SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ अध्य.१३ उत्तराध्ययनसूत्रम् ॥१४१॥ श्रमणो, विलीयते देह एव भृगुपातात् ॥ न तु पातकं ततोऽसौ,न युज्यते दक्षयोर्युवयोः ॥ ४१ ॥ दुःखानां बीजमघं, तपसैव क्षीयते न मरणेन ॥ तदिदं हेयं देह, सफलीक्रियतां तपश्चरणैः ॥४२॥ ग्लानाविव वैद्यवच-स्तत्साधुवचः प्रपद्य तौ सद्यः ॥ प्राव्रजतां तत्पार्श्वे , मादभूतां च गीतार्थों ॥ ४३ ॥ षष्ठाष्टमादितपसा, क्रशयन्तौ विग्रहं समं पापैः ॥ मूर्ती तपःशमाविव, सममेव विजहूतुर्भुवि तौ ॥ ४४ ॥ विहरन्तौ तौ जग्मतु - रन्येधुर्हस्तिनापुरे नगरे । बहिरुद्यानस्थौ तत्र, चेस्तुर्दुश्चरं च तपः ॥ ४५ ॥ सम्भूतमुनि गरे, मासक्षपणस्य पारणेऽन्येद्युः ॥ भिक्षार्थमटन् ददृशे, दुरात्मना नमुचिसचिवेन ॥ ४६ ॥ मातङ्गसुतः सोऽयं, मम वृत्तं वक्ष्यतीति साशङ्कः ॥ निष्काश्यतां पुरादय-मित्यूचे निजभटान्नमुचिः ॥ ४७ ॥ यमदूतैरिव चण्डै-स्तैर्लकुटादिप्रहारदानपरैः।। विधुरीकृतोऽथ साधु-द्रुतं न्यवर्तत ततः स्थानात् ॥४८॥ निर्गच्छन्नपि स मुनि -नमुचिभटैर्न मुमुचे यदाऽपदयैः ॥ शान्तोऽपि चुकोप तदा, स्यादुष्णं जलमपि ह्यनलात् ॥ ४९॥ तद्वदनान्निरगादथ, धूमस्तोमः समन्ततः प्रसरन् ॥ तदनु च तेजोलेश्या, ज्वालापटलैनभःस्पृशती ॥५०॥ तद्वीक्ष्य सभयकौतुक -मेयुः पौरा मुनिं प्रसादयितुम् ॥ आयासीत्पुरनाथः, सनत्कुमारश्च चक्रिवरः ॥५१॥ नत्वा चैवमवोचत्, भगवन्नेतन्न युज्यते भवतः ॥ दग्धः कृशानुनापि हि, नागुरुरुगिरति दुर्गन्धम् ॥५२॥ क्रियतामस्मासु कृपा, संहियतामाशु कोपफलमेतत् ॥ व्यभिचरति सतां कोप; फले खलानामिव स्नेहः ॥५३॥ उक्तं च -"न भवति भवति च न चिरं, भवति चिरं चेत्फले विसंवदति ॥ कोपः सत्पुरुषाणां, तुल्यः स्नेहेन नीचानाम् ॥ ५४॥" तन्मुंच मुंच कोपं, नीचजनोचितमनंचितं मुनिभिः । इत्युक्तोऽपि न यावत्, प्रससाद स साधुरतिकुपितः ॥ ५५॥ तावत्तत्रायातः , चित्रस्तं व्यतिकरं जनात् UTR-2 ॥१४॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy