SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥२९७॥ अष्टादशमध्ययनम् (१८) शान्तिनाथचरित्रम् ३३७-३५९ चक्ररत्नस्या-ऽभ्यधादायुधरक्षकः ॥३३७॥ अन्यान्यपि हि रत्नानि, तदा तस्योपपेदिरे ॥ ततः स चक्रे चक्रस्य, चक्री पूजां महीयसीम् ॥३३८॥ चक्ररत्नानुगः सोऽथ, विजयं मङ्गलावतीम् ॥ साधयामास षट्खंड-मखंडाज्ञः शशास च ॥३३९॥ क्षेमङ्करजिनस्तत्र, समवासरदन्यदा ॥ चक्रिणेऽर्हन्तमायात-मूचुश्च वनपालकाः ॥३४०॥ सार्धद्वाद्वशदीनार-कोटीस्तेभ्यो वितीर्य सः ॥ गत्वा नत्वा च सर्वज्ञ-मश्रौषीद्धर्मदेशनाम् ॥३४१॥ ततो | वैराग्यमासाद्य, सद्यः सद्मगतो नृपः॥ निजे न्यवीविशद्राज्ये सहसायुधमादरात् ॥३४२॥ चतुर्भिर्निजराज्ञीनां सहसैर्भूभुजां तथा ॥ सप्तभिश्चात्मजशतैः, सहितो महितो जनैः ॥३४३॥ क्षेमङ्करप्रभोः पार्श्वे, गत्वा स व्रतमाददे ॥ तप्यमानस्तपस्तीवं, विजहार च भूतले ॥३४४॥ [युग्मम् ] सहस्रायुधराजोऽपि, राज्ये न्यस्यान्यदा सुतम् ॥ गणाधीशस्य पिहिता-श्रवस्यान्तेऽग्रहीव्रतम् ॥३४५॥ स क्रमात् श्रुतपारीणो, विहरन् पृथिवीतले ॥ समगस्तान्यदा वज्रा-युधराजर्षिणा समम् ॥३४६॥ ततश्च तौ पितापुत्रौ, स्वाध्यायध्यानतत्परौ ॥ सुचिरं रुचिरस्वान्तौ, सममेव विजह्रतुः ॥३४७॥ अधिरुह्याऽन्यदा शैल-मीषत्प्राग्भारसंज्ञकम् ॥ पादपोपगमं नामा-ऽनशनं तौ वितेनतुः | ॥३४८॥ पूर्णे च जीविते पंच-विंशत्यर्णवजीवितौ ॥ ग्रैवेयके तृतीये ता-वभूतां भासुरौ सुरौ ॥३४१॥ इतश्च जम्बूद्वीपे प्राग्-विदेहेषु महर्द्धिका ॥ विजये पुष्कलावत्या-मस्ति पू: पुण्डरीकिणी ॥३५०॥ प्रतीपभूपतेजोऽग्नि-शमनैकघनाघनः ॥ राजा घनरथस्तस्या-मभूदद्भुतविक्रमः ॥३५१॥ गङ्गागौर्याविवेशस्य, तस्याभूतामुभे प्रिये ॥ UTR-2 ॥२९७॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy