________________
उत्तराध्य
यनसूत्रम्
॥५॥
गरान् ॥ ६५ ॥ एतदध्ययनं जज्ञे तैरेव ध्रुवकैर्ध्रुवम् ॥ शास्त्रत्वं प्रतिपद्यन्ते वचांस्यपि हि तादृशाम् ॥ ६६ ॥ तेषु चाद्यं ध्रुवं श्रुत्वा, केऽप्यबुध्यन्त दस्यवः ॥ केचित्त्वन्यं केचिदन्य-तरं तदपरे परम् ॥ ६७ ॥ इत्थं मुनीन्द्रः प्रतिबोध्य तूर्ण-मदीक्षयत्पञ्चशतानि चौरान् ॥ विहृत्य पृथ्व्यां सुचिरं क्रमाच्च बभूव निर्वाणपुराधिवासी ॥ ६८ ॥ इत्युक्तः सम्प्रदायः, साम्प्रतं सूत्रं प्रस्तूयते तच्चेदं-मूलम्--अधुवे असासयंमि, संसारम्मि उ दुक्खपउराए ।
किं नाम होज्ज तं कम्मयं, जेणाहं दुग्गइं न गच्छेज्जा ॥ १ ॥ व्याख्या--कपिलो हि भगवान् स्वयंबुद्धश्चौरप्रतिबोधार्थं प्रथमममुं ध्रुवं जगौ । ध्रुवकलक्षणञ्चेदं- " जं गिज्जइ पुव्वं चित्र, पुणो बंधे ॥ धुवयंति तमिह तिविहं, छप्पाय चउप्पयं दुपयं ॥ १ ॥ ति " अत्र' अधुवेत्ति ' ध्रुव एकास्पदप्रतिबद्धः स्थिर इत्यर्थः, न तथा अध्रुवस्तस्मिन् संसार इति सम्बन्धः । भ्रमन्ति ह्यत्र सर्वस्थानेषु जन्तवः, यदुक्तं " रङ्गभूमिर्न सा काचिच्छुद्धा जगति विद्यते ॥ विचित्रैः कर्मनेपथ्यैर्यत्र जीवैर्न नाटितम् ॥ १ ॥" तथा अशाश्वते कालतोऽप्यनित्ये, अशाश्वतं हि सर्वमिदं राज्यादि, यदुक्तं - "चलं राज्यैश्वर्यं धनकनकसार: परिजनो नृपाद्वा वाल्लभ्यं चलममरसौख्यं च विपुलं ॥ चलं रूपारोग्यं बलमिह चलं जीवितमिदं जनो दृष्टो यो वै जनयति सुखं सोऽपि हि चलः ॥ १ ॥" संसारे भवे प्रचुरकाणि प्रभूतानि दुःखानि शारीरमानसानि यत्र स तथा प्राकृतत्वाच्च व्यत्यये 'दुक्खपउराएत्ति' किमिति प्रश्ने, नामेति वाक्यालङ्कारे, भवेत्तत् कर्मैव कर्मकमनुष्ठानं ? येन कर्मणा हेतुभूतेन अहं दुर्गतिं नरकादिकां 'न गच्छेज्जत्ति' न गच्छेयं । अत्र च तस्य भगवतः संशयाभावेऽपि दुर्गतिगमनाभावेऽपि च यदेवमुक्तं
UTR-2
अध्य. ८
॥५॥