SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ अध्य. १४ उत्तराध्ययनसूत्रम् ॥ १८९ ॥ नेन वा कामगुणैश्चैव, ततः श्रमणौ भविष्यावो गुणौघधारिणौ क्षमादिगुणसमूहधारको, बहिर्गामादिभ्यो विहारो ययोस्तौ बहिर्विहारौ अप्रतिबद्धविहारावित्यर्थः, अभिगम्याश्रित्य भिक्षामिति सूत्रार्थः ॥१७॥ आत्मास्तित्वमूलत्वाद्धर्मानुष्ठानस्य तन्निराकर्तुं भृगुराह मूलम् - जहा य अग्गी अरणी असंतो, खीरे घयं तिल्लमहा तिलेस् । एमेव जाया सरिरंमि सत्ता, संमुच्छई नासइ नावचिट्ठे ॥१८॥ व्याख्या- यथैव चकारस्यैवकारार्थत्वात् अग्निः 'अरणि त्ति' अरणितोग्निर्मन्थनकाष्ठादसन् अविद्यमान एव सम्मूछंति, तथा क्षीरे घृतं, तैलमथ तिलेषु, एवमेव हे जातौ ! शरीरे सत्त्वाः 'संमुच्छई त्ति' सम्मूर्च्छन्ति, पूर्वमसन्त एवोत्पद्यन्ते । तथा 'नासइ त्ति' नश्यन्ति, अभ्रपटलवद्विलयमुपयान्ति । 'नावचिठे त्ति' न पुनरवतिष्ठन्ते , शरीरनाशे सति तन्नाशादिति सूत्रार्थः ॥ १८॥ कुमारावाहतुः मूलम् - नो इंदिअगिज्झो अमुत्तभावा, अमुत्तभावाविअ होइ निच्चो। अज्झत्थहेउं निअओऽस्स बंधो, संसारहेउं च वयंति बंधं ॥१९॥ व्याख्या - नो इंद्रियग्राह्यः सत्त्व इति प्रक्रमः, अमूर्तभावादिन्द्रियग्राह्यरूपाद्यभावात् । तथा अमूर्त्तभावादपि च भवति | नित्यस्तथा हि-यद्रव्यत्वे सत्यमूर्तं तन्नित्यं, आकाशवत् । न चैवममूर्त्तत्वादेव बन्धासम्भव इति वाच्यं? यतः 'अज्झत्थहेउं ति' | इहाध्यात्मशब्देनात्मस्था: मिथ्यात्वादय उच्यन्ते, ततस्तद्धेतुस्तन्निमित्तो नियतो निश्चितोऽस्य जन्तोर्बन्धः कर्मभिः संश्लेषः, UTR-2 ॥१८९॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy