SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ अध्य. १३ उत्तराध्ययनसूत्रम् ॥१७९ ॥ स्थालम् ॥ ४०७ ॥ तदथ स्थालं नृपतिः, पस्पर्श मुहुर्मुहुः स्वपाणिभ्याम् ॥ रमणीरत्नस्पर्शा-दपि तत्स्पर्शेऽधिकं मुमुदे ॥ ४०८॥ द्विजनेत्रधिया तानि च, फलानि निर्दयममर्दयन्मुदितः ॥ न च तत्स्थालं पुरतो - ऽपासारयदनिशमपलज्जः ॥ ४०९ ॥ इत्थं प्रवर्द्धमाना-ऽशुभपरिणामो दिनं दिनं प्रति सः ॥ अतिगमयति स्म षोडश, वर्षाण्यविरतविषयतर्षः ॥४१०॥ सर्वायुषाथ नृपतिः शरदां शतानि, सप्ततिवाह्य विषयामिषलोलुपात्मा ॥ उत्कृष्टजीवितमुपायं तमस्तमायां, रौद्राशयादजनि नैरयिकः क्षमायाम् ॥४११॥ इत्युक्तो ब्रह्मदत्तकथावशिष्टांशः, सम्प्रति प्रसङ्गतश्चित्रवक्तव्यतामाह -- मूलम् - चित्तोवि कामेहिं विरत्तकामो, उदत्तचारित्ततवो महेसी। अणुत्तरं संजम पालइत्ता, अणुत्तरं सिद्धिगई गयत्ति बेमि ॥३५॥ व्याख्या - चित्रोऽपि चित्रः पुनः कामेभ्यो विरक्तकामो निवृत्ताभिलाषः उदात्तं प्रधानं चारित्रं सर्वविरतिरूपं तपश्चद्वादशविधं यस्य स तथा, महर्षिः अनुत्तरं संयमं सप्तदशभेदं पालयित्वा अनुत्तरां सर्वलोकाकाशोपरिवर्तिनी सिद्धिं गतिं गतः प्राप्त इति सूत्रार्थः ।। ३५ ॥ इति ब्रवीमीति प्राग्वत् ॥१३॥ UTR-2 ॥१७९॥ इतिश्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिशिष्यमहोपाध्यायश्रीमनिविमलगणिशिष्यभूजिष्योपाध्याय श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ त्रयोदशमध्ययनं सम्पूर्णम् ॥१३॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy