________________
उत्तराध्ययनसूत्रम् ॥३४४॥
३
अष्टादशमध्ययनम् (१८) उदायनराजर्षिकथा १३७-१५०
क्तायुक्तपुरुषान् ॥ तेऽपि गत्वेभपादादि, वीक्ष्यागत्यैवमूचिरे ॥१३७॥ इहाऽऽरूढोऽनलगिरि, प्रद्योतो नूनमाययौ ॥ श्रूयते न हि गन्धेभ-स्तं विनाऽन्यस्य कस्यचित् ॥१३८॥ जाङ्गुलीश्रवणान्नागा, इव नागा समेऽप्यमी ॥ तद्गन्धान्मदमत्याक्षु-मक्षु क्षोणीदिवस्पते ! ॥१३९॥ "ततश्च"-स राजाऽऽगात्कुतोऽत्रेति ?, ध्यायिनं तायिनं भुवः ॥ सुवर्णगुलिका नास्ती-त्यूचिवान्कोऽपि कञ्चुकी ॥१४०॥ भूपस्ततोऽवदनूनमुपेत्य स नृपः स्वयम् ॥ तां चेटीमहरत्तर्हि, किं तया गतयाऽपि मे ! ॥१४१॥ किन्तु पश्यत सा सार्व-प्रतिमा विद्यते न वा ? ॥ सा हि मोहाहिदष्टस्य, जीवातुर्मम वर्त्तते! ॥१४२॥ गत्वाऽऽगतस्ततः कोऽपि, साऽर्चाऽस्तीति नृपं जगौ ॥ पश्यन्ति स्थूलमतयः, स्थानाशून्यत्वमेव हि ! ॥१४३॥ पूजाकालेऽथ भूपालः, स्वयं चैत्यालयं गतः ॥ वीक्ष्याऽचर्चा म्लानपुष्पां तां, विषण्णो ध्यातवानिति! ॥१४४॥ हृता मे प्रतिमा तस्याः, प्रतिरूपमिदं खलु ॥ म्लानत्वं लेभिरे तस्यां, पुष्पाणि न हि कर्हिचित् ! ॥१४५॥ प्रद्योताय ततो दूतं, प्रजिघाय स भूधवः ॥ सोऽपि क्रमाद्गतोऽवन्ती-मवन्तीपतिमित्यवक् ॥१४६॥ स्ववीर्यवह्निविध्वस्त-वैरिवर्गतृणव्रजः ॥ श्रीउदायनभूपस्त्वां, मन्मुखेन वदत्यदः ॥१४७॥ दस्युवत्प्रतिमादास्यौ, हरन् हीणो न किं भवान् ? ॥ यद्वा दासीरतेर्युक्त-मेवादश्चेष्टितं तव! ॥१४८॥ तत्र दास्याऽनया कार्य, कार्याकार्यविदो न मे ॥ स्वमूर्तेः कुशलं कांक्ष-न्मूर्तिं तु प्रेषयेद्भुतम् ॥१४९॥ तदा देहि तां नो चे-दिहाऽऽयातमवेहि तम् ॥ कल्पान्तोद्धान्तपाथोधि-कल्पानल्पबलान्वितम् ॥१५०॥ तनिशम्यावदच्चण्ड
UTR-2
॥३४४॥