SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ अध्य. १३ उत्तराध्ययनसूत्रम् ॥१६८॥ क्षवो मुनयः शीलं चारित्रं, गुणो ज्ञानं, ताभ्यामुपपेताः शीलगुणोपपेता इह जिनप्रवचने यतन्ते यत्नवन्तो भवन्ति, सोपस्कारत्वात्सूत्रस्य, सा मयापि श्रुता, ततः श्रमणोऽस्मि अहं जातो न तु दुःखदग्धत्वादिति भाव इति सूत्रत्रयार्थः ॥ १२ ॥ एवं मुनिनोक्ते चक्री स्वसम्पदा निमन्त्रयितुमाह मूलम् - उच्चोदए मह कक्के अ बंभे, पवेइआ आवसहा य रम्मा । इमं गिहं चित्तधणप्पभूअं, पसाहि पंचालगुणोववेअं ॥ १३ ॥ व्याख्या- उच्चोदयो मधुः कर्कः चशब्दान्म ध्यो ब्रह्मा चेति पञ्च प्रधानाः प्रासादाः प्रवेदिता मम वर्द्धकिपुरःसरैरुपनीता इत्यर्थः, आवसथाश्च शेषा भवनप्रकारा रम्या रमणीयाः, एते तु यत्रैव चक्रिणे रोचते तत्र भवन्तीति वृद्धाः! किञ्च 'इदं' प्रत्यक्षं, गृहमवस्थितिप्रासादरूपं प्रभूतं बहु, चित्रं विविधमाश्चर्यकारि वा, धनमस्मिन्निति प्रभूतचित्रधनं प्राकृतत्वात्पूर्वापरनिपातः, प्रशाधि पालय उप क्ष्वेति भावः! पाञ्चालो नाम देशस्तस्मिन् गुणा इन्द्रियोपकारिणो रूपादयस्तैरुपपेतमन्वितं पाञ्चालगुणोपपेतं, अयं भाव:- पाञ्चालेषु यानि श्रेष्ठवस्तुनि तानि सर्वाण्यस्मिन् गृहे सन्ति, पाञ्चालानां तदातिसमृद्धत्वात्पाञ्चालग्रहणं, अन्यथाहि भरतेऽपि यद्विशिष्टं वस्तु तत्तदा तद्गृह एव आसीत् ॥१३॥ किञ्च - मूलम् - नट्टेहिं गीएहि अ वाइएहिं, नारीजणाई परिवारयंतो । भुंजाहि भोगाई इमाई भिक्खू, मम रोअइ पव्वज्जा हु दुक्खं ॥ १४ ॥ व्याख्या-'नट्रेहिं ति' नृत्यैर्गीतैश्चस्य भिन्नक्रमत्वाद्वादित्रैश्च नारीजनान् परिवारयन् परिवारिकुर्वन् भुंक्ष्व भोगानिमान् प्रत्यक्षान् सूत्रत्वात्सर्वत्र लिङ्गव्यत्ययः, हे भिक्षो ! इह च यद्गजतुरगादीन् विहाय स्त्रीणामेवाभिधानं तत् स्त्रीलोलुपत्वात्तस्य, तासामेव चात्यन्ताक्षेपकत्वज्ञापनार्थं, UTR-2 ॥१६८॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy