SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ अध्य. १२ उत्तराध्ययनसूत्रम् ॥११६॥ व्याख्या-जातिमदेन ब्राह्मणा वयमित्यादिरूपेण प्रतिस्तब्धाः जातिमदप्रतिस्तब्धाः हिंसकाः प्राणिप्राणापहारिणः, अजितेन्द्रियाः, अत एव अब्रह्मचारिणो मैथुनसेविनः। वय॑ते हि तन्मते मैथुनमपि धर्माय-"धर्मार्थं पुत्रकामस्य, स्वदारेष्वधिकारिणः॥ ऋतुकाले विधानेन, तत्र दोषो न विद्यते ॥१॥" तथा "अपुत्रस्य गति स्ति, स्वर्गो नैव च नैव च ॥ तस्मात्पुत्रमुखं दृष्ट्वा, पश्चात्स्वर्गं गमिष्यति ॥ २॥" इत्यादिकथनादत एव बाला बालक्रीडाकल्पेष्वग्निहोत्रादिषु प्रवृत्तत्वात् , इदं वक्ष्यमाणं वचनं 'अब्बवि त्ति' अब्रुवन्निति सूत्रार्थः ॥५॥ किं तदित्याह - मूलम्-कयरे आगच्छइ दित्तरूवे, काले विकराले फोक्कनासे। ओमचेलए पंसुपिसायभूए, संकरदसं परिहरिअ कंठे ॥६॥ व्याख्या- कयरे त्ति' कतरः, एकार: प्राकृतत्वात्, आगच्छति, दीप्तरूपो बीभत्साकारः, कालो वर्णतः, विकरालो दन्तुरत्वादिना भीषणः, 'फोक्क त्ति' देशीपदं, ततश्च फोक्का अग्रे स्थूला उन्नता च नासाऽस्येति फोक्कनासः। अवमचेलो निकृष्टचीवरः, पांशुना रेणुना पिशाच इव भूतो जातः पांशुपिशाचभूतः, पिशाचो हि लोके दीर्घश्मश्रुनखरोमा, पांशुगुण्डितश्च रूढस्ततः सोऽपि निष्प्रतिकर्मतया रजोदिग्धतया चैवमुच्यते । तथा 'संकरदूसं ति' संकरस्तृणभस्मगोमयादिराशिरुत्कुरुडिकेतियावत्, तस्य दूष्यं वस्त्रं संकरदूष्यं, तत्र हि यदतीवनिकृष्टं निरुपयोगि स्यात्तदेव लोकैरुत्सृज्यते, ततस्तत्प्रायं वस्त्रं परिधृत्य निक्षिप्य कण्ठे गले । स हि अनिक्षिप्तोपधितया स्वमुपकरणमादायैव भ्रमतीत्येवमुक्तमिति सूत्रार्थः ॥ ६ ॥ इत्थं दूरादागच्छनुक्तः, आसन्नं चैनं किमूचुरित्याह UTR-2 ॥११६॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy