________________
उत्तराध्य
यनसूत्रम्
॥ २९३ ॥
॥ अथ षोडशमध्ययनम् ॥
॥ ॐ ॥ व्याख्यातं पञ्चदशमध्ययनमथ षोडशमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने भिक्षुगुणा उक्तास्ते च तत्त्वतो ब्रह्मचर्यस्थितस्य भवन्ति, तदपि ब्रह्मगुप्तिज्ञानेनेति ता इहाभिधीयन्ते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्येदमादिसूत्रम्मूलम् - सुअं मे आउसं तेणं भगवया एवमक्खायं, इह खलु थेरेहिं भगवंतेहिं दस बंभचेरसमाहि ट्ठाणा पण्णत्ता, जे भिक्खू सोच्चा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुतिदिए गुत्तबंभयारी सया अप्पमत्ते विहरिज्जा ॥१॥
व्याख्या- सुधर्मा स्वामी जम्बूनामानमाह श्रुतं मया हे आयुष्मन् ! तेन भगवता ज्ञातकुलजलधिचन्द्रेण श्रीवर्द्धमानजिनेन्द्रेण एवमाख्यातं कथितं कथमित्याह - सोपस्कारत्वात्सूत्रस्यात्र यथेति गम्यते, ततो यथेह प्रवचने खलु निश्चये स्थविरैर्गणधरादिभिर्भगवद्भिर्दश ब्रह्मचर्यसमाधिस्थानानि प्रज्ञप्तानि, अयं भावः- नैषां स्थविराणामियं स्वमनीषिका, किन्तु भगवता - प्येतदेवमेवाख्यातं मया श्रुतं, ततोऽत्र माऽनास्थां कृथाः ! ब्रह्मचर्यसमाधिस्थानान्येव विशिनष्टि - 'ये' इति यानि भिक्षुः श्रुत्वा ssकर्ण्य निशम्यार्थतोऽवधार्य 'संजमबहुले त्ति' प्राकृतत्वाद्बहुल: प्रचुर उत्तरोत्तरस्थानावाप्त्या संयमोऽस्येति बहुलसंयमः, बहुलः संवर आश्रवद्वारनिरोधरूपोऽस्येति बहुलसंवरः, अत एव बहुलसमाधिः तत्र समाधिर्मन: स्वास्थ्यं, गुप्तो मनोवाक्कायैस्तत
अध्य. १६
UTR-2
॥२१३॥