________________
उत्तराध्य
यनसूत्रम् ॥ ३१ ॥
हीनस्य भवतः स्वतः ॥ पुंस्त्वमस्त्येव तत्कस्मान्मया न प्रतिपद्यते ॥ १४॥ त्वद्भ्रातुर्युवराजस्य, पल्या मे राज्यसम्पदः ॥ स्वाधीना एव सन्तीति शून्यमेतत्प्रलोभनम् ॥१५॥ किञ्च "स्वीकुर्वते मृत्यु-मपि सन्तो महाशयाः ॥ लोकद्वयविरुद्धं तु, न चिकीर्षन्ति जातुचित् ! ॥ १६ ॥ अन्योच्छिष्टान्नवच्छिष्टाः, परामपि पराङ्गनाम् ॥ नेच्छन्ति किं पुनः पुत्री तुल्यां भ्रातुर्लघोः स्त्रियम् ॥१७॥ परनारीरिरंसापि, रावणस्येव दुःखदा । महतामपि जायेत तन्महाराज ! मुञ्च ताम् ॥१८॥ तच्छ्रुत्वा दुष्टधीकूपो भूपोऽन्तर्ध्यातवानिति ॥ युगबाहुर्भवेद्यावत्तावन्नेच्छति मामसौ ॥ १९ ॥ तद्विस्त्रम्भेण तं हत्वा ग्रहीष्येऽहं बलादमूं ॥ स भ्रातापि रिपुर्नूनं, योऽस्याः सङ्गेऽन्तरायकृत् ॥२०॥ इति ध्यात्वा स पापात्मा, भ्रातुश्छिद्राण्यमार्गयत् ॥ कामभूतातुराणां हि सुत्यजं स्नेहचीवरम् ॥२१॥ मदना तु न तां वार्तां जगाद युगबाहवे ॥ निवृत्तो मद्गिरा ज्येष्ठो, दुर्भावादिति जानती ॥ २२ ॥ सा चान्यदा विधुं स्वप्ने, दृष्ट्वा पत्ये न्यवेदयत् ॥ सोऽप्यूचे चन्द्रवद्विश्वा- नन्दिनं लप्स्यसे सुतम् ॥२३॥ ततः प्रमुदितस्वान्ता, सुतगर्भं बभार सा ॥ पारिजाततरोर्बीज-मिव मेरुवसुन्धरा ॥ २४ ॥ पूजयामि जिनान् साधून्, शृणोमि जिनसङ्कथाः ॥ इत्यभूद्दोहदस्तस्याः, काले गर्भानुभावतः ॥ २५ ॥ तस्मिंश्च दोहदे पूर्णे, गर्भः स ववृधे सुखम् ॥ अथान्यदा वसन्तर्तु रागाद्रागिजनप्रियः ॥ २६ ॥ मलयानिलशैलूषप्रयोगारब्धनर्तनाः ॥ दधद्वल्लीनटीर्वेल्ल त्पल्लवोल्लासिहस्तकाः ॥२७॥ माकन्दमञ्जरीपुञ्ज-मञ्जुगुञ्जदलिव्रजम् ॥ कोकिलध्वनिमन्त्रास्त- मानिनीमानकुग्रहम् ॥२८॥ पुष्पिताशोकतिलक-लवङ्गबकुलाकुलम् ॥ विस्मेरकुसुमस्त्रस्त- परागक्लिन्नभूतलम् ॥ २९ ॥ क्रीडा - सक्तप्रियायुक्त- व्यक्तकिन्नरसेवितम् ॥ हृच्चौरगौरपौरस्त्री - गीतानीतमृगव्रजम् ॥३०॥ वसन्तसङ्गमाद्रम्य मुद्यानं रन्तुमुद्यतः । प्रमदात्प्रमदायुक्तो युगबाहुर्ययौ तदा ॥ ३१॥ (पञ्चभिः कुलकम् ) दिनं च नानालीलाभि रतिवाह्य स निश्यपि । तत्रैवास्थादल्पतंत्रो,
UTR-2
अध्य. ९
॥३१॥