SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ X उत्तराध्ययनसूत्रम् ॥२५३॥ अष्टादशमध्ययनम् (१८) सगरचक्रि कथा ६२-७५ ग्रामान्, प्लावयत्तन्निवार्यताम् ॥६२॥ राज्ञादिष्टस्ततः शिष्टः, पुत्रपुत्रो भगीरथः ॥ तत्र गत्वाऽष्टमं कृत्वा-ऽऽराधयज्ज्वलनप्रभम् ॥६३॥ प्रदत्तदर्शनं तं चेत्यूचे युष्मत्प्रसादतः ॥ गङ्गां नीत्वाम्बुधौ लोकान् करोमि निरुपद्रवान् ॥६४॥ वारयिष्यामि भुजगा-नहं भरतवासिनः ॥ तत्कुरुष्वाऽभयोऽभीष्ट-मित्युक्त्वाऽगात्ततोऽहिराट् ॥६५॥ नागपूजां ततः कृत्वा, दण्डरत्नेन जह्वजः ॥ नीत्वा सुपर्वसरितं, पूर्वाब्धावुदतारयत् ॥६६॥ भगीरथो भोगिपूजा, तत्रापि विधिवत् व्यधात् ॥ गङ्गासागरसङ्गाख्यं, तत्तीर्थं पप्रथे ततः ॥७॥ गङ्गापि जलनाऽऽनीते-त्युक्ता लोकेन जाह्नवी ॥ भगीरथेन नीताब्धा-विति भागिरथी तथा ॥६८॥ अथो भगीरथोऽयोध्या, गतस्तुष्टेन चक्रिणा ॥ सोत्सवं निदधे राज्ये, मूर्त्यन्तरमिवात्मनः ॥ ६९ ॥ स्वयं तु व्रतमादृत्य, सन्निधावजितप्रभोः ॥ सुदुस्तपं तपस्तेपे, सगरस्संत्यसङ्गरः ॥७०॥ क्रमाच्च केवलज्ञानं, ध्वस्ताज्ञानमवाप्य सः ॥ द्वासप्ततिं पूर्वलक्षाः, समाप्यायुः शिवं ययौ ॥ ७१ ॥ सर्वे समायुषो जह्व-मुख्या किं जज्ञिरे ? प्रभो ! ॥ ज्ञानी भगीरथेनेति, पृष्टोऽन्येधुरदोऽवदत् ॥७२॥ सङ्घः पुरा जिनानन्तुं, सम्मेताद्रिं व्रजन्महान् ॥ सम्प्राप्य गहनप्रान्तं, प्रान्तग्रामे क्वचिद्ययौ ॥७३॥ अनार्यैस्तद्गतैः षष्टिसहस्रप्रमितैर्जनैः ॥ एकेन कुम्भकारेण, वार्यमाणैरपि स्फुटम् ॥७४॥ स संघो मुषितो लुब्धैः, कथञ्चिदगमत् पुरः ॥ तैस्तु तत्प्रत्ययं सर्वैः, पापकर्म निकाचितम् ॥७५॥ [युग्मम् ] अन्यदा कोऽपि तत्रत्यो-ऽन्यत्र चौर्य व्यधात् UTR-2 ॥२५३॥ १ सत्यप्रतिज्ञः॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy