________________
उत्तराध्य
यनसूत्रम्
॥२९०॥
अष्टादशमध्ययनम् शान्तिनाथचरित्रम् २३८-२५२
तामिति ॥२३८॥ प्रज्ञप्त्याद्यास्तावदेत्य, विद्यादेव्योऽवदन्नदः ॥ याः साधयितुमिष्टा वा-मायातास्ताः स्वयं वयम् ॥२३९॥ प्राग्भवे साधितत्वाद्धि नाऽधुना साधनेष्यते ॥ युवां तदनुजानीत-मस्मान् संक्रमितुं तनौ ॥२४०॥ ताभ्यां चानुमताः सर्वा, विविशुस्तास्तदङ्गयोः ॥ तासां वर्यां सपर्या च, मुदितौ तौ वितेनतुः ॥२४१॥ इतश्च प्रहितो दूतो, भूयोऽपि दमितारिणा ॥ क्षिप्रमागत्य तावेव-मवदद्वदतां वरः ॥२४२॥ दास्यौ दास्याव इत्युक्त्वा, युवाभ्यां प्रहिते न यत् ॥ युवयोस्तदसुभ्योऽपि, ते प्रिये इति दृश्यते ! ॥२४३॥ अथ चेद्वां प्रियाः प्राणाः, तत्ते प्रेषयतं द्रुतम् ॥ अमर्षणः स हि प्राणा-नन्यथा वां हरिष्यति ! ॥२२४॥ ततस्तावूचतुः स्वामी, स हि तोष्यो घनैर्घनैः॥ आभ्यां चेत् प्रियते तर्हि, ते लात्वा त्वं प्रगे व्रजेः ॥२४५॥ ताभ्यामित्युदितो दूत-स्तद्दत्ते न्यवसदहे ॥ न्ययुञ्जातां राज्यभारं, सुधियौ धीसखेषु तौ ॥२४६॥ प्रातश्च विद्यया चेटी-भूतौ दूतमुपेयतुः ॥ साग्रजोऽनन्तवीर्यो नौ, प्रैषीदित्यूचतुश्च तम् ॥२४७॥ तत आदाय ते दूतो, वैताढ्यं मुदितो ययौ ॥ दमितारेश्चोपनीय प्रोवाचेति कृताञ्जलिः ॥२४८॥ प्रभो ! ऽपराजितानन्त-वीर्यो त्वद्वशवर्त्तिनौ ॥ इमे ते चेटिके मह्य-मदात्तां प्राभृताय ते ॥२४९॥ ते नट्यौ नाटकं कर्तुं, दमितारिरथादिशत् ॥ अपूर्वदर्शनोत्को हि, विलम्बं नावलम्बते ! ॥२५०॥ ततस्ते चक्रतुर्नाट्यं, पूर्वरङ्गादिपूर्वकम् ॥ रसाशेषविशेषाढ्यं, विश्वविश्वककार्मणम् ॥२५१॥ प्रेक्षणीयं प्रेक्षणीयं, प्रेक्ष्य तत् क्ष्माधवः सुधीः ॥ भूर्भुवःस्वस्त्रयीसारं, मेने तच्चेटिकाद्वयम् ॥२५२॥ अथ नाट्यं शिक्षयितुं, स्वपुत्री कनक
UTR-2
॥२९०॥