SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥२९६॥ अष्टादशमध्ययनम् शान्तिना - थचरित्रम् ३२३-३३६ जीवोऽथानन्तवीर्यस्या-ऽच्युतस्वर्गात्परिच्युतः॥ कुक्षौ लक्ष्मीवतीदेव्याः, समवातरदन्यदा ॥३२३॥ समयेऽजीजनत्पुत्रं, साऽपि लक्षणलक्षितम् ॥ सहसायुध इत्याख्यां, चक्रे तस्योत्सवैः पिता ॥३२४॥ सोऽपि क्रमावर्द्धमानः स्वीकृत्य सकलाः कलाः ॥ प्रपेदे यौवनं लीला-वनं मदनभूभृतः ॥३२५॥ सुतयुक्तेऽन्यदा क्षेम-ङ्करराजे सभां श्रिते। वज्रायुधस्य सम्यक्त्व-मीशानेन्द्रोऽत्यवर्णयत् ॥३२६॥ अश्रद्दधानस्तच्चित्र-चूलो मिथ्यामतिः सुरः ॥ विवादं कर्तुमागात्तां, सभां नास्तिकतां श्रितः ॥३२७॥ पुण्यपापप्रेत्यभावा-त्मादि नास्तीति वादिनम् ॥ वज्रायुधोऽवधिज्ञानी निजगादेति तं मुदा ॥३२८॥ देव ! त्वमेवावधिना, पश्य प्राग्भवमात्मनः॥ धर्मकर्म च तत्रत्यं, सम्पदोऽस्या निबन्धनम् ॥३२९॥ पुण्ये प्राच्यभवे चैवं, सिद्धे जीवोऽपि विद्यते ॥ अभावः पुण्यपापादे-स्तत्कथं कथ्यते त्वया? ॥३३०॥ उक्तो वज्रायुधेनेति, चित्रचूलसुरोऽब्रवीत् ॥ दुर्बोधोऽपि त्वया साधु, सुबुद्धे बोधितोऽस्म्यहम् ॥३३१॥ प्रसीद बोधिरत्नं द्राग, देहि मिथ्यामतेर्मम ॥ न हीर्ण्ययाऽपि विहितं, दर्शनं विफलं सताम् ॥३३२॥ वज्रायुधस्ततस्तस्मै, सम्यक् सम्यक्त्वमादिशत् ॥ निःस्पृहाय ददौ दिव्या, भूषास्तस्मै सुरोऽपि सः ॥३३३॥ सभामीशाननाथस्य, गत्वा चैवमुवाच सः ॥ वज्रायुधस्य सम्यक्त्वं, स्थानेऽश्लाघि त्वया प्रभो ! ॥३३४॥ अथ लोकान्तिकैर्देवैरुक्तः क्षेमङ्करः प्रभुः ॥ अर्थिभ्यो वार्षिकं दानं, ददौ राज्यं च सूनवे ॥३३५॥ वज्रायुधेन देवैश्च, कृतनिष्क्रमणोत्सवः॥ प्रव्रज्य केवलज्ञानं, क्रमेण प्राप स प्रभुः ॥३३६॥ श्रुत्वा तद्देशनां वज्रा-युधस्य गृहमीयुषः ॥ उत्पत्ति UTR-2 ॥२९६॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy