SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ अध्य.१३ उत्तराध्ययनसूत्रम् ॥१३९॥ युग्मजौ हरिणौ ॥ १० ॥ स्नेहात् सह विहरन्तौ,मुक्तकशरेण मृगयुणा तौ च ॥ व्यापादितौ वराको, क्षिप्ताशनिना घनेनेव ॥ ११ ॥ अथ मृतगङ्गातटिनी-तटस्थहंसीसुतावभूतां तौ ॥ बाल्यादपि भ्रमन्तौ, सममेव दृढानुरागेण ॥ १२ ॥ जालेन तौ निबध्यान्यदाऽवधीज्जालिको गलं भक्त्वा ॥ विषवल्लेरिव दारुण-महो ! फलं धर्मनिन्दायाः ॥ १३ ॥ अथ तौ वाणारस्यां, प्रभूतवित्तस्य भूतदत्तस्य ॥ तनयावुभावभूतां, श्वपचपतेश्चित्र-सम्भूतौ ॥ १४ ॥ वाणारस्यां च तदा, बभूव शंखाभिधो धराधिपतिः ॥ तस्य च दुर्मतिसचिवः, सचिवाऽभूत्रमुचिरिति नाम्ना ॥ १५ ॥ अपराधे स च महति, प्रच्छन्नवधाय भूतदत्ताय ॥ दत्तोऽन्यदा नृपतिना, तं चेत्यूचे श्वपचनाथः ॥ १६ ॥ त्वां जीवयामि यदि मे, पुत्रौ पाठयसि भूमिगेहस्थः ॥ नमुचिरपि प्रतिपेदे, तदपि वचो जीवितव्यकृते ॥ १७ ॥ अध्यापयच्च सततं, कला विचित्राः स चित्रसम्भूतौ ॥ मातङ्गपतेः पत्नी-मनुरक्तामरमयच्च कुधीः॥१८॥ तच्चावबुद्ध्य रुष्टे, श्वपचपतौ हन्तुमुद्यते नमुचिम् ॥ त्वरितमनाशयतामुप- कारित्वाच्चित्रसम्भूतौ ॥ १९ ॥ निर्गत्य ततो नमुचि-द्रुतं ययौ हस्तिनापुरे नगरे। तत्र च सनत्कुमार-श्चक्री तं धीसखं चक्रे ॥२०॥ इतश्च रूपमनिन्द्यं, लावण्यमद्भुतं यौवनं च तौ नव्यम् ।। प्राप्तौ श्वपचसुतौ स्मर-मधुसमयाविव युतौ बभतुः ॥२१॥ वीणा-| वेणुकलक्वण-सम्बन्धसुबन्धुरं च तौ गीतम् ॥ गायन्तौ नृत्यन्तौ, जगतोऽपि मनो व्यपाहरताम् ॥ २२ ॥ अन्येद्युः पुरि तस्यां, मधूत्सवः प्रववृते महः प्रवरः ॥ तत्राविगीतगीता, विनिर्ययुः पौरचच्चर्यः ॥ २३ ॥ निरगाच्च चच्चरी तत्र, चित्र-सम्भूतयोरपि प्रवरा ॥ तत्र च जगतुर्गीतं, किन्नरमदहारि तौ स्फीतम् ॥ २४ ॥ आकर्ण्य कर्णमधुरं तद्गीतं विश्वकार्मणममन्त्रम् ॥ त्यक्तान्यचच्चरीकाः, UTR-2 ॥१३२॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy