________________
अध्य. ९
उत्तराध्ययनसूत्रम् ॥६३॥
अत्रैव भरतक्षेत्रे, शालिलक्ष्मीविभूषिते ॥ क्षितिप्रतिष्ठितपुरे-ऽभवद्विजितशत्रुराट् ॥ २२ ॥ स चान्यदा सभामेकां, कारयित्वा मनोहराम् ॥ सर्वां चित्रकरश्रेणी-माहूयैवमवोचत ॥ २३ ॥ यावन्ति वो गृहाणि स्यु- गैस्तावन्मितैरियम् ॥ चित्रणीया सभा चित्रै-श्चिश्चित्रैकहेतुभिः ॥ २४ ॥ प्रमाणमाज्ञेत्युक्त्वाथ, नैके चित्रकृतोपि ताम् ॥ आरेभिरे चित्रयितुं, करस्तेषां स एव हि ॥ २५ ॥ | तत्र चैको जरी चित्र-करश्चित्राङ्गदाभिधः ॥अचित्रयत्सभां नित्य-मसहायः सुतोज्झितः ॥२६ ॥ तस्य चैकाभवत्पुत्री, नाम्ना कनकमञ्जरी ॥ रूपयौवनचातुर्य-कलासर्वस्वसेवधिः ॥ २७ ॥ सा प्रत्यहं सभास्थस्य, गत्वा भक्तमदात् पितुः ।। स तु तस्यामागताया-मगानित्यं बहिर्भुवि ॥ २८ ॥ अन्येद्युभक्तमादाय, प्रस्थिता सा जनाकुले ॥ राज्यमार्गे ययौ याव-त्कनी मन्थरगामिनी ॥ २९ ।। तावत्तत्र जवेनाद्रि-वाहिनीपूरजिष्णुना ॥ वाहयन्तं हयं भूप - मश्ववारं ददर्श सा ॥ ३० ॥ ततो भीता प्रणष्टा सा, गते तत्र सभामगात् ॥ सभक्तामागतां तां च, वीक्ष्य वृद्धो बहिर्ययौ ॥ ३१ ॥ तस्य पुत्री तु तत्रस्था, कौतुकात्कुट्टिमेऽलिखत् ॥ विविधैर्वर्णकैरेकं, केकिपिच्छं यथास्थितम् ॥ ३२ ॥ अत्रान्तरे सभां द्रष्टुं, तत्रायातो महीपतिः ॥ तत्केकिपिच्छमादातुं, चिक्षेप करमञ्जसा ॥ ३३ ॥ तत्पिच्छं तत्करे नागा-- नखभङ्गस्त्वजायत ॥ प्रवृत्तिर्हि विना तत्त्व-ज्ञानं स्यान्निष्फला नृणाम् ॥ ३४ ॥ ततो विलक्षं, मापालं वीक्षमाणमितस्ततः । सविलासं विहस्येति, प्रोचे कनकमञ्जरी ॥ ३५ ॥ मञ्चको ही त्रिभिः पादैः, सुस्थितो न भवेदिति ॥ पश्यन्त्यास्तुर्यपादं मे, तुर्यमूर्योऽमिलद्भवान् ॥ ३६ ॥ केऽन्ये त्रयः कथञ्चाहं, तुर्यः ? इत्यवनीभृता ।। पृष्टा सा पुनरित्यूचे, तं राजानमजानती ॥ ३७ ।। अहं चित्राङ्गदाह्वस्य, वृद्धचित्रकृतः सुता ॥ इहस्थस्य पितुर्डेतो -- रायान्त्यादाय भोजनम् ॥ ३८ ॥ रंहसा भूयसा वाहं, वाहयन्तं चतुष्पथे । अद्यैकं मर्त्यमद्राक्षं, स मूर्खः प्रथमो मतः ।। ३९ ॥ ( युग्मम् ) राजमार्गो हि बालस्त्री-वृद्धाद्यैः सङ्कलो
UTR-2
॥६३॥