________________
उत्तराध्य
यनसूत्रम्
।। ११८ ।।
मूलम् - समणो अहं संजओ बंभयारी, विरओ धणपयणपरिग्गहाओ । परप्पवित्तस्स उ भिक्खकाले, अन्नस्स अट्ठाइह मागओम्हि ॥ ९ ॥
व्याख्या-श्रमणः साधुरहं, संयतः सम्यगुपरतः पापव्यापारेभ्य इति शेषः, अत एव ब्रह्मचारी, तथा विरतो निवृत्त धनपचनपरिग्रहात्, तत्र धनं चतुष्पदादि, पचनमाहारपाकः, परिग्रहो द्रव्यादिमूर्च्छा, अत एव परस्मै परार्थं प्रवृत्तं निष्पन्नं परप्रवृत्तं, तुशब्दोऽवधारणे, ततः परप्रवृत्तस्यैव, न तु मदर्थं निष्पन्नस्य, भिक्षाकाले अन्नस्य अशनस्य 'अट्ठ त्ति' अर्थाय इह यज्ञपाटे आगतोऽस्मीति सूत्रार्थः ॥ ९ ॥ अथ ते कदाचिदित्थं ब्रूयुर्यन्नात्र किञ्चित्कस्मैचिद्दीयत इत्याह
मूलम् - विअरिज्जइ खज्जइ भुज्जइ अ, अन्नं पभूअं भवयाणमेअं । जाणा मे जायणजीविणोत्ति, सेसावसेसं लहऊ तवस्सी ॥ १०॥
व्याख्या - वितीर्यते दीयते दीनादिभ्यः, खाद्यते खण्डखाद्यादि, भुज्यते च भक्तसूपादि, अन्नमशनं, प्रभूतं भूरि, भवतां युष्माकं सम्बन्धि, एतत्प्रत्यक्षं । तथा जानीतावगच्छत 'मे त्ति' मां 'जायणजीविणो त्ति' याचनजीवितं याचनेन जीवनशीलं सूत्रे च द्वितीयार्थे षष्ठी, इत्यतो हेतोः शेषावशेषमुद्धरितादप्युद्धरितं, अन्तप्रान्तमित्यर्थः, लभतां तपस्वी यतिरिति सूत्रार्थः ॥ १० ॥ इति यक्षेणोक्ते द्विजा एवं स्माहुः
मूलम् उवक्खडं भोअण माहणाणं, अत्तट्ठिअं सिद्धमिहेगपक्खं ।
न हु वयं एरिसमन्नपाणं, दाहामु तुब्भं किमिहं ठिओसि ? ॥ ११ ॥
UTR-2
अध्य. १२
॥ ११८ ॥