________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥३२॥
रम्भावेश्मनि चास्वपीत् ॥ ३२॥ तदा मणिरथो दध्यौ, स्वल्पतन्त्रो ममानुजः ॥ निशाव्याप्ततमोघोरे, बाह्योद्यानेऽद्य तिष्ठति ॥३३॥ तत्तत्र गत्वा तं हत्वा, पूरयिष्यामि कामितम् ।। ध्यात्वेति खड्गमादाय, ययावुद्यानमुद्यतः॥३४॥ यामिकानिति चाप्राक्षी - युगबाहुः क विद्यते ? ॥ रम्भागृहेऽत्र सुप्तोऽस्ती - त्यूचिरे तेऽपि सम्भ्रमात् ॥३५॥ मा भूभ्रातुर्वनस्थस्यो - पद्रवः कश्चिदित्यहम् ॥ इहागामिति सञ्जल्पन्, सोऽपि रम्भागृहेऽविशत् ॥३६॥ ससम्भ्रमं समुत्थाय, नमन्तं स्माह चानुजम् ॥ भ्रातर्नात्र निशि स्थातुं, युक्तमागच्छ तत्पुरे ॥३७॥ उल्लंघ्या नाग्रजस्याज्ञा, तातस्येवेति चिन्तयन् ॥ युगबाहुस्ततो याव-त्पुरे गन्तुं प्रचक्रमे ॥३८॥ तावत्यापापकीर्त्यादिभयमुत्सृज्य दुर्मतिः॥ ग्रीवायामसिना भूप-स्तं विश्वस्तं जघान सः ! ॥३९॥ प्रहारवेदनाक्रान्ते, तस्मिंश्च पतिते भुवि ॥ अहो! अक्षत्रमक्षत्रं, पूच्चकारेति तत्प्रिया ॥४०॥ ततो दधाविरे कृष्ट-मण्डलाग्रोद्भटा भटाः ॥ किमेतदस्तीत्यूचाना-नित्यूचे तांश्च भूपतिः ॥ ४१ ॥ मत्करात्पतितः खगः, प्रमादात्तदलं भिया ॥ तेनेत्युक्ते च तेऽजानन्, सर्वं तस्य कुचेष्टितम् ॥ ४२ ॥ ततो मणिरथं दूर-मपसार्य बलेन ते ॥ युगबाहो: स्वरूपं तत्, तत्पुत्राय न्यवेदयन् ॥४३॥ सोऽपि शोकाकुलो वैद्यान्, समाहूयाग| मद्वने ॥ व्रणकर्माणि यत्नेन, पितुश्चाकारयत्कृती ॥ ४४॥ क्षणान्तरे च निश्चेष्टो, नष्टवाग्मीलितेक्षणः ॥ युगबाहुरभूद्रक्त-निर्गमा| त्पाण्डुविग्रहः ।। ४५ ॥ ततो ज्ञात्वा तमासन्न - मृत्युं धीरा मृदुस्वरम् ॥ प्रोचे मदनरेखेति, तत्कर्णाभ्यर्णमाश्रिता ॥४६॥ धीर ! धीरत्वमादृत्य, चेतःस्वास्थ्यमुरीकुरु ॥ कस्याप्युपरि रोषं च, मा कार्षीस्त्वं धियांनिधे ! ॥४७॥ सहस्व व्यसनं चेद-मागतं निजकर्मणा ॥ अपराध्यति जन्तोर्हि, निजं कर्मैव नापरः ॥४८॥ उक्तञ्च-"जं जेण कयं कम्मं, अन्नभवे इहभवे अ सत्तेणं ॥ तं तेण वेइअव्वं, निमित्तमित्तं परो होइ ॥४९॥" किञ्चार्हत्सिद्धनिर्ग्रन्थ - धर्माणां शरणं कुरु ॥ जीवहिंसादीनि पाप-स्थानान्यष्टादश त्यज ॥५०॥
UTR-2
॥३२॥