________________
उत्तराध्ययनसूत्रम् ॥२९॥
अष्टादशमध्ययनम् (१८) शान्तिनाथचरित्रम् २५३-२६६
श्रियम् ॥ दमितारिस्तयोविश्व-जैत्ररूपश्रियं ददौ ॥२५३॥ अनन्तवीर्य गायन्त्यौ, रूपाद्यैरद्भुतं गुणैः ॥ तामशिक्षयतां नाट्यं, ते मायाचेटिके ततः ॥२५४॥ युवाभ्यां गीयते भूयः कोऽयमित्यथ कन्यया ॥ पृष्टे तयाब्रवीदेवं, माया
चेट्यपराजितः ॥२५५॥ शुभापुरीप्रभू रूप-हृतदर्पकदर्पकः ॥ परापराजितो भ्राता-ऽपराजितविभोर्लघुः ॥२५६।। | गीयते जगतीगेयो-ऽनन्तवीर्याह्वयो ह्ययम् ॥ युवा युवत्या स यया, न दृष्टः तज्जनिर्मुधा! ॥२५७॥ [ युग्मम्] तन्निशम्योल्लसद्रोम-हर्षा हल्लेखमाश्रिता ॥ कथं द्रक्ष्यामि तं कान्त-मिति साऽचिन्तयच्चिरम् ॥२५८॥ इङ्गितज्ञस्ततोऽवादी-त्तामेवमपराजितः ॥ तं विश्वसुभगोत्तसं, किं मृगाक्षि ! दिदृक्षसे ? ॥२५१॥ कनकश्रीरथाचख्यौ, क्व नु मे तस्य दर्शनम् ॥ प्राणिनां मन्दभाग्यानां, दुरापो हि धुसन्मणिः ॥२६०॥ ऊचेऽपराजितो मुंच शुचं नलिनलोचने! ॥ विद्यया भ्रातृयुक्तं तं त्वत्कृतेऽहमिहानये ॥२६१॥ हर्षगद्गदगीरेवं, कनकश्रीरथावदत् ॥ कलावति!कुरुष्वाशु, वचः सफलमात्मनः ॥२६२॥ स्वं स्वं रूपं ततः प्रादु-श्चक्रतुस्तौ जितामरम् ॥ ऊचेऽपराजितस्तां चानन्तवीर्यो ह्यसौ शुभे ! ॥२६३॥ मदुक्तमस्य रूपादि, दृशा संवादय स्वयम् ॥ सापि प्रेक्षावती प्रेक्षा-मास तं निनिमेषदृक् ॥२६४॥ दमितारिसुता काम, कामेन दमिता ततः ॥ अपाकृत्य त्रपां मान-मपमान्येति तं जगौ ॥२६५॥ अद्ययावद्युवानोऽन्ये, बहवो वीक्षिताः परम् ॥ त्वां विना नारमत् क्वापि, मनोरम! मनो मम ॥२६६॥ तत्प्रसीद द्रुतं पाणी,
UTR-2
॥२९॥
१ उत्साहम् । तर्कं वा ॥