SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ अध्य. १४ उत्तराध्ययनसूत्रम् ॥१८८॥ | च भिन्नक्रमत्त्वादह्नि रात्रौ च परितप्यमानस्तत्प्राप्त्यै समन्ताच्चिन्ताग्निना दह्यमानः, अन्ये स्वजनास्तदर्थ प्रमत्तस्तत्कृत्यासक्तचेता अन्यप्रमत्तो धनं एषयन् विविधोपायैर्गवेषयमाण: 'पप्पोति त्ति' प्राप्नोति मृत्युं पुरुषो जरां च ॥१४॥ तथा मूलम - इमं च मे अस्थि इमं च नत्थि, इमं च मे किच्चमिमं अकिच्चं । तं एवमेवं लालप्पमाणं, हरा हरंतित्ति कहं पमाओ? ॥१५॥ व्याख्या-इमं च मे अस्ति धान्यादि, इदं च नास्ति रूप्यादि, इदं च मे कृत्यं गृहवरण्डिकादि, इदमकृत्यं प्रारब्धमपि वाणिज्यादि न कर्तुमुचितं , तं पुरुषं एवमेव वृथैव लालप्यमानं अत्यर्थं वदन्तं हरन्त्यायुरिति हराः, दिनरजन्यादयो हरन्ति भवान्तरं नयन्ति इत्यतो हेतोः कथं प्रमादो धर्मे कर्तुं युक्त इति सूत्रषट्कार्थः ॥ १५ ॥ अथ तौ धनादिना लोभयितुं पुरोधाः प्राह-- मूलम् - धणं पभूअं सह इत्थिआहिं, सयणा तहा कामगुणा पगामा । तवं कए तप्पति जस्स लोओ, तं सव्वसाहीणमिहेव तुब्भं ॥१६॥ व्याख्या-धनं प्रभूतं सह स्त्रीभिः, स्वजनाः पितृपितृव्यादयः, तथा कामगुणाः शब्दादयः प्रकामा अतिशायिनो वर्त्तन्त इति गम्यं , तपः कष्टानुष्ठानं कृते निमित्तं तप्यते ऽनुतिष्ठति यस्य धनादेर्लोकः तत्सर्वं स्वाधीनमिहैवास्मिन्नेव गृहे 'तुब्भं ति' युवयोरिति सूत्रार्थः ॥१६॥ तावाहतुः मूलम्- धणेण किं धम्मधुराहिगारे सयणेण वा कामगुणेहिं चेव । समणा भविस्सामु गुणोहधारी, बहिविहारा अभिगम्म भिक्खं ॥१७॥ व्याख्या - धनेन किं ? न किंचिदित्यर्थः, धर्म एव सात्त्विकधुरन्धरैमह्यमानतया धूरिख धर्मधुरा तदधिकारे तत्प्रस्तावे स्वज UTR-2 ॥१८८॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy