________________
अध्य. १४
उत्तराध्ययनसूत्रम् ॥१९०॥
यथाऽमूर्तस्यापि नभसो मूतैरपि घटादिभिः सम्बन्धः एवमस्यापि मूतैरपि कर्मभिर्न विरुध्यते । तथा संसारहेतुं च वदन्ति बन्धमिति, ततश्चास्त्येवात्मा चेतनाश्रयः, तदभावे हि प्रतिदेहिनमुपलभ्यमानस्य चैतन्यस्य निरास्पदत्वप्रसङ्गात् । न च वाच्यं पृथिव्यादिभूतानि
चैतन्यस्याश्रय इति न तस्य निरास्पदत्वमिति? पृथस्थितेषु तिलेषु स्नेहस्येव पृथग्भूतेषु भूतेषु चैतन्यांशस्याप्यनुपलब्धेः,यच्च येषु पार्थक्यावस्थायां स्वल्पमपि नास्ति न तत्तेषु संहितेष्वपि भवितुमर्हति रेणुकणेषु तैलमिव । स्यादेतन्मद्याङ्गेषु मदशक्तिः पूर्वमनुपलभ्यमानापि संहितेषु तेषु दृश्यत इति चेन्मैवं, तेषु पूर्वमपि मदशक्तेः किञ्चिदुपलभ्यमानत्वात् दृश्यते हि धातकीपुष्पेषु मनाग् वैकल्यजनकत्वं, गुडे बलवर्धकत्वं चेति, एवमन्येष्वपि तदङ्गेषु द्रष्टव्यम्, न चैवं पार्थक्यावस्थायां पृथ्व्यादिषु किञ्चिदस्पष्टमपि चैतन्यमुपलभ्यते, तत एभ्योऽतिरिक्त एव तस्याश्रय एष्टव्यः, स चात्मैवेति स्थितं । स च नित्यो भवान्तरयायी, तस्य च मिथ्यात्वादिभि| बन्धो बन्धादेव च संसार इति सूत्रार्थः ॥१९॥ ततश्च --
मूलम् - जहा वयं धम्ममयाणमाणा, पावं पुरा कम्ममकासि मोहा ।
उरब्भमाणा परिरक्खिअंता,तं नेव भज्जोवि समायरामो ॥ २०॥ व्याख्या - यथा वयं इत्यावां धर्मं सम्यग्दर्शनादिकं अजानन्तौ पापं पापहेतुः पूरा पूर्वं कर्मानुष्ठानं 'अकासि त्ति' अकार्च , मोहात्तत्त्वाज्ञानात् अपरुद्ध्यमाना गृहानिर्गममलभमानाः परिरक्ष्यमाणा अनुजीविभिरनुपाल्यमानास्तत्पापकर्म नैव भूयोऽपि पुनरपि समाचरामो यथावद्विदितवस्तुस्वरूपत्वादिति सूत्रार्थः ॥२०॥ अन्यच्च
UTR-2
॥१९०॥