SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ अध्य. १३ उत्तराध्ययनसूत्रम् ॥ १७२ ।। मूलम् - इह जीवीए राय असासयंमि, धणिअंतु पुण्णाई अकुव्वमाणो। से सोअई मच्चुमुहोवणीए, धम्मं अकाऊण परम्मि लोए ॥२१॥ व्याख्या- इह जीविते मनुष्यसम्बन्धिन्यायुषि राजन्नशाश्वते अस्थिरे 'धणिअंतु त्ति' अतिशयेनैव न तु केतुप्रान्तवच्चचलतामात्रेण, पुण्यानि शुभानुष्ठानान्यकुर्वाणः ‘से त्ति' स पुण्यानुपार्जको जन्तुः शोचति पश्चात्तापं विधत्ते, मृत्युमुखं मरणा| वसरमुपनीतस्तथाविधकर्मभिरुपढौकितो मृत्युमुखोपनीतः सन् धर्ममकृत्वा 'परम्मि त्ति' चस्य गम्यत्वात् परस्मिंश्च लोके जन्मान्तररूपे गत इति शेषः, नरकादौ हि असह्यासातवेदनार्दितः शशिनृपवत् किं मया तदैव पुण्यं न कृतमिति खिद्यत एवाधर्मकारीति सूत्रार्थः ॥ २१॥ न च मृत्युमुखोपनीतस्य परत्र वा दुःखादितस्य स्वजनादयस्त्राणाय भाविन इत्याह-- मूलम् -- जहेह सीहो व मिअंगहाय, मच्चु नरं नेइ हु अंतकाले। न तस्स माया व पिआ व भाया, कालंमि तम्मिंसहरा भवंति ॥२२॥ व्याख्या-यथेत्यौपम्ये इहलोके सिंहो मृगारिर्वेति पूरणे मृगं हरिणं गृहीत्वा प्रक्रमात्परलोकं नयतीति सम्बन्धः, एवं मृत्युर्यमो नरं मानवं 'नेइ हु त्ति' नयत्येव, अन्तकाले आयुःक्षयावसरे, न च तस्य मृत्युना नीयमानस्य माता वा पिता वा भ्राता वा काले तस्मिन् जीवितान्तरूपे, अंशं प्रक्रमाज्जीवितस्य भागं धारयन्ति, मृत्युना नीयमानं रक्षन्तीत्यंशधरा भवन्ति, यथा हि नृपादौ स्वजनसर्वस्वं हरति स्वधनदानात्स्वजनैस्तद्रक्ष्यते, नैवं स्वजीवितांशदानेन तज्जीवितं धार्यते इति भावः ॥२२॥ UTR-2 ॥१७२॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy