SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥२९५॥ अष्टादशमध्ययनम् (१८) शान्तिनाथचरित्रम् ३०८-३२२ बलोऽपि भ्रातृशोकतः ॥ भूमीभुजां षोडशभिः, सहसैः परिवारितः ॥३०८॥ परिव्रज्यां जयधर-गणाधीशान्तिके - श्रयत् ॥ तपश्च तीव्र तप्त्वाऽऽयु:- प्रान्तेऽभूद् वासवोऽच्युते ॥३०९॥ [ युग्मम् ] जीवोऽथानन्तवीर्यस्य, निरयान्निर्गतस्ततः ॥ वैताढ्ये भरतस्यास्य, पुरे गगनवल्लभे ॥३१०॥ खेचराधिपतेर्मेघ-वाहनस्याङ्गजोऽभवत् ॥ मेघनादाभिधः प्राप्त-यौवनो राज्यमाप्य च ॥३११॥ साधयामास वैताढ्य-श्रेण्यौ द्वे अपि स क्रमात् ॥ विभज्य च ददौ देशानशेषानङ्गजन्मनाम् ॥३१२॥ नन्तुं शाश्वतचैत्यानि, गतं तं नन्दनेऽन्यदा ॥ तत्रायातोऽच्युताधीशः, प्रेक्ष्य प्राबुबुधन्मुदा ॥३१३॥ नाम्नामरगुरुस्तत्र, चारर्षिस्तदाऽऽययौ ॥ प्रावाजीत् खेचराधीश-स्ततोऽसौ तस्य सन्निधौ ॥३१४॥ स व्रतं पालयंस्तीवं, सहमानः परिषहान् ॥ विपद्यानशनेनान्ते-ऽच्युतसामानिकोऽभवत् ॥३१५॥ इतश्च जम्बूद्वीपेऽस्ति, प्रागग्विदेहविभूषणे ॥ विजये मङ्गलावत्यां, नगरी रत्नसञ्चया ॥३१६॥ तत्र क्षेमङ्कराह्वोऽभूद्विश्वक्षेमकरो नृपः ॥ रत्नमालेति तस्यासी-न्महिषी गुणमालिनी ॥३१७॥ द्वाविंशतिसमुद्रायुः, प्रपूर्य प्रच्युतोऽच्युतात् ॥ जीवोऽपराजितस्याथ, तस्याः कुक्षाववातरत् ॥३१८॥ तदा च सुखसुप्ता सा, महास्वप्नांश्चतुर्दश ॥ वज्रं पञ्चदशं प्रेक्ष्य, प्रबुद्धा भूभुजेऽभ्यधात् ॥३१९॥ सोऽपि स्माह सुतो भावी, चक्रवर्ती तव प्रिये! तन्निशम्य दधौ गर्भ, राज्ञी मुदितमानसा ॥३२०॥ क्रमाच्च सुषुवे पुत्र, जगत्रयमनोहरम् ॥ स्वप्नानुसारात्तं भूपो, व्यधाद्वज्रायुधाऽभि धम् ॥३२१॥ स क्रमाद्यौवनं प्राप्तः, प्रियमित्रं मनोभुवः॥ लक्ष्मीवतीं नृपसुता-मुदुवाह: महामहैः ॥३२२॥ UTR-2 ॥२९५॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy