SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥३५०॥ अष्टादशमध्ययनम् उदायनराजर्षिकथा २२२-२२९ पिता तन्मे विवेक्यपि ॥ भागिनेयो हि नाऽऽनेयो, धाम्नीत्युक्तं जडैरपि ! ॥२२२॥ हित्वाऽङ्गजं निजं राज्ये, जामेयं न्यस्यतः पितुः ॥ वारकः कोऽपि किं नासी-दुनिमित्तमभून्न किम् ? ॥२२३॥ प्रभुः पिता मे यदि वा, यथाकामं प्रवर्त्तताम् ॥ न तूदायनसूनोमें, युज्यते केशिसेवनम् ! ॥२२४॥ इति दुःखाभिभूतोऽसौ, निर्गत्य स्वपुरागृतम् ॥ चम्पायां कूणिकं मातृ-ष्वसुः पुत्रमुपागमत् ॥२२५॥ तत्रापि विपुलां लक्ष्मी, प्रापोदायननन्दनः ॥ सुखं चास्थात्कूणिकेन, भूभुजा कृतगौरवः ॥२२६॥ श्राद्धधर्मं च सुचिरं, यथावत्पर्यपालयत् ॥ न्यक्कारं तं स्मरंस्ताते, वैरं तत्तु जहौ न सः ! ॥२२७॥ प्रपाल्याब्दानि भूयांसि, श्राद्धधर्म स भूपभूः ॥ पितृवैरमनालोच्या-ऽनशनं पाक्षिकं व्यधात् ॥२२८॥ मृत्वा ततोऽभूदसुरेष्वभीचिः, पल्योपमायुस्त्रिदशो महर्द्धिः । ततश्चयुतस्त्वेष महा| विदेहे, कृत्वा भवं प्रास्यति सिद्धिसौधम् ॥२२९॥ इति श्रीउदायनराजर्षिकथा ॥४८॥ मूलम्--तहेव कासीराया, सेओसच्चपरक्कमे । कामभोगे परिच्चज्ज, पहणे कम्ममहावणं ॥४९॥ व्याख्या--तथैव तेनैव प्रकारेण काशिराजः काशिमण्डलाधिपतिः श्रेयसि प्रशस्यतरे सत्ये संयमे पराक्रमः सामर्थ्य यस्यासौ श्रेयःसत्यपराक्रमः, कामभोगान् परित्यज्य 'पहणेत्ति' प्रहतवान्, कर्मैव महावनमिवातिगहनतया कर्ममहावनम् ॥४९॥ मूलम्--तहेव विजयो राया, आणढाकित्ति पव्वए । रज्जं तु गुणसमिद्धं, पयहित महायसो ॥५०॥ गा४९-५० UTR-2 ॥३५०॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy