________________
उत्तराध्ययनसूत्रम् ॥३४३॥
अष्टादशमध्ययनम् (१८) उदायनराजर्षिकथा १२३-१३६
एवं विचिन्त्य सा चेटी, गुटीमेकामभक्षयत् ॥ तत्स्वरूपं ततो गत्वा, प्रद्योताय जगौ सुरी ॥१२३॥ तामानेतुं ततो दूतं, प्रेषीत्प्रद्योतभूधवः ॥ सुवर्णगुलिका तं च, व्याजहारेति मानिनी ॥१२४॥ मामाह्वातुमिहायातु, स राट् पश्यामि तं यथा ॥ अदृष्टपूर्वमभ्येति, कामिनं न हि कामिनी! ॥१२५॥ इति तद्वचनं दूतो, गत्वा राज्ञे व्यजिज्ञपत् ॥ सोऽप्यारुह्यानलगिरि, तत्र रात्रावुपागमत् ॥१२६॥ तं च प्रेक्ष्यानुरक्ता सा, प्रोचे चेत्प्रतिमामिमाम् ॥ सहादत्से तदाऽऽयामि, त्वया सह महीपते ! ॥१२७॥ इह विन्यासयोग्याऽन्या, नास्ति प्रतिकृतिस्ततः ॥ तामानयामि त्वच्चेतो, मानयामि मनस्विनि! ॥१२८॥ इत्युदीर्य ततोऽवन्ती-मवन्तीशोऽगमद्रुतम् ॥ तादृशीमपरां वीर-प्रतिमा
च व्यधापयत् ॥१२९॥ [ युग्मम् ] तां च सम्यक् प्रतिष्ठाप्य, कपिलेन महर्षिणा ॥ गन्धद्विपेन तेनाऽऽगा-द्भूयो Xवीतभये निशि ॥१३०॥ दन्तिनं तं बहिर्मुक्त्वा, ताम_मुद्वहन्मुदा ॥ अपाकृत्य भियं तत्रा-ऽविशत्का कामिनां
|हि भी: ? ॥१३१॥ तत्र तां प्रतिमां न्यस्य, देवदत्तार्चया समम् ॥ तां दासी देवदत्तावां, हृत्वा स स्वपुरीमगात् |॥१३२॥ तद्गन्धेभः सविण्मूत्रं, तदा वीतभयेऽमुचत् ॥ तद्गन्धेन च तत्रत्या, गजाः सर्वे मदं जहुः ॥१३३॥ गन्धः स च यतोऽभ्यागा-त्तां दिशं ते मुहुर्मुहुः ॥ उत्तब्धशुण्डा व्यात्तास्याः, स्तब्धकर्णा व्यलोकयन् ॥१३४॥ अजानिव गजांस्तांश्च, वीक्ष्य वीतमदान्प्रगे ॥ अतिमात्रं महामात्राः, सम्भ्रान्तस्वान्ततां दधुः ॥१३५॥ विमदास्ते द्विपाः सर्वे-ऽवन्तिमार्गदिशं विभो! ॥ महर्विलोकयन्तीति, तेऽथ राज्ञे व्यजिज्ञपन् ॥१३६॥ भूसुत्रामा ततस्तत्र, न्ययु
UTR-2
॥३४३॥