________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥ १७८ ॥
मन्यस्य सृजति चोन्मादम् ॥ विप्रो जगाद धिक् त्वां, कदर्यमन्नप्रदानेऽपि ॥३९४॥ सकुटुम्बमथ नरेन्द्र-स्तं निजभोजनमभोजयकोपात् ॥ अथ तस्याविरभून्निशि,मदनोन्मादो भृशं तस्मात् ॥ ३९५॥ अनपेक्षितनिजजननी- जामिजनीव्यतिकरस्ततो विप्रः॥ ससुतोऽपि प्रावर्त्तत, रते सुरामत्त इव विकलः ॥ ३९६ ॥ प्रातस्तु लज्जया स, द्विजो गृहजनश्च तस्य नान्योन्यम् ॥ दर्शयितुमास्यमशकन्, मशकपटलमलिनमवसादात् ॥ ३९७ ॥ अनिमित्ताऽरातिर्मा, सकुटुम्बमहीलयन्महीशोऽसौ ॥ इति चिन्तयन्नमर्षा-नगरानिरगात्ततो विप्रः ॥३९८॥ तेन भ्रमताथ बहिः, पशुपालोऽदर्शि दर्शिताश्चर्यः ॥ कर्करिकाभिः पिप्पल-दलपटलं छिद्रयन् दूरात् ॥ ३९९ ॥ मत्कार्यं कर्तुमसौ, क्षम इति निश्चित्य वाडवः स ततः ॥ इत्यूचे तं सन्मान-दानवचनैर्वशीकृत्य ॥४००॥ राजपथे यो द्विरदे, स्थितः सितछत्रचामरो व्रजति ॥ प्रक्षिप्य गोलिके त्वं, तस्य दृशौ स्फोटयेः क्षिप्रम् ॥४०१॥ तत्प्रतिपद्य जडत्वात् स्थित्वा कुड्यान्तरे दृशौ नृपतेः ॥ सह मुक्तगोलिकाभ्यां, सोऽपि समं स्फोटयामास ॥४०२॥ पशुवत्पशुपालः सोऽथ, हन्यमानोऽङ्गरक्षकैधृत्वा ॥ राज्ञेऽपकारिणं तं, द्विजमाख्यत्कुमतिदानरिपुम् ॥ ४०३॥ तदवेत्य नृपः कुपित - स्तं विप्रं पुत्रमित्रबन्धुयुतम् ॥ व्यापादितवान् सद्यः, कोपो महतां हि नो विफलः ॥४०४॥ अपरान् पुरोहितादी-नपि निखिलान्नगरवासिनो विप्रान् । सोऽघातयद्गुषा क्व नु, रोषान्धानां विवेकमतिः ? ॥४०५॥ सचिवं चैवमवोचत, भृत्वा स्थालं द्विजन्मनां नयनैः ॥ स्थापय मम पुरतोन्वह - महं यथा तानि मृद्नामि ! ॥ ४०६ ।। राज्ञस्तस्य तमाशय- मवेत्य सचिवोऽपि शुभमतिः क्रूरम् ॥आपूर्य श्लेष्मातक-फलैः पुरोऽस्थापय
UTR-2
॥१७८॥