________________
अध्य. १२
उत्तराध्ययनसूत्रम् ॥१२१॥
दिन्द्रगोपककीटवत् ॥२॥" न चेदृशी क्रिया ब्रह्मचर्यात्मिका कोपाद्युपेतेषु युष्मासु तत्त्वतः सम्भवत्यतो न तावज्जातिसम्भवः, तथा विद्यापि सम्यग्ज्ञानात्मिका न सम्भवत्येव भवत्सु, अज्ञानज्ञापकेषु बालक्रीडाप्रायेष्वग्निहोत्रादिषु प्रवृत्तिदर्शनात्, किञ्च सम्यग्ज्ञानस्य फलं विरतिरेव, ज्ञानस्य फलं विरतिरिति वचनात्, न च युष्मासु विरतिसम्भवोऽस्ति, तदभावे च ज्ञानं सदप्यसदेवेति स्थितं । “ताई तु त्ति" तुरवधारणे भिन्नक्रमश्च ततस्तानि भवद्विदितानि द्विजरूपाणि क्षेत्राणि सुपापकान्येव, न तु सुपेशलानि, कोपादिपापस्थानकलितत्वेनातिशयपापहेतुत्वादिति सूत्रार्थः ॥ १४॥ अथ कदाचित्ते ब्रूयुर्वेदविद्याविदो वयं ब्राह्मणजातयश्च तत्कथं जातिविद्याविहीना इत्यब्रवीरित्याह
मूलम्- तुब्भेत्थ भो भारधरा गिराणं, अटुं न याणाह अहिज्ज वेए ।
उच्चावयाई मुणिणो चरंति, ताई तु खित्ताई सुपेसलाई ॥ १५ ॥ व्याख्या-यूयं 'इत्थ त्ति' अत्र लोके भो इत्यामन्त्रणे,भारधरा भारवहा गिरां वाचां प्रक्रमाद्वेदसम्बन्धिनीनां भारश्चेह तासां भूयस्त्वमेव, कुतो भारधराः ? इति चेदुच्यते-यत: अर्थमभिधेयं न जानीथ अहिज्ज त्ति' अपेर्गम्यत्वादधीत्यापि वेदान् अथ चेदर्थं | जानीथ तदा "न हिंस्यात्सर्वभूतानि" इत्यादिवेदवाचामर्थं विदन्तोऽपि किमर्थं पशुहिंसात्मकान् यागान् कुरुथ ? तत्करणे तु तत्त्वतो वेदविद्याविदोपि भवन्तो न स्युः, तत्कथं जातिविद्यासम्पन्नत्वेन क्षेत्रभूताः स्युः ? कानि तर्हि क्षेत्राणि ? इत्याह'उच्चावयाई ति' उच्चान्युत्तमानि अवचान्यधमानि उच्चावचानि, गृहाणीति शेषः, मुनयश्चरन्ति भिक्षार्थं पर्यटन्ति, न तु युष्मद्वत्पचनाद्यारम्भप्रवृत्ताः! त एव तत्त्वतो वेदार्थं विदति, तत्रापि भिक्षावृत्तेरेव समर्थितत्वात्, तथा च वेदान्तानुवादिनः-"चरे
UTR-2
॥१२१॥