________________
उत्तराध्ययनसूत्रम् ॥३३४॥
अष्टादशमध्ययनम्
गा ४८ उदायनराजर्षिकथा १-१०
मूलम्--सोवीररायवसहो, चइत्ताण मुणी चरे । उद्दायणो पव्वइओ, पत्तो गइमणुत्तरं ॥४८॥
व्याख्या--सौवीरेषु राजवृषभस्तत्कालीननृपप्रधानत्वात् सौवीरराजवृषभः, त्यक्त्वा राज्यमिति शेषः, मुनिश्चरेत् अचारीत् मुनिचर्ययेति शेषः, 'उद्दायणोत्ति' उदायननामा प्रव्रजितः सन् चरित्वा च प्राप्तो गतिमनुत्तराम्, तत्कथा त्वेवम् अत्रैव भरतक्षेत्रे, सिन्धुसौवीरनीवृति ॥ सान्वर्थनामकं वीत-भयाभिधमभूत्पुरम् ॥१॥ तत्रोदायननामाऽऽसीत्सुकृतोदयकृनृपः ॥ राजितः सहजैः शौर्य-धैयौदार्यादिभिर्गुणैः ॥२॥ वीतभयादिपुराणां, त्रिषष्ट्यग्रं शतत्रयम् ॥ सिन्धुसौवीरमुख्यांश्च, देशान्धोडश पालयन् ॥३॥ सेवितो दशभिर्वीरै-महासेनादिभिर्नृपैः ॥ स भूपालोऽत्यगात्कालं, श्रिया शक्र इवापरः ॥४॥ [ युग्मम् ] तस्य प्रभावती राज्ञी, जज्ञे चेटकराट्सुता ॥ बिभ्रती मानसे जैनं, धर्म पतिमिवाऽनिशम् ॥५॥ तत्कुक्षिजो यौवराज्यं, प्राप्तस्तस्य महीपतेः ॥ नन्दनोऽभीचिनामाऽऽसी-त्केशी च भगिनीसुतः ॥६॥
इतश्च पुर्यां चम्पायां, स्वर्णकारो महाधनः ॥ कुमारनन्दीनामाऽभू-ललनालोलमानसः ! ॥७॥ ददर्श कन्यकां यां यां, यत्र यत्र मनोहराम् ॥ निष्कपञ्चशतीं दत्त्वा, तां तां परिणिनाय सः ॥८॥ इत्थं पञ्चशतानि स्त्री-रुदूढोऽपि स नाऽतृपत् ॥ स्त्रीधनायुष्कभोज्येषु, प्रायोऽतृप्ता हि जन्तवः ! ॥९॥ एता मिलन्तु माऽन्येन, केनापीति विचित्य सः ॥ एकस्तम्भगृहे न्यस्य, बुभुजे ता दिवानिशम् ॥१०॥ इतश्च पञ्चशैलाख्य-द्वीपे वारिधिमध्यगे ॥ बभूव
UTR-2
॥३३४॥