________________
उत्तराध्ययनसूत्रम्
॥३४७॥१५
अष्टादशमध्ययनम् उदायनरा
जर्षिकथा १७९-१९३
कृतपूर्वोऽयं, प्रश्नोऽद्य क्रियते कथम् ? ॥१७९॥ ध्यात्वेति सूदमित्यूचे, पृच्छसीदं कुतोऽद्य माम् ? ॥ सरसा रसवत्याऽऽगा-न्नित्यं हि समये स्वयम् ॥१८०॥ सूदोऽवादीदद्यपर्वा-ब्दिकं तत्सपरिच्छदः ॥ उपोषितोऽस्ति नः | स्वामी, पृच्छामि तदिदं तव ॥१८१॥ अवन्तीशोऽवदत्साधु, पर्वेदं ज्ञापितं त्वया ॥ तन्ममाप्युपवासोऽद्य, पितरौ श्रावको हि मे ! ॥१८२॥ तत्प्रद्योतवचः सूदो-ऽप्याख्यद्वीतभयप्रभोः ॥ राजाऽप्युवाच श्राद्धोऽसौ, यादृशो वेद्मि तादृशम् ॥१८३॥ मायाश्राद्धेऽपि किन्त्वस्मिन्, बद्धे पर्युषणा मम ॥ न शुद्ध्यतीति प्रद्योत-मुदायननृपोऽमुचत् ॥१८४॥ क्षमास्थाम्नोः क्षमस्तं चा-ऽक्षमयत्स क्षमाधवः ॥ पट्टबन्धं च भालाकं तस्याऽऽच्छादयितुं ददौ ॥१८५॥ तदादि पट्टबन्धोऽपि, श्रीचिह्न भूभुजामभूत् ॥ मौलिमेव हि ते मौलौ, पुरा तु दधिरेऽखिला: ॥१८६॥ तस्मै देशं च तं सत्य-सन्धः सिन्धुप्रभुर्ददौ ॥ अतीतासु च वर्षासु, पुरं वीतभयं ययौ ॥१८७॥ वणिजस्ते तु तत्रैव, स्कन्धावारास्पदेऽवसन् ॥ पुरं दशपुराढे त-तैरेव च ततोऽभवत् ॥१८८॥ अन्यदोदायननृपः, पौषधौकसि पौषधी॥ धर्मजागरिकां जाग्र-द्रजन्यामित्यचिन्तयत् ॥१८९॥ धन्यास्ते नगरनामा-करद्रोणमुखादयः ॥ पवित्रयति यान् श्रीमान्, वर्द्धमानो जगद्गुरुः ! ॥१९०॥ श्रुत्वा वीरविभोर्वाणी, श्राद्धधर्म श्रयन्ति ये ॥ दीक्षामाददते ये च, धन्यास्तेऽपि नृपादयः ! ॥१९१॥ तच्चेत्पुनाति पादाभ्यां, पुरं वीतभयं विभुः ॥ तदा तदन्तिके दीक्षा-मादाय स्यामहं कृती! ॥१९२॥ तच्च तच्चिन्तितं ज्ञात्वा, चम्पातः प्रस्थितः प्रभुः ॥ एत्य वीतभयोद्याने, समवासरदन्यदा ॥१९३॥ श्रुत्वाऽथ नाथ
UTR-2
॥३४७॥