________________
उत्तराध्य
यनसूत्रम्
।। १७१ ।।
व्याख्या-हे नरेन्द्र! चक्रवर्त्तिन् ! जातिरधमा निकृष्टा नराणां मध्येऽभूदिति शेषः, श्वपाकजाति 'दुहओ त्ति' द्वयोरप्यावयोर्गतयोः अयं भावः यदाऽऽवां श्वपाकजातावुत्पन्नौ तदावयो: सर्वजनगर्हिता जातिरासीत्, कदाचित्तां प्राप्यापि अन्यत्रोषितौ स्यातामित्याह यस्यां वयमित्यावां, प्राकृतत्वाद्बहुवचनं, सर्वजनस्य द्वेष्यावप्रीतिकरौ वसीअ त्ति' अवसाव उषिताविति यावत्, श्वपाकनिवेशनेषु चाण्डालगृहेषु ॥ १८ ॥ कदाचित्तत्रापि कलाविशेषादिना अहीलनीयौ स्यातामित्याहतीसे अजाईइ उपाविआए, वुच्छा मु सोवागनिवेसणेसु । सव्वस्स लोगस्स दुर्गुछणिज्जा, इहं तु कम्माई पुरेकडाई ॥ १९ ॥
मूलम्
व्याख्या- तस्यां च जातौ श्वपचसम्बन्धिन्यां तुर्विशेषणे, ततश्च शेषजातिभ्यः कुत्सितत्वं विशिनष्टि, पापैव पापिका - कुत्सिता तस्यां वुच्छत्ति' उषितौ 'मु' इत्यावां श्वपाकनिवेशनेषु सर्वस्य लोकस्य जुगुप्सनीयौ हीलनीयौ ' इहं ति' अस्मिन् जन्मनि, तुः पुनरर्थः तत इह पुनः कर्माणि शुभानुष्ठानानि 'पुरेकडाई ति' पुराकृतानि शुभजात्यादेर्निबन्धनमिति शेषः, ततो जातप्रत्ययैः पुनरपि तदर्जनायैव यत्नः कार्यो न तु विषयाभिष्वङ्गव्याकुलैरेव स्थेयमित्याशयः ॥ १९ ॥ एतदेव दर्शयति -
मूलम् - सो दाणिसिं राय महाणुभागो, महिडिओ पुण्णफलोववेओ । चइत्तु भोगाई असासयाई, आयाणहेऊ अभिनिक्खमाहि ॥ २० ॥ व्याख्या 'स' इति यः सम्भूतमुनिः पूर्वमासीत् स त्वं ' दाणिसिं ति' इदानीं राजा महानुभागो महर्द्धिकः पुण्यफैलोपपेतश्च सन् दृष्टफलत्वेनाभिनिष्क्रामेति सम्बन्धः किं कृत्वा इत्याह त्यक्त्वा भोगानशाश्वतान्, आदीयते - गृह्यते सद्विवेकैरित्यादानश्चारित्रधर्मस्तद्धेतोरभिनिष्क्राम आभिमुख्येन प्रव्रज, न हि गृहस्थतायां सर्वचारित्रसम्भव इति सूत्रत्रयार्थः ॥ २० ॥ इत्थमकरणे को दोष: ? इत्याह-
UTR-2
अध्य. १३
॥ १७१ ॥