________________
उत्तराध्य
यनसूत्रम्
।। १४७ ।।
नानि ॥ परिधाय न्यक्षिपता, स्वकण्ठयोर्ब्रह्मसूत्रं तौ ॥ १३१ ॥ वरधनुरथ भूपभुवः, श्रीवत्सालङ्कृतं हृदयपट्टम् । चतुरङ्गलपट्टेन, प्यधादहो ! रिपुभयं प्रबलम् ॥१३२॥ वेषान्तरमिति कृत्वा, ग्रामान्तस्तौ गतौ द्विजः कश्चित् ॥ भोजनकृते न्यमन्त्रय - दभोजयच्चातिगौरवतः ॥ १३३ ॥ अथ मूर्ध्नि ब्रह्मभुवो ऽक्षतान् क्षिपन्ती द्विजप्रिया प्रमदात् ॥ सितवसनयुगं कन्यां चोपानिन्येऽप्सरः कल्पाम् ॥१३४॥ ऊचेऽथ वरधनुः किं, ददास्यमूमस्य निष्कलस्य बटोः ॥ नह्यति नह्यतिरुचिरां, हारलतां कोऽपि करभगले ! ॥ १३५ ॥ तत इत्यवदद्विप्रो 'बन्धुमती' संज्ञका मम सुतासौ ॥ अस्याश्च वरश्चक्री, भावीत्युक्तं निमित्तज्ञैः ॥१३६ ॥ पट्टाच्छादितहृदयो, भुं यस्तव गृहे समित्रस्तम् । जानीया दुहितुर्वर मिति तैरेव च मम प्रोक्तम् ॥ १३७ ॥ योग्याय सुविद्यामिव ददे तदेनां कनी - महममुष्मै । प्राणप्रियां सुतां खलु यच्छामि यथातथा न सखे! ॥१३८॥ तामथ परिणीय कनीं नृपभूः स्थित्वा च तत्र तां रजनीम् ।। सद्भावं भार्यायै प्रोच्य समित्रोऽचलत्प्रातः ॥ १३९ ॥ दूरग्रामं च गतौ शुश्रुवतुस्ताविदं जनश्रुत्या ॥ सर्वेऽध्वानो रुद्धा, दीर्घेण ब्रह्मदत्तकृते ॥१४०॥ प्राणत्राणकृते तौ गच्छन्तावुत्पथेन तच्छ्रुत्वा ।। प्रापतुरटवीमेकां, तत्र च नृपभूरभूत्तृषितः ॥ १४१ ॥ तमथ वटा मुक्त्वा, द्रुतं गतो वरधनुः कृते पयसः ॥ उपलक्ष्य दीर्घपुरुषैः सायं रुरुधे च जगृहे च ॥ १४२ ॥ सोऽथ पलायनसंज्ञां ब्रह्मभुवो व्यधित हन्यमानस्तैः ॥ तूर्णं ततः कुमारो, ननाश पारद इवाज्ञातः ॥ १४३ ॥ वेगाद्वजंश्च पतितः, कान्तारे धूर्त्तचित्त इव गहने ॥ विरसफलानि स बुभुजे, दुरवस्थायां हि किमभक्ष्यम् ॥ १४४॥ भ्राम्यंश्चैकं तापस-महनि तृतीये ददर्श नृपतिसुतः । प्रवहणमिवाब्धिपतित स्तं च प्राप्याधिकं मुमुदे ॥ १३५ ॥ कुत्रास्ति भदन्ताना-माश्रम इति तं वदन्तमथ स मुनिः ॥
UTR-2
अध्य. १३
॥ १४७ ॥