SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥२४७॥५५ १८ २१ २५ षोडशभिः सहस्रैः सेविताऽनिशम् ॥ षट्खण्डं भरतक्षेत्र - मखण्डाज्ञः प्रपालयन् ॥७॥ चतुषष्टिसहस्रान्तः पुरस्त्रीभिः सहान्वहम् ॥ क्रीडन् पूर्वोक्तपुण्यद्रु-पुष्पाभं सौख्यमाश्रयन् ॥८॥ ऋषभस्वामिनिर्वाणास्पदेऽष्टापदपर्वते ॥ चैत्ये स्वकारिते भक्त्या, जिनबिम्बानि पूजयन् ॥ ९ ॥ साधर्मिकाणां वात्सल्यं कुर्वन्नाश्रितवत्सलः ॥ पूर्वलक्षाणि षट् क्षोणी- हर्यश्वः सोऽत्यवाहयेत् ॥ १० ॥ [ अष्टभिः कुलकम् ] अन्यदा प्रातरभ्यक्तो द्वर्त्तितस्नपिताङ्गकः ।। आदर्शसदनं सोऽगात्सर्वालङ्कारभूषितः ॥ ११ ॥ तत्राऽऽत्मदर्शे महति पश्यंश्चक्री निजं वपुः ॥ भ्रष्टाङ्गुलीयकामेकां, ददर्श स्वकराङ्गुलीम् ॥१२॥ अशोभमानां तां प्रेक्ष्य, प्रेक्षावान् क्ष्माधवाग्रणीः ॥ सकलानप्यलङ्कारा- नेकैकमुदतारयत् ॥१३॥ तत उज्झितपाथोजं पद्माकरमिवाऽऽत्मनः । विलोक्य वपुरश्रीक-मिति दध्यौ धराधवः ॥ १४॥ अहो ! आगन्तुकैरेव द्रव्यैरङ्गं विराजते ॥ स्वाभाविकं तु सौन्दर्यं किमप्यस्य न दृश्यते ! ॥ १५ ॥ स्वरूपासारतां वक्ति, यस्य संस्कारसारता || मोहादेव तदप्यङ्गं जना जानन्ति मञ्जुलम्! ॥ १६ ॥ मनोज्ञमप्यन्नपान-पुष्पगन्धांशुकादिकम् ॥ विनश्यत्यस्य सङ्गेन, ब्रह्मचर्यमिव स्त्रियाः ! ॥ १७ ॥ तदहो निर्विवेकत्वं विदुषामपि बालवत् ॥ ये देहस्येदृशस्यापि कृते पापानि कुर्वते ! ॥ ९८ ॥ तन्मोक्षदायि मानुष्यं शरीरार्थेन पाप्मना ॥ द्युतेनेव घुसद्रत्नं युक्तं नाशयितुं न मे ॥ १९ ॥ ध्यायन्नित्यादि सम्प्राप्तः, संवेगमधिकाधिकम् ॥ आरूढः क्षपकश्रेणीं, निश्रेणीं शिवसद्मनः ॥ २० ॥ घनघातिक्षयं १ क्षोणीहर्यश्वः भूमीन्द्रः ॥ अष्टादशमध्ययनम् ( १८ ) भरतचक्रि कथा ७-२० UTR-2 ॥२४७॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy