SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥२५४॥ पुरे ॥ पुरारक्षास्ततो ग्राम मीयुस्तं तत्पदानुगाः ॥ ७६ ॥ ग्रामद्वाराणि चावृत्या ऽज्वालयन् परितोऽनलम् ॥ स कुलालस्तु तत्राह्नि, ग्राममन्यं गतोऽभवत् ॥७७॥ तं विना ते ततः सर्वे, प्लुष्टा दुष्टा विपेदिरे । मात्रिवाहकजीवत्वेनाऽटव्यां चोपपेदिरे ॥७८॥ पिण्डीभूय स्थितास्तेऽथ तत्रायातस्य हस्तिनः ॥ पादेन मर्दिता मृत्वा चिरं भ्रमुः कुयोनिषु ॥ ७९ ॥ पुण्यं च प्राग्भवे किञ्चित्कृत्वा ते सङ्घदस्यवः । जज्ञिरे चक्रिणः षष्टि-सहस्राणि सुता इमे ॥८०॥ प्राग्भवैर्दुर्भवैस्तस्य, बहुभुक्तस्य कर्मणः ॥ शेषांशेन मृता एते, सममेव महीपते ! ॥ ८१ ॥ कुलालोऽप्यन्यदा मृत्वा, सोऽभूत् क्वापि पुरे धनी ॥ तत्रापि सुकृतं कृत्वा, विपद्य क्वाप्यभून्नृपः ॥८२॥ भूयोऽपि सोऽन्यदा दीक्षां, लात्वा मृत्वा सुरोऽभवत् ॥ ततश्चयुतश्च त्वं जह्रु-जातो जातोऽसि भूपते ! ॥८३॥ भगीरथक्षोणिधवोऽथ वाचं, वाचंयमस्येति निशम्य सम्यक् ॥ सुश्राद्धधर्मं प्रतिपद्य हृद्यं सद्योऽनवद्यः स्वपुरीं जगाम ॥८४॥ इति सगरचक्रवर्त्तिकथालेशः ॥ ३५ ॥ मूलम् - चइत्ता भारहं वासं, चक्कवट्टी महिड्डीओ । पव्वज्जमब्भुवगओ, मघवं नाम महायसो ॥३६॥ व्याख्या - सुगमं तत्कथालेशस्त्वेवं, तथा हि अभूदिहैव भरते, महीमण्डलसत्पुरे ॥ वासुपूज्यप्रभोस्तीर्थे, नाम्ना नरपतिर्नृपः ॥ १ ॥ स्वप्रजावत् प्रजाः सम्यक्, पालयित्वा चिरं स राट् । संत्यज्य राज्यमन्येद्यु-विरक्तो व्रतमाददे ॥२॥ अप्रमत्तश्चिरं दीक्षां, पालयित्वा विपद्य च ॥ अहमिन्द्रः स गीर्वाणो, मध्यग्रैवेयकेऽभवत् ॥ ३॥ इतश्चात्रैव भरते, श्रावस्त्यां पुरि भूपतिः ॥ श्रिया समुद्र अष्टादशम ध्ययनम् सगरचक्रि कथा ७६-७४ गाथा ३६ मघवचक्रि कथा 5१-३ UTR-2 ॥२५४॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy