SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥२४५॥ अष्टादशमध्ययनम् (१८) गा. ३२-३३ तेषां मंत्रास्तत्कार्यालोचनरूपास्तेभ्यो, वा समुच्चये, पुनर्विशेषणे, अतिसावद्यत्वं तेषां विशिनष्टि, सोपस्कारत्वात्सूत्रस्य यश्चैवं संयम प्रति उत्थानवान् स 'अहो'! इति विस्मये, उत्थितो धर्मम्प्रत्युद्यतः कश्चिदेव हि महात्मा एवंविध: स्यादित्याश्चर्यं, अहोरात्रं अहर्निशं, इति एतदनन्तरोक्तं 'विज्जत्ति' विद्वान् जानन् 'तवंति' गम्यत्वादवधारणस्य तप एव, न तु प्रश्नादि, चरेरामेवेथा | इति सूत्रार्थः ॥ ३१॥ अथ संजययतिना कथमायुर्वेत्सीति पृष्टोऽसावाहमूलम् -जं च मे पुच्छसी काले, सम्मं सुद्धेण चेअसा । ताई पाउकरे बुद्धे, तं नाणं जिणसासणे ॥३२॥ व्याख्या- यच्च मे इति मां पृच्छसि काले कालविषयं सम्यक् शुद्धेन चेतसोपलक्षित: 'ताइंति' सूत्रत्वात् तत् प्रादुष्कृतवान् प्रकटितवान् बुद्धः सर्वज्ञोऽत एव तज्ज्ञानं जिनशासने सावधारणत्वाद् वाक्यस्य जिनशासने एव, न त्वन्यत्र सुगतादिशासनेऽतो जिनशासने एव यत्नः कार्यों येन यथाऽहं जानामि तथा त्वमपि ज्ञास्यसि इति भावः, इति सूत्रार्थः ॥ ३२ ॥ पुनरुपदेष्टमाहKI मूलम् - किरिअं रोअए धीरो, अकिरिअं परिवज्जए । दिविए दिट्ठिसंपन्ने, धम्म चर सुदुच्चरं ॥ ३३ ।। ___ व्याख्या - क्रियाञ्चास्ति जीव इत्यादिरूपां सदनुष्ठानात्मिकां वा रोचयेद्धीरोऽक्षोभ्यः तथाऽक्रियां नास्त्यात्मा इत्यादिकां परिवर्जयेत्, ततश्च दृष्ट्या सम्यग्दर्शनरूपया उपलक्षिता या दृष्टिर्बुद्धिः, सा चेह प्रक्रमात् सम्यकज्ञाना UTR-2 ॥२४५॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy