SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ।। १४८ ।। नीत्वा श्रममुपकुलपति, निन्ये व्रतलिप्सुमिव सद्यः ॥ १४६ ॥ तं च प्रणतं प्रणयादित्यलपत्कुलपतिः कृपाजलधिः ॥ कस्त्वं किमिहायासी-र्वायोरपि दुर्गमे गहने ? ॥ १४७ ॥ नृपभूस्ततः स्ववृत्तं, स्माह यथावृत्तमखिलमपि तस्मै ॥ तच्च श्रुत्वा कुलपतिरित्यवदत्प्रमदगद्गदगीः॥ १४८ ॥ ब्रह्मनृपस्य भ्राता, लघुरहमस्मि त्वदीयतातस्य ॥ तत्प्राप्तोऽसि स्वगृहं तिष्ठ सुखं वत्स ! मा भैषीः ॥ १४९ ॥ तेनेति बाढमुदितो, मुदितस्तत्राश्रमे कुमारोऽस्थात् ॥ आगाच्च जलदकालः काल इव निदाघदाहस्य ॥ १५० ॥ तमथ पितृव्यः प्रेम्णा, सविशेषमपाठयत्कलाः सकलाः । पात्रे दत्ता श्रीरिव, विद्या हि स्यादनन्तफला ॥ १५१ ॥ जातेऽथ शरत्काले, कन्दादिकृते वनं ययुर्मुनयः । ब्रह्मसुतोऽपि समं तैर्ययौ निषिद्धोऽपि कुलपतिना ॥ १५२ ॥ तत्र च फलकुसुमभरैनमितानमितान् स भूरुहः पश्यन् । वनगजमेकमपश्य द्युवराजमिवाद्रिराजस्य ॥ १५३ ॥ तस्यानुपदमयासी न्निवार्यमाणोऽपि तापसैर्नृपभूः ॥ तेनाहूतः सद्यो, ववले व्यालोपि रोषान्धः ॥ १५४ ॥ तटिनीपुरमिव द्रुतमायान्तं तं च वञ्चयितुं मनसा ॥ प्रक्षिप्तमुत्तरीयं, क्रीडारसिकेन भूपभुवा ॥ १५५ ॥ तत्तु करेण गृहीत्वा प्राक्षिपदन्तर्नभः क्रुधा कुम्भी ॥ निपतच्च ततो नृपभू- स्तदाददे वञ्चितद्विरदः । १५६ ॥ क्रीडाभिरिति क्रीडति, तस्मिन् करिणा समं कृताटोपः ॥ जलधाराभिर्जलदः, शरैरिवोपाद्रवत्तमिभम् ॥ १५७॥ तस्मिंस्ततः प्रणष्टे, द्विपे कुमारोऽपि जातदिग्मोहः ॥ भ्राम्यन्नितस्ततः शैल-निम्नगामुत्ततारैकाम् ॥ १५८ ॥ तस्याश्च तटे नगरं पुराणमुद्वसमुदीक्ष्य पतितगृहम् ॥ तत्र प्रविशन्नकं, वंशकुडंगं ददर्श घनम् ॥१५९॥ तत्पार्श्वे फलकासी, दृष्ट्वा शस्त्रप्रियोऽगृहीनृपभूः ॥ तं वंशकुडंगं चा सिनाच्छिनत्तत्परीक्षायै ॥ १६० ॥ तस्माद्विनिर्गतमथ, स्फुरदधरपुटं स्फुटं समीक्ष्य शिरः ॥ सम्भ्रान्त UTR-2 अध्य. १३ ॥ १४८ ॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy