________________
अध्य. १४
उत्तराध्ययनसूत्रम् ॥१९१ ॥
मूलम् -- अब्भाहयंमि लोगंमि, सव्वओ परिवारिए । अमोहाहिं पडंतीहि, गिहंसि न रडं लभे ॥२१॥
व्याख्या - अभ्याहते पीडिते लोके सर्वतः सर्वासु दिक्षु परिवारिते परिवेष्टिते अमोघाभिरवन्ध्यप्रहरणोपमाभिः पतन्तीभिः गृहे गृहवासे न रतिं लभावहे, यथा वागुरावेष्टितो मृगो अमोघैश्च प्रहरणैाधेनाऽभ्याहतो न रतिं लभते एवमावामपीति सूत्रार्थः ॥२१॥ भृगुराह - मूलम् - केण अब्धाहओ लोओ, केण वा परिवारितो । का वा अमोहा वुत्ता, जाया चिंतापरो हुमि ॥२२॥
व्याख्या- केन व्याधकल्पेनाभ्याहतो लोकः ? केन वा वागुरारूपेण परिवारितः? का वा अमोघा अमोघप्रहरणोपमा उक्ताः? हे जातौ ! चिन्तापर: 'हुमि त्ति' भवामि, ततो ममावेद्यतामयमर्थ इति सूत्रार्थः ॥ २२ ॥ तावाहतुःमूलम् - मच्चुणाब्भाहओ लोओ, जराए परिवारिओ । अमोहा रयणीवुत्ता, एवं ताय विआणह ॥२३॥
व्याख्या- मृत्युनाभ्याहतो लोकस्तस्य सर्वत्राप्रतिहतप्रसरत्वात्,जरया परिवारितस्तस्या एव मरणाभिघातयोग्यतापादने प्रवणत्वात्, अमोघा रजन्य उक्ता: दिनाविनाभावित्वात्तासां दिनाश्च, तत्पतने ह्यवश्यम्भावी जनाभिघातः, एवं तात ! विजानीतेति सूत्रार्थः ॥२३॥ किञ्च - मूलम् - जा जा वच्चइ रयणी, न सा पडिनिअत्तई । अहम्मं कुणमाणस्स, अहला जंति राइओ ॥२४॥
व्याख्या - या या व्रजति रजनी उपलक्षणत्वाद्दिनं च न सा प्रतिनिवर्त्तते पुनरागच्छति, ताश्चाधर्म कुर्वतो जन्तोरिति शेषः, अफला यान्ति रात्रयः, अधर्मनिबन्धनं गाहस्थमिति तत्त्याग एव श्रेयान् ॥ २४ ॥ तथा -
UTR-2
॥१९॥