SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ अध्य. १३ उत्तराध्ययनसूत्रम् ॥१४०॥ पौरा: पौर्यश्च तत्र ययुः ॥ २५ ॥ सर्वस्मिन्नपि लोके, तद्गीतगुणेन मृगवदाकृष्टे । गातारोऽन्ये भूपं, व्यजिज्ञपन्नित्यमर्षवशात् ॥ २६ ॥ मातङ्गाभ्यां स्वामिन्!, गीतेनाकृष्य पौरलोकोऽयम् ।। सकलोऽपि कृतो मलिन-स्तत इत्यलपन्नृपः कोपात् ।। २७ ॥ पुर्यां प्रवेष्टुमनयोनों देयं वेश्मनीव कुकुरयोः ॥ तत आरभ्य वृकाविव, तौ दुरमतिष्ठतां पुर्याः ॥ २८ ॥ तस्यां च पुरि प्रवरे, प्रवृत्तवति कौमुदीमहे - न्येयुः ॥ उल्लंघ्य नृपतिवचनं, प्राविशतामजितकरणौ तौ ॥ २९ ॥ विहितावगुण्ठनौ तौ, छन्नमटन्तौ महं च पश्यन्तौ ॥ क्रोष्टरवैः क्रोष्टारा-विव गानोत्कौ प्रजागीतैः ॥ ३० ॥ अवगणितभूपभीती, अगायतामतिमनोहरं गीतम् ॥ तच्च निशम्य जनास्तौ, परीवर्मक्षिका मधुवत् ॥ ३१ ॥(युग्मम् ) कावेताविति लोकै -आतुं कृष्टावगुण्ठनावथ तौ ॥ उपलक्षितौ नृपाज्ञा-विलोपकत्वाभृशं निहतौ ॥ ३२ ॥ नश्यन्तौ पश्यन्तौ, दीनं भयविह्वलौ स्खलत्पादौ ॥ लोकैश्च हन्यमानौ, कथमपि तौ निर्गतौ पुर्याः ॥ ३३ ॥ गम्भीरोद्यानं च प्राप्तौ, ताविति मिथो व्यचिन्तयताम् । धिग् नौ कुलदोषहतान्, रूपकलाकौशलादिगुणान् ॥ ३४ ॥धातव इव क्षयरुजा, दोषेणानेन दूषिता हि गुणाः ॥ जाता विपत्तये नौ, पत्तय इव भेदिता द्विषता ॥ ३५ ॥ व्यसनैरिव नौ व्यसनं, जज्ञे कूलदोषदूषितैर्हि गुणैः ।। स च सहचारी वपुष-स्तत्त्याज्यं रज इवेदमपि ॥३६॥ध्यात्वेति मर्तुकामौ, यान्तौ प्रतिदक्षिणामुभावपि तौ ।। दूरंगतौ महीधरमपश्यतामेकमतितुङ्गम् ॥ ३७ ॥ तं चारोहन्तौ तौ, भृगुपातचिकीर्षया श्रमणमेकम् ॥ ध्यानस्थममानगुणं, प्रेक्ष्य प्रोच्चैर्मुदमधत्ताम् ॥ ३८ ॥ छायातरुमिव पथिकौ, तं प्राप्यापगतसकलसन्तापौ । तावनमतां वमन्तौ, प्राग् दुःखमिवाश्रुजलदम्भात् ॥ ३९ ॥ ध्यानं समाप्य मुनिना, कुत आयातौ युवामितकि पृष्टौ । प्राकाशयतां स्वाशय-मुक्त्वा निजवृत्तमखिलं तौ ॥ ४० ॥ तत इत्यूचे UTR-2 ॥१४०॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy