________________
अध्य. १५
उत्तराध्ययनसूत्रम् ॥ २१२॥
व्याख्या - वादं विविधं "मुण्डस्य भवति धर्म-स्तथा जटाभिः सवाससां धर्मः । गृहवासेऽपि च धर्मो, वनेऽपि च सतां भवति धर्मः ॥१॥" इत्यादिकुदर्शनान्तराभिप्रायरूपं समेत्य ज्ञात्वा लोके, सहितः 'प्राग्वत्, स्वस्मै हितः स्वहित इति वा, खेदयति कर्मानेनेति खेदः संयमस्तेनानुगतः खेदानुगतः, चः पूरणे, कोविदो लब्धसमयरहस्य आत्मा यस्य स कोविदात्मा ‘पण्णे अभिभूअ सव्वदंसीति' प्राग्वत् उपशान्तो निष्कषायः, अविहेठको न कस्यापि बाधको यः सभिक्षुरिति सूत्रार्थः ॥ १५ ॥ तथा --
मूलम् - असिप्पजीवि अगिहे अमित्ते, जिइंदिए सव्वओ विप्पमुक्के।
अणुक्कसाई लहुअप्पभक्खी ,चिच्चा गिहं एगचरे स भिक्खू ॥१६॥ त्ति बेमि ।। व्याख्या - अशिल्पजीवी चित्रादिविज्ञानजीविकारहितः, अगृहो गृहरहितः, अमित्ते त्ति' उपलक्षणत्वादमित्रशत्रुः, जितेन्द्रियस्तथा सर्वतो बाह्यादाभ्यन्तराच्च, ग्रन्थादिति गम्यते, विप्रमुक्तः । तथा अणवः स्वल्पाः कषाया अस्येति अणुकषायी, लघूनि निःसाराणि निष्पावादीनि अल्पानि च स्तोकानि भक्षितुं शीलमस्येति लघ्वल्पभक्षी । त्यक्त्वा गृहं द्रव्यभावभेदभिन्नं, एको रागद्वेषरहितश्चरतीत्येकचरो यः स भिक्षुः । इति ब्रवीमीति प्राग्वदिति सूत्रार्थः ॥ १६ ॥
१ सहितः ज्ञानक्रियाभ्याम्, यद्वा सह हितेन आयतिपथ्येन अनुष्ठानेन वर्त्तते इति सहितः । २ प्राज्ञो हेयोपादेयबुद्धिमान्, अभिभूय परीषहोपसर्गान्, सर्व प्राणिवर्ग आत्मवत् पश्यतीति सर्वदर्शी ॥
UTR-2
इति श्री तपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिशिष्यमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय
श्री भावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ पञ्चदशमध्ययनं सम्पूर्णम् ॥१५॥
॥२१२॥