SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥ ६२ ॥ वाजिविजित्वरौ ॥ ३ ॥ तयोर्मध्ये बभूवैक- स्तुरङ्गो वक्रशिक्षितः ॥ तमारोहन्नृपो दैवा - द्वितीयं तु तदङ्गजः ॥ ४ ॥ ततः सैन्यान्वितो राजा, निर्गत्य नगराद्बहिः । वाहकेलीगतो वाह-वाहनार्थं प्रचक्रमे ॥५॥ प्रकृष्टां तद्गतिं द्रष्टुं, कशया प्राहरच्च तम् ॥ ततः स तुरंग: सिन्धु-पूरादप्यचलद्भुतम् ॥६॥ तं रक्षितुं नृपो वल्गा - माचकर्ष यथा यथा । तथा तथा हयो जज्ञे, जवनः पवनादपि ॥७॥ गच्छनैवं योजनानि, द्वादशातिगतो हयः ॥ तमरण्येऽनयन्नद्याः, पूरस्तरुमिवोदधौ ॥८॥ आकृष्याकृष्य निर्विण्णो, वल्गां तत्रामुचन्नृपः ॥ तुरङ्गमपि तत्रैव, तस्थौ तत्क्षणमात्मना ॥ ९ ॥ ततस्तं वाजिनं ज्ञात्वा भूशको वक्रशिक्षितम् ॥ बद्ध्वा क्वापि द्रुमे भ्राम्यन्, प्राण- वृत्तिं व्यधात्फलैः ॥ १० ॥ रात्रिवासाय चारूढो, गिरिमेकं महीपतिः । ददर्शैकं दर्शनीयं, प्रासादं सप्तभूमिकम् ॥११॥ तस्य मध्ये प्रविष्टश्चा- द्राक्षीदेकां मृगेक्षणाम् ॥ रूपलावण्यतारुण्य - तिरस्कृतरतिश्रियम् ॥ १२ ॥ ससम्भ्रमं समुत्थाय, प्रमोदभरमेदुरा ॥ ददौ साप्यासनं तस्मै, सोऽपि तस्मिन्नुपाविशत् ॥ १३ ॥ मिथस्तावन्वरज्येतां, क्षणाद्द्रुतीकृतेक्षणौ ॥ अन्योन्यदर्शनोद्भूत स्नेहावेशतत्रपौ ॥१४॥ कासि त्वं ? सुभगे ! किञ्च तिष्ठस्येकाकिनी वने ॥ ? अथेति भूभुजा पृष्टा, सोत्कण्ठं सैवमब्रवीत् ॥ १५ ॥ भवनेऽस्मिन्वेदिकायां, पूर्वमुद्वह मां प्रभो ! ॥ पश्चात्स्वस्थमनाः सर्वं वक्ष्ये वृत्तान्तमात्मनः ॥ १६ ॥ तत्कर्णामृतमाकर्ण्य वाक्यं तस्या धराधिपः ॥ सरसं भोजनं प्राप्य, बुभुक्षुरिव पिप्रिये ॥ १७ ॥ भवने तत्र सानन्दं प्रविष्टश्च जिनालयम् ॥ सोऽपश्यत्तस्य तु पुरो, वेदिकां शुभवेदिकाम् ॥ १८ ॥ ततो नत्वा जिनं सन्ध्या समये वेदिकां गतः ॥ गान्धर्वेण विवाहेनो-वशस्तामुदुवाह सः ॥ १९ ॥ ततो वासगृहे गत्वा, विलासैर्विविधैः सुखम् ॥ अतिवाह्य निशां प्रातस्तौ जिनेन्द्रं प्रणेमतुः ॥ २० ॥ राज्ञः सिंहासनस्थस्योपविष्टार्धासने मुदा ॥ साथ राज्ञी जगौ राजन्!, वार्ता मे श्रूयतामिति ॥ २१ ॥ UTR-2 अध्य. ९ ॥६२॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy