SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ अध्य. १२ उत्तराध्ययनसूत्रम् ॥१२० ॥ ता: जातिविद्योपपेताः, गणं ब्राह्मणबुवे ॥ सहस्त्जे मूलम-खेत्ताणि अहं विइआणि लोए, जहिं पकिण्णा विरुहंति पुण्णा । जे माहणा जाइविज्जोववेआ, ताई तु खित्ताई सुपेसलाई ॥१३॥ व्याख्या-क्षेत्राणि अस्माकं विदितानि ज्ञातानि, सन्तीति शेषः, लोके जगति 'जहिं ति' वचनव्यत्ययायेषु क्षेत्रेषु प्रकीर्णानि दत्तानि, अशनादीनीति शेषः, विरोहन्ति जन्मान्तरे प्रादुर्भवन्ति पूर्णानि समस्तानि, न चाहमपि तन्मध्यवत्येवेति त्वया ध्येयं, यतो ये बाह्मणाः, जातिश्च-ब्राह्मणजातिरूपा, विद्या च चतुर्दशविद्यास्थानात्मिका, ताभ्यां 'उववेअ त्ति' उपपेताः अन्विताः जातिविद्योपपेताः, 'ताई तु त्ति' तान्येव क्षेत्राणि सुपेशलानि शोभनानि, न तु भवादृशानि शूद्रजातीनि विद्याविकलानि। यदुक्तं -"सममश्रोत्रिये दानं, द्विगुणं ब्राह्मणब्रुवे ॥ सहस्रगुणमाचार्ये, अनन्तं वेदपारगे ॥१॥ इति सूत्रार्थः ॥ १३ ॥ यक्षः स्माह मूलम्- कोहो अ माणो अ वहो अ जेसिं, मोसं अदत्तं च परिग्गहो अ । ते माहणा जातिविज्जाविहीणा, ताई तु खित्ताई सुपावगाई ॥ १४ ॥ व्याख्या - क्रोधश्च, मानश्च, च शब्दान्मायालोभौ च, वधश्च येषामिति प्रक्रमाद्भवतां ब्राह्मणानां 'मोसं ति' मृषा अलीकभाषणं, अदत्तं अदत्तादानं, चशब्दान्मैथुनं च, परिग्रहश्च गोभूम्यादि स्वीकारोऽस्तीति सर्वत्र गम्यते, ते इति क्रोधाद्युपेता यूयं जातिविद्याविहीनाः । कथमिति चेदुच्यते-क्रियाकर्मविभागेन हि चातुर्वर्ण्यव्यवस्था। यदुक्तं -“एकवर्णमिदं सर्वं, पूर्णमासीद्युधिष्ठिर ! ।। क्रियाकर्मविभागेन, चातुर्वर्ण्य व्यवस्थितम् ॥१॥ ब्राह्मणो ब्रह्मचर्येण, यथा शिल्पेन शिल्पिकः ॥ अन्यथा नाममात्रं स्या सि, मोसं अद UTR-2 ॥१२०॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy