SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ अध्य. १२ उत्तराध्ययनसूत्रम् ॥११९ ॥ व्याख्या- उपस्कृतं संस्कृतं भोजनं माहनानां ब्राह्मणानां 'अत्तट्ठिअंति' आत्मार्थे भवं आत्मार्थिकं, ब्राह्मणैरपि स्वयमेव भोज्यं न त्वन्यस्मै देयं, किमिति ? यतः सिद्धं निष्पन्नं इह यज्ञे एकः पक्षो ब्राह्मणरूपो यस्य तदेकपक्षं, अयं भावः-यदत्रोपस्क्रियते न तद्ब्राह्मणव्यतिरिक्ताय दीयते, विशेषतस्तु शूद्राय । यत उक्तं "न शूद्राय मतिं दद्या-नोच्छिष्टं न हविःकृतम् ॥ न चास्योपदिशेद्धर्म, न चास्य व्रतमादिशेत् ॥१॥" यतश्चैवमतो न तु नैव वयमीदृशं उक्तरूपं अन्नपानं दास्यामस्तुभ्यं किमिह | स्थितोऽसीति ? इति सूत्रार्थः ॥ ११ ॥ यक्षः प्राह मूलम् - थलेसु बीआई वपंति कासगा, तहेव निन्नेसु अ आससाए । एआइ सद्धाइ दलाहि मज्झं, आराहए पुण्णमिणं खु खित्तं ॥१२॥ _व्याख्या-स्थलेषूच्चभागेषु बीजानि मुद्गादीनि वपन्ति 'कासग त्ति' कर्षकाः कृषीवलाः, तथैव स्थलवदेव निम्नेषु च नीचभूभागेषु "आससाए त्ति" आशंसया यदि भूयसी वृष्टिस्तदा स्थलेषु फलप्राप्तिरथ स्तोका तदा निम्नेषु इत्येवंरूपया वाञ्छया एतया कर्षकाशंसाकल्पया श्रद्धया 'दलाहि त्ति' ददध्वं मह्यम्, अयं भाव:-यद्यपि यूयं निम्नक्षेत्रतुल्यमात्मानं मन्यध्वे, माञ्च स्थलतुल्यं, तथापि मह्यमपि दातुमुचितं, न चैवं दत्तेऽपि न फलावाप्तिरिति ध्येयमित्याह- 'आराहए पुण्णमिणं खु त्ति' खुशब्दस्य एवकारार्थस्य भिन्नक्रमत्वादाराधयेदेव साधयेदेव नात्रान्यथाभावः, पुण्यं शुभमिदं दृश्यमानं क्षेत्रं दानस्थानं, पुण्यसस्यप्ररोहहेतुतया आत्मानमेव एवं स्माहेति सूत्रार्थः ॥ १२ ॥ इति यक्षेणोक्ते ते स्माहुः UTR-2 ॥११९॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy