वीक्ष्य, पितारावत्यहष्यताम् ॥४७॥ तदा च सुव्रताचार्याः, शिष्याः श्रीसुव्रतार्हतः ॥ विहरन्तः पुरे तत्र, समेत्य समवासरन् ॥८८॥ तांश्च श्रुत्वा नृपो गत्वा, ननाम सपरिच्छदः ॥ देशनां चाशृणोन्मोह-हिमापोहरविप्रभाम् ॥८९॥ व्रताय यावदायामि, राज्ये विन्यस्य नन्दनम् ॥ तावत्पूज्यैरिह स्थेय-मथेत्युचे नृपो गुरून् ॥१०॥ विलम्बनीयं नार्थेऽस्मि-निति प्रोक्तोऽथ सूरिभिः ॥ प्रविवेश विशामीश-स्तान्प्रणम्य निजं पुरम् ॥११॥ आकार्य मंत्रीसामंत-मुख्यं परिजनं निजम् ॥ पुत्रं च विष्णुनामानं,
UTR-2
॥३१८॥
Page #321
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३१९॥
अष्टादशमध्ययनम् (१८) महापद्मचक्रिकथा ९२-१०६
पद्मोत्तरनृपोऽवदत् ॥९२॥ श्रुत्वा श्रीसुव्रताचार्या-त्संसारासारतामहम् ॥ मन्ये स्वं वंचितं काल-मियन्तं व्रतम|न्तरा ! ॥९३॥ अद्यैव तदुपादास्ये, व्रतं श्रीसुव्रतान्तिके ॥ राज्ये तु निदधे विष्णु-कुमारं स्फारविक्रमम् ॥१४॥ विष्णुर्जगौ विभो ! भोगैः किं किम्पाकफलोपमैः ? ॥ मोघीकर्तुमधं दीक्षा-मादास्येऽहं त्वया सह ! ॥१५॥ राज्यमादत्स्व वत्सेद-मित्याहूयाथ साग्रहम् ॥ पद्मं पद्मोत्तरोऽवादी-त्ततः सोऽप्येवमब्रवीत् ॥९६॥ प्रभविष्णुः प्रभो ! विष्णु-रसौ राज्येऽभिषिच्यताम् ॥ श्रयिष्ये युवराजत्व-मस्य शस्यमहं पुनः ! ॥९७॥ भूपः प्रोचेयमुक्तोऽपि, राज्यं नादित्सते कृतिन् ॥ आदित्सते तु प्रव्रज्या, मया सह महाशयः । ॥९८॥ कृतमौनं ततः पञ, राज्ये न्यस्योत्सवैर्नृपः ॥ सुव्रतार्चायपादान्ते, प्राव्राजीद्विष्णुना समम् ॥१९॥ पद्मचक्री ततः सर्वैः, पूज्यमानं जनैः पुरे ॥ रथमभ्रमयज्जैन, जनन्या जनयन्मुदम् ॥१००॥ चक्रे स्ववंशवज्जैन-शासनस्योन्नतिं च सः ॥ भेजिरे बहवो भव्या-स्ततः शासनमार्हतम् ॥१०१॥ उच्चैश्चैत्यानि जैनानि, ग्रामाकरापुरादिषु । कोटिशः कारयामास, स चक्री परमार्हतः ॥१०२॥ केवलं प्राप्य कैवल्यं, प्राप पद्मोत्तरोऽन्यदा ॥ लेभे विष्णुकुमारस्तु, लब्धी.का महातपाः ! ॥१०३॥ स्वर्णशैल इवोत्तुंगो, व्योमगामी सुपर्णवत् ॥ बहुरूपः सुर इव, कन्दर्प इव रूपवान् ॥१०४॥ इत्याद्यनेकावस्थावान्, भवितुं प्रबभूव सः ॥ नन्वभूल्लब्धिभोगो हि, विना हेतुं न योगिनाम् ! ॥१०५॥ तेऽन्येद्युः सुव्रताचार्या, भूरिसंयतसंयुताः ॥ श्रीहस्तिनापुरे तस्थु-वर्षातिक्रमहेतवे ॥१०६॥ ज्ञात्वा तान्नमुचिः प्राच्य-वैरशुद्धिविधित्सया ॥
UTR-2
॥३१९॥
Page #322
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३२०॥३/
अष्टादशमध्ययनम् महाफ्यचक्रिकथा १०७-१२०
देहि मे तं वरं स्वामि-निति पद्मं व्यजिज्ञपत् ॥१०७॥ यथाकामं वृणुष्वेति, राज्ञा प्रोक्तोऽब्रवीच्च सः ॥ यज्ञं यक्ष्यामि तद्राज्यं, तत्प्रान्तावधि देहि मे ॥१०८॥ सत्यसन्धस्ततो राज्ये, निधाय नमुचि द्रुतम् ॥ शुद्धान्तरात्मा शुद्धान्तमध्यमध्यास्त चक्रभृत् ॥१०९॥ ततः पुराबहिर्गत्वा, नमुचिर्यज्ञपाटके ॥ मायया दीक्षितो जज्ञे, बैकोट इव कूटधीः ! ॥११०॥ राज्येऽभिषिक्तं तं वर्धा-पयितुं निखिलाः प्रजाः ॥ लिङ्गिनश्चाखिला जैन-मुनिवर्जाः समाययुः ॥१११॥ सर्वेप्यागुलिङ्गिनो मां, न पुनः श्वेतभिक्षवः ॥ प्रवदन्निति मात्सर्या-त्तच्छिद्रं स पुरोऽकरोत् ॥११२॥ आकार्य सुव्रताचार्या-ननार्यों व्याहरच्च सः ॥ राजा यः स्याद्यदा सोऽभि-गम्यते लिङ्गिभिस्तदा ॥११३॥ तपोवनानि हि माप-रक्ष्याणीति तपस्विनः ॥ भूपालमुपतिष्ठन्ते, लोकस्थितिरियं खलु ॥११४॥ स्तब्धा यूयं तु मर्यादा-विकला मम निन्दकाः ॥ तन्मे राज्ये न युष्माभिः, स्थेयं गन्तव्यमन्यतः ॥११५॥ स्थाता यस्त्विह वो मध्ये, ध्रुवं वध्यः स मे शठः ॥ संवासयति वः को हि, लोकराजविरोधिनः ॥११६॥ सूरिरुचे न नः कल्प, इति नोपागता वयम् ॥ तवाऽभिषेके न पुन-निन्दामः कञ्चिदप्यहो! ॥११७॥ कुधीः क्रुद्धोऽभ्यधात्सोऽथ, पर्याप्तं बहुभाषितैः ॥ सप्ताहोपरि दृष्टान् वो घातयिष्यामि चौरवत् ! ॥११८॥ ततः स्वस्थानमागत्य, मुनीनाहूय सूरयः ॥ अथ किं कार्यमित्यूचु- स्तेष्वेकः, साधुरित्यवक् ॥११९॥ सुदुस्तपं तपस्तेपे, घष्टिं वर्षशतानि यः ॥ स हि विष्णुकुमार्षि-र्मेरौ सम्प्रति वर्त्तते
UTR-2
॥३२०॥
१ अन्तः पुरमध्ये ।। २ बकः ॥
Page #323
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम्
॥३२॥
अष्टादशमध्ययनम् (१८) महापद्मचक्रिकथा १२१-१३४
॥१२०॥ पद्माग्रजः स इति त-गिराऽसौ शान्तिमेष्यति ॥ यातु कोऽपि तमानेतुं तद्विद्यालब्धिमान्मुनिः ॥१२१॥ ऊचेऽथान्यो यतियॊम्ना, गन्तुं तत्रासम्यहं क्षमः ॥ न त्वाऽऽगन्तुं ततो ब्रूत, यदि कार्यं मयास्ति वः ॥१२२॥ विष्णुरेव समानेता, त्वामित्युक्तेऽथ सूरिभिः ॥ उत्पत्य नभसा विष्णु-मुपागात्स मुनिः क्षणात् ॥१२३॥ तं चायान्तं वीक्ष्य दध्या-विति विष्णुर्महामुनिः ॥ सङ्घकार्यं महन्नून-मस्ति किञ्चिदुपस्थिम् ॥१२४॥ इहागच्छेदसौ साधुवर्षासु कथमन्यथा ? ॥ ध्यायन्तमिति तं साधु-रुपेत्य प्रणनाम सः ॥१२५॥ तेनागमनहेतौ च, प्रोक्ते विष्णुमुनिद्रुतम् ॥ तं गृहीत्वा गजपुरे, गत्वा च प्राणमद् गुरून् ॥१२६॥ अगाच्च नमुचेः पार्थे , बहुभिर्मुनिभिः संमम् ॥ विना नमुचिमुर्तीशा-दिभिः सर्वैरनामि सः ॥१२७॥ ततो धर्मोपदेशादि-पूर्वमित्यवदत्स तम् ॥ वर्षाकालं यावदत्र, वसन्तु मुनयः पुरे ॥१२८॥ स्वतोप्येते हि तिष्ठन्ति, नैकत्र समयं बहुं ॥ वर्षासु तु भुवो भूरिजन्तुत्वाद्विहरन्ति न ॥१२९॥ महत्यस्मिन्पुरे भिक्षा-वृत्तिभिः प्रचुरैरपि ॥ अस्मादृक्षैः संवसद्भिः, क्षतिः का ? नाम ते कृतिन् ! ॥१३०॥ पुरा हि मुनयो भूपैः, प्रणता भरतादिभिः ॥ कुरुषे न तथा त्वं चे-निर्वासयसिः तान् कुतः ॥१३१॥ श्रुत्वेति नमुचिः क्रुद्धो-ऽवादीतिक पुनरुक्तिभिः ? ॥ निग्रहीष्यामि वो नूनं, पञ्चाहोपरि वीक्षितान् ॥१३२॥ विष्णुर्जगौ पुरोद्याने, वसन्त्वेते महर्षयः ॥ ततः क्रुधाऽभ्यधान्मंत्री, वाक्यैः कर्करकर्कशैः ॥१३३॥ आस्तामुद्यानं पुरं वा, मम राज्येऽपि सर्वथा ॥ पाखण्डिपाशैः पापाशै-न स्थेयं श्वेतभिक्षुभिः । ॥१३४॥ तन्मे
UTR-2
॥३२१॥
Page #324
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥३२२ ॥ ३
मुञ्चत राज्यं द्राग्, यदि वः प्राणितं प्रियम् ॥ रुष्टो विष्णुरथोचेऽङ्घ्रि - त्रयस्थानं तु देहि नः ! ॥ १३५ ॥ अथाख्यनमुचिर्दत्तं मया वस्त्रिपदीपदम् ॥ किन्तुं तस्माद्बहिर्यो वः, स्थाता स द्राग् हनिष्यते ॥ १३६ ॥ प्रावर्त्तत ततः कोपा - विष्टो विष्णुः प्रवर्धितुम् ॥ मौलिकुण्डलमालाढ्यः पविचापकृपाणभृत् ॥१३७॥ स्फारान्विमुञ्चन्फूत्कारान्, कल्पान्तपवनोपमान् ॥ काश्यप कम्पयन्पाद - दर्दरैर्निखिलामपि ॥ १३८ ॥ उल्लालयन्पयोराशीन्, शैलशृङ्गाणि पातयन् ।। धात्रीफलौघवज्ज्योति-श्चक्रमप्यपसारयन् ॥१४०॥ क्षोभयन्विविधै रूपैर्देवदानवमानवान् ॥ वर्धमानोऽमानशक्तिः, सोऽभून्मेरुसमः क्रमात् ॥ १४०॥ [ त्रिभिर्विशेषकम् ] प्रपात्य नमुचिं पृथ्व्यां पूर्वापरसमुद्रयेाः ॥ पादौ विन्यस्तवान् विष्णु-रलम्भूष्णुर्जगज्जये ॥१४१ ॥ त्रिलोकिक्षोभमालोक्य शक्रेण प्रहितास्तदा ॥ इति कर्णान्तिके तस्याऽप्सरसः सरसं जगुः ॥ १४२ ॥ क्रोधो धर्मद्रुमज्वाला-जिह्वः स्वपरदाहकः ।। स्वार्थनाशं विधत्तेऽत्र दत्ते मुत्र च दुर्गतिम् ॥ १४३ ॥ तच्छान्तरसपीयूषं, निरपायं निपीयताम् ॥ इत्थं जगुः पुरस्तस्य ननृतुश्च प्रसत्तये ॥१४४॥ महापद्मोऽपि तत्रागात्, शङ्कातङ्काकुलस्तदा ॥ इलातलमिलन्मौलि स्तं च नत्वैवमब्रवीत् ॥ १४५ ॥ श्रीसंघाशातनां मंत्रि - पाशेनानेन निर्मिताम् ॥ न ज्ञापितोऽस्मि केनापी-त्यज्ञासिषमहं न हि ॥ १४६ ॥ कृतस्वान्यो पतापस्य, पापस्याऽमुष्य मन्तुना ।। प्राणसन्देहमारूढं त्रायस्व भुवनत्रयम् ॥ १४७ ॥ इत्यन्येपि नृपा देवा-सुराः संघस्तथाऽखिलः ॥ तं मुनिं विविधैर्वाक्यैः सान्त्वयामासुरुच्चकैः ॥ १४८ ॥ मौलिस्पृष्टक्रमांस्तांश्च वीक्ष्य विष्णुर्व्यचि
अष्टादशम ध्ययनम्
महापद्म
चक्रिकथा १३५-१४७
॥३२२ ॥
Page #325
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३२३॥
अष्टादशमध्ययनम् (१८) महापद्मचक्रिकथा १४९-१५७
न्तयत् ॥ संघोऽसौ भगवान् भीता-श्वामी पद्मसुरादयः ॥१४९॥ कोपापहारहेतोर्मा, सान्त्वयन्ति मुहुर्मुहुः ॥ मान्यः संघोऽनुकम्प्याश्च पद्मदेवादयोऽपि मे ॥१५०॥ [ युग्मम् ] ध्यात्वेति वृद्धि सहृत्य, पुर्वावस्थोऽजनिष्ट सः ॥ ततस्त्रिविक्रम इति, ख्यातिं च प्राप सर्वगाम् ॥१५१॥ मुमोच नमुचिं विष्णु-मुनिः संघोपरोधतः ॥ तं धीसखाधर्म पद्म-चक्री तु निरवासयत् ॥१५२॥ संघकार्यं विधायेति, शान्तो विष्णुर्महामुनिः ॥ आलोचितप्रतिक्रान्तस्तीवं तप्त्वा तपश्चिरम् ॥१५३॥ उत्पन्नकेवलः प्राप, महानन्दपदं क्रमात् ॥ चक्रिपद्मां च पद्मोऽपि, बुभुजे रुचिरां चिरम् ॥१५४॥ [युग्मम्] सन्त्यज्य राज्यमन्येद्युः, परिव्रज्याऽन्तिके गुरोः॥ स दशाब्दसहस्राणि, तीवं व्रतमपालयत् ॥१५५॥ त्रिंशद्वर्षसहस्रायु-श्चापान्विंशतिमुन्नतः ॥ महामहा महापद्म-महाराजो बभूव सः ॥१५६॥ तीनैस्तपोभिर्घनघातिघातं, निर्माय निर्मायचरित्रचारुः ॥ स केवलज्ञानमवाप्य वापी, श्रेयःसुधायाः श्रयति स्म सिद्धिम् ॥१५७॥ इति श्रीमहापद्मचक्रिकथा ॥४१॥
मूलम्-एगछत्तं पसाहित्ता, महिं माणनिसूरणो ।
- हरिसेणो मणुस्सिदो, पत्तो गइमणुत्तरं ॥४२॥ व्याख्या-एकं छत्रं राजचिह्नमस्त्यस्यामित्येकछत्रा तां, अविद्यमानापरनृपामित्यर्थः महीं पृथ्वी प्रसाध्य वशीकृत्येति सम्बन्धः । 'माणनिसूरणोत्ति' दृप्तारातिदर्पदलनः, हरिषेणो मनुष्येन्द्रः प्राप्तो गतिमनुत्तराम् । तद्वत्तलेशस्त्वयम्अत्रैव भरतक्षेत्रे, पुरे काम्पील्यनामनि ॥ महाहरिरभूद्भूमा-न्मेरावाना च तत्प्रिया ॥१॥ हरिषेणस्तयोर्विश्वा
गाथा ४२ हरिषेणचक्रिकथा
UTR-2
॥३२३॥
Page #326
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३२४॥
अष्टादशमध्ययनम् हरिषेणचक्रिकथा
२-९
| नन्दनो नन्दनोऽभवत् ॥ चतुर्दशमहास्वप्न-सुचितोऽस्वजजिन्महाः ॥२॥ कलाकलापमापन्नो, वर्द्धमानः शशीव सः ॥
चापपञ्चदशोत्तुङ्गः, पुण्यं तारुण्यमासदत् ॥३॥ राज्यं प्राज्यं, पितुः प्राप्य, तस्य पालयतः सतः ॥ रत्नान्युत्पेदिरेऽन्येधु-श्चक्रादीनि चतुर्दश ॥४॥ ततः स साधयामास, षट्खंडमपि भारतम् ॥ जातचक्रित्वाभिषेको, भोगांश्च बुभुजे चिरम् ॥५॥ भववासाद्विरक्तोऽथ, लघुकर्मतयाऽन्यदा ॥ सोऽध्यासीदित्यसौ सम्पत्, प्राक्पुण्यैः सङ्गतास्ति मे ॥६॥ पुण्यार्जनाय भूयोऽपि, प्रयत्नं विदधे ततः ॥ विनार्जनां हि क्षपिते, मूले स्याद्दुःस्थता भृशम् ! ॥७॥ ध्यात्वेति तनयं न्यस्य, राज्ये स व्रतमाददे ॥ कर्मकक्षमधाक्षीच्च, सत्तपोजातवेदसा ॥८॥ समासहस्राणि दशातिवाह्य, सर्वायुषा श्रीहरिषेणचक्री ॥ घातिक्षयाज्जानमनन्तमाप्य, भेजे महानन्दमनिंद्यकीर्तिम् ॥९॥ इति श्रीहरिषेणचक्रिकथा ॥४२॥ मलम्--अनिओ रायसहस्सेहि, सुपरिच्चाइ दमं चरे । जयनामो जिणक्खायं, पत्तो गइमणुत्तरं ॥४३॥
व्याख्या--अन्वितो युक्तो राजसहस्त्रैः, सुष्ठ शोभनप्रकारेण राज्यादि त्यजतीत्येवंशीलः सुपरित्यागी, दमं जिनाख्यातमिति सम्बन्धः, 'चरेत्ति' अचारीत् । जयनामा एकादशचक्री । चरित्वा च दमं प्राप्तो गतिमनुत्तराम् । तत्कथांशस्त्वयम्--
अत्रैव भरते सम्पद्-गृहे राजगृहे पुरे ॥ यशः सुधासमुद्रोऽभू-त्समुद्रविजयो नृपः ॥१॥ पुण्यलावण्यतारुण्या
गाथा ४३
जयचक्रिकथा
UTR-2
॥३२४॥
Page #327
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३२५॥
अष्टादशमध्ययनम् (१८) जयचक्रिकथा
२-७
शीलालङ्कारशालिनी ॥ वप्रः शालिगुणालीनां, वप्रा तस्य प्रियाऽभवत् ॥२॥ द्विः सप्तभिर्महास्वप्नैः, सूचितोऽभूत्सुतस्तयोः ॥ जयाह्वयो जयन्तस्य, जयन् रूपं वपुःश्रिया ॥३॥ कलिन्दिकासुधाः पीत्वा, क्रमाद्यौवनमाश्रितः ॥ स द्वादशधनुस्तुङ्गः, पित्र्यां राज्यधुरां दधौ ॥४॥ जातचक्रादिरत्नश्च, जितषट्खण्डभारतः ॥ बुभुजे रमणीरत्न-मिव चक्रिरमां चिरम् ॥५॥ स चान्यदा भवोद्विग्नः, संविग्नस्यान्तिके गुरोः ॥ राज्ये निधाय तनयं, सनयं प्रावजत्स्वयम् ॥६॥ सर्वायुषा त्रीनतिगम्य सम्यक्, समासहस्रान् जयचक्रवर्ती ॥ तपोऽनिलैः कर्मघनानपास्य, प्राप्योत्तमं ज्ञानमवाप मुक्तिम् ॥७॥ इति श्रीजयचक्रिकथा ॥ ४३ ॥ मूलम्--दसण्णरज्जं मुइअं, चइत्ता णं मुणी चरे । दसण्णभद्दो निक्खंतो, सक्खं सक्केण चोइओ ४४
व्याख्या--दशार्णो देशस्तद्राज्यं मुदितं प्रमोदवत् त्यक्त्वा 'णं' वाक्यालङ्कारे, मुनिश्चरेत् अचारीत् अप्रतिबद्धतया व्यहार्षीदित्यर्थः । दशार्णभद्रो निष्क्रान्तः, साक्षाच्छक्रेण चोदितोऽधिकसम्पदर्शनेन धर्मं प्रति प्रेरित इति । तत्कथा त्वेवम्श्रीमद्दशार्णविषये, दशार्णपुरपत्तने ॥ दशार्णभद्रो भद्राणा-माकरोऽभून्महीपतिः ॥१॥ स राजहंसः शुद्धात्मा, चित्ताब्जेष्ववसत्सताम् ॥ उवास तस्य चित्ते तु, धर्म एव जिनोदितः ॥२॥ जज्ञिरे तस्य शुद्धान्ते, राज्यः पञ्चशतानि ताः ॥ यत्प्राप्तिचिन्तया मन्ये, न निद्रान्ति स्म निर्जराः ! ॥३॥ वार्द्धर्वारीव तस्यासी-क्षमाव्याप्तिक्षमाचमूः ॥
गाथा ४४
दशार्णभद्रचरित्रम् १-३
UTR-2
॥३२५॥
१ सप्तशतानि-इति तु 'घ' संज्ञकपुस्तके ।
Page #328
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥३२६ ॥ ३
१२
ललंघे न तु मर्यादां स गम्भीरोऽम्बुराशिवत् ॥४॥ [ इतश्च ] वराटविषये धान्य- पुरे धान्यभरैर्भृते ॥ महत्तरः श्रिया कोऽपि महत्तरसुतोऽभवत् ॥ ५ ॥ कान्ता तु तस्य कुलटा, गृहनाथे बहिर्गते ॥ सांन्यासिकेन केनाऽपि समं स्वच्छन्दमारमत् ॥६॥ पुरे तत्राऽन्यदाऽऽयातैः, प्रारब्धे नाटके नटैः ॥ रामावेषं दधद्रम्यं, ननर्त्तको नटो युवा ॥७॥ दम्भैकविज्ञा विज्ञाय, कथंचित्तं च पूरुषम् ॥ तत्रारज्यत साऽत्यंतं, धर्षिणी धर्मघर्षिणी ॥८॥ प्रतिबन्धो हि बंन्धक्या, वात्याया इव न क्वचित् ॥ यो युवा दृढदेहश्च तस्याः स्यात्स तु वल्लभः ॥ ९ ॥ ततः सा पुंश्चली छन्नं, नटपेटकनायकम् ॥ इत्युवाच हियं हित्वा कामान्धानां हि का त्रपा ? ॥१०॥ एनमेष दधद्वेषं रमते चेन्मया समम् ॥ तदा ददामि वः सारं वस्त्रं किंचिन्मनोरमम् ॥११॥ नटाधीशोऽपि तद्वाक्यं मुदितः प्रत्यपद्यत । ते हि प्रायः कुशीलाः स्युः, किं पुनः स्त्रीभिरर्थिताः ! ॥ १२ ॥ संप्रत्यायात्ययं किन्तु, तव वेश्म क्व विद्यते ? ॥ इत्युक्ताऽथ नटे - शेन सा स्वसौधमदर्शयत् ॥ १३ ॥ गृहं गत्वा नटकृते, पायसं च पपाच सा ॥ स्त्रीवेषः सोऽपि तत्रागा नटेशप्रेषितो नटः ॥१४॥ आसितस्याऽशितुं तस्य, पुरः सा पुंश्चली मुदा ॥ स्थालमस्थापयद्यावत् प्राज्यखण्डाज्यपायसम् ॥१५॥ तावत्सांन्यासिकोऽभ्येत्य द्वारमुद्घाटयेत्यवक् ॥ शनैस्तं नटमित्यूचे, ततः सा पांशुलाऽऽकुला ॥१६॥ अस्मिंस्तिलापवरके, गत्वा त्वं तिष्ठ कोणके ॥ तयेत्युक्तः सोऽपि तत्र, प्रविश्य द्राग् न्यलीयत ॥ १७॥ तयाऽथो
१ असती ॥ २ असत्याः ॥
UTR-2
अष्टादशमध्ययनम् दशार्णभद्र
चरित्रम् ४-१७
॥३२६ ॥
Page #329
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३२७॥
अष्टादशमध्ययनम्
(१८) दशार्णभद्र
चरित्रम् १८-३९
द्घाटिते द्वारे, स रजस्कोऽन्तराऽऽगतः॥ किमिदं पायसापूर्णं, स्थालमस्तीत्युवाच ताम् ॥१८॥ क्षुधितास्मीति भोक्ष्येऽह-मित्युक्ते मायया तया ॥ सोऽवादीदयि ! तिष्ठ त्व-महं भोक्ष्ये बुभुक्षितः ॥१९॥ इत्युदित्वा बलाद्यावज्जारो भोक्तुमुपाविशत् ॥ द्वारं प्रकाशयेत्यूचे, तावदेत्य गृहाधिपः ॥२०॥ व यामीति ततः पृष्टा, जारेण कुलटाऽब्रवीत् ॥ तिलापवरके गत्वा, तिष्ठास्मिन्नातिदूरतः ॥२१॥ कोणेऽस्य तिष्ठति व्यालः, कालः काल इवापरः ॥ त्वया तत्र न गन्तव्यं, ततो जीवितमिच्छता ॥२२॥ ओमित्युक्त्वा ततः सोऽपि, तत्रापवरकेऽविशत् ॥ भूयस्तमिस्रमिश्रत्वा-त्तमिस्राभे दिवाऽपि हि ॥२३॥ द्वारमुद्घाटयामास, ततस्त्वरितमित्वरी ॥ विवेश वेश्मनि ततो, गृहेश: सरलाशयः ॥२४॥ क्षैरेयी किमियं स्थाले, क्षिप्तास्तीत्यब्रवीच्च ताम् ॥ उवाच पुंश्चली भुक्ति, कुर्वेऽहमशनायिता ॥२५॥ सोऽवदन्मम गन्तव्यं, कार्ये तद्भोक्ष्यते मया ॥ सा प्रोचेऽद्याष्टमी तस्मा - दस्नातो भोक्ष्यसे कथम् ॥२६॥ सोऽशंसत्स्नात एवाह, स्नातायां त्वयि वल्लभे ॥ साऽलपन्न ह्यसौ धर्मो-ऽस्माकं तदिति मा कृथाः ॥२७॥ वयं हि शैवास्तेषां च, न प्सानं स्नानमन्तरा ॥ तयेत्युक्तोऽपि स व्यक्तं, बलाद्भोक्तुं प्रचक्रमे ॥२८॥ इतश्चाहं क्षुधाक्षामः, किं तिष्ठामीति चिन्तयन् ॥ नटः कराभ्यां संघृष्य, फूच्चकार तिलान्मुहुः ॥२९॥ सन्यासिकस्ततोऽध्यासी-दसौ फूत्कुरुते फणी ॥ तद्गृहेशेऽशनासक्ते, नश्याम्यहमलक्षितः ॥३०॥ इति ध्यात्वाऽपवरका-निर्गत्य द्राग् ननाश सः ॥ समयोऽयमिति ध्यायं-स्ततोऽनेशन्नटोऽपि सः ॥३१॥ महत्तरसुतः प्रेक्ष्य, निर्यान्तौ तौ नरस्त्रियौ ॥ कावेता
UTR-2
॥३२७॥
Page #330
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
॥३२८॥
१२
वित्यपृच्छत्तां, स्वच्छः स्वच्छन्दचारिणीम् ॥३२॥ तत उत्पन्नधीः प्रोचे, कुलटा कुटिलाशया ॥ अस्नातो मा त्वमश्नीया, इत्युक्तं प्राग्मया हि ते ॥ ३३॥ अस्मदावसथेऽजस्त्र सेवया वासितौ मया ॥ इमावुमाहरौ नष्टा वस्मादस्नानभोजनात् ! ॥३४॥ तदाकर्ण्य मया दुष्ठु कृतमित्यनुतापवान् ॥ प्रत्यायातः कथमिमा - वित्यूचे तां गृहाधिपः ॥ ३५ ॥ गच्छत्यसौ विदेशे चे द्रमे स्वैरमहं तदा ॥ ध्यायन्तीति ततोऽवोचत्स्वैरिणी पतिवैरिणी ॥३६॥ सोद्यमेनैव सन्याय-मर्जितैः प्रचुरैर्धनैः ॥ चेदर्च्चयसि चण्डीशौ, प्रत्यायातस्तदा हि तौ ॥३७॥ तत्प्रपद्य दशार्णेषु, महत्तरसुतो ययौ ॥ छेकोऽपि वच्यते धर्म-छद्मना किं पुनः परः ? ॥ ३८ ॥ क्षेत्रे कस्यापि तत्रासौ कुर्वन्कार्यमुपार्जयत् ॥ दश गद्याणकान्स्वर्णं, तच्चाल्पमिति - नाऽतुषत् ॥३९॥ तथापि स प्रति गृहं, निवृत्तः स्वप्रियां स्मरन् ॥ मध्याहने क्वापि कान्तारे, विशश्राम तरोस्तले ॥४०॥ इतश्चापहृतो वक्र- शिक्षिताश्वेन पर्यटन् ॥ दशार्णभद्र भूपाल-स्तत्रागच्छत्तृषातुरः ॥ ४१ ॥ आतिथ्याहों महात्माय - मित्यन्तश्चिन्तयंस्ततः । महत्तराङ्गजस्तस्मै पयः पेयमढौकयत् ॥ ४२ ॥ नृपोऽपि पीत्वा तन्नीर-मुत्पर्वाणं हयं व्यधात् ॥ क्षणं विश्रम्य कोऽसि त्व-मिति चापृच्छदध्वगम् ॥४३॥ स्ववृत्तान्तेऽथ तेनोक्ते, राजा दध्यौ कुशाग्रधीः ॥ प्रियास्य नूनमसती, तत्तया वञ्चितोऽस्त्ययम् ॥४४॥ परं धार्मिकतामस्य, वीक्ष्य चित्रीयते मनः ॥ चिकीर्षति स्वदेवार्चा - मसद्वित्तमुपार्ज्य यः ॥४५ ॥ विदोऽपि सदपि द्रव्यं व्ययन्ते व्यसनादिभिः
१ अविद्यमानम् ॥
UTR-2
अष्टादशमध्ययनम् दशार्णभद्रचरित्रम्
३२-४५
॥३२८॥
Page #331
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३२९॥
अष्टादशम ध्ययनम् (१८) दशार्णभद्र
चरित्रम् ४६-४९
मुग्धोऽप्यसौ तु धर्माय, क्लिश्यतेऽर्जयितुं धनम् ॥४६॥ तद्धार्मिकस्य पुंसोऽस्य, कुर्वे कां प्रत्युपक्रियाम् ॥ तस्येति ध्यायतः सैन्य-मागादश्वपदानुगम् ॥४७॥ ततो नृपः सहादाय, नरं तमुपकारिणम् ॥ ययौ निजं पुरं तं च, सच्चक्रे भोजनादिना ॥४८॥ तदा चायुक्तपुरुषै-रिति व्यज्ञपि भूपतिः ॥ पुरोद्यानेऽद्य समव-सृतोऽस्ति चरमो जिन: ॥४९॥ तत्कण्र्णामृतमाकयों-दञ्चद्रोमाञ्चकक्षुकः ॥ नृपोऽनमज्जिनं मौलि-स्पृष्टभूस्त्यक्तविष्टरः ॥५०॥ दत्वा दानं जीविकार्ह-मर्हदागमवादिनाम् ॥ भूभृन्मणी सहृदय-ग्रामणीरित्यचिन्तयत् ॥५१॥ तादृग्विवेकविकलोऽ- | प्यसौ वैदेशिको नरः ॥ पुपूजयिषति स्वीय-देवांश्चेत्सर्वसम्पदा ॥५२॥ तदा समग्रसामग्री-मतामस्मादृशां विशाम् ॥ विवेकिनां विशेषेण, कर्तुमर्हाऽर्हणाऽर्हतः ॥५३॥ ध्यात्वेत्यादिशदुर्वीशो, द्विपाद्यधिकृतान्कृती ॥ कार्या विशेषात्सामग्री, प्रातर्नन्तुं जगद्गुरुम् ॥५४॥ विभाते वन्दितुं सार्वं, सामन्तामात्यनागराः ॥ श्रेष्ठां कुर्वन्तु सामग्री-मिति चाघोषयत् पुरे ॥५५॥ तृणगोमयभस्मादि-सम्मार्जनपवित्रितम् ॥ संसिक्तं चन्दनाम्भोभिः, पुष्पप्रकरचित्रितम् ॥५६॥ हृद्यं वन्दनमालाभिः, सहोलाभिरिव श्रियाम् ॥ धृतानङ्कानेकचन्द्र-मिव कुम्भैश्च राजतैः ॥५७॥ उदिताब्दमिवाकाण्डे, धूपधूमैर्निरन्तरः ॥ धृतचक्रधनुर्लक्ष-मिव माणिक्यतोरणैः ॥५८॥ अभितः शोभितं श्रेयो-हेतुभिः केतुकोटिभिः ॥ विमानवद्राजमान-रञ्चितं चारुमञ्चकैः ॥५९॥ प्रारब्धस्वस्वकर्त्तव्यं, जल्लमल्लनटादिभिः ॥ स्वपुरं
UTR-2
॥३२९॥
१
अनङ्का अङ्करहिता: कलङ्करहिता इत्यर्थ : ।।
Page #332
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३३०॥ ३
अष्टादशम
ध्ययनम् दशार्णभद्र
चरित्रम् ६०-७३
स्वरिवाऽध्यक्षं, मापोऽध्यक्षैरचीकरत् ॥६०॥ [पञ्चभिः कुलकम्] प्रातश्च विधिना स्नात्वा, चन्दनालिप्तभूघनः ॥ अदृष्ये देवदूष्ये द्वे, दधद्भासुरभूषणः ॥६१॥ आतपत्रेण पूर्णेन्दु-पवित्रेण विराजितः ॥ चतुर्भिश्चामरैर्वीज्य-मानो डिण्डिरपाण्डुरैः ॥६२॥ केनाप्यवन्दि न यथा, वन्दे जिनमहं तथा ॥ ध्यायन्निति मुदाऽध्यास्त, महाराजो महागजम् ॥६३।। [त्रिभिर्विशेषकम् ] आरूढसिन्धुरा भूषा-बन्धुराश्च सहस्रशः ॥ सामन्ताः परिवस्तं शक्रं सामानिका इव ॥६४॥ पादाभ्यां प्रेरितो राज-कुञ्जरेणाऽथ कुञ्जरः ॥ शनैः प्रववृते गन्तुं भूमिभङ्गभयादिव! ॥६५॥ सहस्रशस्तदान्येऽपि, वारणा वैरिवारणाः ॥ चलाचलोपमाश्चेलु-मणिमण्डनमण्डिताः ॥६६॥ सहोदराः सप्तसप्तिसप्तीनां तत्र सप्तयः ॥ लक्षशः पुपुषुर्लक्ष्मी, भूरिभूरिविभूषणाः ॥६७॥ आयुक्तहरयो हारि-श्रियस्तत्र सहस्रशः ॥ रथा दिद्युतिरे तिग्म-द्युतिस्यन्दनसोदराः ॥६८॥ नानाविधायुधभृतः, पत्तयोऽपविपत्तयः ॥ शिश्रियुः सुषमां वीरकोटीरास्तत्र कोटिशः ॥६९॥ अध्यासितानि राजीनां, पञ्चशत्या पृथक् पृथक् ॥ रेजिरे याप्ययानानि, सदेवीकविमानवत् ॥७०॥ प्रक्वणत्किङ्किणीवाण-मुखरीकृतदिग्मुखाः ॥ अभ्रंलिहा ध्वजा रेजुः, पञ्चवर्णाः सहस्रशः ॥७१॥ आतोद्यैर्लक्षशो भम्भा-भेरिप्रभृतिभिस्तदा ॥ युगपद्वादितैर्जज्ञे, शब्दाद्वैतमयं जगत् ॥७२॥ मुदा मङ्गलवाक्यानि, पेठुर्मङ्गलपाठकाः॥ श्रवःसुधाश्रवागीति-रगायन् गायनास्तदा ॥७३॥ वारवध्वोऽप्सर:कल्पा, गायन्त्यो भगवद्गु
UTR-2
॥३३०॥
१ सूर्याश्वानाम् ॥ २ अश्वाः ।। ३ सप्तशत्या इति तु 'घ' संज्ञकपुस्तके ।। ४ शिबिका-पालखी-इति भाषा ।
Page #333
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३३१॥
अष्टादशम ध्ययनम् (१८) दशार्णभद्र
चरित्रम् ७४-८७
णान् ॥ नृत्यं चक्रुस्तदा हृद्यं, पुरो राज्ञः पदे पदे ॥७४॥ इत्थं महर्द्धिभिर्भव्य-जीवानां मोदयन्मनः ॥ सिञ्चन् सद्भावपीयूषैः, सुकृतक्षोणिजन्मनः ॥७५॥ कल्पदुम इवात्यर्थं, ददानो दानमर्थिनाम् ॥ आत्मानं मानयन्माना-त्यदमुत्कृष्टसम्पदाम् ॥७६॥ परिच्छदेन पोरैश्च, महत्तरसुतेन च ॥ समं समवसरण-समीपं प्राप पार्थिवः ॥७७॥ [त्रिभिविशेषकम् ] उत्तीर्याथ गजाद्राज-ककुदानि विमुच्य सः ॥ जिनं प्रदक्षिणीकृत्य, सतंत्रो विधिन ऽनमत् ॥७८॥ जिनाधीशं जनाधीशो, हर्षगद्गदया गिरा ॥ स्तोत्रैर्महाथैः स्तुत्वा च, यथास्थानमुपाविशत् ॥७९॥ तदा चावधिना | ज्ञात्वा, राज्ञस्तादृशमाशयम् ॥ इति दध्यौ हरिभक्ति-रहो राज्ञोऽस्य भूयसी! ॥८॥ परमत्राभिमानस्तु, कर्तुं नामुष्य युज्यते ॥ भवेत्रिभुवनेनाऽपि, भक्तिः पूर्णा हि नाऽर्हताम् ! ॥८१॥ ध्यात्वेति हर्तुं तन्मानं, सम्पदुत्कर्षसम्भवम् ॥ प्रतिबोधयितुं तं च, समादिष्टो बिडौजसा ॥४२॥ चतुःषष्टिसहस्राणि, द्विपानैरावणामरः ॥ सितत्वोच्चत्वविजित-कैलासान् व्यकरोन्मुदा ॥८३॥ [ युग्मम् ] प्रत्येकं द्वादशयुतां, तेषु पञ्चशती मुखान् ॥ मुखं मुखं प्रति रदा-नष्टावष्टौ च निर्ममे ॥८४॥ प्रतिदन्तं पुष्करिणी-रष्टावष्टौ मनोरमाः ॥ तासु प्रत्येकमष्टाष्ट, पद्मान् लक्षच्छदान् व्यधात् ॥४५॥ दलेषु तेषु प्रत्येकं, द्वात्रिंशद्बद्धनाटकम् ॥ प्रत्यब्जकर्णिकं चक्रे, प्रासादं च चतुर्मुखम् ॥८६॥ पश्यन्नृत्यानि तान्युच्चै-महिषीभिर्युतोऽष्टभिः ॥ अध्यास्त तांश्च प्रासादा-सर्वानपि सुपर्वराट् ॥८७॥ "एवञ्च-"
UTR-2
॥३३१॥
१ जनान् ।।
Page #334
--------------------------------------------------------------------------
________________
यनसूत्रम्
अष्टादशम
ध्ययनम् दशार्णभद्र
चरित्रम् ८८-१००
उत्तराध्य
मुह पणसय बास्तर [५१२] दन्ता चउरो सहस्स छण्णआ [ ४०१६] बत्तीस सहस सगसय अडसट्ठी [३२७६८ ]
होंति पुक्खरिणी ॥८॥ पउमा दुलक्ख बासट्ठि सहस चोआल सयमिआ [ २६२१४४] जाण ॥ पासा इंदा ॥३३२॥ II
तत्तल्ल अग्गमहिसी तयट्ठगुणा [२०९७१५२] ॥८९॥ दुसहस्स छसय इगवीस कोडि चउआल लक्ख कमलदला [ २६२१४४००००० ] नट्टा पुण दलतुल्ला एगेग गयस्स इइ संखा ॥१०॥ तैर्गजैश्छादयन् व्योम, शरदभैरिवामलैः ॥ आगात्पुरन्दरः क्षिप्र-मुपसार्वपुरन्दरम् ॥९१॥ जिनं प्रदक्षिणीचक्रे, हस्तिमल्लस्थितो हरिः ॥ ववन्दे च स्वकीयाङ्ग-रुचिन्यञ्चितभास्करः ॥१२॥ क्षोणीक्षिद्वीक्ष्य तल्लक्ष्मी, दक्षधीरित्यचिन्तयत् ॥ मया तुच्छतयाऽकारि, सम्पद्दो मुधैव हि ! ॥१३॥ इयं का नाम मे सम्प-दस्याऽऽसां सम्पदां पुरः ॥ खद्योतपोतोद्योतो हि, कियान् प्रद्योतनद्युताम् ? ॥१४॥ तन्नूनं तुच्छयाऽपि स्या-नीचानां सम्पदा मदः ॥ प्राप्य पङ्किलमप्यम्भो, भृशं नईन्ति दर्दुराः ! ॥१५॥ इयं च श्रीरनेनापि, लेभे धर्मप्रभावतः ॥ विना धर्म हि सा चेत्स्या-त्सर्वेषां स्यात्तदा न किम् ? ॥९६॥ हित्वा विषादं तद्धर्म, श्रयेऽहमपि निर्मलम् ॥ इत्थं कृते हि मानोऽपि, कृतार्थो मे भविष्यति ! ॥१७॥ ध्यात्वेति प्राञ्जलिर्भूमी-जानिर्जिनमदोऽवदत् ॥ भवोद्विग्नं विभो! दीक्षा-दानेनानुगृहाण माम् ॥९८॥ इत्युक्त्वा कृतलोचं तं, पृथ्वीनाथं व्रतार्थिनम् ॥ स्वयं प्रावाजयद्वीर-विभुर्विश्वैकवत्सलः ॥१९॥ तमनु प्राव्रजत्सद्यो, महत्तरसुतोऽपि सः ॥ सङ्गः सत्पुरुषाणां हि, सर्वकल्याणकामधुक् ! ॥१००॥ ततः प्रणम्य राजर्षि-मित्युवाच दिव
UTR-2
॥३३२॥
Page #335
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३३३॥
स्पतिः ॥ धन्यस्त्वं येन सपदि, संत्यक्ता सम्पदीदृशी ! ॥१०१॥ प्राज्यमुत्सृज्य साम्राज्य-मुररीकुर्वता व्रतम् ॥ सत्यसन्ध ! स्वसन्धाऽपि, नूनं सत्यापिता त्वया! ॥१०२॥ जिनार्चा हि द्रव्यपूजा, भावपूजा तु संयमः ॥ द्रव्यपूजाकृतो भाव-पूजाकृच्चाधिको मतः ॥१०३।। तत्त्वया जित एवाहं, भावस्तवविधायिना ॥ अन्या हि भूयसी शक्तिरस्ति मे न पुनव्रते ॥१०४॥ स्तुत्वेति तं राजमुनि बिडौजा, जिनं प्रणम्य त्रिदिवं जगाम । राजर्षिरप्युग्रतपा विधाय, कर्मक्षयं मुक्तिपुरीमियाय ॥१०५॥ इति श्रीदशार्णभद्रराजर्षिकथा ॥४४॥ मूलम्--नमी नमेहि अप्पाणं, सक्खं सक्केण चोइओ। चइऊण गेहं वइदेही, सामण्णे पज्जुवट्ठिओ ४५
व्याख्या--प्राग्वत् ॥५॥ मूलम्--करकंडु कलिंगेसु, पंचालेसु अ दुम्मुहो । नमिराया विदेहेसु, गंधारेसु अ नग्गई ॥४६॥
व्याख्या--स्पष्टम् ॥४६॥ मूलम्--एए नरिंदवसहा, निक्खंता जिणसासणे । पुत्ते रज्जे ठवेऊणं, सामण्णे पज्जवद्विया ॥४७॥
व्याख्या--एते नरेन्द्रवृषभा निष्क्रान्ताः प्रव्रजिता जिनशासने न त्वन्यत्र, निष्क्रम्य च श्रामण्ये पर्युपस्थिताः प्रोद्यता अभूवन्निति शेषः, एतेषां कथास्तु प्रागुक्ता इति न पुनरिहोच्यन्ते ॥४७॥
अष्टादशमध्ययनम् (१८) दशार्णभद्र
चरित्रम् १०१-१०५ गा ४५-४७
UTR-2
॥३३३॥
Page #336
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३३४॥
अष्टादशमध्ययनम्
गा ४८ उदायनराजर्षिकथा १-१०
मूलम्--सोवीररायवसहो, चइत्ताण मुणी चरे । उद्दायणो पव्वइओ, पत्तो गइमणुत्तरं ॥४८॥
व्याख्या--सौवीरेषु राजवृषभस्तत्कालीननृपप्रधानत्वात् सौवीरराजवृषभः, त्यक्त्वा राज्यमिति शेषः, मुनिश्चरेत् अचारीत् मुनिचर्ययेति शेषः, 'उद्दायणोत्ति' उदायननामा प्रव्रजितः सन् चरित्वा च प्राप्तो गतिमनुत्तराम्, तत्कथा त्वेवम् अत्रैव भरतक्षेत्रे, सिन्धुसौवीरनीवृति ॥ सान्वर्थनामकं वीत-भयाभिधमभूत्पुरम् ॥१॥ तत्रोदायननामाऽऽसीत्सुकृतोदयकृनृपः ॥ राजितः सहजैः शौर्य-धैयौदार्यादिभिर्गुणैः ॥२॥ वीतभयादिपुराणां, त्रिषष्ट्यग्रं शतत्रयम् ॥ सिन्धुसौवीरमुख्यांश्च, देशान्धोडश पालयन् ॥३॥ सेवितो दशभिर्वीरै-महासेनादिभिर्नृपैः ॥ स भूपालोऽत्यगात्कालं, श्रिया शक्र इवापरः ॥४॥ [ युग्मम् ] तस्य प्रभावती राज्ञी, जज्ञे चेटकराट्सुता ॥ बिभ्रती मानसे जैनं, धर्म पतिमिवाऽनिशम् ॥५॥ तत्कुक्षिजो यौवराज्यं, प्राप्तस्तस्य महीपतेः ॥ नन्दनोऽभीचिनामाऽऽसी-त्केशी च भगिनीसुतः ॥६॥
इतश्च पुर्यां चम्पायां, स्वर्णकारो महाधनः ॥ कुमारनन्दीनामाऽभू-ललनालोलमानसः ! ॥७॥ ददर्श कन्यकां यां यां, यत्र यत्र मनोहराम् ॥ निष्कपञ्चशतीं दत्त्वा, तां तां परिणिनाय सः ॥८॥ इत्थं पञ्चशतानि स्त्री-रुदूढोऽपि स नाऽतृपत् ॥ स्त्रीधनायुष्कभोज्येषु, प्रायोऽतृप्ता हि जन्तवः ! ॥९॥ एता मिलन्तु माऽन्येन, केनापीति विचित्य सः ॥ एकस्तम्भगृहे न्यस्य, बुभुजे ता दिवानिशम् ॥१०॥ इतश्च पञ्चशैलाख्य-द्वीपे वारिधिमध्यगे ॥ बभूव
UTR-2
॥३३४॥
Page #337
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३३५॥
अष्टादशमध्ययनम् (१८) उदायनराजर्षिकथा ११-२५
व्यन्तरो विद्यु-न्मालिनामा महर्द्धिकः ॥११॥ स च हासाप्रहासाभ्यां, स्वदेवीभ्यां युतोऽन्यदा ॥ व्रजन् शक्राज्ञया | नन्दी-श्वरे प्राच्योष्ट वर्त्मनि ॥१२॥ ततश्चिन्तातुरे तस्य, कान्ते ते इति दध्यतुः ॥ प्रलोभयामः स्त्रीलोलं, कञ्चिद्यो नौ पतिर्भवेत् ॥१३॥ इति ताभ्यां भ्रमन्तीभ्यां, चम्पायां स सुवर्णकृत् ॥ ददृशेऽधिगृहं ताभि-ललनाभिः समं ललन् ॥१४॥ ततो योग्योऽयमस्माकं, नूनमित्यवधार्य ते ॥ तस्यादर्शयतां दिव्यं, स्वरूपं विश्वकार्मणम् ॥१५॥ मोहितस्सोऽथ ते देव्यौ, के युवामिति पृष्टवान् ? ॥ सविलासं विलासिन्यौ, ततस्ते इत्यवोचताम् ॥१६॥ आवां हासाप्रहासाढे, देव्यौ विद्धि महर्द्धिके ॥ चेन्नौ वाञ्छसि तत्पञ्च-शैलाख्यं द्वीपमापतेः ॥१७॥ उक्त्वेति विद्युल्लेखाव-द्राक् तिरोहितयोस्तयोः ॥ दिशं तामेव स प्रेक्षा-मास शून्यमनाश्चिरम् ॥१८॥ दध्यौ च योषितामासां पञ्चशत्याऽपि किं मम ॥ विश्वं शून्यमिवाभाति, दृशाविव विना हि ते ! ॥१९॥ तद्रूपं वीक्ष्य रत्नाभ-मासु काचमणीष्विव ॥ को नाम रमते तस्मात्तदर्थं प्रयते द्रुतम् ॥२०॥ ध्यात्वेति गत्वा भूपाल-कुले दत्वा धनं घनम् ॥ डिण्डिमं वादयनुच्चैः, पुर्यामेवमघोषयत् ॥२१॥ कुमारनन्दिनं पञ्च-शैले नयति यो द्रुतम् ॥ तस्मै नाविकवर्याय, द्रव्यकोटि ददाति सः ॥२२॥ तत्प्रपद्य मुदा कोऽपि, जरी जीवितनि:स्पृहः ॥ विधाप्य पोतं पाथेय-पाथोमुख्यैरपूरयत् ॥२३॥ निजानामङ्गजानां च, वित्तकोटिं वितीर्य ताम् ॥ कुमारनन्दिना साक-मारोहद्वहनं स तत् ॥२४॥ दिनैः कियद्भिस्तस्मिंश्च, पोते दूरं गतेऽम्बुधौ ॥ पुरः पश्यसि कि किञ्चि-दित्यूचे नन्दिनं जरी ॥२५॥ श्यामं किमपि
UTR-2
॥३३५॥
Page #338
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३३६॥ ३
अष्टादशम
ध्ययनम् उदायनराजर्षिकथा २६-३९
पश्यामी-त्युक्ते तेन जगौ जरन् ॥ वटोऽयं दृश्यते वार्द्धि-तटस्थाद्रिनितम्बजः ॥२६॥ यास्यत्यवश्यमस्याधो, यानपात्रमिदं च नः॥ ततस्तूर्णं त्वमुत्प्लुत्या-ऽमूढोऽस्मिन्विलगेस्तरौ ॥२७॥ वसन्ति वसतावस्मिन्, गिरौ भारण्डपक्षिणः ॥ ते च प्रातः पञ्चशैलं, व्रजन्ति चुणिहेतवे ॥२८॥ अंहयः स्युस्त्रयस्तेषां, ततस्त्वं मध्यमे क्रमे ॥ पटेन स्वं निबध्नीयाः, तस्य सुप्तस्य कस्यचित् ॥२९॥ ततस्त्वां पञ्चशैलाख्य-द्वीपे नेष्यन्ति ते खगाः ॥ शक्ष्याम्यहं तु प्रवया, ग्रहीतुं न हि तं वटम् ॥३०॥ वटात्पुरो महावर्ते, पोतस्त्वेष पतिष्यति ॥ तत्रैव च मया सार्द्ध, विनाशमुपयास्यति! ॥३१॥ अथ त्वमपि चेद्व्यग्रो, न्यग्रोधं न ग्रहीष्यसि ॥ तदा तूर्णं तमावर्त्त, गते पोते मरिष्यसि! ॥३२॥ एवं वृद्धे वदत्येव, वटाधो वहनं ययौ ॥ विलग्नः सोऽपि तत्र द्राक् , पञ्चशैलमगात्ततः ॥३३॥ तं चायातं भोक्तुमुत्कं, ते देव्यावित्यवोचताम् ॥ अनेन भूघनेन त्वं, न नौ भोगाय कल्पसे ! ॥३४॥ कर्णोऽपि लभते भूषाः, सोढच्छेदनवेदनः ॥ सोढदाहादिकष्टं च, स्वर्णमप्यश्नुते मणीन् ! ॥३५॥ तद्गत्वा स्वगृहं दत्त्वा, दीनादीनां निजं धनम् ॥ कृत्वा वह्निप्रवेशादि-कष्टं त्वमपि सत्वरम् ॥३६॥ द्वीपस्यास्य श्रियामासा-मावयोश्च पतिर्भव ॥ भूरिलाभाय दक्षैर्हि, किञ्चिकष्टमपीष्यते! ॥३७॥ [युग्मम्] अथ तत्र कथं यामी-त्युक्ते रक्तेन तेन ते ॥ चम्पापुर्या निन्यतुस्तं, कलादं विकलं स्मरात्! ॥३८॥ कथमागाः किञ्च चित्रं ? , तत्रेत्युक्तोऽथ नागरैः ॥ हा! क्व हासाप्रहासे ते, इत्येव स्माह
UTR-2
॥३३६॥
१ रात्रौ ॥२ चरितुम् ॥३ वृद्धः ॥
Page #339
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
॥३३७॥
अष्टादशमध्ययनम् (१८) उदायनराजर्षिकथा ४०-५३
सोऽसकृत् ॥३९॥ इङ्गिनीमृत्युना मर्तु-मुद्यतं तं जडं ततः ॥ व्याजहारेति तन्मित्रं, श्रावको नागिलाह्वयः ॥४०॥ भो ! मित्राऽमात्रधीपात्र ! नैतत्कापुरुषोचितम् ॥ युज्यते भवतः कर्तुं, सिंहस्येव तृणाशनम् ॥४१॥ | किञ्चातितुच्छभोगार्थं, दुर्लभं मानुषं भवम् ॥ मा हार्षी सदां रत्न-मिव काचकृते कृतिन् ! ॥४२॥ अथ यद्यपि ते वाञ्छा, भोगेष्वेव तथापि हि ॥ धर्ममेवाचराभीष्ट - दायिनं सुरशाखिवत् ॥४३॥ मित्रोपदेशमप्येनं, मोहोन्मत्तोऽवमत्य सः ॥ आपादादाशिरोदेह-माच्छाद्य छागगोमयैः ॥४४॥ चिरं दास्वदङ्घ्रिभ्यां, प्रदत्तेनाग्निना ज्वलन् ॥ देव्योस्तयोः स्मरन्मृत्वा, विद्युन्मालित्वमासदत् ॥४५॥ [ युग्मम् ] तमेवमिङ्गिनीमृत्या, मृतं वीक्ष्य विरक्तधीः ॥ अहो ! विमूढा भोगार्थं, क्लिश्यन्त इति चिन्तयन् ॥४५॥ प्रव्रज्य नागिलश्राद्धो, विपद्याऽभूत्सुरोऽच्युते ॥ ददर्शा:वधिना तं च, वयस्य पूर्वजन्मनः ॥४७॥ [ युग्मम् ] उपस्थितेऽन्यदा नन्दी-श्वरयात्रामहोत्सवे ॥ नश्यतोऽपि गले विद्यु-न्मालिनः पटहोऽपतत् ॥४८॥ अस्मत्कान्तेन वाद्योऽसौ, ध्रुवं तत्किं पलायसे ? ॥ इति हासाप्रहासाभ्यां प्रोचे स व्यन्तरस्तदा ॥४९॥ ततस्तं वादयन् शक्र-पुरो नन्दीश्वरे गतः ॥ तत्रागतेन सोऽदर्शि, तेन श्राद्धसुधाभुजा | | ॥५०॥ ततस्तं निकषा श्राद्ध-सुरः सोऽगाद्यथा यथा ॥ तत्तेजोऽसहमानोऽसौ, पलायत तथा तथा ॥५१॥
स्वतेजः सोऽथ संहृत्य, मां जानासीति तं जगौ ॥ सुरान् शक्रादिकान्को हि, न जानातीति सोऽप्यवक् ? ॥५२॥ ततः | प्राग्भवस्यं स्वं, प्रदर्येत्यवदत्स तम् ॥ सोऽहं नागिलनामास्मि, पूर्वजन्मसुहृत्तव ॥५३॥ मृतं कुमृत्युना प्रेक्ष्य, तदा
UTR-2
॥३३७॥
Page #340
--------------------------------------------------------------------------
________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥१३८॥
मूलम्-कंपिल्लंमि अ णयरे, समागया दोवि चित्तसंभूआ । सुहदुक्खफलविवागं, कहति ते इक्कमिक्कस्स ॥३॥
व्याख्या-काम्पील्ये च नगरे समागतौ मिलितौ द्वावपि चित्रसम्भूतौ पूर्वभवनाम्ना सुखदुःखफलविपाकं सुकृतदुष्कृतकर्मानुभवरूपं कथयतस्तौ 'एक्कमेक्कस्सत्ति' एकैकस्य अन्योन्यं, सर्वत्र वर्तमाननिर्देशस्तत्कालापेक्षयेति सूत्रत्रयाक्षरार्थो भावार्थस्तु कथानकादवसेयस्तत्र चायं सम्प्रदायः । तथाहि
अस्ति पुरं साकेतं, सङ्केतनिकेतनं शुभश्रीणाम् । तत्र मुनिचन्द्रोऽभू - भूपश्चन्द्रावतंससुतः ॥१॥ स च सागरचन्द्रगुरोः, पार्श्वे प्रव्रज्य भवविरक्तमनाः।। देशान्तरे विहर्तुं, गुरुणा सममन्यदाचालीत् ॥ २ ॥ भिक्षार्थमथ क्वापि, ग्रामे गतवति महामुनौ तस्मिन् ॥ सार्थेन समं चेलु-गुरवः स तु सार्थवियुतोऽभूत् ॥ ३ ॥ तमटन्तमटव्यन्तः, क्षुत्तृष्णाबाधितं तृतीयदिने ॥ प्रतिचेरुर्बन्धव इव, चत्वारो वल्लवाश्चतुराः ॥ ४ ॥ प्रत्युपकर्तुमिवोचे,तेभ्यो वाचंयमोऽपि जिनधर्मम् ॥ तं श्रुत्वा सम्बुद्धाः, प्रवव्रजुस्तेऽपि भवभीताः ॥ ५ ॥ तेषु च धर्मजुगुप्सा-मुभौ व्यधत्तां व्रतप्रभावाच्च ॥ दिवि देवत्वं प्राप्तौ, ततश्च्युतौ चायुषि क्षीणे ॥६॥ दशपुरनगरे शाण्डिल्य-विप्रदास्याः सुतौ युगलजातौ ॥ जातौ तौ जयवत्याः, प्राक्कृतनिन्दाविपाकवशात् ॥ ७ ॥ तौ सम्प्राप्तौ तारुण्य-मन्यदा
क्षेत्ररक्षणाय गतौ ॥ सुषुपतुरधो वटतरो-निरगात्तत्कोटराच्च फणी ॥ ८ ॥ तेन च दष्टे दष्टे नैकस्मिंस्तं गवेषयन् भुजगम् ।। अप| रोऽप्यदंशि तेनैव, भोगिना पूर्वरिपुणेव ॥ ९ ॥ तौ चाप्राप्तचिकित्सौ,विपद्य कालिञ्जराचलोपान्ते ॥ हरिणीकुक्षिप्रभवौ, सञ्जातौ
UTR-2
॥१३८॥
Page #341
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३३९॥
अष्टादशम ध्ययनम् उदायनराजर्षिकथा ६८-८१
तन्मुदा प्रतिपन्नेषु, तेषु देवस्तिरोदधे ॥ पारावारस्य पारं च, वणिजस्तेऽपि लेभिरे ॥६८॥ पुरं वीतभयं प्राप्तास्तेऽथ तत्काष्ठसम्पुटम् ॥ राजस्तापसभक्तस्यो-दायनस्योपनिन्थिरे ॥६९॥ तां च गीर्वाणवाणी ते, विज्ञा राज्ञे व्यजिज्ञपन् ॥ श्रुत्वा तद्बहवो विप्र-सरजस्कादयोऽमिलन् ॥ ७०॥ तेष्वेकेऽवादिषुर्वेद-वादी विश्वविधायकः ॥ देवाधिदेवो ब्रह्मा, तद्भेद्यमेतत्तदाह्वया ॥७१॥ इत्युक्त्वाऽऽख्याय तस्याख्या, तत्र मुक्तः शितोऽपि तैः ॥ कृतीव विस्मृते शास्त्रे, कुठार: कुण्ठतां ययौ ॥७२॥ अन्ये जगुर्जगद्धत्ते, युगान्ते यो निजोदरे ॥ हन्ति दैत्यांश्च विश्वारीन्, स हि विष्णुः सुरोत्तमः ॥७३॥ इत्यादाय तदाह्वानं, परशुर्वाहितोऽपि तैः ॥ जगाम मोघतामोघे, शैवलिन्या इवाऽनल: | ॥७४॥ प्रोचुः परे तु यस्यांशी, विधिविष्णू स एव हि ॥ वामदेवो देवदेवो, विश्वयोनिरयोनिजः ॥७५॥ अभिधामभि-धायेति, तस्य तैः पशुणा हतम् ॥ तन्नाभिद्यत पारीन्द्र-पुच्छेनेव गिरेस्तटम् ॥७६॥ ततस्तेषु विहस्तेषु, विमृशत्सु भृशं मिथः ॥ तदाकाययौ तत्र, महादेवी प्रभावती ॥ ७७॥ विधाय विधिवत्पूजा, तस्य काष्ठपुटस्य सा ॥ उज्जगार सुधोद्गारो-पमां रम्यामिमां गिरम् ॥७८॥ गतरागद्वेषमोहः, प्रातिहाथैर्युतोऽष्टभिः॥ देवाधिदेवः सर्वज्ञो, देयान्मे | दर्शनं जिनः ॥७९॥ इत्युदीर्य तया स्पृष्ट-मात्रमप्याशु पशुना ॥ तद्दारु व्यकसद्भानु-भानुना नलिनं यथा ! ॥८॥
अम्लानमाल्या सर्वाङ्ग-सुभगा सकला ततः ॥ मूर्तिराविरभूद्वीर-विभोर्लक्ष्मीरिवार्णवात् ॥८१॥ तां प्रेक्ष्य वचना
UTR-2
॥३३९॥
१ समुद्रस्य ॥ २ योगी ॥ ३ शैवलिन्या ओघे नद्या: प्रवाहे ॥ ४ व्याकुलेषु ।।
Page #342
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३४०॥
अष्टादशमध्ययनम् उदायनराजर्षिकथा ८२-९५
तीतां, मुदं प्राप्ता प्रभावती ॥ अभ्यर्च्य भक्त्या सन्तुष्टा, तुष्टाव सरसैः स्तवैः ॥४२॥ जज्ञे प्रभावना जैन-शासनस्य ततो भृशम् ॥ आनुकूल्यं दधौ किञ्चि-नृपोऽपि जिनशासने ॥८३॥ अन्तरन्तःपुरं चैत्यं, विधाप्याथ धराधवः ॥ तत्र न्यवीविशत्सार्व-प्रतिमां तां महामहैः ॥८४॥ त्रिसन्ध्यं पूजयामास, विधिवत्तां प्रभावती ॥ तस्यां च नृत्यं कुर्वत्यां, नृपो वीणामवादयत् ॥४५॥ नृत्यन्त्याश्च शिरस्तस्या, न ददर्श नृपोऽन्यदा ॥ ततस्तस्य विहस्तस्य, हस्ततः कम्बिकाऽपतत् ॥८६॥ किं मया दुष्ठ नृत्तं ? य-द्वीणावादनमत्यजः ॥ सकोपमिति राज्याऽथ, पृष्टो मौनं दधौ नृपः ॥८७॥ तयाऽथ साग्रहं पृष्टः, सद्भावं भूधवोऽब्रवीत् ॥ तन्निशम्य महासत्त्वा, महादेवीत्युवाच सा ॥८॥ सेवितश्राद्धधर्माया-श्चिरं मे न हि मृत्युभीः ! तन्निमित्तादितोऽल्पायुः-सूचकात्किमु खिद्यसे ? ॥८९॥ तयाऽथ स्नातया देहि, वासांसीत्युदिताऽन्यदा ॥ आनिन्ये तानि रक्तानि, काचिच्चेटी ससम्भ्रमा ॥१०॥ जिनं पूजयितुं चैत्यं, प्रविशन्त्या ममाऽधुना॥ ददासि दासि । वासांसि, किं रक्तानीति वादिनी ॥११॥ जातकोपा ततो राज्ञी, दर्पणेन जघान ताम् ॥ तेन मर्मणि लग्नेन, सा भुजिष्या व्यपद्यत ॥१२॥ [ युग्मम् ] सानुतापा ततो राज्ञी,
दध्यौ धिक् किं कृतं मया ॥ खंडितं हि व्रतं घाता-दस्या दास्या निरागसः ! ॥१३॥ विधायानशनं तस्मासे देनदेनः क्षिपाम्यहम् ॥ व्रतभंगे हि जाते किं, जीवितेन विवेकिनाम् ? ॥१४॥ विमृश्येति स्वमाकूतं, राज्ञी राज्ञे |
व्यजिज्ञपत् ॥ भूपः स्माहानुमंस्येऽहं, नेदं त्वद्वशजीवितः ॥१५॥ देव्यूचे दुर्निमित्तेन, तेनाल्पायुष्कतां मम ॥
UTR-2
॥३४०॥
Page #343
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३४१।।३
अष्टादशमध्ययनम् (९८) उदायनराजर्षिकथा ९६-१०८
जानासि त्वं तदपि किं, स्वामिन् ! स्वार्थं निहंसि मे ? ॥१६॥ राजा जगाद देवत्वं, प्राप्ता त्वं धर्ममार्हतम् ॥
चेद्बोधयसि सम्यग्मा-मनुमन्ये तदा ह्यदः ! ॥९७॥ तत्प्रतिश्रुत्य सा भक्तं, प्रत्याख्याय दिवं ययौ ॥ आराद्धश्राद्ध* धर्माणां, फलं प्रासङ्गिकं ह्यदः ! ॥९८॥ कुब्जा दासी देवदत्ता, तां जिनाक़ ततोऽभजत् ॥ स्वप्नादिना नदेवं तं,
देवीदेवोऽप्यबूबुधत् ॥१९॥ जहौ तापसभक्तत्वं, न तथाऽपि स पार्थिवः ॥ दृष्टिरागो हि दुर्मोचो, नीलीराग इवाङ्गिनाम् ॥१००॥ ततस्तापसरूपेणो-पेत्य राज्ञे स निर्जरः ॥ ददावन्येधुरमृत-फलानि सफलोद्यमः ॥१०१॥ सन्तीदृशानि भगवन् !, फलानि क्वेति भूपतिः? ॥ जातानन्दस्तदास्वादा-तं पप्रच्छ तपोधनम् ॥१०२॥ सोऽवादीनगरान्नाति-दूरस्थेऽस्माकमाश्रमे ॥ दुर्लभानि विशां सन्ति, फलानीमानि भूविभो! ॥१०३॥ ततोऽमूनि मनोहत्या-ऽऽस्वादयामीति चिन्तयन् ॥ विस्रब्धोऽगाद्विशामीशः, समं तेन तमाश्रमम् ॥१०४॥ तं मायातापसास्तत्र, हन्तुमारेभिरेऽपरे ॥ अरे ! कस्त्वमिहायासी-रित्यूचाना .मुधा क्रुधा ॥१०५॥ ततो दुष्टा अमी नार्हाः, संस्तवस्येति भावयन् ॥ निहन्तुमनुधावद्भ्यस्तेभ्यो नश्यन् भयाकुलः ॥१०६॥ स नृपः शरणीचक्रे, वीक्ष्य क्वापि वने मुनीन् ॥ त्रायध्वमेभ्यः पापेभ्यः, पूज्या! मामित्युदीरयन् ॥१०७॥ [ युग्मम् ] मा भैषीरथ भूप! त्व-मित्यूचुमुनयोऽपि तम् ॥ ते तापसा न्यवर्त्तन्त, हीणा इव ततो द्रुतम् ॥१०८॥ अथ वीतभयं वीत-भयनाथं क्षमाधनाः ॥
UTR-2
॥३४॥
Page #344
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३४२॥
अष्टादशमध्ययनम् (१८) उदायनरा
जर्षिकथा १०९-१२२
वाक्यैः पैञ्जूषपीयूषै-जैन धर्ममुपादिशन् ॥१०९॥ प्रतिबुद्धस्ततो राजा, श्राद्धधर्ममुपाददे ॥ प्रगेऽब्दगजिवन्मोघो, नोपायः खलु नाकिनाम् ! ॥११०॥ प्रादुर्भूयाऽथ तं धर्मे, स्थिरीकृत्य स निर्जरः ॥ स्वर्जगाम ततो भूमा-नाऽऽस्थानस्थं समैक्षत ॥१११॥ एवं श्रावकतां प्राप्तः, स महीधवपुङ्गवः ॥ अर्चाभिर्विविधाभिस्ता-मामाच॑यदन्वहम् ॥११२॥ इतश्च व्रतमादित्सु-र्गान्धारः श्रावकः कृती ॥ अवन्दत मुदा सर्वाः, सार्वकल्याणकावनीः ॥११३॥ वैताढ्ये शाश्वतीरर्चाः, सोऽथ श्राद्धो विवन्दिषुः ॥ आरराधोपवासस्थः, सम्यक्शासनदेवताम् ॥११४॥ तुष्टा देवी ततस्तस्मै, तानि बिम्बान्यदर्शयत् ॥ ददौ च सकलाभीष्ट-विधायि गुटिकाशतम् ॥ ११५॥ ततो निवृत्तः स श्राद्धः, श्रुत्वा दत्तां सुधाभुजा ॥ तामचर्चा चान्दनीं नन्तु-मागाद्वीतभयं पुरम् ॥११६॥ तत्र तं श्रावकं जात-मान्द्यं दैवनियोगतः ॥ स्वतातमिव सद्भक्त्या, कुब्जा प्रतिचचार सा ॥११७॥ ततः क्रमाद्गतः स्वास्थ्य, स कृतज्ञशिरोमणिः ॥ तस्यै ता गुलिकाः सर्वा, दत्त्वा दीक्षामुपाददे ॥११८॥ भूयासमनया स्वर्ण-वर्णाऽहं सुन्दराकृतिः ॥ ध्यात्वेति गुलिकामेकां, भुजिष्या बुभुजेऽथ सा ॥११९॥ आयसीव कुशी सिद्ध-रसवेधेन सा दुतम् ॥ बभूव तत्प्रभावेण, चारुचामीकरच्छविः ॥१२०॥ सुवर्णगुलिकेत्याह्वां प्राप्ता सा व्यमृशत्ततः ॥ भोक्तारमन्तरा फैल्गु, रूपं मे वनपुष्पवत् ॥१२१॥ न चाहं कामये जातु, तातकल्पममुं नृपम् ॥ तत्प्रद्योतोऽस्तु मे भर्ता, नृपः स हि महर्द्धिकः ॥१२२॥
UTR-2
॥३४२॥
१ कर्णामृतैः ।। २ जिनकल्याणकभूमीः ॥ ३ दासी ॥ ४ लोहमयी इव ॥ ५ निकृष्टं असारमित्यर्थः ।।
Page #345
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३४३॥
अष्टादशमध्ययनम् (१८) उदायनराजर्षिकथा १२३-१३६
एवं विचिन्त्य सा चेटी, गुटीमेकामभक्षयत् ॥ तत्स्वरूपं ततो गत्वा, प्रद्योताय जगौ सुरी ॥१२३॥ तामानेतुं ततो दूतं, प्रेषीत्प्रद्योतभूधवः ॥ सुवर्णगुलिका तं च, व्याजहारेति मानिनी ॥१२४॥ मामाह्वातुमिहायातु, स राट् पश्यामि तं यथा ॥ अदृष्टपूर्वमभ्येति, कामिनं न हि कामिनी! ॥१२५॥ इति तद्वचनं दूतो, गत्वा राज्ञे व्यजिज्ञपत् ॥ सोऽप्यारुह्यानलगिरि, तत्र रात्रावुपागमत् ॥१२६॥ तं च प्रेक्ष्यानुरक्ता सा, प्रोचे चेत्प्रतिमामिमाम् ॥ सहादत्से तदाऽऽयामि, त्वया सह महीपते ! ॥१२७॥ इह विन्यासयोग्याऽन्या, नास्ति प्रतिकृतिस्ततः ॥ तामानयामि त्वच्चेतो, मानयामि मनस्विनि! ॥१२८॥ इत्युदीर्य ततोऽवन्ती-मवन्तीशोऽगमद्रुतम् ॥ तादृशीमपरां वीर-प्रतिमा
च व्यधापयत् ॥१२९॥ [ युग्मम् ] तां च सम्यक् प्रतिष्ठाप्य, कपिलेन महर्षिणा ॥ गन्धद्विपेन तेनाऽऽगा-द्भूयो Xवीतभये निशि ॥१३०॥ दन्तिनं तं बहिर्मुक्त्वा, ताम_मुद्वहन्मुदा ॥ अपाकृत्य भियं तत्रा-ऽविशत्का कामिनां
|हि भी: ? ॥१३१॥ तत्र तां प्रतिमां न्यस्य, देवदत्तार्चया समम् ॥ तां दासी देवदत्तावां, हृत्वा स स्वपुरीमगात् |॥१३२॥ तद्गन्धेभः सविण्मूत्रं, तदा वीतभयेऽमुचत् ॥ तद्गन्धेन च तत्रत्या, गजाः सर्वे मदं जहुः ॥१३३॥ गन्धः स च यतोऽभ्यागा-त्तां दिशं ते मुहुर्मुहुः ॥ उत्तब्धशुण्डा व्यात्तास्याः, स्तब्धकर्णा व्यलोकयन् ॥१३४॥ अजानिव गजांस्तांश्च, वीक्ष्य वीतमदान्प्रगे ॥ अतिमात्रं महामात्राः, सम्भ्रान्तस्वान्ततां दधुः ॥१३५॥ विमदास्ते द्विपाः सर्वे-ऽवन्तिमार्गदिशं विभो! ॥ महर्विलोकयन्तीति, तेऽथ राज्ञे व्यजिज्ञपन् ॥१३६॥ भूसुत्रामा ततस्तत्र, न्ययु
UTR-2
॥३४३॥
Page #346
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३४४॥
३
अष्टादशमध्ययनम् (१८) उदायनराजर्षिकथा १३७-१५०
क्तायुक्तपुरुषान् ॥ तेऽपि गत्वेभपादादि, वीक्ष्यागत्यैवमूचिरे ॥१३७॥ इहाऽऽरूढोऽनलगिरि, प्रद्योतो नूनमाययौ ॥ श्रूयते न हि गन्धेभ-स्तं विनाऽन्यस्य कस्यचित् ॥१३८॥ जाङ्गुलीश्रवणान्नागा, इव नागा समेऽप्यमी ॥ तद्गन्धान्मदमत्याक्षु-मक्षु क्षोणीदिवस्पते ! ॥१३९॥ "ततश्च"-स राजाऽऽगात्कुतोऽत्रेति ?, ध्यायिनं तायिनं भुवः ॥ सुवर्णगुलिका नास्ती-त्यूचिवान्कोऽपि कञ्चुकी ॥१४०॥ भूपस्ततोऽवदनूनमुपेत्य स नृपः स्वयम् ॥ तां चेटीमहरत्तर्हि, किं तया गतयाऽपि मे ! ॥१४१॥ किन्तु पश्यत सा सार्व-प्रतिमा विद्यते न वा ? ॥ सा हि मोहाहिदष्टस्य, जीवातुर्मम वर्त्तते! ॥१४२॥ गत्वाऽऽगतस्ततः कोऽपि, साऽर्चाऽस्तीति नृपं जगौ ॥ पश्यन्ति स्थूलमतयः, स्थानाशून्यत्वमेव हि ! ॥१४३॥ पूजाकालेऽथ भूपालः, स्वयं चैत्यालयं गतः ॥ वीक्ष्याऽचर्चा म्लानपुष्पां तां, विषण्णो ध्यातवानिति! ॥१४४॥ हृता मे प्रतिमा तस्याः, प्रतिरूपमिदं खलु ॥ म्लानत्वं लेभिरे तस्यां, पुष्पाणि न हि कर्हिचित् ! ॥१४५॥ प्रद्योताय ततो दूतं, प्रजिघाय स भूधवः ॥ सोऽपि क्रमाद्गतोऽवन्ती-मवन्तीपतिमित्यवक् ॥१४६॥ स्ववीर्यवह्निविध्वस्त-वैरिवर्गतृणव्रजः ॥ श्रीउदायनभूपस्त्वां, मन्मुखेन वदत्यदः ॥१४७॥ दस्युवत्प्रतिमादास्यौ, हरन् हीणो न किं भवान् ? ॥ यद्वा दासीरतेर्युक्त-मेवादश्चेष्टितं तव! ॥१४८॥ तत्र दास्याऽनया कार्य, कार्याकार्यविदो न मे ॥ स्वमूर्तेः कुशलं कांक्ष-न्मूर्तिं तु प्रेषयेद्भुतम् ॥१४९॥ तदा देहि तां नो चे-दिहाऽऽयातमवेहि तम् ॥ कल्पान्तोद्धान्तपाथोधि-कल्पानल्पबलान्वितम् ॥१५०॥ तनिशम्यावदच्चण्ड
UTR-2
॥३४४॥
Page #347
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३४५॥
१५
अष्टादशमध्ययनम् शान्तिनाथचरित्रम् १५१-१६४
प्रद्योतश्चण्डतां गतः ॥ साधु दूत ! वियातोऽसि, मदग्रेऽपीत्थमात्थ यत् ! ॥१५१॥ अर्चाचेट्यौ रत्नभूते, हरतः का त्रपा मम ? ॥ कार्यं यथा तथा रत्न-मात्मसादिति न श्रुतम् ? ॥१५२॥ न दास्ये प्रतिमां चेमां, न हि दातुमिहानयम् ॥ प्रतिमाशेषतां गन्ता, जिघृक्षुः प्रतिमां स तु ! ॥१५३॥ तन्माऽऽयासीद्वायासी, जेता मां नागतोऽपि सः ॥ दन्ताबलो बलिष्ठोऽपि, नाचलं चलयत्यहो! ॥१५४॥ वाक्यं तस्येति दूतोऽपि, गत्वा राज्ञे न्यवेद-K यत् ॥ तन्निशम्य नृपोऽप्युच्चै-र्यात्रानेकमवीवदत् ॥१५५॥ ससैन्यैर्बद्धमुकुटै-र्दशभिः सह राजभिः ॥ प्रत्यवन्ति प्रतस्थेऽथ, ज्येष्ठमासि स पार्थिवः ॥१५६॥ सैन्यैर्भुवं तदुख़्तै, रजोभिश्च दिशोऽखिलाः ॥ छादयन्मरुदेशो/-मम्बुदुःस्थां क्रमादगात् ॥१५७॥ तस्यां विना जलं तृष्णा-कुलं तस्याऽखिलं बलम् ॥ आसन्नमृत्युवदभू-नष्टवाग् मीलितेक्षणम् ॥१५८॥ ततः प्रभावतीदेव-मुदायननृपोऽस्मरत् ॥ आगात्सुरोऽपि तत्कालं, कालक्षेपो न तादृशाम् ॥१५९॥ पुष्कलैः पुष्करावर्तपुष्करोपमपुष्करैः ॥ पूर्णानि विदधे त्रीणि, पुष्कराणि स निर्जरः ॥१६०॥ शीतलं सलिलं तेषु, पीत्वा स्वस्थमभूबलम् ॥ विनाऽन्नं जीव्यते जातु , न पुनर्जीवनं विना ॥१६१॥ सुरोऽथ भूपमापृछय, जगाम निजधाम सः ॥ क्रमादुज्जयिनीपुर्यामुदायननृपोऽप्यगात् ॥१६२॥ दूतेनाचीकथच्चैवं, कृपालुालवाधिपम् ॥ किं मारितैर्जनैर्जन्यं, भवत्वन्योन्यमावयोः! ॥१६३॥ रथी सादी निषादी वा, पदातिर्वा यथा भवान् ॥ युयुत्सते तथा वक्तु, यथाऽऽगच्छाम्यहं तथा ॥१६४॥
UTR-2
॥३४५॥
१ निर्लज्जः ॥२ मरणतां गमिष्यतीत्यर्थः।। ३ वृथाप्रयासी ॥ ४ गजः।। ५ यात्रापटहम् ।।
Page #348
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
॥३४६॥
अष्टादशम.ध्ययनम् उदायनरा
जर्षिकथा १६५-१७८
रथिनोरावयोरस्तु, युद्धमित्यथ सोऽब्रवीत् ॥ तच्च दूतमुखाज्ज्ञात्वा-5ऽरुरोहोदायनो रथम् ॥१६५॥ रथिना न | मया जय्यो, राजायमिति चिन्तयन् ॥ सज्जितेनानलगिरि-द्विपेनागादवन्तिराट् ॥१६६॥ तं च वीक्ष्य द्विपारूढमुदायननृपोऽब्रवीत् ॥ सन्धाभ्रष्टोऽसि रे पाप !, न हि मोक्षस्तथापि ते ! ॥१६७॥ इत्युदीर्य नृपो धीमा-न्मण्डल्याऽभ्रमयद्रथम् ॥ तत्पृष्टे भ्रमयामास, प्रद्योतोऽपि निजं गजम् ॥१६७८॥ स च गन्धद्विपो भ्राम्य-न्यं यं पादमुदक्षिपत् ॥ तं तं विव्याध निशितैः, शरैर्वीतभयेश्वरः ॥१६९॥ विहस्ते हस्तिनि ततः, पतितेऽवन्तिभूधवम् ॥ द्विपात्प्रपात्य बद्ध्वा च, जग्राहोदायनो बली ॥१७०॥ अहूं तस्यालिके दासी-पतिरित्यक्षरैर्नृपः ॥ निधाय दिव्यामा ता-मानेतुमगमन्मुदा ॥ १७१॥ प्रणम्याभ्यर्च्य तां याव-दादातुमुपचक्रमे ॥ तावन्नाचलदर्चा सा, दिव्या गीरिति चाभवत् ॥१७२॥ पांशुवृष्ट्या स्थलं भावि, स्थाने वीतभयस्य यत् ॥ तन्नाऽऽयास्याम्यहं तत्र, राजन् ! मा खिद्यथास्ततः ॥१७३॥ न्यवर्त्तताशु तच्छ्रुत्वा, स्वदेशं प्रति भूपतिः ॥ प्रावर्त्तताऽन्तरा वर्षा, तत्प्रयाणान्तरायकृत् ॥१७४॥ स्कन्धावारं पुराकारं, ततस्तत्र न्यधान्नृपः ॥ धूलिवप्रान्विधाप्यास्थु-स्तद्रक्षायै नृपा दश ॥१७५।। तत्र च न्यवसनैके, वाणिज्याय वणिग्जनाः ॥ इति तच्छिबिरं लोकै-रूचे दशपुरं पुरम् ॥१७६॥ प्रद्योतं चात्मवद्भूपो-ऽचिन्तयद्भोजनादिना ॥ प्राप्ते पर्युषणापर्व-ण्युपवासं चकार च ॥१७७॥ किमद्य भोक्ष्यसे राज-निति सूदो नृपाज्ञया ॥ तदा प्रद्योतमप्राक्षी-त्ततः सोऽपीत्यचिन्तयत् ॥१७८॥ नूनं विषादिदानान्मा-मद्यासौ मारयिष्यति ॥ नोचेद
UTR-2
॥३४६॥
Page #349
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम्
॥३४७॥१५
अष्टादशमध्ययनम् उदायनरा
जर्षिकथा १७९-१९३
कृतपूर्वोऽयं, प्रश्नोऽद्य क्रियते कथम् ? ॥१७९॥ ध्यात्वेति सूदमित्यूचे, पृच्छसीदं कुतोऽद्य माम् ? ॥ सरसा रसवत्याऽऽगा-न्नित्यं हि समये स्वयम् ॥१८०॥ सूदोऽवादीदद्यपर्वा-ब्दिकं तत्सपरिच्छदः ॥ उपोषितोऽस्ति नः | स्वामी, पृच्छामि तदिदं तव ॥१८१॥ अवन्तीशोऽवदत्साधु, पर्वेदं ज्ञापितं त्वया ॥ तन्ममाप्युपवासोऽद्य, पितरौ श्रावको हि मे ! ॥१८२॥ तत्प्रद्योतवचः सूदो-ऽप्याख्यद्वीतभयप्रभोः ॥ राजाऽप्युवाच श्राद्धोऽसौ, यादृशो वेद्मि तादृशम् ॥१८३॥ मायाश्राद्धेऽपि किन्त्वस्मिन्, बद्धे पर्युषणा मम ॥ न शुद्ध्यतीति प्रद्योत-मुदायननृपोऽमुचत् ॥१८४॥ क्षमास्थाम्नोः क्षमस्तं चा-ऽक्षमयत्स क्षमाधवः ॥ पट्टबन्धं च भालाकं तस्याऽऽच्छादयितुं ददौ ॥१८५॥ तदादि पट्टबन्धोऽपि, श्रीचिह्न भूभुजामभूत् ॥ मौलिमेव हि ते मौलौ, पुरा तु दधिरेऽखिला: ॥१८६॥ तस्मै देशं च तं सत्य-सन्धः सिन्धुप्रभुर्ददौ ॥ अतीतासु च वर्षासु, पुरं वीतभयं ययौ ॥१८७॥ वणिजस्ते तु तत्रैव, स्कन्धावारास्पदेऽवसन् ॥ पुरं दशपुराढे त-तैरेव च ततोऽभवत् ॥१८८॥ अन्यदोदायननृपः, पौषधौकसि पौषधी॥ धर्मजागरिकां जाग्र-द्रजन्यामित्यचिन्तयत् ॥१८९॥ धन्यास्ते नगरनामा-करद्रोणमुखादयः ॥ पवित्रयति यान् श्रीमान्, वर्द्धमानो जगद्गुरुः ! ॥१९०॥ श्रुत्वा वीरविभोर्वाणी, श्राद्धधर्म श्रयन्ति ये ॥ दीक्षामाददते ये च, धन्यास्तेऽपि नृपादयः ! ॥१९१॥ तच्चेत्पुनाति पादाभ्यां, पुरं वीतभयं विभुः ॥ तदा तदन्तिके दीक्षा-मादाय स्यामहं कृती! ॥१९२॥ तच्च तच्चिन्तितं ज्ञात्वा, चम्पातः प्रस्थितः प्रभुः ॥ एत्य वीतभयोद्याने, समवासरदन्यदा ॥१९३॥ श्रुत्वाऽथ नाथ
UTR-2
॥३४७॥
Page #350
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३४८॥
अष्टादशमध्ययनम् (१८) उदायनराजर्षिकथा १९४-२०७
मायात-मुदायननृपो मुदा ॥ गत्वा नत्वा देशनां च, निशम्येति व्यजिज्ञपत् ॥१९४॥ राज्यमङ्गजसात्कृत्वा, व्रतार्थं युष्मदन्तिके ॥ यावदायाम्यहं ताव-त्पावनीयमिदं वनम् ॥१९५॥ प्रतिबन्धं मा कृथास्त्व-मित्युक्तः स्वामिना ततः ॥ उदायनो जिनं नत्वा, गृहं गत्वेत्यचिन्तयत् ॥१९६॥ सुतायाभीचये राज्यं, यदि दास्यामि साम्प्रतम् ॥ तदाऽसौ मूर्च्छितस्तत्र, भ्रमिष्यति भवे चिरम् ॥१९७॥ आपातसुन्दरं राज्यं, विपाके चातिदारुणम् ॥ तदिदं न हि पुत्राय, दास्ये विषफलोपमम् ॥१९८॥ ध्यात्वेति राज्ये विन्यस्य, जामेयं केशिनं नृपः ॥ जिनोपान्ते प्रवव्राज, केशिराजकृतोत्सवः ॥१९९॥ तपोभिरुपवासाद्यै-र्मासान्तैरतिदुष्करैः ॥ शोषयन्कर्म कायं च, राजर्षिर्विजहार सः ॥२००॥ अन्यदा तद्वपुष्यन्त-प्रान्ताहारैरभूदुजा ॥ भिषजो भेषजं तस्या, रुजोऽभिदधिरे दधि ॥२०१॥ उदायनमुनिप्रष्ठो, गोष्ठेषु व्यहरत्ततः ॥ दधिभिक्षा हि निर्दोषा, तेष्वेव सुलभा भवेत् ॥२०२॥ पुरे वीतभयेऽन्येधुरुदायनमुनिर्ययौ ॥ केशिभूपस्तदामात्यै-रित्यूचेऽहेतुवैरिभिः ॥२०३॥ परिषहैर्जितो नूनं, मातुलस्तव भूपते ! राज्यलिप्सुरिहायासी-त्ततो मा तस्य विश्वसी: ! ॥२०४॥ केश्यूचे राज्यनाथोऽसौ, राज्यं गृह्णातु किं मय ? ॥ धनेशे गृह्णति द्रव्यं, वणिक्पुत्रस्य किं रुषा? ॥२०५॥ अभ्यधु(सखा धर्मः, क्षत्रियाणां न खल्वयम् ॥ प्रसह्य गृह्यते राज्यं, राजन्यैर्जनकादपि ! ॥२०६॥ प्रतिदद्या न तद्राज्यं, प्रत्यदान्न हि कोऽपि तत् ॥ तैरित्युक्तस्ततः केशी, किं | कार्यमिति पृष्टवान् ? ॥२०७॥ दुष्टास्ते प्रोचुरेतस्मै, विषं दापय केनचित् ॥ व्युद्ग्राहितस्तैस्तदपि, प्रतिपेदे स
UTR-2
॥३४८॥
Page #351
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३४९॥
अष्टादशमध्ययनम् (१८) उदायनरा जर्षिकथा २०९-२२१
मन्दधीः! ॥२०८॥ ततः कयाचिदाभीर्या, स भूपः सविषं दधि ॥ तस्मै दापितवांस्तस्मा-द्विषं चापाहरत्सुरी ॥२०९॥ विषमिश्रदधिप्राप्ति-स्तव तन्मा ग्रहीस्ततः ॥ इत्यूचे च मुनिं देवी, ततः सोऽपि तदत्यजत् ! ॥२१०॥ विना दधि व्याधिवृद्धौ, भूयः साधुस्तदाददे ॥ तद्विषं च सुरी प्राग्व-ज्जहार व्याजहार च ॥२११॥ तृतीयवारमप्येवं, देवताऽपाहरद्विषम् ॥ तद्भक्तिरागविवशा-ऽभ्रमत्तत्पृष्ठतश्च सा ॥२१२॥ अन्यदा च प्रमत्तायां, देव्यां सविषमेव सः ॥ बुभुजे दधि भाव्यं हि, भवत्येव यथातथा! ॥२१३॥ ततोऽङ्गव्याकुलतया, ज्ञात्वाऽऽत्मानं विषाशिनम् ॥ चकारानशनं साधुः, समतारससागरः! ॥२१४॥ त्रिंशदिनान्यनशनं, पालयित्वा समाहितः ॥ केवलज्ञानमासाद्य, स राजर्षिः शिवं ययौ ॥२१५॥ तस्मिन्मुक्तिं गते तत्रा-ऽऽगता सा देवता पुनः ॥ ज्ञात्वा तथा मुनेरन्त-मन्तः कोपं दधौ भृशम् ॥२१६॥ साऽथ वीतभये पांशु - वृष्टिं रुष्टा व्यधात्तथा ॥ यथा जज्ञे पुरस्थाने, स्थलं विपुलमुच्चकैः ! ॥२१७॥ शय्यातरं मुनेस्तस्य, कुम्भकारं निरागसम् ॥ सा सुरी सिनपल्यां प्राग्, निन्ये हृत्वा ततः पुरात् ॥२१८॥ तस्य नाम्ना कुम्भकार -कृतमित्याह्वयं पुरम् ॥ तत्र सा विदधे किं वा, दिव्यशक्तेर्न गोचरः ? ॥२१९॥
इतश्च केशिनं राज्ये, यदा न्यास्थदुदायनः ॥ तदा तत्तनयोऽभीचि-रिति दूनो व्यचिन्तयत् ॥२२०॥ प्रभावतीकुक्षिभवे, सनये भक्तिमत्यपि ॥ सुते मयि सति क्षमापो, राज्यं यत्केशिने ददौ ॥२२१॥ न हि चक्रे विवेकाऽर्ह,
UTR-2
||३४९॥
Page #352
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३५०॥
अष्टादशमध्ययनम् उदायनराजर्षिकथा २२२-२२९
पिता तन्मे विवेक्यपि ॥ भागिनेयो हि नाऽऽनेयो, धाम्नीत्युक्तं जडैरपि ! ॥२२२॥ हित्वाऽङ्गजं निजं राज्ये, जामेयं न्यस्यतः पितुः ॥ वारकः कोऽपि किं नासी-दुनिमित्तमभून्न किम् ? ॥२२३॥ प्रभुः पिता मे यदि वा, यथाकामं प्रवर्त्तताम् ॥ न तूदायनसूनोमें, युज्यते केशिसेवनम् ! ॥२२४॥ इति दुःखाभिभूतोऽसौ, निर्गत्य स्वपुरागृतम् ॥ चम्पायां कूणिकं मातृ-ष्वसुः पुत्रमुपागमत् ॥२२५॥ तत्रापि विपुलां लक्ष्मी, प्रापोदायननन्दनः ॥ सुखं चास्थात्कूणिकेन, भूभुजा कृतगौरवः ॥२२६॥ श्राद्धधर्मं च सुचिरं, यथावत्पर्यपालयत् ॥ न्यक्कारं तं स्मरंस्ताते, वैरं तत्तु जहौ न सः ! ॥२२७॥ प्रपाल्याब्दानि भूयांसि, श्राद्धधर्म स भूपभूः ॥ पितृवैरमनालोच्या-ऽनशनं पाक्षिकं व्यधात् ॥२२८॥ मृत्वा ततोऽभूदसुरेष्वभीचिः, पल्योपमायुस्त्रिदशो महर्द्धिः । ततश्चयुतस्त्वेष महा| विदेहे, कृत्वा भवं प्रास्यति सिद्धिसौधम् ॥२२९॥ इति श्रीउदायनराजर्षिकथा ॥४८॥ मूलम्--तहेव कासीराया, सेओसच्चपरक्कमे । कामभोगे परिच्चज्ज, पहणे कम्ममहावणं ॥४९॥
व्याख्या--तथैव तेनैव प्रकारेण काशिराजः काशिमण्डलाधिपतिः श्रेयसि प्रशस्यतरे सत्ये संयमे पराक्रमः सामर्थ्य यस्यासौ श्रेयःसत्यपराक्रमः, कामभोगान् परित्यज्य 'पहणेत्ति' प्रहतवान्, कर्मैव महावनमिवातिगहनतया कर्ममहावनम् ॥४९॥ मूलम्--तहेव विजयो राया, आणढाकित्ति पव्वए । रज्जं तु गुणसमिद्धं, पयहित महायसो ॥५०॥
गा४९-५०
UTR-2
॥३५०॥
Page #353
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥३५१ ॥
१५
१८
व्याख्या -- तथैव विजयो राजा, आनष्टा सामस्त्येनापगता अकीर्त्तिरश्लाघा यस्य सः आनष्टाकीर्त्तिः, प्राकृतत्वात्सिलोपः 'पव्वएत्ति' प्राव्राजीत्, राज्यं गुणैः समृद्धं संपन्नं गुणसमृद्धं प्राच्य 'तु 'शब्दस्यापिशब्दार्थस्य भिन्नक्रमस्येह योगाद्गुणसमृद्धमपि प्रहाय त्यक्त्वा महायशाः । इह च लघुवृत्तौ काशिराजो नंदनाहवः सप्तमबलदेवो विजयश्च द्वितीयबलदेव इति व्याख्यातमस्ति तत एतौ तावन्यौ वा यथागमं वाच्यौ, निर्णयाभावाच्चात्र नानयोः कथा लिखितेति ५० मूलम् -- तहेवुग्गं तवं किच्चा, अव्वक्खित्तेण चेअसा । महब्बलो रायरिसी, आदाय सिरसा सिरीं ॥५१॥
व्याख्या-- तथैव उग्रं तपः कृत्वा अव्याक्षिप्तेन चेतसा महाबलो राजर्षिरादाय गृहीत्वा शिरसेव शिरसा शिर: प्रदानेनेव जीवितनिरपेक्षमित्यर्थः, श्रियं भावश्रियं संयमरूपां तृतीयभवे परिनिर्वृत इति शेषः । तत्कथा त्वेवम्अत्रैव भरतक्षेत्रे, नगरे हस्तिनापुरे ॥ बलो नामाऽतुलबलो, वसुधाखण्डलोऽभवत् ॥१॥ दीप्रप्रभावती तस्य, जज्ञे राज्ञी प्रभावती ॥ अन्यदा तु सुखं सुप्ता, सिंहं स्वप्ने ददर्श सा ॥२॥ तया मुदितया पृष्टः, स्वप्नार्थमथ पार्थिवः ॥ प्रोचे भावी तव सुतो ऽस्मत्कुलाम्भोधिचन्द्रमाः ||३|| तन्निशम्य मुदं प्राप्ता दधौ गर्भं प्रभावती ॥ काले च सुषुवे पुत्रं, पवित्रं पुण्यलक्षणैः ॥४॥ प्राज्यं जन्मोत्सवं कृत्वा, शिशोस्तस्याभिधां व्यधात् ॥ महाबल इति क्ष्माप:, प्रमोदाद्वैतमाश्रितः ॥५॥ लाल्यमानोऽथ धात्रीभि-वर्द्धमानः क्रमेण सः ॥ कलाकलापमापन्नः पुण्यं तारुण्यमासदत् ॥६॥ अष्टौ राजाङ्गजाः श्रेष्ठा, दिशां श्रिय इवाऽऽहृताः ॥ एकेनाह्ना पितृभ्यां स पर्यणायि महामहैः ॥७॥
UTR-2
अष्टादशम ध्ययनम् ( १८ ) गा ५१
महाबलरा जर्षिकथा
१-७
॥३५१ ॥
Page #354
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३५२॥
अष्टादशम
ध्ययनम् महाबलराजर्षिकथा
वधूवराणां तेषां च, यौतकं तद्ददौ नृपः ॥ वंश्यादासप्तमात्कामं, दातुं भोक्तुं च यद्भवेत् ॥८॥ ताभिः सद्गुणकान्ताभिः, कान्ताभिः सममष्टभिः ॥ कामभोगान्यथाकामं सोऽभुक्त सततं ततः ॥९॥ साधुपञ्चशतीयुक्तः, वंश्यः श्रीविमलाहतः ॥ आचार्यों धर्मघोषाख्यः, पुरे तत्राऽन्यदाऽऽययौ ॥१०॥ तं च श्रुत्वाऽऽगतं तुष्ट-मनाः श्रीमान्महाबलः ॥ | गत्वा प्रणम्य शुश्राव, धर्म कर्ममलोदकम् ॥११॥ ततोऽवाप्तः स वैराग्यं, मन्दभाग्यैः सुदुर्लभम् ॥ श्रीधर्मघोषसूरीन्द्र, प्रणम्येति व्यजिज्ञपत् ॥१२॥ धर्मोऽसौ रोचते मां, जीवातुरिव रोगिणे ॥ तत्पृष्टवा पितरौ याव-दायामि व्रतहेतवे ॥१३॥ तावत्पूज्यैरिह स्थेयं, मयि बाले कृपालुभिः ॥ सूरिरूचे युक्तमेत-त्प्रतिबन्धं तु मा कृथाः! ॥१४॥ [ युग्मम् ] सोऽथ गत्वा गृहं नत्वा, पितरावित्यवोचत ॥ धर्मघोषगुरोधर्म, श्रुत्वाऽवापमहं मुदम् ॥१५॥ तत्पूज्यानुज्ञया, दीक्षा-मादित्सेऽहं तदन्तिके ॥ सम्प्राप्यापि प्रवहणं, मग्नस्तिष्ठति कोऽम्बुधौ? ॥१६॥ मूर्च्छिता न्यपतत्पृथ्व्यां, तच्च श्रुत्वा प्रभावती ॥ कथंचिल्लब्धसंज्ञा तु, रुदतीति जगाद तम् ॥१७॥ विश्लेषं नेश्महे सोढुं, पुत्र ! प्राणप्रियस्य ते ॥ तद्यावत्स्मो वयं ताव-त्तिष्ठ पश्चात्परिव्रजेः ॥१८॥ कुमारः स्माह संयोगाः, सर्वेऽमी स्वप्नसन्निभाः ॥ नृणामायुश्च वातास्त-कुशाग्रजलचञ्चलम् ! ॥१९॥ तन्न जानामि कः पूर्वं, पश्चाद्वा प्रेत्य यास्यति ॥ तदद्यैवानुजानीत, प्रव्रज्याग्रहणाय माम् ॥२०॥ देव्यूचे तव कायोऽयं, रम्योऽभिनवयौवनः ॥ भुक्त्वा तदङ्ग ! सौख्यानि, गृह्णीया वार्द्धके व्रतम् ॥२१॥ कुमार: स्माह रोगाढ्ये- शुचिपूर्णे मलादिले ॥ कारागार इवाऽसारे,
UTR-2
॥३५२॥
Page #355
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
॥३५३ ॥ १८
कायेऽस्मिन् किं सुखं नृणाम् ? ॥२२॥ किञ्च सत्यङ्गसामर्थ्ये, व्रतं युक्तं न वार्द्धके ॥ वार्द्धके ह्यक्षमतनोः, स्याद्विनाऽपि मनो व्रतम् ! ॥२३॥ प्रभावत्यभ्यधादाभिः समग्रगुणधामभिः ॥ भोगान्सहाष्टभिः स्त्रीभिर्भुक्ष्व किं साम्प्रतं व्रतम् ? ॥२४॥ महाबलोऽब्रवीत्क्लेश-साध्यैर्बालिशसेवितैः ॥ दुःखानुबन्धिभिर्भोगैः, किं मे विषफलोपमैः ? ॥ २५ ॥ किञ्च मोक्षप्रदं मर्त्य - जन्मभोगकृते कृती ॥ वराटिकाकृते रत्न-मिव को हारयत्यहो ! ||२६|| अम्बाऽवादीदिदं जात!, दव्यजातं क्रमागतम् ॥ स्वैरं विलस पुण्यदोः फलं ह्येतदुपस्थितम् ! ॥ २७ ॥ अभ्यधाद्धूपभूर्मात गत्रिचोराग्निराजसात् ॥ क्षणाद्भवति यद्वत्तं प्रलोभयसि तेन किम् ? ॥२८॥ किञ्च प्रेत्य सहाऽऽयाति, यो धर्मोऽनन्तशर्मदः ॥ धनं तद्विपरीतं तत्समतामनुवीत किम् ? ॥२९॥ राज्ञी जगौ वह्निशिखा - पानवदुष्करं व्रतम् ॥ कुमार ! सुकुमारस्त्वं कथङ्कारं करिष्यसि ? ॥३०॥ उवाच नृपभूः स्मित्वा, मातः ! किमिदमुच्यते ? ॥ नराणां कातराणां हि व्रतं भवति दुष्करम् ! ॥ ३१ ॥ पालयन्ति प्रतिज्ञां स्वां, वीराः प्राणव्ययेऽपि ये ॥ परलोकार्थिनां तेषां न हि तदुष्करं परम् ! ॥३२॥ विहाय मोहं तत्पूज्या व्रताय विसृजन्तु माम् ॥ परोऽपि प्रेर्यते धर्म-चिकीः किं पुनरात्मजः ? ॥३३॥ तं तत्त्वविज्ञं वैराग्या- त्प्रकम्पयितुमक्षमौ ॥ व्रतार्थमन्वमन्येतां कथंचित्पितरौ ततः ॥३४॥ सोऽथ मूर्द्धाभिषिक्तेना - ऽभिषिक्तस्तीर्थवारिभिः ॥ ज्योत्स्नासधर्मभिर्लिप्त गात्रः श्रीचन्दनद्रवैः ||३५|| अदूष्ये देव
UTR-2
अष्टादशम
ध्ययनम् ( १८ ) महाबलरा
जर्षिकथ २३-३५
॥३५३॥
Page #356
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३५४॥
अष्टादशम
ध्ययनम्
महाबलराजर्षिकथा ३६-४७
दूष्ये द्वे, हयलालोपमे दधत्. ॥ आपादादाशिरोन्यस्तै, राजन्माणिक्यमण्डनैः ॥३६॥ विस्मेरपुण्डरीकाभ-पुण्डरीकेण राजितः ॥ वेल्लकल्लोललोलाभ्यां, चामराभ्यां च वीजितः ॥३७॥ सहस्रेण नृणां वाह्या-मारूढः शिबिका शुभाम् ॥ चतुरङ्गबलाढ्येना-ऽनुयातो बलभूभुजा ॥३८ ॥ भेरीप्रभृतितूर्याणां, नादैगर्जानुकारिभिः ॥ अकाण्डताण्डवारम्भं, जनयन्केलिकेकिनाम् ॥३९॥ हित्वा रमामिमां दीक्षा-मादत्ते यौवनेऽपि यः ॥ सोऽयं कृतार्थ इत्युच्चैः,X स्तूयमानोऽखिलैर्जनैः ॥४०॥ ददानो दानमर्थिभ्य-चिन्तामणिरिवेहितम् ॥ प्राप पावितमाचार्यैः, पुरान्निर्गत्य तद्वनम् ॥४१॥ [ सप्तभिः कुलकम् ] याप्ययानादथोत्तीर्णं, पुरस्कृत्य महाबलम् ॥ गत्वान्तिके गुरोस्तस्य, पितरावित्यवोचताम् ॥४२॥ प्रियः पुत्रोऽयमस्माकं, विरक्तो युष्मदन्तिके ॥ दीक्षां गृह्णाति तच्छिष्य-भिक्षां वो दद्महे वयम् ! ॥४३॥ ओमित्युक्तेऽथ गुरुभि-रेशानी दिशमाश्रितः ॥ सर्वान्मुमोचालङ्कारा-विकारानिव भूपभूः! ॥४४॥ छिनमुक्तावलिमुक्ता-कल्पान्यश्रूणि मुञ्चती ॥ गृह्णती तानलङ्कारां-स्तदेत्यूचे प्रभावती ॥४५॥ जात! त्वं जातुचिन्माभू-धर्मकृत्ये प्रमद्वरः ॥ आराधयेर्गुरुवचः, सन्मंत्रमिव सर्वदा! ॥४६॥ अथ नत्वा गुरून् राज्ञि, राज्ञीयुक्ते ततो गते ॥ लोचं चकार भूपाल-नन्दनः पञ्चमुष्टिकम् ॥४७॥ धर्मघोषगुरून् भक्त्या, नत्वा चेति व्यजिज्ञपत् ॥
UTR-2
॥३५४॥
१ हयलालामद् दधत् । इति 'घ' संज्ञकपुस्तके । हयलाला अश्वफेनः॥२ श्वेतच्छत्रेण ॥ ३ स्वयं केशानुदखनत् , कुमारः पञ्च- मुष्टिभिः ।। इति 'घ' पुस्तके पाठः ॥
Page #357
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥३५५॥१५
दीक्षानावं दत्त पूज्या, मज्जतो मे भवार्णवे ! ॥ ४८ ॥ ततस्तैर्दीक्षितस्तीव्रं स व्रती पालयन्व्रतम् ॥ चतुर्दशाऽपि पूर्वाणि, पपाठ प्राज्यधीबलः ॥ ४९ ॥ तप्यमानस्तपोऽत्युग्रं द्वादशाब्दीं विहृत्य सः ।। मासिकानशनेनाभू-त्स्वर्लोके पञ्चमे सुरः ॥५०॥ तत्र चायं पूरयित्वा सागराणि दशाऽऽयुषा ॥ च्युत्वाऽभूद्वाणिजग्रामे श्रेष्ठिश्रेष्ठः सुदर्शनः ॥५१॥ सम्यग्दर्शनपूतात्मा द्योतयन् जिनशासनम् ॥ चिरं सुदर्शनस्तत्र श्राद्धधर्ममपालयत् ॥५२॥ तत्र ग्रामेऽन्यदा स्वामी, श्रीवीरः समवासरत् ॥ केकीवाब्दं तमायातं श्रुत्वा श्रेष्ठी जहर्ष सः ॥५३॥ ततो नत्वा जिनं श्रुत्वा धर्मं स श्रेष्ठपुङ्गवः ॥ विरक्तो व्रतमादत्त दत्तवित्तव्रजोऽर्थिषु ॥५४॥ तत्राऽपि स श्रेष्ठमुनिः सदङ्ग-पूर्वाणि पूर्वाण्यखिलान्यधीत्य ॥ कर्मक्षयासादितकेवलर्द्धि-भेजे महानन्दमुदारकीर्त्तिः ॥ ५५ ॥ इति महाबलर्षिकथा ॥ 'अयं पञ्चमाङ्गभणितो महाबल इहोतो, यदि चान्यः कोऽपि प्रतीतो भवति तदा स एवात्र वाच्यः" इति सप्तदशसूत्रार्थः ॥५१॥ इत्थं महापुरुषदृष्टान्तैर्ज्ञानपूर्वकक्रियाफलमुपदर्श्य साम्प्रतमुपदेष्टुमाह-
44
मूलम्-कहं धीरे अहेऊहिं, उम्मत्तोव्व महिं चरे । एए विसेसमादाय, सूरा दढपरक्कमा ॥५२॥
व्याख्या-- कथं केन प्रकारेण धीरोऽहेतुभिः क्रियावाद्यादिकल्पितकुहेतुभिरुन्मत्त इव ग्रहगृहीत इव तत्त्वापलपनेनालजालभाषितया महीं भुवं चरेद्भ्रमेन्नैव चरेदित्यर्थः । कुत इत्याह यत एते पूर्वोक्ता भरतादयो विशेषं मिथ्या
१ ज्ञात्वा इति 'घ' "पुस्तके ॥
अष्टादशमध्ययनम् ( १८ ) महाबलराजर्षिकथा
४८-५५
UTR-2
गा ५२
॥३५५ ॥
Page #358
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥३५६॥
2
दर्शनेभ्यो जिनशासनस्य विशिष्टतामादाय गृहीत्वा सूरा दृढपराक्रमा एतदेवाश्रितवन्त इति शेषः ॥ ततस्त्वयाऽपि विशेषज्ञेन धीरेण च सता अत्रैव निश्चितं चेतो विधेयमिति ॥५२॥ किञ्च - मूलम्--अच्छंतनिआणखमा, सच्चा मे भासिआ वई । अतरिंसु तरंतेगे, तरिस्संति अणागया ॥५३॥ व्याख्या-- अत्यन्तं अतिशयेन निदाने कर्ममलशोधने क्षमा समर्था अत्यन्तनिदानक्षमा, सत्या मे मया भाषिता 'वइत्ति' वाक्, जिनशासनमेवाश्रयणीयमित्येवंरूपा । अनया चाङ्गीकृतया अतार्षुस्तीर्णवन्तस्तरन्त्येकेऽपरे सम्प्रत्यपि तत्कालापेक्षया क्षेत्रान्तरापेक्षया वा इत्थमभिधानं । तरिष्यन्त्यनागता भाविनो भव्या भवार्णवमिति शेषः ॥५३॥ यतश्चैवमतःमूलम् -- कहं धीरे अहेऊहिं, अत्ताणं परिआवसे । सव्वसंगविणिमुक्के, सिद्धे हवइ नीरएत्ति बेमि ॥५४॥
व्याख्या--कथं धीरोऽहेतुभिः क्रियादिवादिकल्पितकुयुक्तिभिरात्मानं स्वं पर्यावासयेत् ? कथमात्मानं अहेत्वावासं कुर्यान्नैव कुर्यादित्यर्थः । अथात्मनि कुहेतूनामवासने किं फलमित्याह-- सर्वे सङ्गा द्रव्यतो द्रव्यस्वजनादयो भावतस्तु मिथ्यात्वरूपत्वादेत एव क्रियादिवादास्तैर्विनिर्मुक्तो विरहितः सर्वसङ्गविनिर्मुक्तः सन् सिद्धो भवति नीरजा निष्कर्मा । तदनेनाऽहेतुत्यागस्य सम्यग्ज्ञानहेतुत्वात् सिद्धत्वं फलमुक्तमिति सूत्रत्रयार्थः ॥५४॥ इत्थमनुशास्य विज क्षत्रिययतिः, संजयोऽपि चिरं विहृत्य प्राप्तकेवलः सिद्ध इति ब्रवीमीति प्राग्वत् ॥
अष्टादशमध्ययनम् गा५३-५४
UTR-2
॥३५६ ॥
Page #359
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
“सूरिं श्रीविजयानन्दं, विजयानन्दकारकम् । “आत्माराम'' इति ख्यातं, वन्दे सद्गुणलब्धये ॥१॥"
॥३५७॥
चालनालयाला यायचा या चार चार थान चाल था यथ GHOD-GOOGOG0060609009GGGIOCOGEOGHOGH-CHED ANDAMADARADWWWDODARDWARE
* ॥26hinnershdes
GROGGEOGRAGHI-GROGR960
GGOGXGOOGHOCK
"वल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या, स ददातु सदा सुखम् ॥१॥"
UTR-2
॥३५७॥
Page #360
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३५८॥
॥ अथ एकोनविंशमध्ययनम् ॥
एकोनविंशमध्ययनम् (१९) गा१-३
अर्हम्॥ उक्तमष्टादशमध्ययनं, अथैकोनविंशं मृगापुत्रीयमारभ्यते । अस्य चायं सम्बन्धः, इहानन्तराध्ययने भोगद्धिंत्याग उक्तः, स चाप्रतिकर्मतया प्रशस्यतर: स्यादितीहाऽप्रतिकर्मतोच्यते, इति सम्बन्धस्यास्येदमादि सूत्रम्मूलम्-सुग्गीवे नयरे रम्मे, काणणुज्जाणसोहिए । राया बलभद्दत्ति मिआ तस्सग्गमाहिसी ॥१॥ ____ व्याख्या-सुग्रीवे सुग्रीवावे, काननानि बृहदक्षाश्रयाणि वनानि, उद्यानानि क्रीडावनानि, तैः शोभिते । राजा बलभद्र इति नाम्ना, मृगा नाम्नी तस्याग्रमहिषी प्रधानपत्नी ॥१॥ मुलम् : तेसी पुत्ते बलसिरी, मिआपुत्तेत्ति विस्सुए । अम्मापिऊण दइए, जुवराया दमीसरे ॥२॥
व्याख्या-तयोः पुत्रो बलश्रीरिति मातापितृकृतनाम्ना, मृगापुत्र इति च लोके विश्रुतः, अम्बापित्रोदयितो वल्लभः, युवराजो, दमिनामुपशमवतामीश्वरो दमीश्वरः, भाविकालापेक्षं चैतद्विशेषणम् ॥२॥ मूलम्-नंदणे सो उ पासाए, कीलए सह इस्थिहिं । देवो दोगुंदगो चेव, निच्चं मुइअमाणसो ॥३॥
व्याख्या-नन्दने लक्षणोपेततया समृद्धिजनके स मृगापुत्रः तु पूरणे प्रासादे, क्रीडति सह स्त्रीभिः । क इव?
UTR-2
।।३५८॥
Page #361
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३५९॥
एकोनविंश मध्ययनम् गा ४-६
दोगुन्दको देव इव, चः पूतौ । दोगुन्दकाश्च त्रायस्त्रिंशास्तथा च वृद्धाः- "त्रायस्त्रिंशा देवा नित्यं भोगपरायणा दोगुन्दका इति भण्यन्त इति" तथा नित्यं मुदितमानसः ॥३॥ मूलम्-मणिरयणकुट्टिमतले, पासायालोअणे ठिओ । आलोएइ नयरस्स, चउक्कतिगचच्चरे ॥४॥
व्याख्या-स चाऽन्यदा मणयः चन्द्रकान्ताद्याः, रत्नानि कर्केतनादीनि, तैरुपलक्षितं कुट्टिमतलं यत्र तत्तथा तस्मिन्, प्रासादालोकने प्रासादगवाक्षे स्थितः, आलोकते नगरस्य चतुष्कत्रिकचत्वराणीति सूत्रचतुष्कार्थः ॥४॥ ततो यदभूत्तदाहमूलम्-अह तत्थ अइच्छंतं पासई समणसंजयं । तवनिअमसंजमधरं, सीलड्डूं गुणआगरं ॥५॥
व्याख्या-अथानन्तरं तत्र तेषु त्रिकादिषु अतिक्रामन्तं पश्यति श्रमणसंयतं, श्रमणः शाक्यादिरपि स्यादिति संयतग्रहणं, तपश्चानशनादि, नियमाश्च द्रव्याद्यभिग्रहाः, संयमश्च प्रतीतः, तान् धारयतीति तपोनियमसंयमधरस्तम् ।। अत एव शीलमष्टादशसहस्ररूपं तेनाढ्यं सीलाढ्यं, तत एव गुणानां ज्ञानादीनामाकर इव गुणाकरस्तम् ॥५॥ मूलम्-तं देहइ मिआपुत्ते, दिट्ठीए अणिमिसाए उ । कहिं मन्नेरिसं रूवं, दिपव्वं मए पुरा ॥६॥
____ व्याख्या-तं मुनि 'देहइत्ति' पश्यति मृगापुत्रो दृष्टया 'अणिमिसाए उत्ति' अनिमिषयैव, क मन्ये जाने ईदृशं रूपं दृष्टपूर्वं पूर्वमपि अवलोकितं, मया पुरा पूर्वजन्मनि ॥६॥
UTR-2
॥३५९॥
Page #362
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३६०॥
एकोनविंश
मध्ययनम्
गा७-१०
मूलम्-साहुस्स दरिसणे तस्स, अज्झवसाणंमि सोहणे । मोहं गयस्स संतस्स, जाईसरणं समुप्पण्णं ॥७॥
व्याख्या- अज्झवसाणंमित्ति' अध्यवसाने परिणामे शोभने क्षायोपशमिकभाववर्तिनि, मोहं क्वेदं मया दृष्टमिति चिन्तात्मकं , गतस्य सतः, शेषं व्यक्तमेवमग्रेऽपि ज्ञेयम् ॥७॥ मूलम्-जाईसरणे समुप्पण्णे, मिआपुत्ते महिड्डिए । सरइ पोराणिअं जाइं, सामण्णं च पुराकडं ॥८॥
व्याख्या-'पोराणिअंति' पौराणिकी प्राक्तनी जाति जन्मेति सूत्रचतुष्कार्थः ॥८॥ ततोऽसौ यच्चक्रे तदाहमूलम्-विसएसु अरज्जंतो, रज्जंतो संजमंमि अ । अम्मापिअरं उवागम्म, इमं वयणमब्बवी ॥९॥ व्याख्या - विषयेष्वरज्यन् रागमकुर्वन् , रज्यन् संयमे, चः पुनरर्थे , अम्बापितरौ उपागम्येदं वचनमब्रवीत् ॥९॥ यदब्रवीत्तद्दर्शयतिमूलम्-सुआणि मे पंच महव्वयाणि, नरएस दुक्खं च तिरिक्खजोणिसु निविण्णकामोम्हि महण्णवाओ, अणुजाणह पव्वइस्सामि अम्मो! ॥१०॥
व्याख्या-श्रुतानि प्राग्भवे इति शेषः, मे मया पंच महाव्रतानि, तथा नरकेषु दुःखं, तिर्यग्योनिषु च, उपलक्षणत्वाद्देवमनुष्ययोश्च यदुःखं तदपि श्रुतं । ततः किमित्याह-निविण्णकामो निवृत्ताभिलाषोऽस्मि अहं, कुतो ? महा
UTR-2
॥३६०॥
Page #363
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥३६१॥
१५
र्णव इव महार्णवः संसारस्तस्मात् यतश्चैवमतोऽनुजानीत मा, प्रव्रजिष्यामि सकलदुःखापनोदाय व्रतं ग्रहीष्यामि, 'अम्मोत्ति' मातुरामंत्रणम् ॥१०॥ अथ कदाचित्पितरौ भोगैर्निमंत्रयत इति तन्निषेधार्थमाह
मूलम् अम्मताय ! मए भोगा, भुत्ता विसफलोवमा । पच्छा कडुअविवागा, अणुबंधदुहावहा ! ॥ ११ ॥ व्याख्या- 'विसफलोवमत्ति विषमिति विषवृक्षस्तत्फलोपमाः तदुपमत्वं भावयति पश्चात् परिभोगानन्तरं कटुकविपाकाः, अनुबन्धदुःखावहा निरन्तरदुःखदायिनः ॥ ११ ॥ किञ्च -
मूलम् इमं सरीरं अणिच्चं, असुइ असुइसंभवं । असासयावासमिणं, दुक्खकेसाण भायणं ! ॥१२॥ व्याख्या -' असुइत्ति' अशुचि स्वभावादेवापावनं, अशुचिभ्यां शुक्रशोणिताभ्यां सम्भवमुत्पन्नं अशुचिसंभवं, अशाश्वत आवासः प्रक्रमाज्जीवस्यावस्थानं, यस्मिंस्तत्तथा 'इणंति' इदं दुःखहेतवः क्लेशा दुःखक्लेशा ज्वरादयो रोग भाजनम् ॥ १२ ॥ यतश्चैवमतः
मूलम्-असासए सरीरंमि, रई नोवलभामहं । पच्छा पुरा य चइअव्वे, फेणबुब्बुअसन्निभे ! ॥१३॥ व्याख्या अशाश्वते शरीरे रतिं नोपलभेऽहं पश्चाद्भुक्तभोगावस्थायां, पुरा वा अभुक्तभोगतायां त्यक्तव्ये । अनेन च कस्यामप्यवस्थायां मृत्योरनागमो नास्ति इति सूचितं, अत एव फेनबुद्बुदसन्निभे ॥ १३ ॥
एकोनविंशमध्ययनम्
(१९) गा११-१३
UTR-2
॥३६१ ॥
Page #364
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३६२॥
एकोनविंश
मध्ययनम् गा १४-१९
मूलम्-माणुसत्ते असारंमि, वाहिरोगाण आलए । जरामरणपत्थम्मि, खणं पि न रमामहं ! ॥१४॥
___ व्याख्या-वाहीत्यादि-व्याधयोऽगाधबाधाहेतवः कुष्टाद्याः, रोगा ज्वरादयस्तेषामालये, जरामरणग्रस्ते ॥१४॥ मूलम्-जम्मं दुक्खं जरा दुःखं, रोगा य मरणाणि अ । अहो दुक्खो हु संसारो, जत्थ कीसंति जंतुणो! ॥१५॥
व्याख्या-अहो! इति संबोधने, 'दुक्खो हुत्ति' दुःख एव दुःखहेतुरेव संसारो यत्र क्लिश्यन्ते जन्मादिदुःखैर्जन्तवः! ॥१५॥ मूलम्--खित्तं वत्थु हिरण्णं च, पुत्तदारं च बंधवे । चइत्ता ण इमं देहं, गंतव्वमवसस्स मे ! ॥१६॥
व्याख्या-'वत्थुति' वास्तु गृहाट्टादि ॥१६॥ मूलम्-जहा किंपागफलाणं, परिणामो न सुंदरो । एवं भुत्ताण भोगाणं, परिणामो न सुंदरो! ॥१७॥
व्याख्या-[ स्पष्टा ] एवं भोगादीनामसारतामुक्त्वा दृष्टान्तद्वयेन स्वाशयं प्रकाशयन्नाह ॥१७॥ | मूलम्-अद्धाणं जो महंतं तु, अपाहिज्जो पवज्जई । गच्छंतो सो दुही होइ, छुहातण्हाहिं पीडिए ॥१८॥
व्याख्या-'अपाहिज्जोत्ति' अपाथेयः शम्बलरहितः प्रपद्यते स्वीकरोति ॥१८॥ | मूलम् -एवं धम्मं अकाऊणं, जो गच्छड् परं भवं । गच्छंतो सो दुही होइ, वाहिरोगेहिं पीडिए ॥१९॥
व्याख्या- [स्पष्टा ] उक्तव्यतिरेकमाह ॥१९॥
UTR-2
॥३६२॥
Page #365
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३६३॥
AR
एकोनविंशम
ध्ययनम् (१९) गा २०-२५
मूलम्-अद्धाणं जो महंतं तु, सपाहिज्जो पवज्जइ । गच्छंतो सो सही होइ, छहातण्हाविवज्जिओ ॥२०॥ एवं धम्मं पि काऊणं, जो गच्छड़ परं भवं । गच्छंतो सो सही होइ, अप्पकम्मे अवेअणे ॥२१॥
___ व्याख्या-[ सुगमे नवरं ] 'अप्पकम्मेत्ति' अल्पपापकर्मा, 'अवेअणेत्ति' अल्पासातवेदनः ॥२०॥ ॥२१॥ मूलम्-जहा गेहे पलितंमि, तस्स गेहस्स जो पहू । सारभंडाई नीणेइ, असारं अवउज्झइ ॥२२॥
व्याख्या-सारभाण्डानि महामूल्यवस्त्रादीनि 'नीणेइत्ति' निष्काशयति 'अवउज्झइत्ति' अपोहति त्यजति ॥२२॥ मूलम्-एवं लोए पलित्तंमि, जराए मरणेण य । अप्पाणं तारहस्सामि, तुब्भेहिं अणुमनिओ ॥२३॥
व्याख्या- 'पलित्तमित्ति', प्रदीप्त इव प्रदीप्ते व्याकुलीकृते आत्मानं सारभाण्डतुल्यं तारयिष्यामि, असारं तु कामभोगादि त्यक्ष्यामीति भाव इति सूत्रपञ्चदशकार्थः ॥२३॥ एवं तेनोक्ते यत्पितरावूचतुस्तविंशत्या सूत्रैर्दर्शयति| मूलम्-तं बितम्मापिअरो सामण्णं पुत्त दुच्चरं । गुणाणं तु सहस्साइं, धारेअव्वाइं भिक्खुणो ॥२४॥
व्याख्या-तमिति मृगापुत्रं गुणानां श्रामण्योपकारकाणां शीलाङ्गरूपाणां, तुः पूरणे ॥२४॥ मूलम्-समया सव्वभूएसु, सत्तुमित्तेसु वा जगे । पाणाईवायविरई, जावज्जीवाइ दुक्करं ॥२५॥
UTR-2
॥३६३॥
Page #366
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥३६४॥
३
६
१२
व्याख्या-समता रागद्वेषत्यागेन तुल्यता, सर्वभूतेषु शत्रुमित्रेषु वा जगति लोकेऽनेन सामायिकमुक्तम् । तथा प्राणातिपातविरतिर्यावज्जीवं दुष्करमेतदिति शेषः ॥२५॥
मूलम् -निच्चकालप्पमत्तेणं, मुसावायविवज्जणं । भासिअव्वं हिअं सच्चं, निच्चाउत्तेण दुक्करं ॥२६॥ व्याख्या- नित्यकालाप्रमत्तेन नित्यायुक्तेन सदोपयुक्तेन यच्चान्वयव्यतिरेकाभ्यामेकस्यैवार्थस्याभिधानं तत्स्पष्टार्थत्वाददुष्टमेवेति ॥२६॥
मूलम् - दंतसोहणमाइस्स, अदिण्णस्स विवज्जणं । अणवज्जेसणिज्जस्स, गिण्हणा अवि दुक्करं ॥२७॥ व्याख्या- ' दंतसोहणमाइस्सत्ति' मकारोऽलाक्षणिक, अपेश्च गम्यत्वाद्दन्तशोधनादेरपि आस्तामन्यस्य, किञ्च दत्तस्याऽपि अनवद्यैषणीयस्यैव 'गिण्हणत्ति' ग्रहणम् ॥२७॥
मूलम् - विरई
अबंभचेरस्स, कामभोगरसण्णुणा । उग्गं महव्वयं बंभं धारेअव्वं सुदुक्करं ॥२८॥ व्याख्या- कामभोगरसण्णुणत्ति' कामभोगरसज्ञेन त्वयेति शेषः, तदनभिज्ञस्य हि कदाचिद्विषयेच्छा न स्यादपीत्येवमुक्तम् ॥२८॥
मूलम् - धणधन्नपेसवग्गेसु, परिग्गहविवज्जणा । सव्वारंभपरिच्चाओ, निम्ममत्तं सुदुक्करं ॥ २९ ॥
एकोनविंश
मध्ययनम्
गा२६-२९
UTR-2
॥३६४ ॥
Page #367
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
॥३६५॥
एकोनविंशमध्ययनम् (१९) गा ३०-३३
व्याख्या-धनधान्यप्रेष्यवर्गेषु परिग्रहः स्वीकारस्तद्विवर्जनं, सर्वे ये आरम्भा द्रव्योपार्जनार्थं व्यापारास्तत्परित्यागः ॥२९॥ मूलम्- चउबिहेवि आहारे, राईभोअणवज्जणा । संनिहिसंचओ चेव, वज्जेअव्वो सुदुक्करं ॥३०॥
व्याख्या- संनिधिघृतादेरुचितकालातिक्रमेण स्थापनं, स चासौ सञ्चयश्च संनिधिसञ्चयः ॥३०॥ एवं व्रतषट्कदुष्करतोक्ता, अथ परीषहदुष्करतोच्यतेमूलम्-छुहा तण्हा य सीउण्हं, दंसमसगवेअणा । अक्कोसा दुक्ख सिज्जा य, तणफासा जल्लमेव य ॥३१॥ तालणा तज्जणा चेव, वहबंधपरीसहा । दुक्खं भिक्खायरिया, जायणा य अलाभया ॥३२॥
व्याख्या-ताडना कराद्यैर्हननं, तर्जना अङ्गुलिभ्रमणादिरूपा, वधो लकुटादिप्रहारः, बन्धो मयूरबन्धादिस्तावेव परीषही वहबन्धपरीषहौ, 'दुक्खंति' दुःखशब्दोऽसौ प्रत्येकं योज्यः, क्षुधादुःखमित्यादि 'जायणा यत्ति' चकारोऽनु|क्तपरीषहसमुच्चयार्थः ॥३१॥ ॥३२॥ मूलम्-कावोआ जा इमा वित्ती, केसलोओ अ दारुणो । दुक्खं बंभव्वयं घोरं, धारेउं अमहप्पणा ॥३३॥
व्याख्या-कपोताः पक्षिविशेषास्तेषामियं कापोती या इयं वृत्तिः, यथा हि ते नित्यं शंकिताः कणादिग्रहणे | प्रवर्त्तन्ते, एवं मुनिरप्येषणादोषेभ्यः शङ्कमान एव भिक्षादौ प्रवर्त्तते । यच्चेह ब्रह्मचर्यस्य पुनर्दुर्धरत्वोक्तिस्तदस्यातिदुष्करताज्ञप्त्यै । 'अमहप्पणत्ति' अमहात्मना सता ॥३३॥ उपसंहारमाह
UTR-2
॥३६५॥
Page #368
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३६६॥
एकोनविंशमध्ययनम् गा३४-३७
मूलम्-सुहोइओ तुम पुत्ता ! सुकुमालो अ सुमज्जिओ । नहुसि पहु तुमं पुत्ता ! सामण्णमणुपालिआ ॥३४॥
व्याख्या-सुखोचितः सुखयोग्यः, सुकुमारः, सुमज्जितः सुष्ठ अभ्यंगनादिपूर्वं मज्जितः स्तपितः, सकलालङ्कारोपलक्षणमेतत् । इह च सुमज्जितत्वं सुकुमारत्वे हेतुः, द्वयञ्चैतत् सुखोचितत्वे, ततो 'नहुसित्ति' नैवासि प्रभुः समर्थः श्रामण्यमनुपालयितुम् ॥३४॥ असमर्थतामेव दृष्टान्तैः समर्थयन्नाहमूलम- जावज्जीवमविस्सामो, गुणाणं तु महब्भरो । गरुओ लोहभारुव्व, जो पुत्तो! होइ दुव्वहो ॥३५॥
व्याख्या-अविश्रामो निरन्तर: गुणानां मुनिगुणानां, तुः पूरणे, महाभरो गरुको लोहभार इव, यः पुत्र ! भवति दुर्वहः, स वोढव्य इति शेषः ॥३५॥ मूलम्-आगासे गंगसोओव्व, पडिसोओव्व दुत्तरो । बाहाहिं सागरो चेव, तरिअव्वो गुणोदही ॥३६॥
व्याख्या-आकाशे गङ्गाश्रोतोवहुस्तर इति योज्यते, लोकरूढ्या चेदमुक्तम् । तथा प्रतिश्रोतोवत्, कोऽर्थः ? यथा प्रतीपजलप्रवाहः शेषनद्यादौ दुस्तरः, बाहुभ्यां 'सागरो चेवत्ति' सागरवच्च दुस्तरो यः, स तरितव्यो, गुणाः ज्ञानाद्यास्त एवोदधिर्गुणोदधिः ॥३६॥ मूलम्- वालुआकवले चेव, निरस्साए उ संजमे । असिधारागमणं चेव, दुक्करं चरित्रं तवो ॥३७॥
UTR-2
॥३६६॥
Page #369
--------------------------------------------------------------------------
________________
Y
एकोनविंशमध्ययनम् (१९) गा३८-४१
उत्तराध्य
व्याख्या-'वालुआकवले चेवत्ति' चः पूरणे, इवेत्यौपम्ये, एवमुत्तरत्राऽपि । ततो वालुकाकवल इव निरास्वादो यनसूत्रम्
IX| नीरस: विषयगृद्धानां वैरस्य हेतुत्वात् ॥३७॥ ॥३६७॥
मूलम्-अहिवेगंतदिट्ठीए, चरित्ते पुत्त ! दुच्चरे । जवा लोहमया चेव, चावेअव्वा सुदुक्करं ! ॥३८॥
व्याख्या-अहिरिव एकोऽन्तो निश्चयो यस्याः सा तथा, सा चासौ दृष्टिश्चैकान्तदृष्टिस्तया, अहिपक्षे दृशाऽन्यत्र तु बुद्ध्योपलक्षितं चरित्रं, हे पुत्र ! दुष्करम् । अयं भावः- यथा नागोऽनन्याक्षिप्तया दृष्टयोपलक्षितं स्यात्तथाऽनन्यव्याक्षिप्तया बुद्ध्योपलक्षितं चारित्रं दुष्कर, इन्द्रियमनसां दुर्जयत्वादिति । यवा लोहमया इव चर्वयितव्याः, लोहमययवचर्वणवद्दुष्करं चारित्रमिति भावः ॥३८॥ | मूलम्-जहा अग्गिसिहा दित्ता, पाउं होइ सुदुक्करं । तह दक्करं करेउं जे, तारुण्णे समणत्तणं ॥३९॥
___व्याख्या-'अग्गिसिहत्ति, सुब्व्यत्ययादग्निशिखां दीप्तां पातुं भवति सुदुष्करं नृभिरिति शेषः, 'जे' इति पूर्ती सर्वत्र ॥३९॥ मूलम्-जहा दुःखं भरेउं जे, होइ वायस्स कुत्थलो । तहा दक्करं करेउं जे, कीवेणं समणत्तणं ॥४०॥
व्याख्या-कोत्थल इह वस्त्रादिमयो ग्राह्यः, चर्ममयो हि सुखेनैव भियते इति, क्लीबेन निःसत्त्वेन ॥४०॥ मूलम्-जहा तुलाए तोलेडं, दुक्करं मंदरो गिरी । तहा निहुअनीसंकं, दुक्करं समणत्तणं ॥४१॥
UTR-2
॥३६७॥
Page #370
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥३६८॥
१२
व्याख्या- 'निहुअनीसंकंति' निभृतं निश्चलं निश्शङ्कं शरीरनिरपेक्षं यथा स्यात्तथा ॥ ४१ ॥
मूलम् जहा भुआहिं तरिउं, दुक्करं रयणायरो । तहा अणुवसंतेणं, दुक्करं दमसायरो ॥४२॥ व्याख्या- 'अणुवसंतेणंति' अनुपशान्तेनोत्कटकषायेण दमसागर उपशमसमुद्रः, इह केवलस्योपशमस्य प्राधान्यात्समुद्रोपमा, पूर्वं तु गुणोदधिरित्यनेन सकलगुणानामिति न पौनरुक्त्यम् ॥४२॥ यतश्चैवं ततःमूलम् भुंज माणुस्सए भोए, पंचलक्खणए तुमं । भुत्तभोगी तओ जाया !, पच्छा धम्मं चरिस्ससि ॥ ४३ ॥ व्याख्या-'पंचलक्खणएत्ति' पञ्चलक्षणकान् पञ्चस्वरूपान्, पश्चाद्वार्द्धके 'चरिस्ससित्ति' चरेरिति विंशतिसूत्रार्थः ॥ ४३ ॥ इति पितृभ्यामुक्ते मृगापुत्रो यदूचे तदेकत्रिंशता सूत्रैराह
मलम् - सो बिंतम्मापिअरो ! एवमेअं जहाफुडं । इह लोए निप्पिवासस्स, नत्थि किंचि वि दुक्करं ॥४४॥
व्याख्या - स मृगापुत्रो ब्रूते, हे अम्बापितरौ ! एवमिति यथोक्तं भवद्भ्यां तथैव एतत् प्रव्रज्यादुष्करत्वं यथा स्फुटं सत्यतामनतिक्रान्तं सत्यमित्यर्थः । तथापि इहलोके निष्पिपासस्य निःस्पृहस्य नास्ति किञ्चिदतिकष्टमप्यनुष्ठानम्, अपि सम्भावने, दुष्करम् ॥४४॥ निःस्पृहताहेतुमाह
मूलम् - सारीरमाणसा चेव, वेअणाओ अनंतसो । मए सोढाओ भीमाओ, असई दुक्खभयाणि अ ॥ ४५॥
कोनविंश
मध्ययनम्
गा ४२-४५
UTR-2
॥३६८॥
Page #371
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३६९॥
एकोनविंशमध्ययनम्
(१९) गा४६-४९
व्याख्या - शारीरमानस्यश्चैव पूरणे, वेदना अनन्तशो मया सोढा भीमा रौद्राः, असकृत् वारं वारं दुःखानि दुःखोत्पादकानि भयानि राजविड्वरादिजनितानि दुःखभयानि, चः समुच्चये ॥४५॥ मूलम्-जरामरणकंतारे, चाउरते भयागरे । मए सोढाणि भीमाणि, जम्माणि मरणाणि अ ॥४६॥
व्याख्या -जरामरणाभ्यामतिगहनतया कान्तारमिव जरामरणकान्तारं तस्मिन्, चतुरन्ते देवादिगतिचतुष्कावयवे भयाकरे भवे || इति शेषः ॥४८॥ शारीरमानस्यो वेदना यत्र प्रौढाः सोढास्तदाहमूलम्-जहा इहं अगणी उण्हो, एत्तोऽणंतगुणा तहिं । नरएसु वेअणा उण्हा, अस्साया वेइआ मए ॥४७॥
व्याख्या- यथा इह मनुष्यलोकेऽग्निरुष्ण इतोऽस्मादग्नेरनन्तगुणाः 'तहिं' तेषु नरकेषु येष्वहमुत्पन्न इति भावः, तत्र च बादराग्नेरभावात् पृथिव्या एव तथाविधः स्पर्श इति ज्ञेयम् । ताश्च वेदना उष्णानुभवात्मकत्वेन असाता दुःखरूपाः ॥४७॥ मूलम्-जहा इहं इमं सीअं, एत्तोऽणंतगुणा तहिं । नरएसु वेअणा सीआ, अस्साया वेइआ मए ॥४८॥
व्याख्या-यथेदमनुभूयमानं माघमासादिसम्भवमिह शीतम् ॥४८॥ * मूलम्-कंदंतो कंदुकुंभीसु, उड्डपाओ अहोसिरो । हुआसिणे जलंतम्मि, पक्कपुव्वो अणंतसो ॥४९॥
२४/
UTR-2
॥३६९॥
Page #372
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥३७० ॥
१२
व्याख्या-क्रंदन् कंदुकुंभीषु लोहादिमयीषु पाकभाजनविशेषरूपासु हुताशने देवमायाकृते ॥ ४९ ॥
मूलम् - महादवग्गिसंकासे, मरुम्मि वइरवालुए । कलंबवालुआए अ, दड्ढपुव्वो अनंतसो ॥५०॥ व्याख्या- महादवाग्निसंकाशे अत्रान्यस्य तादृग्दाहकतरस्याभावादेवमुपमा प्रोक्ता, अन्यथा त्विहत्याग्नेरनंतगुण एव तत्रोष्णः पृथिव्यनुभाव इति । 'मरुम्मित्ति' तास्थ्यात्तद्व्यपदेशसम्भवादन्तर्भूतोपमार्थत्वाच्च मरौ मरुवालुकानिकरकल्पे, 'वइवालुएत्ति' वज्रवालुकानदीपुलिने, कदम्बवालुकायां कदम्बवालुकानदीपुलिने च ॥५०॥
मूलम् - रसंतो कंदुकुंभीसु, उड्डुं बद्धो अबंधवो । करवत्तकरकयाईहिं, छिन्नपुव्वो अनंतसो ॥५१॥ व्याख्या-रसन्नाक्रंदन् कंदुकुंभीषु क्षिप्तः ऊर्द्ध वृक्षशाखादौ बद्धो माऽयमितोऽनंक्षीदिति नियंत्रितः । क्रकचं करपत्रविशेष एव ॥ ५१ ॥
मूलम् - अइतिक्खकंटयाइण्णे, तुंगे सिंबलिपायवे । खेविअं पासबद्धेणं, कड्डोकड्ढाहिं दुक्करं ॥५२॥ व्याख्या -'खेविअंति' खिन्नं खेदोऽनुभूतः मयेति गम्यते, 'कड्ढोकड्ढाहिंति' 'आकर्षणाप्रकर्षणैः परमाधार्मिककृतैः दुष्करं दुःसहमिदमिति शेषः ॥५२॥
मूलम् -महाजंतेसु उच्छू वा, आरसंतो सुभेरवं । पीलिओम्मि सकम्मेहिं, पावकम्मो अनंतसो ॥५३॥
एकोनविंशमध्ययनम्
गा ५०-५३
UTR-2
॥३७० ॥
Page #373
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३७॥
एकोनविंश मध्ययनम् (१९) गा५४-५७
व्याख्या-'उच्छूवत्ति' इक्षव इव, आरसन्नाक्रंदन् ॥५३॥ मूलम्-कूवंतो कोलसुणएहिं, सामेहिं सबलेहि अ । पाडिओ फालिओ छिन्नो, विप्फुरंतो अणेगसो ५४ l व्याख्या-कूजन्नाक्रंदन्, कोलशुनकैः शूकरश्वानरूपधरैः श्यामैः शबलैश्च परमाधार्मिकविशेषैः पातितो भुवि, पाटितो जीर्णवस्त्रवत्, छिनो वृक्षवत्, विस्फुरन्नितस्ततश्चलन् ॥५४॥ मूलम्-असीहि अयसीवण्णाहिं, भल्लीहि पट्टिसेहि य । छिन्नो भिन्नो विभिन्नो अ, उववण्णो पावकम्मुणा ५५
व्याख्या-असिभिः कृपाणैः 'अयसिवण्णाहिति' अतसीकुसुमवर्णैः कृष्णैरित्यर्थः, भल्लीभिः पट्टिशैश्च आयुधविशेषैः छिन्नो द्विधाकृतो, भिन्नो विदारितो, विभिन्नः सूक्ष्मखण्डीकृतः, अवतीर्णः पापकर्मणा हेतुना नरके इति शेषः ॥५५॥ | मूलम्-अवसो लोहरहे जुत्तो, जलंते समिलाजुए । चोइओ तोत्तजोत्तेहिं, रोज्झो वा जह पाडिओ ॥५६॥
व्याख्या--लोहरथे लोहमये शकटे युक्तो योजितो ज्वलति दीप्यमाने कदाचित्ततो दाहभिया नश्येदपीत्याह - समिलायुते युगकीलिकायोकत्रादियुक्ते 'चोइओत्ति' प्रेरितस्तोत्रयोक्त्रैः प्राजनकबन्धनविशेषैः 'रोज्झोवत्ति' रोज्झः पशु|| विशेषः, वा समुच्चये भिन्नक्रमश्च, यथेत्यौपम्ये, ततो रोझवत्पातितश्च लकुटादिपिट्टनेनेति शेषः ॥ ५६॥
मूलम्-हुआसणे जलंतंमि, चिआसु महिसो विव । दड्ड पक्को अ अवसो, पावकम्मेहिं पाविओ ॥५७॥
२१
UTR-2
॥३७१॥
Page #374
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३७२॥
एकोनविंश
मध्ययनम् गा ५८-६१
व्याख्या--हुताशने ज्वलति क्वेत्याह- चितासु परमाधार्मिकरचितासु महिष इव दग्धो भस्मसात्कृतः, पक्वो भडित्रीकृतः, अवशः पापकर्मभिः 'पाविओत्ति' प्राप्तो व्याप्तः, प्रापितो वा नरकम् ॥५७॥ मूलम्-- बला संडासतुंडेहिं, लोहतुंडेहिं पक्खिहिं । विलुत्तो विलवंतोऽहं, ढंकगिद्धेहिऽणंतसो ॥५८॥
व्याख्या--बलात् हठात् सन्दंशाकाराणि तुण्डानि येषां ते सन्दंशतुण्डास्तैः, तथा लोहतुण्डैः पक्षिभिर्द्धङ्कगृधैरिति | योगः, एते च वैक्रिया एव तत्र तिरश्चामभावात् । विलुप्तो विविधं छिन्नो विलपन्नहमिति ॥५८॥ मूलम्--तण्हा किलंतो धावंतो, पत्तो वेअरणिं नई । जलं पाहंति चितंतो, खरधाराहिं विवाइओ ॥५९॥
व्याख्या--'विवाइओत्ति' व्यापादितः ॥५९॥ मूलम्--उण्हाभितत्तो संपत्तो, असिपत्तं महावणं । असिपत्तेहिं पडतेहि, छिन्नपुव्वो अणेगसो ॥६०॥
व्याख्या--उष्णेन वज्रवालुकादितापेनाभितप्तः सम्प्राप्तोऽसयः खड्गास्तद्वद्भेदकानि पत्राणि यत्र तदसिपत्रम् ॥६०॥ | मूलम्--मुग्गरेहिं मुसंढीहिं, सूलेहिं मुसलेहि अ । गयासं भग्गगत्तेहिं, पत्तं दुक्खमणंतसो ॥६१॥
व्याख्या-- मुद्गरादिभिः शस्त्रविशेषैः गता नष्टा आशा परित्राणविषया यस्मिंस्तद् गताशं यथा स्यादेवं 'भग्गगत्तेहिंति' भग्नगात्रेण सता मयेति शेषः ॥६१॥
UTR-2
॥७२॥
Page #375
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम्
॥३७३ ॥
१५
१८
२१
मूलम्-खुरेहिं तिक्खधाराहिं, छुरिआहिं कप्पणीहि अ । कप्पीओ फालिओ छिन्नो, उक्कित्तो अ अणेगसो ॥६२॥ व्याख्या -- अत्र कल्पितः कल्पनीभिः कर्त्तरीभिर्वस्त्रवत्खण्डितः, पाटित ऊर्ध्वं द्विधाकृतः, छिन्नस्तिर्यक् खण्डितश्च क्षुरिकाभिः, उत्कृत्तश्च त्वगपनयनेन क्षुरैरिति योगः ॥६२॥
मूलम्-पासेहिं कूडजालेहिं, मिओ वां अवसो अहं । वाहिओ बद्धरुद्धो अ, बहुसो चेव विवाइओ ||६३ || व्याख्या--' वाहिओत्ति' वञ्चितः बद्धो बन्धनै रुद्धो बहिः प्रचारनिवारणेन, 'विवाइओत्ति' विनाशितः ॥ ६३ ॥ मूलम् - गलेहिं मगरजालेहिं, मच्छो वा अवसो अहं । उल्लिओ फालिओ गहिओ, मारिओ अ अनंतसो ॥६४ व्याख्या-गलैर्बडिशैर्मकरैर्मकररूपैः परमाधार्मिकैर्जालैश्च तत्कृतैरनयोर्द्वन्द्वः, 'उल्लिओत्ति' उल्लिखितो गलैः पाटितो मकरैर्गृहीतश्च जालैर्मारितश्च सर्वैरपि ॥६४॥
मूलम् - विदंसएहिं जालेहिं, लिप्पाहिं सउणो विव । गहिओ लग्गो अ बद्धो अ, मारिओ अ अनंतसो ॥ ६५ ॥ व्याख्या--विशेषेण दशन्तीति विदंशकाः श्येनादयस्तैर्जालैस्तथाविधबन्धनैः, 'लिप्पार्हिति' लेपैर्वज्रलेपाद्यैः शकुन इव पक्षीव गृहीतो विदंशकैर्लग्नश्च लेपद्रव्यैः श्लिष्टः, बद्धो जालैर्मारितश्च सर्वैरपि ॥६५॥ मूलम्--कुहाडपरसुमाईहिं, वड्डिइहिं दुमो विव । कुट्टिओ फालिओ छिन्नो, तच्छिओ अ अनंतसो ॥६६॥
एकोनविंश
मध्ययनम्
( १९ ) गा६२-६६
UTR-2
॥३७३॥
Page #376
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३७४॥
एकोनविंश
मध्ययनम् गा६७-७०
व्याख्या--अत्र कुट्टितः सूक्ष्मखण्डीकृतः, तक्षितश्च त्वगपनयनेन ॥६॥ मूलम्--चवेडमुट्ठिमाईहिं, कुमारेहिं अयं पिव । ताडिओ कुट्टिओ भिन्नो, चुण्णिओ अ अणंतसो ॥६७॥
व्याख्या--चपेटामुष्टयादिभिः कुमारैरयस्कारैरय इव लोहमिव घनादिभिरिति शेषः, ताडितः आहतः, कुट्टितः | इह छिन्नो, भिन्नः खण्डीकृतः, चूर्णितः सूक्ष्मीकृतः ॥७॥ मूलम्--तत्ताई तंबलोहाइं, तउआणि सीसगाणि अ । पाइओ कलकलंताई, आरसंतो सुभेरवं ॥६८॥
व्याख्या--तप्तताम्रादीनि वैक्रियाणि पृथिव्यनुभावभूतानि वा, 'कलकलंताइंति' अतिक्वाथतः कलकलशब्दं कुर्वन्ति ॥६८॥ मूलम्--तुहं पिआई मंसाई, खंडाई सोल्लगाणि अ । खाइओमि समंसाई, अग्गिवण्णाई णेगसो ॥६९॥
व्याख्या--तव प्रियाणि मांसानि ! खण्डानि खण्डरूपाणि, सोल्लकानि भडित्रीकृतानीति स्मरयित्वा खादितोऽस्मि, स्वमांसानि मच्छरीरादेवोत्कृत्य ढौकितानि अग्निवर्णान्युष्णतया ॥६९॥ मूलम्--तुहं पिआ सुरा सीह, मेरओ अ महणि अ । पज्जिओमि जलंतीओ, वसाओ रुहिराणि अ॥७०॥
व्याख्या-- सुरादयो मद्यविशेषा इहापि स्मरयित्वेति शेषः, 'पज्जिओमित्ति' पायितोऽस्मि ॥७०॥
UTR-2
॥३७४॥
Page #377
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३७५॥
| मूलम्--निच्चं भीएण तत्थेणं, दुहिएणं वहिएण य । परमा दुहसंबद्धा, वेअणा वेइआ मए ७१॥ KS एकोनविंश। व्याख्या--भीतेनोत्पन्नभयेन, त्रस्तेनोद्विग्नेन दुःखितेन जातविविधदुःखजातेन, व्यथितेन कम्पमानसर्वातेन ॥७१॥
मध्ययनम् |मूलम्-- तिव्वचंडप्पगाढाओ, घोराओ अइदुस्सहा। महाभयाओ भीमाओ, नरएसुं वेइआ मए ॥७२॥
(१९)
गा७१-७४ व्याख्या- तीव्रा अनुभागतोऽत एव चण्डा उत्कटाः, प्रगाढा गुरुस्थितिकास्तत एव घोरा रौदा अतिदुस्सहाः, | तत एव महाभया भीमाः श्रूयमाणा अपि भयप्रदाः, एकार्थिकानि वा एतानि, इह च वेदना इति प्रक्रमः ॥७२॥ कीदृशं पुनस्तासां तीव्रादिरूपत्वमित्याहमूलम्--जारिसा माणुसे लोए, ताया ! दीसंति वेअणा । एत्तो अणंतगुणिआ, नरएसुं दुक्खवेअणा ॥७३॥
व्याख्या--[ सुगमा] ॥७३॥ न च नरक एव दुःखवेदना मयाऽनुभूताः, किन्तु सर्वगतिष्वपि इत्येतदेवाहमूलम्--सव्वभवेसु असाया वेअणा वेइआ मए । निमेसंतरमित्तंपि, जं साया नत्थि वेअणा ॥७४॥
व्याख्या--सर्वभवेष्वसातवेदना वेदिता मया, निमेषस्यान्तरं व्यवधानं यावता कालेनासौ भूत्वा पुनर्भवति | तन्मात्रमपि कालं, यत्साता सुखरूपा नास्ति वेदना, वैषयिकसुखस्यापीाद्यनेकदुःखानुविद्धत्वेन विपाककटुत्वेन चाऽसुखरूपत्वात् । सर्वस्य चास्य प्रकरणस्यायमाशयो येन मयैवं दुःखान्यनुभूतानि सोऽहं तत्त्वतः कथं सुखोचितः
UTR-2
॥३७५॥
Page #378
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम्
एकोनविंश
मध्ययनम् गा ७५-७७
॥३७६॥
सुकुमारो वा ? येन चेदृश्यो नरकादिव्यथाः सोढास्तस्य कथं दीक्षा दुष्करेत्यतोऽसौ मया ग्राझैवेत्येकत्रिंशत्सूत्रार्थः ॥७४॥ तत्रेत्थमुक्त्वा स्थितेमूलम्--तं बितऽम्मापिअरो, छंदेणं पुत्त ! पव्वया । नवरं पुण सामण्णे, दुक्खं निप्पडिकम्मया ॥७५॥
व्याख्या--'छंदेणंति' छन्दसाऽभिप्रायेण यथारुचीत्यर्थः, पुत्र ! प्रव्रज, नवरं केवलं, पुनर्विशेषणे, दुःखं दुःखहेतुर्निःप्रतिकर्मता रोगाद्युत्पत्तौ प्रतिकारकरणमिति सूत्रार्थः ।।७५॥ इत्थं पितृभ्यामुक्ते मृगापुत्रः स्माहमूलम्--सो बिंतऽम्मापिअरो! , एवमेअं जहा फुडं । परिकम्मं को कुणइ, अरण्णे मिअपक्खिणं? ॥७६॥
व्याख्या--स ब्रूते हे अम्बापितरौ ! एवमेतन्निःप्रतिकर्मताया यदुःखरूपत्वमुक्तं यथा स्फुटं सत्यं, परं परिभाव्यतामिदं, परिकर्म चिकित्सां कः करोत्यरण्ये मृगपक्षिणां ? तेऽपि च जीवन्ति विचरन्ति च, ततः किमस्या दुःखरूपत्वमिति भावः ॥७६॥ ततश्च -- मूलम्--एगभूओ अरणे वा, जहा उ चरई मिगो । एवं धम्मं चरिस्सामि, संजमेण तवेण य ॥७७॥
व्याख्या--एकभूत एकत्वम्प्राप्त: 'अरण्णेवत्ति' अरण्येऽटव्यां, वा पूरणे, 'जहा उत्ति' यथैव चरति मृगः, एवं | धर्म चरिष्यामि संयमेन तपसा च हेतभूतेन ॥७७।।
UTR-2
॥३७६॥
Page #379
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३७७॥
एकोनविंशमध्ययनम् (१९) गा७८-८१
| मूलम्--जया मिअस्स आयंको, महारपणंमि जायई । अच्छंतं रुक्खमूलंमि, कोणं ताहे तिगिच्छई ? ७८
व्याख्या--'अच्छंतं' तिष्ठन्तं वृक्षमूले, 'कोणंति' क एनं 'ताहेत्ति' तदा चिकित्सति, औषधाधुपदेशेन नीरोगं करोति ? न कश्चिदित्यर्थः । अन्यत्र हि कदाचित्कोऽपि दृष्ट्वा चिकित्सेदपीति महारण्ये इत्युक्तम् ।।७८॥
मूलम्--को वा से ओसहं देइ, को वा से पुच्छई सुहं ।
को वा से भत्तपाणं वा, आहरित्तू पणामए ? ॥७९॥ व्याख्या--'भत्तपाणंति' भक्तं तृणादि, पानं जलादि, आहृत्य प्रणामयेदर्पयेत् ? ॥७९॥ कथं तर्हि तस्य निहः ? इत्याहमूलम्--जया य से सुही होइ, तया गच्छइ गोअरं । भत्तपाणस्स अट्ठाए, वल्लराणि सराणि अ ॥८॥
व्याख्या--यदा च स सुखी भवति स्वत एव रोगाभावात् , तदा गच्छति गोरिव चरणं भ्रमणं गोचरस्तं, वल्लराणि गहनानि सरांसि च ॥८॥ मूलम्--खाइत्ता पाणि पाउं, वल्लरेहिं सरेहि अ । मिगचारिअं चरित्ता णं, गच्छई मिअचारियं ॥४१॥
व्याख्या--खादित्वा निजभक्ष्यमिति शेषः, पानीयं पीत्वा, वल्लरेषु चर्या सरस्सु च, मृगाणां चर्या इतश्च इतश्च उत्प्लवनात्मकं चरणं मृगचर्या तां चरित्वाऽऽसेव्य गच्छति, मृगाणां चर्या चेष्टा स्वातंत्र्योपवेशनादिका यस्यां सा मृगचर्या मृगाश्रयभूस्ताम् ॥८१॥ इत्थं दृष्टान्तमुक्त्वा गाथाद्वयेनोपसंहारमाह
I
UTR-2
॥३७७॥
Page #380
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३७८॥
एकोनविंश
मध्ययनम् गा ८२-८४
मूलम्--एवं समुट्ठिते भिक्खू , एवमेव अणेगगो । मिगचारिअं चरित्ता णं, उड़े पक्कमई दिसि ॥८२॥
व्याख्या--एवं मृगवत्समुत्थितः संयमानुष्ठानम्प्रत्युद्यतस्तथाविधातकोत्पत्तावपि न चिकित्साभिमुख इति भावः, एवमेव मृगवदेवानेकगो यथाऽसौ वृक्षतले नैकस्मिन्नेवास्ते, किन्तु कदाचित् क्वचिदेवं मुनिरप्यनियतस्थानतया, स चैवं मृगचर्यां निष्प्रतिकर्मत्वादिरूपां चरित्वाऽऽसेव्य अपगताशेषकर्माश ऊर्ध्वं प्रक्रामति गच्छति दिशं, सर्वोपरिस्थानस्थो भवतीति भावः ॥४२॥ मृगचर्यामेव स्पष्टयति-- मूलम्--जहा मिए एग अणेगचारी, अणेगवासे धवगोअरे अ ।
एवं मुणी गोअरिअं पविटे, नो हीलए नोवि अ खिंसइज्जा ॥८३॥ ___ व्याख्या--यथा मृग एकोऽद्वितीयोऽनेकचारी अनियतचारी, नैकत्रैव वासोऽवस्थानमस्येत्यनेकवासो ध्रुवगोचरच, सदा गोचरलब्धमेवाहारयतीति । एवं मृगवदेकत्वादिविशेषणविशिष्टो मुनिर्गोचर्यां प्रविष्टो नो हीलयेदवजानीयात्कदन्नादीति गम्यं, नापि च 'खिसएज्जत्ति' निन्देदाहाराप्राप्तौ स्वं परं चेति सूत्राष्टकार्थः ॥४३॥ एवं मृगचर्यास्वरूपं निरूप्य यत्तेनोक्तं यच्च पितृभ्यां यच्चायं चक्रे तदाहमूलम्--मिगचारिअं चरिस्सामि, एवं पुत्ता ! जहासुहं ।
अम्मापिईहिंऽणुण्णाओ, जहाइ उवहिं तओ ॥८४॥
UTR-2
॥३७८॥
Page #381
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥३७९॥
१५
१८
व्याख्या--मृगस्येव चर्या मृगचर्या तां निः प्रतिकर्मतादिकां चरिष्यामीति कुमारेणोक्ते पितृभ्यामभाणि, एवं हे पुत्र ! भवतो यथा रुचितं तथा सुखं ते भवत्विति शेषः । इत्थं ताभ्यामनुज्ञातो जहाति त्यजति उपधिं परिग्रहं ततः ॥८४॥ उक्तमेव अर्थ सविस्तरमाह
मूलम् - मिअचारिअं चरिस्सामि, सव्वदुक्खविमोक्खणीं । तुब्भेहिं समणुण्णाओ, गच्छ पुत्त! जहासुहं ॥८५॥ व्याख्या--'गच्छ पुत्तत्ति' गच्छ पुत्र ! मृगचर्ययेति प्रक्रम:, यथासुखं सुखस्यानतिक्रमेणेति पित्रोर्वचः ॥ ८५ ॥ मूलम् -- एवं स अम्मापिअरो अणुमाणित्ता ण बहुविहं । ममत्तं छिंदई ताहे, महानागुव्व कंचुअं ॥८६॥
व्याख्या एवं स मातापितरौ अनुमान्यानुज्ञाप्य ममत्वं छिनत्ति, 'ताहेत्ति' तदा, महानाग इव कञ्चुकं यथाऽसौ चिरप्ररूढतया ऽतिजरठमपि कञ्चकमपनयति तथाऽयमप्यनादिभवाभ्यस्तमपि ममत्वमिति ॥८६॥ अनेनान्तरोपधित्याग उक्तो, बहिरुपधित्यागमाह-
मूलम् इड्डी वित्तं च मित्ते अ, पुत्त दारं च नायओ । रेणुअंव पडे लग्गं, निद्धुणित्ता ण निग्गओ ॥८७॥ व्याख्या-- ऋद्धिं करितुरगादिसम्पदं, 'नायओत्ति' ज्ञातीन् स्वजनान् 'निद्भुणित्तत्ति' निर्द्धय त्यक्त्वा निर्गतो गृह्यनिष्क्रान्तः प्रव्रजित इति सूत्रचतुष्कार्थः ॥८७॥ ततोऽसौ कीदृक् जातः किञ्च तस्य फलमभूदित्याह-
एकोनविंशमध्ययनम्
( १९ ) गा८५-८७
UTR-2
॥३७९ ॥
Page #382
--------------------------------------------------------------------------
________________
उत्तराध्य
यनसूत्रम् ॥३८० ॥
३
w
१२
मूलम् - पंचमहव्वयजुत्तो, पंचहिं समिओ तिगुत्तिगुत्तो अ । सब्भिंतरवाहिरए, तवोवहामि उज्जु ॥८८॥ व्याख्या-- 'पंचर्हिति' पंचभि: समितिभिरिति शेषः, 'सब्भितरेत्यादि' साभ्यन्तरे बाह्ये तपसि उपधाने च श्रुतोपचाररूपे उद्युक्त उद्यमवान् ॥८८॥ मूलम् - निम्ममो निरहंकारो, निस्संगो चत्तगारखो । समो अ सव्वभूएसु, तसेसु थावरे अ ॥८९॥ लाभालाभे सुहे दुक्खे, जीविए मरणे तहा । समो निंदापसंसासु, समो माणावमाणओ ॥९०॥ गारवेसु कसाएसु दंडसल्लभएस अ। निअत्तो हाससोगाओ, अनिआणो अबंधणो ॥ ९१ ॥ व्याख्या--गौरवादीनि पदानि सुब्व्यत्ययात् पञ्चम्यन्ततया व्याख्येयानि, निवृत्त इति सर्वत्र योज्यं, अबन्धनो रागादिबन्धनरहितः ॥८९॥ ॥ ९० ॥ ॥९१॥
मूलम् - अणिस्सिओ इहं लोए, परलोए अणिस्सिओ । वासीचंदणकप्पो अ, असणे अणसणे तहा ॥९२॥ व्याख्या -- अनिश्रित इह लोके परलोके च नेह लोकार्थं परलोकार्थं वा तपोऽनुष्ठायीति भावः । 'वासीचंदणकप्पो अत्ति' सूचकत्वात्सूत्रस्य वासीचन्दनव्यापारकपुरुषयोः कल्पस्तुल्यो यः स तथा तत्र वासी सूत्रधारस्य दारुतक्षणोपकरणं । अशने आहारे अनशने च तदभावे, कल्प इत्यत्रापि योज्यम् ॥९२॥
एकोनविंशमध्ययनम्
गा ८८- ९२
UTR-2
॥३८० ॥
Page #383
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३८१॥
एकोनविंशमध्ययनम् (१९) गा९३-९६
मूलम्--अप्पसत्थेहिं दारेहि, सवओ पिहिआसवो । अज्झप्पझाणजोगेहिं, पसत्थदमसासणो ॥१३॥
व्याख्या--अप्रशस्तेभ्यो द्वारेभ्यः कर्मोपार्जनोपायेभ्यो हिंसादिभ्यः सर्वतः सर्वेभ्यो निवृत्त इति गम्यते, अत *
एव पिहिताश्रवो रुद्धकर्मागमः । कैरयमीदृशोऽभूदित्याह-'अज्झप्पेत्यादि' अध्यात्म आत्मनि ये ध्यानयोगाः शुभध्यानव्यापारास्तैः प्रशस्तो दम उपशम: शासनं च जिनागमात्मकं यस्य स तथेति ॥१३॥ मूलम्-एवं नाणेण चरणेणं, दंसणेण तवेण य । भावणाहि अ सुद्धाह, सम्मं भावित्तु अप्पयं ॥१४॥
___ व्याख्या--'भावणाहित्ति' भावनाभित्र्तविषयाभिरनित्यतादिभिर्वा, शुद्धाभिर्निर्निदानाभिः, सम्यग् भावयित्वा तन्मयतां नीत्वा आत्मानम् ॥१४॥ मूलम् - बहुआणि उ वासाणि, सामण्णमणुपालिआ । मासिएण उ भत्तेणं, सिद्धि पत्तो अणुत्तरं ॥१५॥
व्याख्या-'मासिएण उत्ति' मासिकेन, तुः पूर्ती, 'भत्तेणंति' भीमो भीमसेन इतिन्यायाद्भक्तेन भक्तप्रत्याख्यानेन * मासिकानशनेनेत्यर्थः । इति सूत्राष्टकार्थः ॥ ९५ ॥ अथोपसंहारपूर्वमुपदिशन्नाह-- J| मूलम्--एवं करंति संबुद्धा, पंडिआ पविअक्खणा । विणिअद्भृति भोगेसु, मिआपुत्ते जहामिसी ॥१६॥
व्याख्या--'जहामिसीत्ति' यथा ऋषिर्मकारोऽलाक्षणिकः ॥९६॥ पुनः प्रकारान्तरेणोपदेशमाह
UTR-2
॥३८॥
Page #384
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ॥३८२॥
एकोनविंश
मध्ययनम् | गा ९७-९८
मूलम्--महापभावस्स महाजसस्स, मिआइपत्तस्स निसम्म भासि ।
तवप्पहाणं चरिअं च उत्तम, गइप्पहाणं च तिलोअविस्सुअं ॥१७॥ व्याख्या--'भासिअंति' भाषितं संसारस्य असारत्वदुःखप्रचुरत्वावेदकं, 'गइप्पहाणं चत्ति' प्रधानगतिं च सिद्धिरूपां त्रिलोकविश्रुताम् ॥१७॥ मूलम्--विआणिआ दुक्खविवडणं धणं, ममत्तबंधं च महब्भयावहं ।
सुहावहं धम्मधुरं अणुत्तरं, धारेह निव्वाणगुणावहं महंति बेमि ॥९८॥ व्याख्या--धनं दुःखविवर्द्धनं विज्ञाय ममत्वबन्धं च स्वजनादिममत्वपाशं च महाभयावह विज्ञाय, तत एव ऐहिकामुष्मिकभयावाप्तेः । सुखावहां धर्मधुरां अनुत्तरां धारयत । निर्वाणगुणा अनन्तज्ञानदर्शनाद्यास्तदावहां 'महंति' अमितमाहात्म्यतया महतीमिति सूत्रत्रयार्थः ॥९८॥ इति ब्रवीमीति प्राग्वत् ॥ *
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिशिष्यमहोपाध्यायश्रीमुनिविमलगणिभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्ती
एकोनविंशमध्ययनं सम्पूर्णम् ॥१९॥
UTR-2
॥३८२॥ -
* अस्मिन्नध्ययने "देवलोगचुओसंतो, माणुसं भवमागओ । सन्निनाणसमुप्पत्रे, जाई सरड़ पुराणयं" इत्यष्टमसूत्रं क्वचिदृश्यते ॥
Page #385
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम्
"सूरिं श्रीविजयानन्दं, विजयानन्दकारकम् । “आत्माराम" इति ख्यातं, वन्दे सद्गुणलब्धये ॥१॥" ।
2॥
॥
G96
DATA -GH- GOGGCD-
GOGXO-GG
60G39GDF-G
GYA
.
மாமழை
(11 dd ll homil brakehidler
G
I
GOOG366500908600000OGHOGY-GROGGEOGG
DODDDDDDDDDDD
"वल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या, स ददातु सदा सुखम् ॥१॥"
UTR-2
7॥
॥
Page #386
--------------------------------------------------------------------------
_