SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥२९॥ ३ अष्टादशमध्ययनम् शान्तिनाथचरित्रम् २६७-२८९ गृहाणानुगृहाण मां ॥ न हि जातु जनं रक्त-मुपेक्षन्ते भवादृशाः ! ॥२६७॥ बभाषेऽनन्तवीर्योऽथ, यद्येवं तर्हि सुन्दरि ! ॥ एहि यावः शुभापूर्णं, ततस्तं सा पुनर्जगौ ॥२६८॥ एष्याम्यहं कान्त! किन्तु कर्तानर्थं पिता मम।। प्रत्यूचे तां हरिस्मि-भैषीस्त्वं कातरे ! ततः ॥२६९॥ ततस्ताभ्यां सहारुह्य, विमानं साऽचलन्मुदा ॥ प्रोवाचाऽनन्तवीर्योऽथ, वाक्यमित्युच्चकैस्तदा ॥२७०॥ हराम्यनन्तवीर्योऽहं, दमितारिसुतामिमाम् ॥ शूरंमन्यस्ततो यः स्यात्स स्वौजो दर्शयत्वहो ! ॥२७१॥ तन्निशम्य नृपः प्रैषी-द्भटांस्तं हन्तुमुद्भटान् ॥ रत्नानि चक्रवर्जाणि, प्रादुरासंस्तदा तयोः ॥२७२॥ दमितारिभटांस्तांश्चा-मर्षणान् शस्त्रवर्षिणः ॥ सद्योऽनाशयतां सीरि-शाणिौ तौ महारथौ ॥२७३॥ दमितारिस्ततोऽचाली-त्सैन्यैराच्छादयन्नभः ॥ अनभं विद्युदुद्योतं, कुर्वन्नुत्तेजितायुधैः ॥२७४॥ तमायान्तं वीक्ष्य भीता-माश्वास्य कनकश्रियम् ॥ अवलिष्ट बलिष्ठो द्राग्, योद्धं विष्णुर्बलान्वितः ॥२७५॥ तत्सैन्यद्विगुणं सैन्यं, विद्यया विदधे च सः ॥ योद्धं प्रववृते तच्च, दामितारिभटैः समम् ॥२७६॥ निजसैन्येन तत्सैन्या-नभग्नान् वीक्ष्य केशवः ॥ पाञ्चजन्यं जन्यनाट्य-नांदीनादमवादयत् ॥२७७॥ ततो भीतेषु नष्टेषु, खेचरेष्वखिलेष्वपि ॥ दमितारिः सहानन्त-वीर्येण युयुधे चिरम् ॥२७८॥ दूर्जयं तं च विज्ञाय-ऽस्मरच्चक्रं स पार्थिवः ॥ पाणौ तस्य तदप्यागातेजसान्य इवाऽऽरुणः ॥२७९॥ मुमोचानन्तवीर्याय, तच्चक्रं दमितारिराट् ॥ सोऽपि तत्तुम्बघातेन, मूर्च्छितो | न्यपतत्क्षणम् ॥२८०॥ उत्थितस्तु क्षणाच्चक्रं, तदेवादाथ केशवः ॥ दमितारिं प्रत्यमुञ्च-त्तत्सङ्गात्सोऽपि जीवितम् UTR-2 ॥२९२।
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy