SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥२९३॥ १५ ॥२८१॥ तदा च भो ! विष्णुरयं, हलश्चायं निषेव्यताम् ॥ वदन्त इति तन्मौलौ, पुष्पवृष्टिं व्यधुः सुराः ॥२८२॥ ततो नतैः खेचरेन्द्रैर्वृतो विष्णुः सहाग्रजः ॥ गच्छन् स्वपूर्यां कनक-गिरिं पर्वतमैक्षत ॥२८३॥ इहाद्रौ सन्ति चैत्यानि तानि नत्वा व्रज प्रभो ! तदेति खेचरैरुक्त- स्तच्चैत्यानि ननाम सः ॥ २८४ ॥ तत्र कीर्त्तिधरं साधुं तदैवोत्पन्नकेवलम् ॥ वीक्ष्य नत्वा च सोऽश्रौषीद्देशनां सपरिच्छदः ॥ २८५ ॥ बंधूनां विरहस्तात घातश्चाभूत्कुतो मम ? ॥ अथेति पृष्टः कनक- श्रिया मुनिरदोऽवदत् ॥ २८६ ॥ धातकीषण्डभरते, शङ्खग्रामेऽभवद्वशा ॥ श्रीदत्ताह्वाऽतीवदुःस्था, परौकः कृत्यजीविका ॥२८७॥ श्रीपर्वते गता सत्य- यशसं मुनिमन्यदा ॥ वीक्ष्यावन्दत सा दत्ता - शिषं तं चैवमब्रवीत् ॥२८८॥ अहमत्यन्तदुःस्थास्मि, तत्किञ्चित्तादृशं वद ॥ अत्रामुत्र च येनाहं भवामि सुखिनी विभो ! ॥२८९॥ साधुस्तस्यै ततो धर्म चक्रवालं तपोऽवदत् ॥ प्रारेभे तत्तपः सापि तं प्रणम्य गृहं गता ॥ २९० ॥ तन्महिम्ना शुभं भोज्यं प्राप पारणकेषु सा ॥ स्वगेहभित्तिदेशाच्च, पतितात्काञ्चनादिकम् ॥ २९९ ॥ उद्यापनं तपः प्रान्ते, सा विधायोत्तमं ततः ॥ मासोपवासिनेऽन्नादि ददौ सुव्रतसाधवे ॥ २९२॥ कृताहारात्ततः साधोः, श्राद्धधर्मं च साददे ॥ दध्यौ चान्येद्युरित्यस्माद्धर्माद्भावि फलं न वा ? ॥ २९२ ॥ विचिकित्सामनालोच्य विपन्ना साऽन्यदा १ ॥ अष्टमं १ एकान्तरं चतुर्थ ३७ प्रान्ते अष्टमं १ इति धर्मचक्रवालं तपः । अथवा प्रथमं षष्ठं १ तत एकान्तरोपवासाः ६० इति प्रकारद्वयेन धर्मचक्रवालं, तत्र प्रथमप्रकारे दिनसर्वाग्रं ८२ ! द्वितीयप्रकारे १२३ ॥ अष्टादशमध्ययनम् ( १८ ) शान्तिनाथचरित्रम् | २८२-२९३ UTR-2 ॥२९३॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy