________________
उत्तराध्य
यनसूत्रम्
।। १०६ ।।
मूलम् -- जहा से तिमिरविद्धंसे, उत्तिट्टंते दिवायरे । जलंते इव तेएणं, एवं भवइ बहुस्सु ॥ २४ ॥ व्याख्या-- यथा स तिमिरविध्वंसस्तमः स्तोमविनाशकः उत्तिष्ठन्नुद्गच्छन् दिवाकरः सूर्यः, स हि ऊर्ध्वं नभोभागमाक्रामन् भृशं तेजस्वितां भजते न त्ववतरन्नित्येवं विशिष्यते, ज्वलन्निव ज्वालां मुञ्चन्निव तेजसा महसा, एवं भवति बहुश्रुतः । सोऽपि हि अज्ञानध्वान्तविध्वंसी संयमस्थानेषु शुद्धशुद्धतमाद्यध्यवसायत उत्सर्पस्तपस्तेजसा ज्वलन्निव भवतीति सूत्रार्थः ॥ २४ ॥ मूलम् -- जहा से उडुवइ चंदे, नक्खत्तपरिवारिए । पडिपुण्णे पुण्णमासीए, एवं भवइ बहुस्सुए ॥ २५ ॥
व्याख्या-- यथा स पौर्णमास्याः पूर्णिमायाः उडुपतिर्नक्षत्राधिपश्चन्द्रो नक्षत्रैरश्विन्यादिभिरुपलक्षणत्वाद्ग्रहतारकाभिश्च परिवारितः, पतिरपि कश्चिदेकाक्येव स्यान्मृगपतिवदिति उडुपतिरित्युक्तेऽपि नक्षत्रपरिवारित इत्युक्तं, प्रतिपूर्णः सकलकलाकलितः, एवं भवति बहुश्रुतः । सोऽपि नक्षत्रकल्पानां साधुनां पतिस्तत्परिवारितः सकलकलाकलितत्वेन प्रतिपूर्णश्च स्यादिति सूत्रार्थः ॥ २५ ॥ मूलम् -- जहा से सामाइआणं, कोट्ठागारे सुरक्खिए । नाणाधन्नपडिपुण्णे, एवं भवइ बहुस्सुए ॥ २६ ॥
व्याख्या -- यथा स 'सामाइआणं ति' समाजं समूहं समवयन्तीति सामाजिकाः समूहवृत्तयो लोकास्तेषां कोष्ठागारो धान्याश्रयः सुष्ठुप्राहरिकपुरुषादिव्यापारणद्वारेण रक्षितश्चौरमूषकादिभ्य इति सुरक्षितः, नाना अनेकप्रकाराणि धान्यानि शाल्यादीनि तै: प्रतिपूर्णो भृतो नानाधान्यप्रतिपूर्ण, एवं भवति बहुश्रुतः । सोऽपि सामाजिकानामिव गच्छ्वासिनामुपयोगिभिर्नानाधान्योपमैरङ्गोपाङ्गप्रकीर्णकादिभेदैः श्रुतज्ञानविशेषैः प्रतिपूर्णः प्रवचनाधारतया सुरक्षितश्च परवादिरोगादिभ्यो भवति । उक्तं हि -- "जेण कुलं
UTR-2
अध्य. ११
॥१०६ ॥